तत्र दोषसामान्यलक्षणम्--- दोषः काव्यापकर्षस्य हेतुः शब्दार्थगोचरः । शब्दार्थमयत्वात् काव्यस्य तदपकर्षहेतूनामपि दोषाणां शब्दगतत्वेनार्थगतत्वेन च द्वैविध्यम् । शब्दगतानामपि पदवाक्यगतत्वेन च द्वैविध्यम् । इपदगतदोषः] तत्र पदगतदोषाः कथ्यन्ते । अप्रयुक्तमपुष्टार्थमसमर्थं निरर्थकम् । नेयार्थं च्युतसंस्कारं संदिग्धं चाप्रयोजकम्
tatra doṣasāmānyalakṣaṇam--- doṣaḥ kāvyāpakarṣasya hetuḥ śabdārthagocaraḥ / śabdārthamayatvāt kāvyasya tadapakarṣahetūnāmapi doṣāṇāṃ śabdagatatvenārthagatatvena ca dvaividhyam / śabdagatānāmapi padavākyagatatvena ca dvaividhyam / ipadagatadoṣaḥ] tatra padagatadoṣāḥ kathyante / aprayuktamapuṣṭārthamasamarthaṃ nirarthakam / neyārthaṃ cyutasaṃskāraṃ saṃdigdhaṃ cāprayojakam
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.