उत्तरतो ऽग्नेर् दर्भेषु प्राचीं कन्याम् अवस्थाप्य पुरस्तात् प्रत्यङ्मुख उपयन्ता देवस्य ते सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्य् अहम् असाव् इत्य् अथास्या उपनयनवद्धस्तं गृह्णाति नीचारिक्तम् अरिक्तेन । गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर् यथासत् । भगो ऽर्यमा सविता पुरंधिर् मह्यं त्वादुर्गाहर्पत्याय देवाः । ऊर्ध्वा वाक् समभवत् पुरा देवासुरेभ्यः । यां त्वा विश्वस्य भूतस्य प्राग् आयाम्य् अस्या अग्रतः । सरस्वति प्रेदम् अव सुभगे वाजिनीवति । येन भूतं समभवद् येन विश्वमिदं जगत् तामद्य गाथां गास्यामो या स्त्रीणाम् उत्तमं मनः । सा त्वम् अस्य् अमो ऽहम् अमो ऽहमस्मि सा त्वम् । द्यौर् अहं पृथिवी त्वं बृहद् अहं रथंतरं त्वम् । रेतो ऽहम् अस्मि रेतोधृक् त्वम् । सामाहम् अस्मि ऋक्त्वं मनो ऽहमस्मि वाक्त्वम् । सा माम् अनुव्रता भव सा माम् अनुप्रजायस्व । प्रजां सृजावहा उभौ पुंसे पुत्राय कर्तवे । श्रियै पुत्राय वेथवेह सूनृते । इति
uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena / gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat / bhago 'ryamā savitā puraṃdhir mahyaṃ tvādurgāharpatyāya devāḥ / ūrdhvā vāk samabhavat purā devāsurebhyaḥ / yāṃ tvā viśvasya bhūtasya prāg āyāmy asyā agrataḥ / sarasvati predam ava subhage vājinīvati / yena bhūtaṃ samabhavad yena viśvamidaṃ jagat tāmadya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ / sā tvam asy amo 'ham amo 'hamasmi sā tvam / dyaur ahaṃ pṛthivī tvaṃ bṛhad ahaṃ rathaṃtaraṃ tvam / reto 'ham asmi retodhṛk tvam / sāmāham asmi ṛktvaṃ mano 'hamasmi vāktvam / sā mām anuvratā bhava sā mām anuprajāyasva / prajāṃ sṛjāvahā ubhau puṃse putrāya kartave / śriyai putrāya vethaveha sūnṛte / iti
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.