इदमो दस्य यः इयम् । त्यदाद्यत्वम् । पररूपत्वम् । टाप् । दश्चेति मः । इमे । इमाः । इमाम् । अनया । हलि लोपः । आभ्याम् । आभिः । अस्यै । अस्याः । अनयोः । आसाम् । अस्याम् । आसु ॥ त्यदाद्यत्वम् । टाप् । स्या । त्ये । त्याः ॥ एवं तद्, एतद् ॥ वाक्, वाग् । वाचौ । वाग्भ्याम् । वाक्षु ॥ अप्शब्दो नित्यं बहुवचनान्तः । अप्तृन्निति दीर्घः । आपः । अपः ॥ अपो भि
idamo dasya yaḥ iyam / tyadādyatvam / pararūpatvam / ṭāp / daśceti maḥ / ime / imāḥ / imām / anayā / hali lopaḥ / ābhyām / ābhiḥ / asyai / asyāḥ / anayoḥ / āsām / asyām / āsu // tyadādyatvam / ṭāp / syā / tye / tyāḥ // evaṃ tad, etad // vāk, vāg / vācau / vāgbhyām / vākṣu // apśabdo nityaṃ bahuvacanāntaḥ / aptṛnniti dīrghaḥ / āpaḥ / apaḥ // apo bhi
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.