Library·Tattvopaplavasiṃha·4

Tattvopaplavasiṃha 4

तथा प्रत्यक्षं कल्पनापोढम् अभ्रान्तम् इति न वक्तव्यं कल्पनापोढपदस्यापोह्यार्थासम्भवात् । तथा प्रत्यक्षं कल्पनापोढम् अभ्रान्तम् इति न वक्तव्यं कल्पनापोढपदस्यापोह्यार्थासम्भवात् ।

tathā pratyakṣaṃ kalpanāpoḍham abhrāntam iti na vaktavyaṃ kalpanāpoḍhapadasyāpohyārthāsambhavāt / tathā pratyakṣaṃ kalpanāpoḍham abhrāntam iti na vaktavyaṃ kalpanāpoḍhapadasyāpohyārthāsambhavāt /

Sanskrit only: no published translation is held for this verse.

तथाव्यभिचारिपदम् अपि नोपादेयम् अपोह्यज्ञानासम्भवात् । ननु मार्तण्डपादसङ्घातोत्पादितं विज्ञानम् अपोह्यम् अस्ति कथं तद् अपोह्यम्? अतथ्योदकविषयत्वात् । यद्य् अतथ्योदकविषयत्वं, कथं तद् अपनीयते ऽतथ्योदकाकारस्य स्वेन रूपेण विद्यमानत्वान् मधुरोदकदीर्घोदकाकारवत्? अथ तत्र मधुरोदकं विद्यते, स्वेन रूपेण प्रतीयमानत्वात्, तद् इहाप्य् उदकं प्रतीयतोदकं गृह्णामीति व्यवहारदर्शनात् । सत्यं, प्रतिभात्य्, अतथ्यं तु प्रतिभाति । तथाव्यभिचारिपदम् अपि नोपादेयम् अपोह्यज्ञानासम्भवात् । ननु मार्तण्डपादसङ्घातोत्पादितं विज्ञानम् अपोह्यम् अस्ति कथं तद् अपोह्यम्? अतथ्योदकविषयत्वात् । यद्य् अतथ्योदकविषयत्वं, कथं तद् अपनीयते ऽतथ्योदकाकारस्य स्वेन रूपेण विद्यमानत्वान् मधुरोदकदीर्घोदकाकारवत्? अथ तत्र मधुरोदकं विद्यते, स्वेन रूपेण प्रतीयमानत्वात्, तद् इहाप्य् उदकं प्रतीयत उदकं गृह्णामीति व्यवहारदर्शनात् । सत्यं, प्रतिभात्य्, अतथ्यं तु प्रतिभाति ।

tathāvyabhicāripadam api nopādeyam apohyajñānāsambhavāt / nanu mārtaṇḍapādasaṅghātotpāditaṃ vijñānam apohyam asti kathaṃ tad apohyam? atathyodakaviṣayatvāt / yady atathyodakaviṣayatvaṃ, kathaṃ tad apanīyate 'tathyodakākārasya svena rūpeṇa vidyamānatvān madhurodakadīrghodakākāravat? atha tatra madhurodakaṃ vidyate, svena rūpeṇa pratīyamānatvāt, tad ihāpy udakaṃ pratīyatodakaṃ gṛhṇāmīti vyavahāradarśanāt / satyaṃ, pratibhāty, atathyaṃ tu pratibhāti / tathāvyabhicāripadam api nopādeyam apohyajñānāsambhavāt / nanu mārtaṇḍapādasaṅghātotpāditaṃ vijñānam apohyam asti kathaṃ tad apohyam? atathyodakaviṣayatvāt / yady atathyodakaviṣayatvaṃ, kathaṃ tad apanīyate 'tathyodakākārasya svena rūpeṇa vidyamānatvān madhurodakadīrghodakākāravat? atha tatra madhurodakaṃ vidyate, svena rūpeṇa pratīyamānatvāt, tad ihāpy udakaṃ pratīyata udakaṃ gṛhṇāmīti vyavahāradarśanāt / satyaṃ, pratibhāty, atathyaṃ tu pratibhāti /

Sanskrit only: no published translation is held for this verse.

तद् यदि गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पना, तत् किम् अविद्यमानगुणचलनजात्यादिविशेषनोत्पाद्यत्वेन कल्पनोत विद्यमानोत्पाद्यत्वेन? तद् यदि गुणचलनजात्यादिविशेषणोत्पादितं विज्ञानं कल्पना, तत् किम् अविद्यमानगुणचलनजात्यादिविशेषनोत्पाद्यत्वेन कल्पनोत विद्यमानोत्पाद्यत्वेन?

tad yadi guṇacalanajātyādiviśeṣaṇotpāditaṃ vijñānaṃ kalpanā, tat kim avidyamānaguṇacalanajātyādiviśeṣanotpādyatvena kalpanota vidyamānotpādyatvena? tad yadi guṇacalanajātyādiviśeṣaṇotpāditaṃ vijñānaṃ kalpanā, tat kim avidyamānaguṇacalanajātyādiviśeṣanotpādyatvena kalpanota vidyamānotpādyatvena?

Sanskrit only: no published translation is held for this verse.

अथ स्मृत्युत्पादकं ज्ञानं कल्पना, तद् अयुक्तं, रूपादिदर्शनाद् अपि स्मृतिर् उत्पद्यते न च कल्पनात्वं, यत्सन्निधाने यो दृष्टस् तद्दृष्टेस् तद्ध्वनौ स्मृतिर् इति वचनात् । अथ स्मृत्युत्पादकं ज्ञानं कल्पना, तद् अयुक्तं, रूपादिदर्शनाद् अपि स्मृतिर् उत्पद्यते न च कल्पनात्वं, यत्सन्निधाने यो दृष्टस् तद्दृष्टेस् तद्ध्वनौ स्मृतिर् इति वचनात् ।

atha smṛtyutpādakaṃ jñānaṃ kalpanā, tad ayuktaṃ, rūpādidarśanād api smṛtir utpadyate na ca kalpanātvaṃ, yatsannidhāne yo dṛṣṭas taddṛṣṭes taddhvanau smṛtir iti vacanāt / atha smṛtyutpādakaṃ jñānaṃ kalpanā, tad ayuktaṃ, rūpādidarśanād api smṛtir utpadyate na ca kalpanātvaṃ, yatsannidhāne yo dṛṣṭas taddṛṣṭes taddhvanau smṛtir iti vacanāt /

Sanskrit only: no published translation is held for this verse.

अथ स्मृतिरूपत्वेन कल्पना, तत्रापि किं गृहीतग्राहित्वेन निर्विषयत्वेनापूर्वार्थगृहीतिरूपत्वेन वा? तद् यदि गृहीतार्थग्राहित्वेन कल्पनात्वं, तदा प्रथमानुभवस्यापि कल्पनात्वम् आपद्यते गृहीतार्थग्राहित्वाविशेषाद् इत्य् उक्तं पुरस्तात् । अथ निर्विषयत्वेन, तदा न कल्पनाकारता नाप्य् अकल्पनाकारता ज्ञानाकारव्यतिरेकेण । अथापूर्वार्थगृहीतित्वेन कल्पनात्वं, तद् अयुक्तं, न स्मृतेर् अपूर्वार्थगृहीतित्वम् अस्ति । तदभावान् न कल्पनात्वम् । यदि चापूर्वार्थगृहीतित्वेन कल्पनात्वं, रूपादिज्ञानानां कल्पनात्वम् आपद्यते । अथ स्मृतिरूपत्वेन कल्पना, तत्रापि किं गृहीतग्राहित्वेन निर्विषयत्वेनापूर्वार्थगृहीतिरूपत्वेन वा? तद् यदि गृहीतार्थग्राहित्वेन कल्पनात्वं, तदा प्रथमानुभवस्यापि कल्पनात्वम् आपद्यते गृहीतार्थग्राहित्वाविशेषाद् इत्य् उक्तं पुरस्तात् । अथ निर्विषयत्वेन, तदा न कल्पनाकारता नाप्य् अकल्पनाकारता ज्ञानाकारव्यतिरेकेण । अथापूर्वार्थगृहीतित्वेन कल्पनात्वं, तद् अयुक्तं, न स्मृतेर् अपूर्वार्थगृहीतित्वम् अस्ति । तदभावान् न कल्पनात्वम् । यदि चापूर्वार्थगृहीतित्वेन कल्पनात्वं, रूपादिज्ञानानां कल्पनात्वम् आपद्यते ।

atha smṛtirūpatvena kalpanā, tatrāpi kiṃ gṛhītagrāhitvena nirviṣayatvenāpūrvārthagṛhītirūpatvena vā? tad yadi gṛhītārthagrāhitvena kalpanātvaṃ, tadā prathamānubhavasyāpi kalpanātvam āpadyate gṛhītārthagrāhitvāviśeṣād ity uktaṃ purastāt / atha nirviṣayatvena, tadā na kalpanākāratā nāpy akalpanākāratā jñānākāravyatirekeṇa / athāpūrvārthagṛhītitvena kalpanātvaṃ, tad ayuktaṃ, na smṛter apūrvārthagṛhītitvam asti / tadabhāvān na kalpanātvam / yadi cāpūrvārthagṛhītitvena kalpanātvaṃ, rūpādijñānānāṃ kalpanātvam āpadyate / atha smṛtirūpatvena kalpanā, tatrāpi kiṃ gṛhītagrāhitvena nirviṣayatvenāpūrvārthagṛhītirūpatvena vā? tad yadi gṛhītārthagrāhitvena kalpanātvaṃ, tadā prathamānubhavasyāpi kalpanātvam āpadyate gṛhītārthagrāhitvāviśeṣād ity uktaṃ purastāt / atha nirviṣayatvena, tadā na kalpanākāratā nāpy akalpanākāratā jñānākāravyatirekeṇa / athāpūrvārthagṛhītitvena kalpanātvaṃ, tad ayuktaṃ, na smṛter apūrvārthagṛhītitvam asti / tadabhāvān na kalpanātvam / yadi cāpūrvārthagṛhītitvena kalpanātvaṃ, rūpādijñānānāṃ kalpanātvam āpadyate /

Sanskrit only: no published translation is held for this verse.

अथ स्मृत्युत्पाद्यत्वेन कल्पनात्वं, तदा रूपादिज्ञानस्यापि निर्विकल्पकत्वेनाभिमतस्य स्मृत्युत्पाद्यत्वम् अस्ति, तद् अस्तु कल्पनाज्ञानम् । अथ न भवति तत् कल्पनाज्ञानं स्मृत्या बोधस्वभावतयोत्पादितं, कल्पनाज्ञानं तु स्मरणाकारतयोत्पाद्यते । तद् इदं मद्विकल्पान्दोलितबुद्धेर् निरुपपत्तिकाभिधानम् । न ह्य् एकस्य स्वभावद्वयम् उपपश्यामः । अथ स्मृत्युत्पाद्यत्वेन कल्पनात्वं, तदा रूपादिज्ञानस्यापि निर्विकल्पकत्वेनाभिमतस्य स्मृत्युत्पाद्यत्वम् अस्ति, तद् अस्तु कल्पनाज्ञानम् । अथ न भवति तत् कल्पनाज्ञानं स्मृत्या बोधस्वभावतयोत्पादितं, कल्पनाज्ञानं तु स्मरणाकारतयोत्पाद्यते । तद् इदं मद्विकल्पान्दोलितबुद्धेर् निरुपपत्तिकाभिधानम् । न ह्य् एकस्य स्वभावद्वयम् उपपश्यामः ।

atha smṛtyutpādyatvena kalpanātvaṃ, tadā rūpādijñānasyāpi nirvikalpakatvenābhimatasya smṛtyutpādyatvam asti, tad astu kalpanājñānam / atha na bhavati tat kalpanājñānaṃ smṛtyā bodhasvabhāvatayotpāditaṃ, kalpanājñānaṃ tu smaraṇākāratayotpādyate / tad idaṃ madvikalpāndolitabuddher nirupapattikābhidhānam / na hy ekasya svabhāvadvayam upapaśyāmaḥ / atha smṛtyutpādyatvena kalpanātvaṃ, tadā rūpādijñānasyāpi nirvikalpakatvenābhimatasya smṛtyutpādyatvam asti, tad astu kalpanājñānam / atha na bhavati tat kalpanājñānaṃ smṛtyā bodhasvabhāvatayotpāditaṃ, kalpanājñānaṃ tu smaraṇākāratayotpādyate / tad idaṃ madvikalpāndolitabuddher nirupapattikābhidhānam / na hy ekasya svabhāvadvayam upapaśyāmaḥ /

Sanskrit only: no published translation is held for this verse.

अथाभिलापसंसर्गप्रतिभासा प्रतीतिः कल्पना, स संसर्गः पारमार्थिको ऽपारमार्थिको वा । यदि पारमार्थिको, न तदा तस्य कल्पनात्वं रूपादिज्ञानस्येव । अथापारमार्थिकः, कथं तदाभं विज्ञानं नैरात्म्यप्रसङ्गात्? न चातात्त्विके विषयार्थः कश्चिल् लभ्यते जनकत्वाकारार्पकत्वसहोत्पादसत्तामात्रव्यतिरेकात् । यदि चातात्त्विकार्थगृहीतिरूपं, तदा विपर्ययज्ञानम् । तच् चाव्यभिचारिपदेनापोदितं, न कल्पनापोढपदम् उपादेयम् । अथाभिलापसंसर्गप्रतिभासा प्रतीतिः कल्पना, स संसर्गः पारमार्थिको ऽपारमार्थिको वा । यदि पारमार्थिको, न तदा तस्य कल्पनात्वं रूपादिज्ञानस्येव । अथापारमार्थिकः, कथं तदाभं विज्ञानं नैरात्म्यप्रसङ्गात्? न चातात्त्विके विषयार्थः कश्चिल् लभ्यते जनकत्वाकारार्पकत्वसहोत्पादसत्तामात्रव्यतिरेकात् । यदि चातात्त्विकार्थगृहीतिरूपं, तदा विपर्ययज्ञानम् । तच् चाव्यभिचारिपदेनापोदितं, न कल्पनापोढपदम् उपादेयम् ।

athābhilāpasaṃsargapratibhāsā pratītiḥ kalpanā, sa saṃsargaḥ pāramārthiko 'pāramārthiko vā / yadi pāramārthiko, na tadā tasya kalpanātvaṃ rūpādijñānasyeva / athāpāramārthikaḥ, kathaṃ tadābhaṃ vijñānaṃ nairātmyaprasaṅgāt? na cātāttvike viṣayārthaḥ kaścil labhyate janakatvākārārpakatvasahotpādasattāmātravyatirekāt / yadi cātāttvikārthagṛhītirūpaṃ, tadā viparyayajñānam / tac cāvyabhicāripadenāpoditaṃ, na kalpanāpoḍhapadam upādeyam / athābhilāpasaṃsargapratibhāsā pratītiḥ kalpanā, sa saṃsargaḥ pāramārthiko 'pāramārthiko vā / yadi pāramārthiko, na tadā tasya kalpanātvaṃ rūpādijñānasyeva / athāpāramārthikaḥ, kathaṃ tadābhaṃ vijñānaṃ nairātmyaprasaṅgāt? na cātāttvike viṣayārthaḥ kaścil labhyate janakatvākārārpakatvasahotpādasattāmātravyatirekāt / yadi cātāttvikārthagṛhītirūpaṃ, tadā viparyayajñānam / tac cāvyabhicāripadenāpoditaṃ, na kalpanāpoḍhapadam upādeyam /

Sanskrit only: no published translation is held for this verse.

अथाभिलापवाती प्रतीतिः कल्पना, किम् अभिलापात्मिकाहो ऽभिलापोत्पाद्याभिलापगृहीतिर् वा? तद् यद्य् अभिलापात्मिका, प्रतीतिः कथम्? प्रतीतिश् चेद् अभिलापात्मिकेति न वक्तव्यं, विरुद्धाकारयोस् तादात्म्यव्यतिरेकात् । अथाभिलापोत्पाद्या, तदा शब्दज्ञानानां कल्पनात्वम् आपद्यते । तेषां च कल्पनात्वे शब्दव्यवस्थानुपपत्तिः स्यात् । अथाभिलापगृहीतित्वेन कल्पनात्वं, तदा सर्वासाम् अभिलापगृहीतीनां कल्पनात्वम् आपद्यते । तत्कल्पनात्वे शब्दव्यवस्थानुपपत्तिः । अथाभिलापवाती प्रतीतिः कल्पना, किम् अभिलापात्मिकाहो ऽभिलापोत्पाद्याभिलापगृहीतिर् वा? तद् यद्य् अभिलापात्मिका, प्रतीतिः कथम्? प्रतीतिश् चेद् अभिलापात्मिकेति न वक्तव्यं, विरुद्धाकारयोस् तादात्म्यव्यतिरेकात् । अथाभिलापोत्पाद्या, तदा शब्दज्ञानानां कल्पनात्वम् आपद्यते । तेषां च कल्पनात्वे शब्दव्यवस्थानुपपत्तिः स्यात् । अथाभिलापगृहीतित्वेन कल्पनात्वं, तदा सर्वासाम् अभिलापगृहीतीनां कल्पनात्वम् आपद्यते । तत्कल्पनात्वे शब्दव्यवस्थानुपपत्तिः ।

athābhilāpavātī pratītiḥ kalpanā, kim abhilāpātmikāho 'bhilāpotpādyābhilāpagṛhītir vā? tad yady abhilāpātmikā, pratītiḥ katham? pratītiś ced abhilāpātmiketi na vaktavyaṃ, viruddhākārayos tādātmyavyatirekāt / athābhilāpotpādyā, tadā śabdajñānānāṃ kalpanātvam āpadyate / teṣāṃ ca kalpanātve śabdavyavasthānupapattiḥ syāt / athābhilāpagṛhītitvena kalpanātvaṃ, tadā sarvāsām abhilāpagṛhītīnāṃ kalpanātvam āpadyate / tatkalpanātve śabdavyavasthānupapattiḥ / athābhilāpavātī pratītiḥ kalpanā, kim abhilāpātmikāho 'bhilāpotpādyābhilāpagṛhītir vā? tad yady abhilāpātmikā, pratītiḥ katham? pratītiś ced abhilāpātmiketi na vaktavyaṃ, viruddhākārayos tādātmyavyatirekāt / athābhilāpotpādyā, tadā śabdajñānānāṃ kalpanātvam āpadyate / teṣāṃ ca kalpanātve śabdavyavasthānupapattiḥ syāt / athābhilāpagṛhītitvena kalpanātvaṃ, tadā sarvāsām abhilāpagṛhītīnāṃ kalpanātvam āpadyate / tatkalpanātve śabdavyavasthānupapattiḥ /

Sanskrit only: no published translation is held for this verse.

अथास्पष्टाकारा प्रतीतिः कल्पना, अस्पष्टता का? किम् अविज्ञानात्मकत्वम् आहो स्वलक्षणाजन्यत्वम् अथ प्रतीयमानार्थाजन्यत्वं प्रतीयमानासत्यता वा स्वलकणाप्रतिभासिता वा? तद् यद्य् अविज्ञानात्मकत्वम् अस्पष्टता, तद् अयुक्तं, प्रतीतिर् इहास्पष्टाकारा गीयते, सा कथम् अविज्ञानात्मिका भवितुम् अर्हति? अथ स्वलक्षणाजन्यतास्पष्टता, तदा ज्ञानाकस्मिकत्वप्रसङ्गः । अथ प्रतीयमानार्थाजन्यत्वं, तदा रागादिसंवेदनस्यास्पष्टता प्राप्नोति, रागादीनां स्वात्मसंवेदनोत्पादकत्वायोगात् । स्वात्मोत्पादकत्वं वस्तूनां न दृष्टपूर्वम् । तथा केशोण्डुकविज्ञानस्य प्रतीयमानकेशोण्डुकोत्पाद्यत्वं न विद्यते । तद् अपि स्पष्टाभम् उपजायते, न त्व् अस्पष्टाभं, न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासितेति वचनात् । अथ स्वलक्षणाप्रतिभासित्वम् अथास्पष्टाकारा प्रतीतिः कल्पना, अस्पष्टता का? किम् अविज्ञानात्मकत्वम् आहो स्वलक्षणाजन्यत्वम् अथ प्रतीयमानार्थाजन्यत्वं प्रतीयमानासत्यता वा स्वलकणाप्रतिभासिता वा? तद् यद्य् अविज्ञानात्मकत्वम् अस्पष्टता, तद् अयुक्तं, प्रतीतिर् इहास्पष्टाकारा गीयते, सा कथम् अविज्ञानात्मिका भवितुम् अर्हति? अथ स्वलक्षणाजन्यतास्पष्टता, तदा ज्ञानाकस्मिकत्वप्रसङ्गः । अथ प्रतीयमानार्थाजन्यत्वं, तदा रागादिसंवेदनस्यास्पष्टता प्राप्नोति, रागादीनां स्वात्मसंवेदनोत्पादकत्वायोगात् । स्वात्मोत्पादकत्वं वस्तूनां न दृष्टपूर्वम् । तथा केशोण्डुकविज्ञानस्य प्रतीयमानकेशोण्डुकोत्पाद्यत्वं न विद्यते । तद् अपि स्प३ष्टाभम् उपजायते, न त्व् अस्पष्टाभं, न विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासितेति वचनात् । अथ स्वलक्षणाप्रतिभासित्वम्

athāspaṣṭākārā pratītiḥ kalpanā, aspaṣṭatā kā? kim avijñānātmakatvam āho svalakṣaṇājanyatvam atha pratīyamānārthājanyatvaṃ pratīyamānāsatyatā vā svalakaṇāpratibhāsitā vā? tad yady avijñānātmakatvam aspaṣṭatā, tad ayuktaṃ, pratītir ihāspaṣṭākārā gīyate, sā katham avijñānātmikā bhavitum arhati? atha svalakṣaṇājanyatāspaṣṭatā, tadā jñānākasmikatvaprasaṅgaḥ / atha pratīyamānārthājanyatvaṃ, tadā rāgādisaṃvedanasyāspaṣṭatā prāpnoti, rāgādīnāṃ svātmasaṃvedanotpādakatvāyogāt / svātmotpādakatvaṃ vastūnāṃ na dṛṣṭapūrvam / tathā keśoṇḍukavijñānasya pratīyamānakeśoṇḍukotpādyatvaṃ na vidyate / tad api spaṣṭābham upajāyate, na tv aspaṣṭābhaṃ, na vikalpānubaddhasya spaṣṭārthapratibhāsiteti vacanāt / atha svalakṣaṇāpratibhāsitvam athāspaṣṭākārā pratītiḥ kalpanā, aspaṣṭatā kā? kim avijñānātmakatvam āho svalakṣaṇājanyatvam atha pratīyamānārthājanyatvaṃ pratīyamānāsatyatā vā svalakaṇāpratibhāsitā vā? tad yady avijñānātmakatvam aspaṣṭatā, tad ayuktaṃ, pratītir ihāspaṣṭākārā gīyate, sā katham avijñānātmikā bhavitum arhati? atha svalakṣaṇājanyatāspaṣṭatā, tadā jñānākasmikatvaprasaṅgaḥ / atha pratīyamānārthājanyatvaṃ, tadā rāgādisaṃvedanasyāspaṣṭatā prāpnoti, rāgādīnāṃ svātmasaṃvedanotpādakatvāyogāt / svātmotpādakatvaṃ vastūnāṃ na dṛṣṭapūrvam / tathā keśoṇḍukavijñānasya pratīyamānakeśoṇḍukotpādyatvaṃ na vidyate / tad api spa3ṣṭābham upajāyate, na tv aspaṣṭābhaṃ, na vikalpānubaddhasya spaṣṭārthapratibhāsiteti vacanāt / atha svalakṣaṇāpratibhāsitvam

Sanskrit only: no published translation is held for this verse.

अथातात्त्विकार्थगृहीतिरूपा कल्पना, तद केशोण्डुकविज्ञानस्यापि कल्पनात्वम् आपद्यते । अथातात्त्विकार्थगृहीतिरूपा कल्पना, तद केशोण्डुकविज्ञानस्यापि कल्पनात्वम् आपद्यते ।

athātāttvikārthagṛhītirūpā kalpanā, tada keśoṇḍukavijñānasyāpi kalpanātvam āpadyate / athātāttvikārthagṛhītirūpā kalpanā, tada keśoṇḍukavijñānasyāpi kalpanātvam āpadyate /

Sanskrit only: no published translation is held for this verse.

अथ स्वयम् अतात्त्विकी, तदा प्रतीतिः कथम्? प्रतीतिश् चेद्, अतात्त्विकी कथम्? अथ स्वयम् अतात्त्विकी, तदा प्रतीतिः कथम्? प्रतीतिश् चेद्, अतात्त्विकी कथम्?

atha svayam atāttvikī, tadā pratītiḥ katham? pratītiś ced, atāttvikī katham? atha svayam atāttvikī, tadā pratītiḥ katham? pratītiś ced, atāttvikī katham?

Sanskrit only: no published translation is held for this verse.

अतथ्यता का? किं प्रतीयमानस्याभावो ऽथ प्रतीयमानैवाभावः? अतथ्यता का? किं प्रतीयमानस्याभावो ऽथ प्रतीयमान एवाभावः?

atathyatā kā? kiṃ pratīyamānasyābhāvo 'tha pratīyamānaivābhāvaḥ? atathyatā kā? kiṃ pratīyamānasyābhāvo 'tha pratīyamāna evābhāvaḥ?

Sanskrit only: no published translation is held for this verse.

तद् एतद् उदकज्ञानम् उदकं विषययत्य् उदकाभावम् आत्मानं न किञ्चिद् वा । तद् एतद् उदकज्ञानम् उदकं विषययत्य् उदकाभावम् आत्मानं न किञ्चिद् वा ।

tad etad udakajñānam udakaṃ viṣayayaty udakābhāvam ātmānaṃ na kiñcid vā / tad etad udakajñānam udakaṃ viṣayayaty udakābhāvam ātmānaṃ na kiñcid vā /

Sanskrit only: no published translation is held for this verse.

विज्ञानस्य व्यभिचारिता किं स्वसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन? विज्ञानस्य व्यभिचारिता किं स्वसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन?

vijñānasya vyabhicāritā kiṃ svasattāmātrānurodhenāho parasattānurodhena? vijñānasya vyabhicāritā kiṃ svasattāmātrānurodhenāho parasattānurodhena?

Sanskrit only: no published translation is held for this verse.

तथा सम्यग्ज्ञानत्वम् अपि क हम्? किं ज्ञानसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन? तथा सम्यग्ज्ञानत्वम् अपि क हम्? किं ज्ञानसत्तामात्रानुरोधेनाहो परसत्तानुरोधेन?

tathā samyagjñānatvam api ka ham? kiṃ jñānasattāmātrānurodhenāho parasattānurodhena? tathā samyagjñānatvam api ka ham? kiṃ jñānasattāmātrānurodhenāho parasattānurodhena?

Sanskrit only: no published translation is held for this verse.

यत् तद् व्यभिचारि ज्ञानं, तत् किं व्यभिचारिभूतेनोपादानज्ञानेन जन्यताहो ऽव्यभिचारिभूतेनोपादानज्ञानेन जन्यते? यत् तद् व्यभिचारि ज्ञानं, तत् किं व्यभिचारिभूतेनोपादानज्ञानेन जन्यता अहो ऽव्यभिचारिभूतेनोपादानज्ञानेन जन्यते?

yat tad vyabhicāri jñānaṃ, tat kiṃ vyabhicāribhūtenopādānajñānena janyatāho 'vyabhicāribhūtenopādānajñānena janyate? yat tad vyabhicāri jñānaṃ, tat kiṃ vyabhicāribhūtenopādānajñānena janyatā aho 'vyabhicāribhūtenopādānajñānena janyate?

Sanskrit only: no published translation is held for this verse.

यदि प्रतीयमानस्याभावः, सो ऽत्र नावाभात्य्, उदकाकारैवावभाति । यदि प्रतीयमानस्याभावः, सो ऽत्र नावाभात्य्, उदकाकार एवावभाति ।

yadi pratīyamānasyābhāvaḥ, so 'tra nāvābhāty, udakākāraivāvabhāti / yadi pratīyamānasyābhāvaḥ, so 'tra nāvābhāty, udakākāra evāvabhāti /

Sanskrit only: no published translation is held for this verse.

अथ प्रतीयमानैवाभावः सो ऽप्य् अनुपपन्नैव । न हि भावाकारे प्रतीयमाने ऽभावकल्पना युक्ता । अन्यथा रसाकारे प्रतीयमाने रूपाकारः परिकल्पयितव्यः । ततश् चालूनविशीर्णं जगत् स्यात् । यदि चाभावः प्रतिभाति, कथं तद् उदकज्ञानं मिथ्याज्ञानं चोच्यते ऽभावविषयस्य स्वेन रूपेण विद्यमानत्वात्? अथ प्रतीयमान एवाभावः सो ऽप्य् अनुपपन्न एव । न हि भावाकारे प्रतीयमाने ऽभावकल्पना युक्ता । अन्यथा रसाकारे प्रतीयमाने रूपाकारः परिकल्पयितव्यः । ततश् चालूनविशीर्णं जगत् स्यात् । यदि चाभावः प्रतिभाति, कथं तद् उदकज्ञानं मिथ्याज्ञानं चोच्यते ऽभावविषयस्य स्वेन रूपेण विद्यमानत्वात्?

atha pratīyamānaivābhāvaḥ so 'py anupapannaiva / na hi bhāvākāre pratīyamāne 'bhāvakalpanā yuktā / anyathā rasākāre pratīyamāne rūpākāraḥ parikalpayitavyaḥ / tataś cālūnaviśīrṇaṃ jagat syāt / yadi cābhāvaḥ pratibhāti, kathaṃ tad udakajñānaṃ mithyājñānaṃ cocyate 'bhāvaviṣayasya svena rūpeṇa vidyamānatvāt? atha pratīyamāna evābhāvaḥ so 'py anupapanna eva / na hi bhāvākāre pratīyamāne 'bhāvakalpanā yuktā / anyathā rasākāre pratīyamāne rūpākāraḥ parikalpayitavyaḥ / tataś cālūnaviśīrṇaṃ jagat syāt / yadi cābhāvaḥ pratibhāti, kathaṃ tad udakajñānaṃ mithyājñānaṃ cocyate 'bhāvaviṣayasya svena rūpeṇa vidyamānatvāt?

Sanskrit only: no published translation is held for this verse.

तद् यद्य् उदकं विषययति, तदा न तस्य मिथ्यात्वं मधुरोदकसंवेदनस्येव । तत्र तथ्योदकं प्रतिभाति । किं यत् प्रतिभाति तत् तथ्योदकम्, आहो यत् तथ्यं तत् प्रतिभाति? तद् यदि यत् प्रतिभाति तत् तथ्यम्, इहाप्य् उदकं प्रतिभाति, प्राप्ता तस्यापि तथ्यता । तद् यद्य् उदकं विषययति, तदा न तस्य मिथ्यात्वं मधुरोदकसंवेदनस्येव । तत्र तथ्योदकं प्रतिभाति । किं यत् प्रतिभाति तत् तथ्योदकम्, आहो यत् तथ्यं तत् प्रतिभाति? तद् यदि यत् प्रतिभाति तत् तथ्यम्, इहाप्य् उदकं प्रतिभाति, प्राप्ता तस्यापि तथ्यता ।

tad yady udakaṃ viṣayayati, tadā na tasya mithyātvaṃ madhurodakasaṃvedanasyeva / tatra tathyodakaṃ pratibhāti / kiṃ yat pratibhāti tat tathyodakam, āho yat tathyaṃ tat pratibhāti? tad yadi yat pratibhāti tat tathyam, ihāpy udakaṃ pratibhāti, prāptā tasyāpi tathyatā / tad yady udakaṃ viṣayayati, tadā na tasya mithyātvaṃ madhurodakasaṃvedanasyeva / tatra tathyodakaṃ pratibhāti / kiṃ yat pratibhāti tat tathyodakam, āho yat tathyaṃ tat pratibhāti? tad yadi yat pratibhāti tat tathyam, ihāpy udakaṃ pratibhāti, prāptā tasyāpi tathyatā /

Sanskrit only: no published translation is held for this verse.

अथाभावं विषययति, न तर्ह्य् उदकज्ञानरूपताभावगृहीतिरूपत्वात् । नापि तस्य मिथ्यात्वम् अभावविषयस्योपपत्तेः । न च सौगतमते ऽभावे कश्चिद् विषयार्थोपपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात्। उदकाकारो हि प्रतीत्युत्कलितः । तदभावश् चाप्रातीतिकेहोपपाद्यते मुग्धबौद्धैः । अथाभावं विषययति, न तर्ह्य् उदकज्ञानरूपताभावगृहीतिरूपत्वात् । नापि तस्य मिथ्यात्वम् अभावविषयस्योपपत्तेः । न च सौगतमते ऽभावे कश्चिद् विषयार्थ उपपद्यते जनकत्वाकारार्पकत्वव्यतिरेकात्। उदकाकारो हि प्रतीत्युत्कलितः । तदभावश् चाप्रातीतिक इहोपपाद्यते मुग्धबौद्धैः ।

athābhāvaṃ viṣayayati, na tarhy udakajñānarūpatābhāvagṛhītirūpatvāt / nāpi tasya mithyātvam abhāvaviṣayasyopapatteḥ / na ca saugatamate 'bhāve kaścid viṣayārthopapadyate janakatvākārārpakatvavyatirekāt. udakākāro hi pratītyutkalitaḥ / tadabhāvaś cāprātītikehopapādyate mugdhabauddhaiḥ / athābhāvaṃ viṣayayati, na tarhy udakajñānarūpatābhāvagṛhītirūpatvāt / nāpi tasya mithyātvam abhāvaviṣayasyopapatteḥ / na ca saugatamate 'bhāve kaścid viṣayārtha upapadyate janakatvākārārpakatvavyatirekāt. udakākāro hi pratītyutkalitaḥ / tadabhāvaś cāprātītika ihopapādyate mugdhabauddhaiḥ /

Sanskrit only: no published translation is held for this verse.

अथात्मविषयं, तथापि व्यभिचारिता नोपपद्यते, स्वांशस्यावञ्चनात् । न हि ज्ञानम् आत्मानं विसंवदति । नापि तद् उदकज्ञानत्वेन व्यपदेश्यं रागादिसंवेदनवत् । न हि नीलाभं संवेदनं रसविज्ञानात्मकत्वेन व्यपदिश्यमानं दृष्तम् । अथात्मविषयं, तथापि व्यभिचारिता नोपपद्यते, स्वांशस्यावञ्चनात् । न हि ज्ञानम् आत्मानं विसंवदति । नापि तद् उदकज्ञानत्वेन व्यपदेश्यं रागादिसंवेदनवत् । न हि नीलाभं संवेदनं रसविज्ञानात्मकत्वेन व्यपदिश्यमानं दृष्तम् ।

athātmaviṣayaṃ, tathāpi vyabhicāritā nopapadyate, svāṃśasyāvañcanāt / na hi jñānam ātmānaṃ visaṃvadati / nāpi tad udakajñānatvena vyapadeśyaṃ rāgādisaṃvedanavat / na hi nīlābhaṃ saṃvedanaṃ rasavijñānātmakatvena vyapadiśyamānaṃ dṛṣtam / athātmaviṣayaṃ, tathāpi vyabhicāritā nopapadyate, svāṃśasyāvañcanāt / na hi jñānam ātmānaṃ visaṃvadati / nāpi tad udakajñānatvena vyapadeśyaṃ rāgādisaṃvedanavat / na hi nīlābhaṃ saṃvedanaṃ rasavijñānātmakatvena vyapadiśyamānaṃ dṛṣtam /

Sanskrit only: no published translation is held for this verse.

अथ निर्विषयं, न तर्हि तद् उदकज्ञानम्, उदकज्ञानतया तु प्रतिभाति, तेन जानीम न निर्विषयम् । यदि च निर्विषयं, कथं तन् मिथ्याज्ञानम्? ज्ञानमात्रानुरोधेन न मिथ्याज्ञानं नापि सम्यग्ज्ञानम् । न च भवतां पक्षे ज्ञानं निरालम्बनम् अस्ति स्वांशपर्यवसितत्वात् । अथ निर्विषयं, न तर्हि तद् उदकज्ञानम्, उदकज्ञानतया तु प्रतिभाति, तेन जानीम न निर्विषयम् । यदि च निर्विषयं, कथं तन् मिथ्याज्ञानम्? ज्ञानमात्रानुरोधेन न मिथ्याज्ञानं नापि सम्यग्ज्ञानम् । न च भवतां पक्षे ज्ञानं निरालम्बनम् अस्ति स्वांशपर्यवसितत्वात् ।

atha nirviṣayaṃ, na tarhi tad udakajñānam, udakajñānatayā tu pratibhāti, tena jānīma na nirviṣayam / yadi ca nirviṣayaṃ, kathaṃ tan mithyājñānam? jñānamātrānurodhena na mithyājñānaṃ nāpi samyagjñānam / na ca bhavatāṃ pakṣe jñānaṃ nirālambanam asti svāṃśaparyavasitatvāt / atha nirviṣayaṃ, na tarhi tad udakajñānam, udakajñānatayā tu pratibhāti, tena jānīma na nirviṣayam / yadi ca nirviṣayaṃ, kathaṃ tan mithyājñānam? jñānamātrānurodhena na mithyājñānaṃ nāpi samyagjñānam / na ca bhavatāṃ pakṣe jñānaṃ nirālambanam asti svāṃśaparyavasitatvāt /

Sanskrit only: no published translation is held for this verse.

तद् यदि स्वसत्तानुरोधेन, तदा सर्वविज्ञानानां व्यभिचारिता प्राप्नोति ज्ञानरूपतायाः सर्वत्र भावात् । न किञ्चिद् विज्ञानम् अव्यभिचारि स्यात् । तद् यदि स्वसत्तानुरोधेन, तदा सर्वविज्ञानानां व्यभिचारिता प्राप्नोति ज्ञानरूपतायाः सर्वत्र भावात् । न किञ्चिद् विज्ञानम् अव्यभिचारि स्यात् ।

tad yadi svasattānurodhena, tadā sarvavijñānānāṃ vyabhicāritā prāpnoti jñānarūpatāyāḥ sarvatra bhāvāt / na kiñcid vijñānam avyabhicāri syāt / tad yadi svasattānurodhena, tadā sarvavijñānānāṃ vyabhicāritā prāpnoti jñānarūpatāyāḥ sarvatra bhāvāt / na kiñcid vijñānam avyabhicāri syāt /

Sanskrit only: no published translation is held for this verse.

अथ परसत्तानुरोधेन व्यभिचारितोच्यते, किम् अनुपकारकपरसत्तानुरोधेनाहोपकारकपरसत्तानुरोधेन? तद् यद्य् अनुपकारकपरसत्तानुरोधेन व्यभिचारिता, तदा सर्वसंवित्तीनां व्यभिचारिता प्राप्नोत्यनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन व्यभिचारिताभिधीयते, किं करणभूतपरोपकारकसत्तानुरोधेनाहो कर्मतापन्नोपकारकपरसत्तानुरोधेन? तद् यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां मिथ्यात्वम् आपद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मकारकोपकारकपरसत्तानुवेधेन मिथ्यात्वं, तद् अयुक्तं, न तस्य मिथ्यात्वं सत्योदकज्ञानस्येव कर्मकारकेणोपक्रियमाणत्वात् । अथ परसत्तानुरोधेन व्यभिचारितोच्यते, किम् अनुपकारकपरसत्तानुरोधेनाह उपकारकपरसत्तानुरोधेन? तद् यद्य् अनुपकारकपरसत्तानुरोधेन व्यभिचारिता, तदा सर्वसंवित्तीनां व्यभिचारिता प्राप्नोत्यनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन व्यभिचारिताभिधीयते, किं करणभूतपरोपकारकसत्तानुरोधेनाहो कर्मतापन्नोपकारकपरसत्तानुरोधेन? तद् यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां मिथ्यात्वम् आपद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मकारकोपकारकपरसत्तानुवेधेन मिथ्यात्वं, तद् अयुक्तं, न तस्य मिथ्यात्वं सत्योदकज्ञानस्येव कर्मकारकेणोपक्रियमाणत्वात् ।

atha parasattānurodhena vyabhicāritocyate, kim anupakārakaparasattānurodhenāhopakārakaparasattānurodhena? tad yady anupakārakaparasattānurodhena vyabhicāritā, tadā sarvasaṃvittīnāṃ vyabhicāritā prāpnotyanupakārakaparasattāviśeṣāt / athopakārakaparasattānurodhena vyabhicāritābhidhīyate, kiṃ karaṇabhūtaparopakārakasattānurodhenāho karmatāpannopakārakaparasattānurodhena? tad yadi karaṇabhūtaparopakārakasattānuvedhena, tadā sarvāsāṃ saṃvittīnāṃ mithyātvam āpadyate karaṇabhūtaparopakārakasattāviśeṣāt / atha karmakārakopakārakaparasattānuvedhena mithyātvaṃ, tad ayuktaṃ, na tasya mithyātvaṃ satyodakajñānasyeva karmakārakeṇopakriyamāṇatvāt / atha parasattānurodhena vyabhicāritocyate, kim anupakārakaparasattānurodhenāha upakārakaparasattānurodhena? tad yady anupakārakaparasattānurodhena vyabhicāritā, tadā sarvasaṃvittīnāṃ vyabhicāritā prāpnotyanupakārakaparasattāviśeṣāt / athopakārakaparasattānurodhena vyabhicāritābhidhīyate, kiṃ karaṇabhūtaparopakārakasattānurodhenāho karmatāpannopakārakaparasattānurodhena? tad yadi karaṇabhūtaparopakārakasattānuvedhena, tadā sarvāsāṃ saṃvittīnāṃ mithyātvam āpadyate karaṇabhūtaparopakārakasattāviśeṣāt / atha karmakārakopakārakaparasattānuvedhena mithyātvaṃ, tad ayuktaṃ, na tasya mithyātvaṃ satyodakajñānasyeva karmakārakeṇopakriyamāṇatvāt /

Sanskrit only: no published translation is held for this verse.

तद् यदि ज्ञानसत्तामात्रानुरोधेन सम्यक्त्वं, तदा सर्वसंवित्तीनां सम्यक्त्वं प्राप्नोति ज्ञानाकारस्योपपत्तेः । तद् यदि ज्ञानसत्तामात्रानुरोधेन सम्यक्त्वं, तदा सर्वसंवित्तीनां सम्यक्त्वं प्राप्नोति ज्ञानाकारस्योपपत्तेः ।

tad yadi jñānasattāmātrānurodhena samyaktvaṃ, tadā sarvasaṃvittīnāṃ samyaktvaṃ prāpnoti jñānākārasyopapatteḥ / tad yadi jñānasattāmātrānurodhena samyaktvaṃ, tadā sarvasaṃvittīnāṃ samyaktvaṃ prāpnoti jñānākārasyopapatteḥ /

Sanskrit only: no published translation is held for this verse.

अथ परसत्तानुरोधेन सम्यक्त्वं, तदा किम् अनुपकारकपरसत्तानुरोधेन किं वोपकारकपरसत्तानुरोधेन? तद् यद्य् अनुपकारकपरसत्तानुरोधेन सम्यक्त्वं, तदा सर्वासां संवित्तीनां सम्यक्त्वम् आपद्यते ऽनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन किं करणभूतपरोपकारकसत्तानुवेधेनाहो कर्मतापन्नोपकारकपरसत्तानुवेधेन? तद् यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां सम्यक्त्वम् आपद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मतापन्नोपकारकपरसत्तानुवेधेन सम्यक्त्वम् अभिधीयते, तदा रागादिसंवेदनस्य सम्यक्त्वं न प्राप्नोत्य्, अतीतानागतार्थविषयत्वे योगिज्ञानस्य च । अथ परसत्तानुरोधेन सम्यक्त्वं, तदा किम् अनुपकारकपरसत्तानुरोधेन किं वोपकारकपरसत्तानुरोधेन? तद् यद्य् अनुपकारकपरसत्तानुरोधेन सम्यक्त्वं, तदा सर्वासां संवित्तीनां सम्यक्त्वम् आपद्यते ऽनुपकारकपरसत्ताविशेषात् । अथोपकारकपरसत्तानुरोधेन किं करणभूतपरोपकारकसत्तानुवेधेनाहो कर्मतापन्नोपकारकपरसत्तानुवेधेन? तद् यदि करणभूतपरोपकारकसत्तानुवेधेन, तदा सर्वासां संवित्तीनां सम्यक्त्वम् आपद्यते करणभूतपरोपकारकसत्ताविशेषात् । अथ कर्मतापन्नोपकारकपरसत्तानुवेधेन सम्यक्त्वम् अभिधीयते, तदा रागादिसंवेदनस्य सम्यक्त्वं न प्राप्नोत्य्, अतीतानागतार्थविषयत्वे योगिज्ञानस्य च ।

atha parasattānurodhena samyaktvaṃ, tadā kim anupakārakaparasattānurodhena kiṃ vopakārakaparasattānurodhena? tad yady anupakārakaparasattānurodhena samyaktvaṃ, tadā sarvāsāṃ saṃvittīnāṃ samyaktvam āpadyate 'nupakārakaparasattāviśeṣāt / athopakārakaparasattānurodhena kiṃ karaṇabhūtaparopakārakasattānuvedhenāho karmatāpannopakārakaparasattānuvedhena? tad yadi karaṇabhūtaparopakārakasattānuvedhena, tadā sarvāsāṃ saṃvittīnāṃ samyaktvam āpadyate karaṇabhūtaparopakārakasattāviśeṣāt / atha karmatāpannopakārakaparasattānuvedhena samyaktvam abhidhīyate, tadā rāgādisaṃvedanasya samyaktvaṃ na prāpnoty, atītānāgatārthaviṣayatve yogijñānasya ca / atha parasattānurodhena samyaktvaṃ, tadā kim anupakārakaparasattānurodhena kiṃ vopakārakaparasattānurodhena? tad yady anupakārakaparasattānurodhena samyaktvaṃ, tadā sarvāsāṃ saṃvittīnāṃ samyaktvam āpadyate 'nupakārakaparasattāviśeṣāt / athopakārakaparasattānurodhena kiṃ karaṇabhūtaparopakārakasattānuvedhenāho karmatāpannopakārakaparasattānuvedhena? tad yadi karaṇabhūtaparopakārakasattānuvedhena, tadā sarvāsāṃ saṃvittīnāṃ samyaktvam āpadyate karaṇabhūtaparopakārakasattāviśeṣāt / atha karmatāpannopakārakaparasattānuvedhena samyaktvam abhidhīyate, tadā rāgādisaṃvedanasya samyaktvaṃ na prāpnoty, atītānāgatārthaviṣayatve yogijñānasya ca /

Sanskrit only: no published translation is held for this verse.

तद् यदि व्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तद् अपि व्यभिचारिभूतेन, प्राप्ता व्यभिचारिपरम्परा । सङ्ग्राह्यम् अव्यभिचारि न लभ्यते । तद् यदि व्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तद् अपि व्यभिचारिभूतेन, प्राप्ता व्यभिचारिपरम्परा । सङ्ग्राह्यम् अव्यभिचारि न लभ्यते ।

tad yadi vyabhicāribhūtenopādānajñānena janyate, tad api vyabhicāribhūtena, prāptā vyabhicāriparamparā / saṅgrāhyam avyabhicāri na labhyate / tad yadi vyabhicāribhūtenopādānajñānena janyate, tad api vyabhicāribhūtena, prāptā vyabhicāriparamparā / saṅgrāhyam avyabhicāri na labhyate /

Sanskrit only: no published translation is held for this verse.

अथाव्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तद् उपादानकारणम् अनुकुर्वद् वोपजायते ऽननुकुर्वद् वा । तद् यद्य् उपादानकारणानुकारेणोत्पाद्यते, तदा किम् आप्नोति? अव्यभिचारिस्वरूपानुकारेणोत्पाद्यते । कथम्? अव्यभिचारस्य ज्ञानतादात्म्येन व्यवस्थितेः । न चैकदेशानुकारित्वम् अस्त्य् उपादानकारणस्य निरवयवत्वात् । एवं सर्वं विज्ञानम् अव्यभिचारि प्रसक्तम्, अपोह्यज्ञानानुपपत्तिः । न च व्यभिचाराव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ स्तः । यथा रसाकारो रूपाकारो वा ज्ञानाकाराद् भिन्नो, न तथा व्यभिचाराव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ । ततश् च व्यभिचाराकारो ऽत्र निराक्रियते किम् उक्तं भवति? ज्ञानाकारो ऽत्र निराक्रियते । ततश् चाज्ञानात्मकं प्रत्यक्षं प्रसक्तं सौगतानाम् । अथाव्यभिचारिभूतेनोपादानज्ञानेन जन्यते, तद् उपादानकारणम् अनुकुर्वद् वोपजायते ऽननुकुर्वद् वा । तद् यद्य् उपादानकारणानुकारेणोत्पाद्यते, तदा किम् आप्नोति? अव्यभिचारिस्वरूपानुकारेणोत्पाद्यते । कथम्? अव्यभिचारस्य ज्ञानतादात्म्येन व्यवस्थितेः । न चैकदेशानुकारित्वम् अस्त्य् उपादानकारणस्य निरवयवत्वात् । एवं सर्वं विज्ञानम् अव्यभिचारि प्रसक्तम्, अपोह्यज्ञानानुपपत्तिः । न च व्यभिचाराव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ स्तः । यथा रसाकारो रूपाकारो वा ज्ञानाकाराद् भिन्नो, न तथा व्यभिचाराव्यभिचारौ ज्ञानाद् व्यतिरिक्तौ । ततश् च व्यभिचाराकारो ऽत्र निराक्रियते किम् उक्तं भवति? ज्ञानाकारो ऽत्र निराक्रियते । ततश् चाज्ञानात्मकं प्रत्यक्षं प्रसक्तं सौगतानाम् ।

athāvyabhicāribhūtenopādānajñānena janyate, tad upādānakāraṇam anukurvad vopajāyate 'nanukurvad vā / tad yady upādānakāraṇānukāreṇotpādyate, tadā kim āpnoti? avyabhicārisvarūpānukāreṇotpādyate / katham? avyabhicārasya jñānatādātmyena vyavasthiteḥ / na caikadeśānukāritvam asty upādānakāraṇasya niravayavatvāt / evaṃ sarvaṃ vijñānam avyabhicāri prasaktam, apohyajñānānupapattiḥ / na ca vyabhicārāvyabhicārau jñānād vyatiriktau staḥ / yathā rasākāro rūpākāro vā jñānākārād bhinno, na tathā vyabhicārāvyabhicārau jñānād vyatiriktau / tataś ca vyabhicārākāro 'tra nirākriyate kim uktaṃ bhavati? jñānākāro 'tra nirākriyate / tataś cājñānātmakaṃ pratyakṣaṃ prasaktaṃ saugatānām / athāvyabhicāribhūtenopādānajñānena janyate, tad upādānakāraṇam anukurvad vopajāyate 'nanukurvad vā / tad yady upādānakāraṇānukāreṇotpādyate, tadā kim āpnoti? avyabhicārisvarūpānukāreṇotpādyate / katham? avyabhicārasya jñānatādātmyena vyavasthiteḥ / na caikadeśānukāritvam asty upādānakāraṇasya niravayavatvāt / evaṃ sarvaṃ vijñānam avyabhicāri prasaktam, apohyajñānānupapattiḥ / na ca vyabhicārāvyabhicārau jñānād vyatiriktau staḥ / yathā rasākāro rūpākāro vā jñānākārād bhinno, na tathā vyabhicārāvyabhicārau jñānād vyatiriktau / tataś ca vyabhicārākāro 'tra nirākriyate kim uktaṃ bhavati? jñānākāro 'tra nirākriyate / tataś cājñānātmakaṃ pratyakṣaṃ prasaktaṃ saugatānām /

Sanskrit only: no published translation is held for this verse.