औचित्यावहमित्यादि । "वस्तु दीपकं" वस्तु सिद्धरूपमलङ्करणं । भवतीति संबन्धः, क्रियान्तराश्रवणात् । तदेवं सर्वस्य कस्यचिद्वस्तुनः सद्भावात्तदापत्तिरित्याह---"दीपयत्" प्रकाशयदलङ्करणं संपद्यते । किं कस्येत्यभिधत्ते---"धर्मं" = परिस्पन्दविशेषम्, "अर्थानां" = वर्णनीयानाम् । कीदृशं---"अशक्तम्" = अप्रकटम्, तेनैव प्रकाशमानत्वात् । किंस्वरूपं च---"औचित्यावहं" = औचित्यमौदार्यमावहतियः तं तथोक्तम् । अन्यच्च किंविधम्---"अम्लानं" = प्रत्यग्रमनालीढमिति यावत् । एवंविधस्वरूपत्वात् "तद्विदाह्लादकारणं" = काव्यविदानन्दनिमित्तम् । अस्यैव प्रकारान्तरान् निरूपयति--- एकं प्रकाशकं, सन्ति भूयांसि भूयसां क्वचित् । केवलं पङ्क्तिसंस्थं वा द्विविधं परिदृश्यते
aucityāvahamityādi / "vastu dīpakaṃ" vastu siddharūpamalaṅkaraṇaṃ / bhavatīti saṃbandhaḥ, kriyāntarāśravaṇāt / tadevaṃ sarvasya kasyacidvastunaḥ sadbhāvāttadāpattirityāha---"dīpayat" prakāśayadalaṅkaraṇaṃ saṃpadyate / kiṃ kasyetyabhidhatte---"dharmaṃ" = parispandaviśeṣam, "arthānāṃ" = varṇanīyānām / kīdṛśaṃ---"aśaktam" = aprakaṭam, tenaiva prakāśamānatvāt / kiṃsvarūpaṃ ca---"aucityāvahaṃ" = aucityamaudāryamāvahatiyaḥ taṃ tathoktam / anyacca kiṃvidham---"amlānaṃ" = pratyagramanālīḍhamiti yāvat / evaṃvidhasvarūpatvāt "tadvidāhlādakāraṇaṃ" = kāvyavidānandanimittam / asyaiva prakārāntarān nirūpayati--- ekaṃ prakāśakaṃ, santi bhūyāṃsi bhūyasāṃ kvacit / kevalaṃ paṅktisaṃsthaṃ vā dvividhaṃ paridṛśyate
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.