अत्रोत्प्रेक्षानिमित्तस्य भानुमत्प्रवेशस्यानुपादाने जयश्रीवासकमलविकासायेवेति फलोत्प्रेक्षणमसमीचीनम् । अतः स्वरूपोत्प्रेक्षायामेव निमित्तस्योपादानानुपादानाभ्यां द्वैविध्यम् । अतश्चेत्थं वाच्योत्प्रेक्षाया भेदगणना । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा । १ । उपात्तगुणनिमित्तजात्यभावस्वरूपोत्प्रेक्षा । २ । उपात्तक्रियानिमित्तिजातिभावस्वरूपोत्प्रेक्षा । ३ । उपात्तक्रियानिमित्तजात्यभावस्वरूपोत्प्रेक्षा । ४ । अनुपात्तनिमित्तिजातिभावस्वरूपोत्प्रेक्षा । ५ । अनुपात्तनिमित्तिजात्यभावस्वरूपोत्प्रेक्षा । ६ । उपात्तगुणनिमित्तजातिभावहेतूत्प्रेक्षा । ७ । उपात्तगुणनिमित्तजात्यभावहेतूत्प्रेक्षा । ८ । उपात्तक्रियानिमित्तजातिभावहेतूत्प्रेक्षा । ९ । उपात्तक्रियानिमित्तजात्यभावहेतूत्प्रेक्षा । १० । उपात्तगुणनिमित्तजातिभावफलोत्प्रेक्षा । ११ । उपात्तगुणनिमित्तजात्यभावफलोत्प्रेक्षा । १२ । उपात्तक्रियानिमित्तजात्यभावफलोत्प्रेक्षा । १३ । एवं चतुर्दशभेदा जात्युत्प्रेक्षा । अनेनैव क्रमेण गुणक्रियाद्रव्योत्प्रेक्षापि परिगणनीया । एवं च वाच्योत्प्रेक्षायाः षट्पञ्चाशद् भेदाः । प्रतीयमानोत्प्रेक्षायस्त्वष्टाचत्वारिंशद् भेदाः । अत्र स्वरूपोत्प्रेक्षायामपि निमित्तोपादाननियमात् निमित्तस्य गम्यत्वे गुणरूपत्वेन क्रियारूपत्वेन च चारुत्वविशेषाभावादेक एव भेदो गण्यते । गुणक्रिययोरुत्प्रेक्षाविषयत्वमुत्प्रेक्षानिमित्तत्वं चाभ्युपगतम् । प्राचामलङ्कारप्रबन्धेषु षण्णवतिभेदोत्प्रेक्षेति गणनामात्रम् । चारुत्वातिशयस्तु षट्पञ्चाशत् एव भेदानाम् । तत्र यथासंभवमुदाहरणानि । उपात्तगुणनिमित्तजातिभावस्वरूपोत्प्रेक्षा यथा--- कीर्त्तिः काकतिवीररुद्रनृपतेः सिंहासनाध्यासिनः प्राचां भूमिभुजां यशः पिदधती कोटीन्दुतुल्यद्युतिः । रक्षादक्षिणराजलाभजनितामन्दप्रमोदोत्थिता त्रैलोक्याट्टहसप्रभेव ककुभां प्रान्तेषु विद्योतते
atrotprekṣānimittasya bhānumatpraveśasyānupādāne jayaśrīvāsakamalavikāsāyeveti phalotprekṣaṇamasamīcīnam / ataḥ svarūpotprekṣāyāmeva nimittasyopādānānupādānābhyāṃ dvaividhyam / ataścetthaṃ vācyotprekṣāyā bhedagaṇanā / upāttaguṇanimittajātibhāvasvarūpotprekṣā / 1 / upāttaguṇanimittajātyabhāvasvarūpotprekṣā / 2 / upāttakriyānimittijātibhāvasvarūpotprekṣā / 3 / upāttakriyānimittajātyabhāvasvarūpotprekṣā / 4 / anupāttanimittijātibhāvasvarūpotprekṣā / 5 / anupāttanimittijātyabhāvasvarūpotprekṣā / 6 / upāttaguṇanimittajātibhāvahetūtprekṣā / 7 / upāttaguṇanimittajātyabhāvahetūtprekṣā / 8 / upāttakriyānimittajātibhāvahetūtprekṣā / 9 / upāttakriyānimittajātyabhāvahetūtprekṣā / 10 / upāttaguṇanimittajātibhāvaphalotprekṣā / 11 / upāttaguṇanimittajātyabhāvaphalotprekṣā / 12 / upāttakriyānimittajātyabhāvaphalotprekṣā / 13 / evaṃ caturdaśabhedā jātyutprekṣā / anenaiva krameṇa guṇakriyādravyotprekṣāpi parigaṇanīyā / evaṃ ca vācyotprekṣāyāḥ ṣaṭpañcāśad bhedāḥ / pratīyamānotprekṣāyastvaṣṭācatvāriṃśad bhedāḥ / atra svarūpotprekṣāyāmapi nimittopādānaniyamāt nimittasya gamyatve guṇarūpatvena kriyārūpatvena ca cārutvaviśeṣābhāvādeka eva bhedo gaṇyate / guṇakriyayorutprekṣāviṣayatvamutprekṣānimittatvaṃ cābhyupagatam / prācāmalaṅkāraprabandheṣu ṣaṇṇavatibhedotprekṣeti gaṇanāmātram / cārutvātiśayastu ṣaṭpañcāśat eva bhedānām / tatra yathāsaṃbhavamudāharaṇāni / upāttaguṇanimittajātibhāvasvarūpotprekṣā yathā--- kīrttiḥ kākativīrarudranṛpateḥ siṃhāsanādhyāsinaḥ prācāṃ bhūmibhujāṃ yaśaḥ pidadhatī koṭīndutulyadyutiḥ / rakṣādakṣiṇarājalābhajanitāmandapramodotthitā trailokyāṭṭahasaprabheva kakubhāṃ prānteṣu vidyotate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.