सिद्धान्तवादिनः - अप्रहीणग्राह्यग्राहकविकल्पयोगिनां परचित्तज्ञानमपि व्यवहारे ऽविसंवादादेव प्रमाणम्, रूपादिदर्शनवत्; आश्रयापरावृत्तेः । अप्रहीणग्राह्यग्राहकविकल्पयोगिनामित्यादि । अप्रहीणः ग्राह्यग्राहकविकल्पो येषां योगिनां तेषां तथा । तेषां यत् परचित्तज्ञानं तद् व्यवहारे ऽविसंवादादेव प्रमाणम्, अस्मदादिसम्बद्धरूपादिदर्शनवत् । न तु स्वरूपग्रहणात् । अप्रहीणग्राह्यग्राहकविकल्पस्य हेतुम् आह - आश्रयापरावृत्तेरिति । तथा हि, तेषामालयविज्ञानलक्षणमपरावृत्तम् । तस्य परावृत्तिः ग्राह्यग्राहकविकल्पवासनायाः प्रहाणम्
siddhāntavādinaḥ - aprahīṇagrāhyagrāhakavikalpayogināṃ paracittajñānamapi vyavahāre 'visaṃvādādeva pramāṇam, rūpādidarśanavat; āśrayāparāvṛtteḥ / aprahīṇagrāhyagrāhakavikalpayogināmityādi / aprahīṇaḥ grāhyagrāhakavikalpo yeṣāṃ yogināṃ teṣāṃ tathā / teṣāṃ yat paracittajñānaṃ tad vyavahāre 'visaṃvādādeva pramāṇam, asmadādisambaddharūpādidarśanavat / na tu svarūpagrahaṇāt / aprahīṇagrāhyagrāhakavikalpasya hetum āha - āśrayāparāvṛtteriti / tathā hi, teṣāmālayavijñānalakṣaṇamaparāvṛttam / tasya parāvṛttiḥ grāhyagrāhakavikalpavāsanāyāḥ prahāṇam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.