अत्रास्ति परचित्तानुमानोपाय इति बाह्यार्थवादिमतमाशङ्कयाह - आत्मनश्चित्तस्य परवर्तिनोर्निमित्तत्वानुपपत्तेः परचित्तं ज्ञायत इत् चेत्? किं न युज्यते? आत्मनश्चित्तस्य परवर्तिनोरित्यादि । यस्मादात्मनश्चित्तं सन्तानान्तरवर्तिनोः क्रियाभिलापयोः कारणत्वेन न युज्यते, तस्मात्परचित्तमनुमीयत इति पूर्वपक्षाशङ्का । सिद्धन्तबाद्याह - किं न युज्यत इत् । कथमात्मनश्चित्तं परवर्तिनोर्निमित्तित्वेन नोपपद्यते? उच्यताम्
atrāsti paracittānumānopāya iti bāhyārthavādimatamāśaṅkayāha - ātmanaścittasya paravartinornimittatvānupapatteḥ paracittaṃ jñāyata it cet? kiṃ na yujyate? ātmanaścittasya paravartinorityādi / yasmādātmanaścittaṃ santānāntaravartinoḥ kriyābhilāpayoḥ kāraṇatvena na yujyate, tasmātparacittamanumīyata iti pūrvapakṣāśaṅkā / siddhantabādyāha - kiṃ na yujyata it / kathamātmanaścittaṃ paravartinornimittitvena nopapadyate? ucyatām
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.