Library·Isvarakrsna: Samkhyakarika, with Mathara's Vrtti [SkMv]·1

Isvarakrsna: Samkhyakarika, with Mathara's Vrtti [SkMv] 1

SkMv 1

अस्या आर्याया उपोद्घातः क्रियते --- स्थानं निमित्तं वक्ता च श्रोता श्रोतृप्रयोजनम् । सम्बन्धाद्यभिधानं च उपोद्घातः स उच्यते ॥ इह हि भगवान् महर्षिः सांसिद्धिकधर्मज्ञानवैराग्यैश्वर्यसम्पन्नो भगवतः पुराणपुरुषस्यावतारो जगदनुजिघृक्षया प्रजापतेः कर्दमस्य पुत्रः स्वायम्भुवस्य मनोर् दुहितरि देवहूत्यां कपिलो नाम बभूव । स तेन गुणपुरुषान्तरोपलब्धिरूपेण ज्ञानेनापारपारं दिदर्शिषया हस्तावलम्बेनेव, कालाहिदन्दश्यमानजगतः सुधामणिनेव, दुश्चिकित्स्यस्य भवव्याधेर् अपनयनाय सम्यगौषधेनेव, अविद्यान्धकारप्रध्वंसनप्रदीपेनेव, मुक्तिमार्गविरोधिमोहवृक्षविव्रश्चनकुठारेणेवामुनावबोधेन सम्पन्नो ऽन्धे तमसि मज्जज् जगद् इदम् अद्राक्षीत् । तद् अवलोक्यास्य कारुण्यम् उदपादि । अहो खल्व् इदं जगद् अनादिकालसम्बद्धं निसर्गाद् एव अन्धे तमसि वर्तत इति । अथासौ महायोगी कथम् अस्य वराकस्य अन्धे तमसि वर्तमानस्य विश्वस्यानुग्रहः कार्य इति समुत्पन्नकारुण्यो मनसि चिन्ताम् आपेदे । स(प्।१) एवं विचिन्तयन् आसुरिसगोत्रं ब्राह्मणविशेषं वर्षसहस्रयाजिनम् अधिकारिणम् अवगत्य ब्रह्मोपदेशविद्यया अतन्द्रितो भूत्वा वाचम् इत्य् उवाच --- "भो भो आसुरे३ रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "रमे भो" इति । स एवम् उक्तो मुनिर् ईषदनिष्पन्नविवेकवैराग्यो ऽयम् इति व्यवस्य निर्गम्य भूयो ऽपि द्वितीये वर्षसहस्रे पूर्णे प्रत्यागत्य तथैवाभ्युवाच --- "भो भो आसुरे३ रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "रमे भो" इति । अथासौ महायोगीन्द्रस् तथैव निर्गम्य तृतीये वर्षसहस्रे सम्पूर्णे अभ्येत्योवाच --- "भो भो आसुरे३ रमसे गृहस्थधर्मेण" इति । स तम् उवाच --- "न रमे भो" इति । अथ स भगवता उक्तः --- कथम् इति । पुनर् आह आसुरिः --- "दुःखत्रयाभिघातात्" इति । अथाह कपिलः --- तात उत्सहसे ब्रह्मचर्यवासं वस्तुं यदि तदामीषां दुःखत्रयाणां प्रतीकारं वयम् उपदेक्ष्यामः । सो ऽब्रवीत् --- "भगवन् बाढं शक्तो ऽहं भगवताम् आदेशम् अनुगन्तुम्" इति । स एवं गृहस्थधर्मम् अपहाय पुत्रदारादिकं च, प्रव्रजितो भगवतः किल कपिलाचार्यस्य योगिनः प्राणाः(?) शिष्यो बभूव । तत्र यदि कश्चिद् एवं ब्रूयात् --- कुतो ऽस्य जिज्ञासा समुत्पन्ना ययासौ गुरुकुलम् अभिगत इति । तत्रायं प्रतिवादः । दुःखत्रयाभिघाताज् जिज्ञासा समुत्पन्ना । कम् इह परं, किं याथात्म्यं, किं निःश्रेयसं, किं कृत्वा कृतार्थः स्याम् इति मत्वासौ गुरुकुलम् अभिगत इति । तथा हि --- "तत् तपः स जपः सा धीस् तज् ज्ञानं सा च वैदुषी । यतो नैव निपातः स्याद् अन्तःसंसारसागरम्" ॥ इति श्रवणात् । किञ् च --- इहोपपत्तिर् मम केन कर्मणा क्व च प्रयातव्यम् इतो भवाद् इति । विचारणा यस्य न जायते क्षितौ कथं स धर्मप्रवणो भविष्यति ॥ तस्मात् समीचीनम् इदं यद् अस्येतिजिज्ञासा समुदपादि । किं पुनस् तद् दुःखत्रयं, तद् आह --- आध्यात्मिकम्, आधिभौतिकम्, आधिदैविकम् । तत्र प्रथमं द्विविधं, शारीरं मानसं च । तत्र शारीरं वातपित्तश्लेष्मणां देहधातूनां वैषम्याद् यद् दुःखम् आत्मानं देहम् अधिकृत्य ज्वरातीसारादि प्रवर्तते । मानसं प्रियवियोगाद् अप्रियसंयोगाच् च द्विविधम् । एतद् आध्यात्मिकं दुःखम् अभिहितम् । आधिभौतिकं तु भूतान्य् अधिकृत्य यत् प्रवर्तते मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं तु दिवम् अधिकृत्य यत् प्रवर्तते शीतोष्णवातवर्षादिकम् । एवम् एतैस् त्रिभिर् दुःखैर् अभिहतस्यासुरिसगोत्रस्य ब्राह्मणस्य जिज्ञासा समुत्पन्ना । क्व विषये?(प्।२) तदभिघातके हेतौ । तेषां त्रयाणां दुःखानाम् अभिघातको विनाशको यो ऽसौ हेतुस् तत्र । तां जिज्ञासाम् आह । किम् अमूनि दुःखानि वपुषः, आहोस्वित् तद्व्यतिरिक्तो ऽस्ति कश्चिद् अन्यः पुरुषो यस्येमानि त्रीणि दुःखानि जायन्ते, उतामीषां प्रतीकारोपायो ऽप्य् अस्ति न वा । यद्य् अस्ति तदानीं तम् एवास्थास्यामः । नो चेत् प्रथमप्रावृडासारं षण्ढ[?] इवामूनि निमीलितनेत्रा वयं सोढारः । वृश्चिकादिदष्ट एव विषप्रतीकाराय जाङ्गुलिकं गवेषयति नो वा विषभवपीडासहः । एवम् असह्यदुःखाभिभूतस्यासुरेस् तदभिघातके हेतौ जिज्ञासा समुत्पन्ना । स च समुत्पन्नदुःखाभावं जिज्ञासुस् तत्प्रतीकारकुशलं भगवन्तं कपिलाचार्यं शरणम् अभ्युपगतः, अयं मदभिलषितदुःखप्रतीकारोपायं वक्ष्यतीति । ननु दुःखेभ्य एव जिज्ञासा समुत्पन्ना कथं तेषाम् एवाभावाय कारणत्वम् उपयाति । न हि जनयित्रीसकाशाद् उत्पन्नस् तनयस् तस्या एव व्यापादनं कुरुते । सत्यम् । इह लोके यद्य् अस्माद् उत्पद्यते तत् तस्यापि विपत्तिकारणं दृश्यते । यथा कर्कटको ऽश्वतरो वा जनयित्र्याः समुत्पन्नस् ताम् एव व्यापादयति । यद् वा यथा कश्चिद् आशीविषः शुष्कतृणबहुलप्रदेशे स्थितः प्रतिसर्पं दृष्ट्वा क्रुद्धस् तस्य मुखनिःश्वासनिर्गतो वह्निस् तृणानि तं वापि सर्पं ददाह । अमुना न्यायेन दुःखेभ्य एव जिज्ञासा निष्पन्ना दुःखानाम् एवाभावं करिष्यतीत्य् अर्थसङ्गतिः । अत्रोच्यते । दृष्टे सापार्था चेत् । चेद् इत्य् अयं निपातः शङ्कायां वर्तते । इह लोके सकलसमुत्पन्नदुःखानां प्रतीकारो ऽस्त्य् एव, किं तदर्थं कपिलोपसर्पणेनेति भावः । तम् एव हेतुं दृष्टं दर्शयति । शारीराध्यात्मिकानां ज्वरातीसारादिसकलव्याधीनां सन्त्य् एवागदङ्कारा अष्टाङ्गायुर्वेदविदो भिषजः कायशल्यशलाकाविषोन्मादक्लीबजराकुमारचिकित्सानिपुणाः । मानसस्याध्यात्मिकतापस्य प्रतीकारः प्रियवस्तुसंयोगाद् अप्रियस्य दूरतः परिहरणाच् च । आधिभौतिकस्य तु ग्रामनगरादिकल्पनया प्रहाणोपपत्तिः । आधिदैविकस्याभिवातयातप्रावरणावरणादिभिः । अतस् तदभिघातकारणात् किं कपिलोपसर्पणेनेति भावः । तथा च लौकिकानाम् आभाणकः --- अर्के चेन् मधु विन्देत किमर्थं पर्वतं व्रजेत् । इष्टस्य लीलया सिद्धौ को विद्वान् यत्नम् आश्रयेत् ॥ अत्रोच्यते --- न । न इत्य् अयं पूर्वपक्षवाक्यनिषेधे । नैवं वाच्यम् इत्य् अर्थः । एकान्तात्यन्ततो ऽभावात् । एकान्ततो ऽवश्यं त्वदुक्तहेतुभिर् न प्रतीकारः । यतश् चिकित्सकानां सुप्रयुक्तागदानां यथाशक्ति यतताम् अपि कदाचिज् जन्तुर्(प्।३) विपद्यते कदाचिज् जीवति । वैद्यगृहे ऽपि वधूपुत्रकलत्रभ्रातृपितृपभृतीनाम् अपरिहार्यमरणदर्शनान् नायम् ऐकान्तिकप्रतीकार आध्यात्मिकस्य । अपरम्, अत्यन्ततो ऽपि नासौ प्रतीकारः । अगदेन नीरुजीकृतानाम् अपि ज्वरादीनां पुनः कतिपयदिवसैर् उत्पत्तिदर्शनात् । अतः सर्वथा आत्यन्तिको ऽपि न दृष्टः प्रतीकार आध्यात्मिकदुःखापनयने समर्थः । वसन्तादीनाम् अपगतानाम् अपि पुनर् आगमनवत् । भवन्ति चात्र श्लोकाः --- पुनर् दाहः समुत्पन्नः पुनर् जातश् च वेपथुः । बाधते च पुनर् हिक्का ज्वरश् च पुनर् आगतः ॥ अन्यच् च --- पुष्पिताक्षः शलाकी च कुष्ठी कायचिकित्सकः । पृच्छन्ति बालभिषजं कथं ते दारका मृताः ॥ किञ् च नास्ति सम्यग्धातुपरिज्ञाननिपुणतया भैषज्यम् । तथा हि --- यानि कानि च मूलानि येन केन च पेषयेत् । यस्मै कस्मै च दातव्यं यद् वा तद् वा भविष्यति ॥ अन्यच् च --- कार्यार्थिजनद्रव्यभक्षणाय, स्वशक्तिख्यापनाय च स्वल्पम् अपि रोगं पुरस्ताद् वर्धयन्ति भिषजः । ततश् च कदाचिद् असौ तेषाम् एवासाध्यताम् आयाति । तथा च --- वैद्य वैद्य नमस् तुभ्यं क्षपिताशेषमानव । त्वयि विन्यस्तभारो ऽयं कृतान्तः सुखम् एधते ॥ एवम् असौ दृष्टेनागदादिहेतुना, एकातन्तो ऽवश्यम्, अत्यन्ततः सर्वथा, शारीरस्याध्यात्मिकदुःखस्य न प्रतीकारः । एवं मानसस्यापि शब्दादिप्रियसंयोगाद् अपि कदाचिन् न निवृत्तिः । एवम् आधिभौतिकम् अप्य् उपायैः कदाचिद् व्यपैति, कदाचिच् च नेति । एवम् आधिदैविकम् अपि कदाचिद् व्यपैति कदाचिच् च न । किञ् च व्यपगतिर् अपि दुःखस्य पुनरुत्पादाद् अनर्थिकेति । अस्य तु शिष्यस्यैकान्तिक आत्यन्तिकश् च दुःखव्यपगमे हेतुर् इष्टः । तस्माद् युक्तं तदर्थं गुरूपसर्पणम् इति

asyā āryāyā upodghātaḥ kriyate --- sthānaṃ nimittaṃ vaktā ca śrotā śrotṛprayojanam / sambandhādyabhidhānaṃ ca upodghātaḥ sa ucyate // iha hi bhagavān maharṣiḥ sāṃsiddhikadharmajñānavairāgyaiśvaryasampanno bhagavataḥ purāṇapuruṣasyāvatāro jagadanujighṛkṣayā prajāpateḥ kardamasya putraḥ svāyambhuvasya manor duhitari devahūtyāṃ kapilo nāma babhūva | sa tena guṇapuruṣāntaropalabdhirūpeṇa jñānenāpārapāraṃ didarśiṣayā hastāvalambeneva, kālāhidandaśyamānajagataḥ sudhāmaṇineva, duścikitsyasya bhavavyādher apanayanāya samyagauṣadheneva, avidyāndhakārapradhvaṃsanapradīpeneva, muktimārgavirodhimohavṛkṣavivraścanakuṭhāreṇevāmunāvabodhena sampanno 'ndhe tamasi majjaj jagad idam adrākṣīt | tad avalokyāsya kāruṇyam udapādi | aho khalv idaṃ jagad anādikālasambaddhaṃ nisargād eva andhe tamasi vartata iti | athāsau mahāyogī katham asya varākasya andhe tamasi vartamānasya viśvasyānugrahaḥ kārya iti samutpannakāruṇyo manasi cintām āpede | sa(p.1) evaṃ vicintayan āsurisagotraṃ brāhmaṇaviśeṣaṃ varṣasahasrayājinam adhikāriṇam avagatya brahmopadeśavidyayā atandrito bhūtvā vācam ity uvāca --- "bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "rame bho" iti | sa evam ukto munir īṣadaniṣpannavivekavairāgyo 'yam iti vyavasya nirgamya bhūyo 'pi dvitīye varṣasahasre pūrṇe pratyāgatya tathaivābhyuvāca --- "bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "rame bho" iti | athāsau mahāyogīndras tathaiva nirgamya tṛtīye varṣasahasre sampūrṇe abhyetyovāca --- "bho bho āsure3 ramase gṛhasthadharmeṇa" iti | sa tam uvāca --- "na rame bho" iti | atha sa bhagavatā uktaḥ --- katham iti | punar āha āsuriḥ --- "duḥkhatrayābhighātāt" iti | athāha kapilaḥ --- tāta utsahase brahmacaryavāsaṃ vastuṃ yadi tadāmīṣāṃ duḥkhatrayāṇāṃ pratīkāraṃ vayam upadekṣyāmaḥ | so 'bravīt --- "bhagavan bāḍhaṃ śakto 'haṃ bhagavatām ādeśam anugantum" iti | sa evaṃ gṛhasthadharmam apahāya putradārādikaṃ ca, pravrajito bhagavataḥ kila kapilācāryasya yoginaḥ prāṇāḥ(?) śiṣyo babhūva | tatra yadi kaścid evaṃ brūyāt --- kuto 'sya jijñāsā samutpannā yayāsau gurukulam abhigata iti | tatrāyaṃ prativādaḥ | duḥkhatrayābhighātāj jijñāsā samutpannā | kam iha paraṃ, kiṃ yāthātmyaṃ, kiṃ niḥśreyasaṃ, kiṃ kṛtvā kṛtārthaḥ syām iti matvāsau gurukulam abhigata iti | tathā hi --- "tat tapaḥ sa japaḥ sā dhīs taj jñānaṃ sā ca vaiduṣī / yato naiva nipātaḥ syād antaḥsaṃsārasāgaram" // iti śravaṇāt | kiñ ca --- ihopapattir mama kena karmaṇā kva ca prayātavyam ito bhavād iti / vicāraṇā yasya na jāyate kṣitau kathaṃ sa dharmapravaṇo bhaviṣyati // tasmāt samīcīnam idaṃ yad asyetijijñāsā samudapādi | kiṃ punas tad duḥkhatrayaṃ, tad āha --- ādhyātmikam, ādhibhautikam, ādhidaivikam | tatra prathamaṃ dvividhaṃ, śārīraṃ mānasaṃ ca | tatra śārīraṃ vātapittaśleṣmaṇāṃ dehadhātūnāṃ vaiṣamyād yad duḥkham ātmānaṃ deham adhikṛtya jvarātīsārādi pravartate | mānasaṃ priyaviyogād apriyasaṃyogāc ca dvividham | etad ādhyātmikaṃ duḥkham abhihitam | ādhibhautikaṃ tu bhūtāny adhikṛtya yat pravartate mānuṣapaśupakṣisarīsṛpasthāvaranimittam | ādhidaivikaṃ tu divam adhikṛtya yat pravartate śītoṣṇavātavarṣādikam | evam etais tribhir duḥkhair abhihatasyāsurisagotrasya brāhmaṇasya jijñāsā samutpannā | kva viṣaye?(p.2) tadabhighātake hetau | teṣāṃ trayāṇāṃ duḥkhānām abhighātako vināśako yo 'sau hetus tatra | tāṃ jijñāsām āha | kim amūni duḥkhāni vapuṣaḥ, āhosvit tadvyatirikto 'sti kaścid anyaḥ puruṣo yasyemāni trīṇi duḥkhāni jāyante, utāmīṣāṃ pratīkāropāyo 'py asti na vā | yady asti tadānīṃ tam evāsthāsyāmaḥ | no cet prathamaprāvṛḍāsāraṃ ṣaṇḍha[?] ivāmūni nimīlitanetrā vayaṃ soḍhāraḥ | vṛścikādidaṣṭa eva viṣapratīkārāya jāṅgulikaṃ gaveṣayati no vā viṣabhavapīḍāsahaḥ | evam asahyaduḥkhābhibhūtasyāsures tadabhighātake hetau jijñāsā samutpannā | sa ca samutpannaduḥkhābhāvaṃ jijñāsus tatpratīkārakuśalaṃ bhagavantaṃ kapilācāryaṃ śaraṇam abhyupagataḥ, ayaṃ madabhilaṣitaduḥkhapratīkāropāyaṃ vakṣyatīti | nanu duḥkhebhya eva jijñāsā samutpannā kathaṃ teṣām evābhāvāya kāraṇatvam upayāti | na hi janayitrīsakāśād utpannas tanayas tasyā eva vyāpādanaṃ kurute | satyam | iha loke yady asmād utpadyate tat tasyāpi vipattikāraṇaṃ dṛśyate | yathā karkaṭako 'śvataro vā janayitryāḥ samutpannas tām eva vyāpādayati | yad vā yathā kaścid āśīviṣaḥ śuṣkatṛṇabahulapradeśe sthitaḥ pratisarpaṃ dṛṣṭvā kruddhas tasya mukhaniḥśvāsanirgato vahnis tṛṇāni taṃ vāpi sarpaṃ dadāha | amunā nyāyena duḥkhebhya eva jijñāsā niṣpannā duḥkhānām evābhāvaṃ kariṣyatīty arthasaṅgatiḥ | atrocyate | dṛṣṭe sāpārthā cet | ced ity ayaṃ nipātaḥ śaṅkāyāṃ vartate | iha loke sakalasamutpannaduḥkhānāṃ pratīkāro 'sty eva, kiṃ tadarthaṃ kapilopasarpaṇeneti bhāvaḥ | tam eva hetuṃ dṛṣṭaṃ darśayati | śārīrādhyātmikānāṃ jvarātīsārādisakalavyādhīnāṃ santy evāgadaṅkārā aṣṭāṅgāyurvedavido bhiṣajaḥ kāyaśalyaśalākāviṣonmādaklībajarākumāracikitsānipuṇāḥ | mānasasyādhyātmikatāpasya pratīkāraḥ priyavastusaṃyogād apriyasya dūrataḥ pariharaṇāc ca | ādhibhautikasya tu grāmanagarādikalpanayā prahāṇopapattiḥ | ādhidaivikasyābhivātayātaprāvaraṇāvaraṇādibhiḥ | atas tadabhighātakāraṇāt kiṃ kapilopasarpaṇeneti bhāvaḥ | tathā ca laukikānām ābhāṇakaḥ --- arke cen madhu vindeta kimarthaṃ parvataṃ vrajet / iṣṭasya līlayā siddhau ko vidvān yatnam āśrayet // atrocyate --- na | na ity ayaṃ pūrvapakṣavākyaniṣedhe | naivaṃ vācyam ity arthaḥ | ekāntātyantato 'bhāvāt | ekāntato 'vaśyaṃ tvaduktahetubhir na pratīkāraḥ | yataś cikitsakānāṃ suprayuktāgadānāṃ yathāśakti yatatām api kadācij jantur(p.3) vipadyate kadācij jīvati | vaidyagṛhe 'pi vadhūputrakalatrabhrātṛpitṛpabhṛtīnām aparihāryamaraṇadarśanān nāyam aikāntikapratīkāra ādhyātmikasya | aparam, atyantato 'pi nāsau pratīkāraḥ | agadena nīrujīkṛtānām api jvarādīnāṃ punaḥ katipayadivasair utpattidarśanāt | ataḥ sarvathā ātyantiko 'pi na dṛṣṭaḥ pratīkāra ādhyātmikaduḥkhāpanayane samarthaḥ | vasantādīnām apagatānām api punar āgamanavat | bhavanti cātra ślokāḥ --- punar dāhaḥ samutpannaḥ punar jātaś ca vepathuḥ / bādhate ca punar hikkā jvaraś ca punar āgataḥ // anyac ca --- puṣpitākṣaḥ śalākī ca kuṣṭhī kāyacikitsakaḥ / pṛcchanti bālabhiṣajaṃ kathaṃ te dārakā mṛtāḥ // kiñ ca nāsti samyagdhātuparijñānanipuṇatayā bhaiṣajyam | tathā hi --- yāni kāni ca mūlāni yena kena ca peṣayet / yasmai kasmai ca dātavyaṃ yad vā tad vā bhaviṣyati // anyac ca --- kāryārthijanadravyabhakṣaṇāya, svaśaktikhyāpanāya ca svalpam api rogaṃ purastād vardhayanti bhiṣajaḥ | tataś ca kadācid asau teṣām evāsādhyatām āyāti | tathā ca --- vaidya vaidya namas tubhyaṃ kṣapitāśeṣamānava / tvayi vinyastabhāro 'yaṃ kṛtāntaḥ sukham edhate // evam asau dṛṣṭenāgadādihetunā, ekātanto 'vaśyam, atyantataḥ sarvathā, śārīrasyādhyātmikaduḥkhasya na pratīkāraḥ | evaṃ mānasasyāpi śabdādipriyasaṃyogād api kadācin na nivṛttiḥ | evam ādhibhautikam apy upāyaiḥ kadācid vyapaiti, kadācic ca neti | evam ādhidaivikam api kadācid vyapaiti kadācic ca na | kiñ ca vyapagatir api duḥkhasya punarutpādād anarthiketi | asya tu śiṣyasyaikāntika ātyantikaś ca duḥkhavyapagame hetur iṣṭaḥ | tasmād yuktaṃ tadarthaṃ gurūpasarpaṇam iti

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/SkMv/1

Cite as: Isvarakrsna: Samkhyakarika, with Mathara's Vrtti [SkMv] 1, in HREEM (hreem.cc/library/SkMv/1), after GRETIL, Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary Matharavrtti Based on the ed.

Edition, numbering and licence

GRETIL 6_sastra/3_phil/samkhya/iskamatu.htm — Isvarakrsna: Samkhyakarika (Samkhyasaptati), with Mathara's commentary Matharavrtti Based on the ed. by Visnu Prasada Sarma: Sāṃkhyakārikā: Māṭharācāryaviracita-"Māṭharavṛtti"-sahitā, Varanasi : The Chowkhamba Sanskrit Series Office 1970 (Chowkhamba Sanskrit S

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text