क्रोष्टोश् च यदुपुत्रस्यात्मजो वृजिनीवान् । ततश् च स्वाहिस् ततो रुषङ्कुः । रुषङ्कोश् चित्ररथः । तत्तनयः शशबिन्दुश् चतुर्दशमहारत्नश् चक्रवर्त्य् अभवत् । तस्य च शतसहस्रं पत्नीनाम् अभवत् । दशलक्षसंख्याश् च पुत्राः
kroṣṭoś ca yaduputrasyātmajo vṛjinīvān | tataś ca svāhis tato ruṣaṅkuḥ | ruṣaṅkoś citrarathaḥ | tattanayaḥ śaśabinduś caturdaśamahāratnaś cakravarty abhavat | tasya ca śatasahasraṃ patnīnām abhavat | daśalakṣasaṃkhyāś ca putrāḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.