0/14 readHide transliteration
शान्ता द्यौः शान्ता पृथिवी शान्तम् इदम् उर्व् अन्तरिक्षम् । शान्ता उदन्वतीर् आपः शान्ता नः सन्त्व् ओषधीः ॥१॥
śāntā dyauḥ śāntā pṛthivī śāntam idam urv antarikṣam | śāntā udanvatīr āpaḥ śāntā naḥ santv oṣadhīḥ ||1||
Appeased (çāntá) be heaven (dyú), appeased be earth, appeased be this wide atmosphere, appeased the waters rich in moisture (udanvánt), appeased be the herbs for us.
Translated by William Dwight Whitney (1905)
← PreviousMark as learned Next →
In this sitting
19.9.1 शान्ता द्यौः शान्ता पृथिवी शान्तम् इदम् उर्व् अन्तरिक्षम् । शान्ता उदन्वतीर् आपः शान्ता नः सन्त्व् ओषधीः ॥१॥ 19.9.2 शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । शान्तं भूतं च भव्यं च सर्वम् एव शम् अस्तु नः ॥२॥ 19.9.3 इयं या परमेष्ठिनी वाग् देवी ब्रह्मसंशिता । ययैव ससृजे घोरं तयैव शान्तिर् अस्तु नः ॥३॥ 19.9.4 इदं यत् परमेष्ठिनं मनो वां ब्रह्मसंशितम् । येनैव ससृजे घोरं तेनैव शान्तिर् अस्तु नः ॥४॥ 19.9.5 इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि । यैर् एव ससृजे घोरं तैर् एव शान्तिर् अस्तु नः ॥५॥ 19.9.6 शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः । शं न इन्द्रो बृहस्पतिः शं नो भवत्व् अर्यमा ॥६॥ 19.9.7 शं नो मित्रः शं वरुणः शं विवस्वां छम् अन्तकः । उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥ 19.9.8 शं नो भूमिर् वेप्यमाना शम् उल्का निर्हतं च यत् । शं गावो लोहितक्षीराः शं भूमिर् अव तीर्यतीः ॥८॥ 19.9.9 नक्षत्रम् उल्काभिहतं शम् अस्तु नः शं नो ऽभिचाराः शम् उ सन्तु कृत्याः । शं नो निखाता वल्गाः शम् उल्का देशोपसर्गाः शम् उ नो भवन्तु ॥९॥ 19.9.10 शं नो ग्रहाश् चान्द्रमसाः शम् आदित्यश् च राहुणा । शं नो मृत्युर् धूमकेतुः शं रुद्रास् तिग्मतेजसः ॥१०॥ 19.9.11 शं रुद्राः शं वसवः शम् आदित्याः शम् अग्नयः । शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥ 19.9.12 ब्रह्म प्रजापतिर् धाता लोका वेदाः सप्तऋषयो ऽग्नयः । तैर् मे कृतं स्वस्त्ययनम् इन्द्रो मे शर्म यछतु ब्रह्मा मे शर्म यछतु । विश्वे मे देवाः शर्म यछन्तु सर्वे मे देवाः शर्म यछन्तु ॥१२॥ 19.9.13 यानि कानि चिच् छान्तानि लोके सप्तऋषयो विदुः । सर्वाणि शं भवन्तु मे शं मे अस्त्व् अभयं मे अस्तु ॥१३॥ 19.9.14 पृथिवी शान्तिर् अन्तरिक्षं शान्तिर् द्यौः शान्तिर् आपः शान्तिर् ओषधयः शान्तिर् वनस्पतयः शान्तिर् विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः । यद् इह घोरं यद् इह क्रूरं यद् इह पापं तच् छान्तं तच् छिवं सर्वम् एव शम् अस्तु नः ॥१४॥ Which verse says this?
Appeased (çāntá) be heaven (dyú), appeased be earth, appeased be this wide atmosphere, appeased the waters rich in moisture (udanvánt), appeased be the herbs for us.
Translated by William Dwight Whitney (1905)
शान्ता द्यौः शान्ता पृथिवी शान्तम् इदम् उर्व् अन्तरिक्षम् । शान्ता उदन्वतीर् आपः शान्ता नः सन्त्व् ओषधीः ॥१॥ शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् । शान्तं भूतं च भव्यं च सर्वम् एव शम् अस्तु नः ॥२॥ इयं या परमेष्ठिनी वाग् देवी ब्रह्मसंशिता । ययैव ससृजे घोरं तयैव शान्तिर् अस्तु नः ॥३॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.