यस्मात् षष्टितन्त्रम् इति हेतुः । समासदृष्टं सङ्क्षेपतो ग्रन्थम् इत्य् अर्थः । शास्त्रम् इति । शास्यते येनोत्पथाद् इति शास्त्रम् । तीर्थोदकमहत्फलम् । कर्ता भोक्ता भोज्यं मोक्षश् चात्र चिन्त्यते । अथ दुःखानां शासनात् शास्त्रम् । इदम् --- इमां सप्ततिं दर्शयति । नार्थतश् च परिहीनम् । षष्टिपदार्थविचारणायाम्(प्।६३) अहीनम् इत्य् अर्थः । तन्त्रस्येति । यथा स्वल्पे ऽपि दर्पणे महतो रूपस्य निरूपणं स्यात् । एवम् अल्पशास्त्रे षष्टितन्त्रस्य कृत्स्नस्यापि व्यक्तिर् अभिहितेत्य् अर्थः
yasmāt ṣaṣṭitantram iti hetuḥ | samāsadṛṣṭaṃ saṅkṣepato grantham ity arthaḥ | śāstram iti | śāsyate yenotpathād iti śāstram | tīrthodakamahatphalam | kartā bhoktā bhojyaṃ mokṣaś cātra cintyate | atha duḥkhānāṃ śāsanāt śāstram | idam --- imāṃ saptatiṃ darśayati | nārthataś ca parihīnam | ṣaṣṭipadārthavicāraṇāyām(p.63) ahīnam ity arthaḥ | tantrasyeti | yathā svalpe 'pi darpaṇe mahato rūpasya nirūpaṇaṃ syāt | evam alpaśāstre ṣaṣṭitantrasya kṛtsnasyāpi vyaktir abhihitety arthaḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.