तुर्वसोर् वह्निर् आत्मजो वह्नेर् गोभानुस् ततश् च त्रैशानुस् तस्माच् च करंधमः । तस्यापि मरुत्तः । सो ऽनपत्यो ऽभवत् । ततश् च पौरवं दुष्यन्तं पुत्रम् अकल्पयत् । एवं ययातिशापात् तद्वंशः पौरवम् वंशं समाश्रितवान्
turvasor vahnir ātmajo vahner gobhānus tataś ca traiśānus tasmāc ca karaṃdhamaḥ | tasyāpi maruttaḥ | so 'napatyo 'bhavat | tataś ca pauravaṃ duṣyantaṃ putram akalpayat | evaṃ yayātiśāpāt tadvaṃśaḥ pauravam vaṃśaṃ samāśritavān
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.