मुनिनानादृतत्वाच् च तान् उद्देष्टुम् उदास्महे ॥स्र्स् ३।४२८॥ २२० अथ प्रकरणम्- यत्रेतिवृत्तम् उत्पाद्यं धीर-शान्तश् च नायकः । रसः प्रधानं शृङ्गारः शेषं नाटकवद् भवेत् ॥स्र्स् ३।४२९॥ २२१ तद् धि प्रकरणं शुद्धं धूर्तं मिश्रं च तत् त्रिधा । कुल-स्त्री-नायकं शुद्धं मालती-माधवादिकम् ॥स्र्स् ३।४३०॥ २२२ गणिका-नायिकं धूर्तं कामदत्ताह्वयादिकम् । कितव-ध्य्पुतकारादि-व्यापारं त्व् अत्र कल्पयेत् ॥स्र्स् ३।४३१॥ २२३ मिश्रं तत् कुलजा-वेश्ये कल्पिते यत्र नायिके । धूर्त-शुद्ध-क्रमोपेतं तन् मृच्छकटिकादिकम् ॥स्र्स् ३।४३२॥ २२४ नाटिकायाः न पृथग्-रूपत्वम्- नाटिका त्व् अनयोर् भेदो न पृथग् रूपकं भवेत् । प्रख्यातं नृपतेर् वृत्तं नाटकाद् आहृतं यतः ॥स्र्स् ३।४३३॥ २२५ बुद्धि-कल्पित-वस्तुत्वं तथा प्रकरणाद् अपि । विमर्श-सन्धि-राहित्यं भेदकं चेन् न तन् मतम् ॥स्र्स् ३।४३४॥ २२६ रत्नावल्यादिके लक्ष्ये तत्-सन्धेर् अपि दर्शनात् । स्त्री-प्राय-चतुरङ्कादि-भेदकं चेन् न तन् मतम् ॥स्र्स् ३।४३५॥ २२७ एक-द्वि-त्र्य्-अङ्क-पात्रादि-भेदेनानन्तता यतः । देवी-वशात् सङ्गमेन भेदश् चेत् तन् न युज्यते । मालविकाग्नि-मित्रादौ नाटिकात्व-प्रसङ्गतः ॥स्र्स् ३।४३६॥ २२८ प्रकरणिका-नाटिकयोर् अनुसरणीया हि नाटिका-सरणिः । अत एव भरत-मुनिना नाट्यं दशधा निरूपितं पूर्वम् ॥स्र्स् ३।४३७॥ २२९ अथ उतृष्टिकाङ्कः- ख्यातेन वा कल्पितेन वस्तुना प्राकृतैर् नरैः । अन्वितः कैशिकी-हीनः सात्त्वत्यारभटी-मृदुः ॥स्र्स् ३।४३८॥ २३० स्त्रीणां विलाप-व्यापारैर् उपेतः करुणाश्रयः । नाना-सङ्ग्राम-संनाह-प्रहारमरणोत्कटः ॥स्र्स् ३।४३९॥ २३१ मुख-निर्वाहवान् यः स्याद् एक-द्वि-त्र्य्-अङ्क इच्छया । उत्सृष्टिकाङ्कः स ज्ञेयः स-विष्कम्भ-प्रवेशकः ॥स्र्स् ३।४४०॥ २३२ अस्मिन्न् अमङ्गल-प्राये कुर्यान् मङ्गलम् अन्ततः । प्रयोज्यस्य वधः कार्यः पुनर् उज्जीवनावधिः ॥स्र्स् ३।४४१॥ २३३ उज्जीवनाद् अप्य् अधिकं मनोरथ-फलोऽ पि वा । विज्ञेयम् अस्य लक्ष्यं तु करुणाकन्दलादिकम् ॥स्र्स् ३।४४२॥ २३४ अथ व्यायोगः- खातेतिवृत्त-सम्पन्नो निःसहायक-नायकः । युक्तो दशावरैह् ख्यातैर् उद्धतैः प्रतिनायकैः ॥स्र्स् ३।४४३॥ २३५ विमर्श-गर्भ-रहितो भारत्य्-आरभटी-स्फुटः । हास्य-शृङ्गार-रहित एकाङ्को रौद्र-संश्रयः ॥स्र्स् ३।४४४॥ २३६ एक-वासर-वृत्तान्तः प्राप्त-विष्कम्भ-चूलिकः । अस्त्री-निमित्त-समरो व्यायोगः कथितो बुधैः । २३७ विज्ञेयम् अस्य लक्ष्यं तु धनञ्जय-जयादिकम्
muninānādṛtatvāc ca tān uddeṣṭum udāsmahe ||SRs 3.428|| 220 atha prakaraṇam- yatretivṛttam utpādyaṃ dhīra-śāntaś ca nāyakaḥ | rasaḥ pradhānaṃ śṛṅgāraḥ śeṣaṃ nāṭakavad bhavet ||SRs 3.429|| 221 tad dhi prakaraṇaṃ śuddhaṃ dhūrtaṃ miśraṃ ca tat tridhā | kula-strī-nāyakaṃ śuddhaṃ mālatī-mādhavādikam ||SRs 3.430|| 222 gaṇikā-nāyikaṃ dhūrtaṃ kāmadattāhvayādikam | kitava-dhyputakārādi-vyāpāraṃ tv atra kalpayet ||SRs 3.431|| 223 miśraṃ tat kulajā-veśye kalpite yatra nāyike | dhūrta-śuddha-kramopetaṃ tan mṛcchakaṭikādikam ||SRs 3.432|| 224 nāṭikāyāḥ na pṛthag-rūpatvam- nāṭikā tv anayor bhedo na pṛthag rūpakaṃ bhavet | prakhyātaṃ nṛpater vṛttaṃ nāṭakād āhṛtaṃ yataḥ ||SRs 3.433|| 225 buddhi-kalpita-vastutvaṃ tathā prakaraṇād api | vimarśa-sandhi-rāhityaṃ bhedakaṃ cen na tan matam ||SRs 3.434|| 226 ratnāvalyādike lakṣye tat-sandher api darśanāt | strī-prāya-caturaṅkādi-bhedakaṃ cen na tan matam ||SRs 3.435|| 227 eka-dvi-try-aṅka-pātrādi-bhedenānantatā yataḥ | devī-vaśāt saṅgamena bhedaś cet tan na yujyate | mālavikāgni-mitrādau nāṭikātva-prasaṅgataḥ ||SRs 3.436|| 228 prakaraṇikā-nāṭikayor anusaraṇīyā hi nāṭikā-saraṇiḥ | ata eva bharata-muninā nāṭyaṃ daśadhā nirūpitaṃ pūrvam ||SRs 3.437|| 229 atha utṛṣṭikāṅkaḥ- khyātena vā kalpitena vastunā prākṛtair naraiḥ | anvitaḥ kaiśikī-hīnaḥ sāttvatyārabhaṭī-mṛduḥ ||SRs 3.438|| 230 strīṇāṃ vilāpa-vyāpārair upetaḥ karuṇāśrayaḥ | nānā-saṅgrāma-saṃnāha-prahāramaraṇotkaṭaḥ ||SRs 3.439|| 231 mukha-nirvāhavān yaḥ syād eka-dvi-try-aṅka icchayā | utsṛṣṭikāṅkaḥ sa jñeyaḥ sa-viṣkambha-praveśakaḥ ||SRs 3.440|| 232 asminn amaṅgala-prāye kuryān maṅgalam antataḥ | prayojyasya vadhaḥ kāryaḥ punar ujjīvanāvadhiḥ ||SRs 3.441|| 233 ujjīvanād apy adhikaṃ manoratha-phalo' pi vā | vijñeyam asya lakṣyaṃ tu karuṇākandalādikam ||SRs 3.442|| 234 atha vyāyogaḥ- khātetivṛtta-sampanno niḥsahāyaka-nāyakaḥ | yukto daśāvaraih khyātair uddhataiḥ pratināyakaiḥ ||SRs 3.443|| 235 vimarśa-garbha-rahito bhāraty-ārabhaṭī-sphuṭaḥ | hāsya-śṛṅgāra-rahita ekāṅko raudra-saṃśrayaḥ ||SRs 3.444|| 236 eka-vāsara-vṛttāntaḥ prāpta-viṣkambha-cūlikaḥ | astrī-nimitta-samaro vyāyogaḥ kathito budhaiḥ | 237 vijñeyam asya lakṣyaṃ tu dhanañjaya-jayādikam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.