अपस्तकारो भादौ प्रत्यये । अद्भिः । अद्भ्यः । अद्भ्यः । अपाम् । अप्सु ॥ दिक्, दिश् । दिशौ । दिशः । दिग्भ्याम् ॥ त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम् । दृक्, दृग् । दृशौ । दृग्भ्याम् ॥ त्विट्, त्विड् । त्विषौ । त्विड्भ्याम् ॥ ससजुषो रुरिति रुत्वम् । सजूः । सजुषौ । सजूर्भ्याम् ॥ आशीः । आशिषौ । आशीर्भ्याम् ॥ असौ । उत्वमत्वे । अमू । अमूः । अमुया । अमूभ्याम् ३ । अमूभिः । अमुष्यै । अमूभ्यः २ । अमुष्याः । अमुयोः २ । अमूषाम् । अमुष्याम् । अमूषु ॥ इति हलन्तस्त्रीलिङ्गाः । अथ हलन्तनपुंसकलिङ्गाः स्वमोर्लुक् । दत्वम् । स्वनडुत्, स्वनडुद् । स्वनडुही । चतुरनडुहोरित्याम् । स्वनड्वांहि । पुनस्तद्वत् । शेषं पुंवत् ॥ वाः । वारी । वारि । वार्भ्याम् ॥ चत्वारि ॥ किम् । के । कानि ॥ इदम् । इमे । इमानि ॥ (अन्वादेशे नपुंसके वा एनद्वक्तव्यः) । एनत् । एने । एनानि । एनेन । एनयोः ॥ अहः । विभाषा ङिश्योः । अह्नी, अहनी । अहानि ॥ अहन्
apastakāro bhādau pratyaye / adbhiḥ / adbhyaḥ / adbhyaḥ / apām / apsu // dik, diś / diśau / diśaḥ / digbhyām // tyadādiṣviti dṛśeḥ kvinvidhānādanyatrāpi kutvam / dṛk, dṛg / dṛśau / dṛgbhyām // tviṭ, tviḍ / tviṣau / tviḍbhyām // sasajuṣo ruriti rutvam / sajūḥ / sajuṣau / sajūrbhyām // āśīḥ / āśiṣau / āśīrbhyām // asau / utvamatve / amū / amūḥ / amuyā / amūbhyām 3 / amūbhiḥ / amuṣyai / amūbhyaḥ 2 / amuṣyāḥ / amuyoḥ 2 / amūṣām / amuṣyām / amūṣu // iti halantastrīliṅgāḥ / atha halantanapuṃsakaliṅgāḥ svamorluk / datvam / svanaḍut, svanaḍud / svanaḍuhī / caturanaḍuhorityām / svanaḍvāṃhi / punastadvat / śeṣaṃ puṃvat // vāḥ / vārī / vāri / vārbhyām // catvāri // kim / ke / kāni // idam / ime / imāni // (anvādeśe napuṃsake vā enadvaktavyaḥ) / enat / ene / enāni / enena / enayoḥ // ahaḥ / vibhāṣā ṅiśyoḥ / ahnī, ahanī / ahāni // ahan
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.