निर्घातोल्कोपरागादि-घोर-क्रूराजि-सम्भ्रमम् । २९१ स-प्रवेशक-विष्कम्भ-चूलिकं हि डिमं विदुः । अस्योदाहरणं ज्ञेयं वीरभद्र-विजृम्भितम् ॥स्र्स् ३।५१४॥ २९२ अथ ईहामृगः- यत्रेतिवृत्तं मिश्रं स्यात् स-विष्कम्भ-प्रवेशकम् । चत्वारोऽ ङ्का निर्विमर्श-गर्भाः स्युः सन्धयस् त्रयः ॥स्र्स् ३।५१५॥ २९३ धीरोद्धत्तश् च प्रख्यातो दिव्यो मर्त्योऽ पि नायकः । दिव्य-स्त्रियम् अनिच्छन्तीं कन्यां वाहर्तुम् उद्यतः ॥स्र्स् ३।५१६॥ २९४ स्त्री-निमित्ताजि-संरम्भः पञ्चषाः प्रतिनायकाः । रसा निर्भय-बीभत्सा वृत्तयः कैशिकीं विना ॥स्र्स् ३।५१७॥ २९५ स्वल्पस् तस्याः प्रवेशो वा सोऽ यम् ईहामृगो मतः । व्याजान् निवारयेद् अत्र सङ्ग्रामं भीषण-क्रमम् ॥स्र्स् ३।५१८॥ २९६ तस्योदाहरणं ज्ञेयं प्राज्ञैर् माया-कुरङ्गिका । इत्थं श्री-सिंह-भूपेन सर्व-लक्षण-शालिना । २९७ सर्व-लक्षण-सम्पूर्णो लक्षितो रूपक-क्रमः
nirghātolkoparāgādi-ghora-krūrāji-sambhramam | 291 sa-praveśaka-viṣkambha-cūlikaṃ hi ḍimaṃ viduḥ | asyodāharaṇaṃ jñeyaṃ vīrabhadra-vijṛmbhitam ||SRs 3.514|| 292 atha īhāmṛgaḥ- yatretivṛttaṃ miśraṃ syāt sa-viṣkambha-praveśakam | catvāro' ṅkā nirvimarśa-garbhāḥ syuḥ sandhayas trayaḥ ||SRs 3.515|| 293 dhīroddhattaś ca prakhyāto divyo martyo' pi nāyakaḥ | divya-striyam anicchantīṃ kanyāṃ vāhartum udyataḥ ||SRs 3.516|| 294 strī-nimittāji-saṃrambhaḥ pañcaṣāḥ pratināyakāḥ | rasā nirbhaya-bībhatsā vṛttayaḥ kaiśikīṃ vinā ||SRs 3.517|| 295 svalpas tasyāḥ praveśo vā so' yam īhāmṛgo mataḥ | vyājān nivārayed atra saṅgrāmaṃ bhīṣaṇa-kramam ||SRs 3.518|| 296 tasyodāharaṇaṃ jñeyaṃ prājñair māyā-kuraṅgikā | itthaṃ śrī-siṃha-bhūpena sarva-lakṣaṇa-śālinā | 297 sarva-lakṣaṇa-sampūrṇo lakṣito rūpaka-kramaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.