0/17 readHide transliteration
आत्मैवेदम् अग्र आसीत् पुरुषविधः । सो ऽनुवीक्ष्य नान्यद् आत्मनो ऽपश्यत् । सो ऽहम् अस्मीत्य् अग्रे व्याहरत् । ततो ऽहंनामाभवत् । तस्माद् अप्य् एतर्ह्य् आमन्त्रितो ऽहम् अयम् इत्य् एवाग्र उक्त्वाथान्यन् नाम प्रब्रूते यद् अस्य भवति । स यत् पूर्वो ऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुषः । ओषति ह वै स तं यो ऽस्मात् पूर्वो बुभूषति य एवं वेद
ātmaivedam agra āsīt puruṣavidhaḥ | so 'nuvīkṣya nānyad ātmano 'paśyat | so 'ham asmīty agre vyāharat | tato 'haṃnāmābhavat | tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati | sa yat pūrvo 'smāt sarvasmāt sarvān pāpmana auṣat tasmāt puruṣaḥ | oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda
In the beginning this was Self alone, in the shape of a person (purusha). He looking round saw nothing but his Self. He first said, ‘This is I;’ therefore he became I by name. Therefore even now, if a man is asked, he first says, ‘ This is / and then pronounces the other name which he may have. And because before (pftrva) all this, he (the Self) burnt down (ush) all evils, therefore he was a person (pur-usha). Verily he who knows this, burns down every one who tries to be before him.
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
1.4.1 आत्मैवेदम् अग्र आसीत् पुरुषविधः । सो ऽनुवीक्ष्य नान्यद् आत्मनो ऽपश्यत् । सो ऽहम् अस्मीत्य् अग्रे व्याहरत् । ततो ऽहंनामाभवत् । तस्माद् अप्य् एतर्ह्य् आमन्त्रितो ऽहम् अयम् इत्य् एवाग्र उक्त्वाथान्यन् नाम प्रब्रूते यद् अस्य भवति । स यत् पूर्वो ऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुषः । ओषति ह वै स तं यो ऽस्मात् पूर्वो बुभूषति य एवं वेद 1.4.2 सो ऽबिभेत् तस्माद् एकाकी बिभेति । स हायम् ईक्षां चक्रे, यन् मद् अन्यन् नास्ति कस्मान् नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद् ध्य् अभेष्यत् । द्वितीयाद् वै भयं भवति 1.4.3 स वै नैव रेमे । तस्माद् एकाकी न रमते । स द्वितीयम् ऐच्छत् । स हैतावान् आस यथा स्त्रीपुमांसौ सम्परिष्वक्तौ । स इमम् एवात्मानं द्वेधापातयत् । ततः पतिश् च पत्नी चाभवताम् । तस्माद् इदम् अर्धबृगलम् इव स्व इति ह स्माह याज्ञवल्क्यः । तस्माद् अयम् आकाशः स्त्रिया पूर्यत एव । तां समभवत् । ततो मनुष्या अजायन्त 1.4.4 सो हेयम् ईक्षां चक्रे -- कथं नु मात्मन एव जनयित्वा सम्भवति । हन्त तिरो ऽसानीति । सा गौर् अभवद् वृषभ इतरः । तां सम् एवाभवत् । ततो गावो ऽजायन्त । वडवेतराभवद् अश्ववृष इतरः । गर्दभीतरा गर्दभ इतरः । तां सम् एवाभवत् । तत एकशफम् अजायत । अजेतराभवद् बस्त इतरः । अविर् इतरा मेष इतरः । तां सम् एवाभवत् । ततो ऽजावयो ऽजायन्त । एवम् एव यद् इदं किञ्च मिथुनम् आ पिपीलिकाभ्यस् तत् सर्वम् असृजत 1.4.5 सो ऽवेद् अहं वाव सृष्टिर् अस्म्य् अहं हीदं सर्वम् असृक्षीति । ततः सृष्टिर् अभवत् । सृष्ट्यां हास्यैतस्यां भवति य एवं वेद 1.4.6 अथेत्य् अभ्यमन्थत् । स मुखाच् च योनेर् हस्ताभ्यां चाग्निम् असृजत । तस्माद् एतद् उभयम् अलोमकम् अन्तरतः । अलोमका हि योनिर् अन्तरतः । तद् यद् इदम् आहुर् अमुं यजामुं यजेत्य् एकैकं देवम् एतस्यैव सा विसृष्टिः । एष उ ह्य् एव सर्वे देवाः । अथ यत् किञ्चेदम् आर्द्रं तद् रेतसो ऽसृजत । तद् उ सोम । एतावद् वा इदं सर्वम् अन्नं चैवान्नादश् च । सोम एवान्नम् अग्निर् अन्नादः । सैषा ब्रह्मणो ऽतिसृष्टिः । यच् छ्रेयसो देवान् असृजताथ यन् मर्त्यः सन्न् अमृतान् असृजत तस्माद् अतिसृष्टिर् । अतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद 1.4.7 तद् धेदं तर्ह्य् अव्याकृतम् आसीत् । तन् नामरूपाभ्याम् एव व्याक्रियतासौ नामायम् इदंरूप इति । तद् इदम् अप्य् एतर्हि नामरूपाभ्याम् एव व्याक्रियत असौ नामायम् इदंरूप इति । स एष इह प्रविष्ट आ नखाग्रेभ्यो यथा क्षुरः क्षुरधाने ऽवहितः स्याद् विश्वम्भरो वा विश्वम्भरकुलाये । तं न पश्यन्ति । अकृत्स्नो हि सः प्राणन्न् एव प्राणो नाम भवति । वदन् वाक् पश्यंश् चक्षुः शृण्वञ् छ्रोत्रं मन्वानो मनः । तान्य् अस्यैतानि कर्मनामान्य् एव । स यो ऽत एकैकम् उपास्ते न स वेद । अकृत्स्नो ह्य् एषो ऽत एकैकेन भवति । आत्मेत्य् एवोपासीत । अत्र ह्य् एते सर्व एकं भवन्ति । तद् एतत् पदनीयम् अस्य सर्वस्य यद् अयम् आत्मा । अनेन ह्य् एतत् सर्वं वेद । यथा ह वै पदेनानुविन्देद् एवं कीर्तिं श्लोकं विन्दते य एवं वेद 1.4.8 तद् एतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयो ऽन्यस्मात् सर्वस्माद् अन्तरतरं यद् अयम् आत्मा । स यो ऽन्यम् आत्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यात् । आत्मानम् एव प्रियम् उपासीत । स य आत्मानम् एव प्रियम् उपास्ते न हास्य प्रियं प्रमायुकं भवति 1.4.9 तद् आहुर् यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते । किम् उ तद् ब्रह्मावेद् यस्मात् तत् सर्वम् अभवद् इति 1.4.10 ब्रह्म वा इदम् अग्र आसीत् । तद् आत्मानम् एवावेत् । अहं ब्रह्मास्मीति । तस्मात् तत् सर्वम् अभवत् । तद् यो यो देवानां प्रत्यबुध्यत स एव तद् अभवत् । तथर्षीनाम् । तथा मनुष्याणाम् । तद् धैतत् पश्यन्न् ऋषिर् वामदेवः प्रतिपेदे ऽहं मनुर् अभवं सूर्यश् चेति । तद् इदम् अप्य् एतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति । तस्य ह न देवाश् चनाभूत्या ईशते । आत्मा ह्य् एषां स भवति । अथ यो ऽन्यां देवताम् उपास्ते ऽन्यो ऽसाव् अन्यो ऽहम् अस्मीति न स वेद । यथा पशुर् एवं स देवानाम् । यथा ह वै बहवः पशवो मनुष्यं भुञ्ज्युर् एवम् एकैकः पुरुषो देवान् भुनक्ति । एकस्मिन्न् एव पशाव् आदीयमाने ऽप्रियं भवति किम् उ बहुषु । तस्माद् एषां तन् न प्रियं यद् एतन् मनुष्या विद्युः 1.4.11 ब्रह्म वा इदम् अग्र आसीद् एकम् एव । तद् एकं सन् न व्यभवत् । तच् छ्रेयो रूपम् अत्यसृजत क्षत्रं, यान्य् एतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युर् ईशान इति । तस्मात् क्षत्रात् परं नास्ति । तस्माद् ब्राह्मणः क्षत्रियं अधस्ताद् उपास्ते राजसूये । क्षत्र एव तद् यशो दधाति । सैषा क्षत्रस्य योनिर् यद् ब्रह्म । तस्माद् यद्य् अपि राजा परमतां गच्छति ब्रह्मैवान्तत उपनिश्रयति स्वां योनिम् । य उ एनं हिनस्ति स्वां स योनिम् ऋच्छति । स पापीयान् भवति यथा श्रेयांसं हिंसित्वा 1.4.12 स नैव व्यभवत् । स विशम् असृजत । यान्य् एतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वे देवा मरुत इति 1.4.13 स नैव व्यभवत् । स शौद्रं वर्णम् असृजत पूषणम् । इयं वै पूषा । इयं हीदं सर्वं पुष्यति यद् इदं किञ्च 1.4.14 स नैव व्यभवत् । तच् छ्रेयो रूपम् अत्यसृजत धर्मम् । तद् एतत् क्षत्रस्य क्षत्रं यद् धर्मः । तस्माद् धर्मात् परं नास्ति । अथो अबलीयान् बलीयांसम् आशंसते धर्मेण । यथा राज्ञैवम् । यो वै स धर्मः सत्यं वै तत् । तस्मात् सत्यं वदन्तम् आहुर् धर्मं वदतीति । धर्मं वा वदन्तं सत्यं वदतीति । एतद् ध्य् एवैतद् उभयं भवति 1.4.15 तद् एतद् ब्रह्म क्षत्रं विट् शूद्रः । तद् अग्निनैव देवेषु ब्रह्माभवद् ब्राह्मणो मनुष्येषु, क्षत्रियेण क्षत्रियः, वैश्येन वैश्यः, शूद्रेण शूद्रः । तस्माद् अग्नाव् एव देवेषु लोकम् इच्छन्ते ब्राह्मणे मनुष्येषु । एताभ्यां हि रूपाभ्यां ब्रह्माभवत् । अथ यो ह वा अस्माल् लोकात् स्वं लोकम् अदृष्ट्वा प्रैति स एनम् अविदितो न भुनक्ति यथा वेदो वाननूक्तो ऽन्यद् वा कर्माकृतम् । यदि ह वा अप्य् अनेवंविन् महत्पुण्यं कर्म करोति तद् धास्यान्ततः क्षीयत एव । आत्मानम् एव लोकम् उपासीत । स य आत्मानम् एव लोकम् उपास्ते न हास्य कर्म क्षीयते । अस्माद् ध्य् एवात्मनो यद्यत् कामयते तत्तत् सृजते 1.4.16 अथो अयं वा आत्मा सर्वेषां भूतानां लोकः । स यज् जुहोति यद् यजते तेन देवानां लोकः । अथ यद् अनुब्रूते तेन ऋषीणाम् । अथ यत् पितृभ्यो निपृणाति यत् प्रजाम् इच्छते तेन पितॄणाम् । अथ यन् मनुष्यान् वासयते यद् एभ्यो ऽशनं ददाति तेन मनुष्याणाम् । अथ यत् पशुभ्यस् तृणोदकं विन्दति तेन पशूनाम् । यद् अस्य गृहेषु श्वापदा वयांस्य् आ पिपीलिकाभ्य उपजीवन्ति तेन तेषां लोकः । यथा ह वै स्वाय लोकायारिष्टिम् इच्छेत् । एवं हैवंविदे सर्वदा सर्वाणि भूतान्य् अरिष्टिम् इच्छन्ति । तद् वा एतद् विदितं मीमांसितम् 1.4.17 आत्मैवेदम् अग्र आसीद् एक एव । सो ऽकामयत जाया मे स्याद् अथ प्रजायेय । अथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति । एतावान् वै कामः । नेच्छंश् चनातो भूयो विन्देत् । तस्माद् अप्य् एतर्ह्य् एकाकी कामयते -- जाया मे स्याद् अथ प्रजायेयाथ वित्तं मे स्याद् अथ कर्म कुर्वीयेति । स यावद् अप्य् एतेषाम् एकैकं न प्राप्नोत्य् अकृत्स्न एव तावन् मन्यते । तस्यो कृत्स्नता । मन एवास्यात्मा । वाग् जाया । प्राणः प्रजा । चक्षुर् मानुषं वित्तम् । चक्षुषा हि तद् विन्दते । श्रोत्रं दैवम् । श्रोत्रेण हि तच् छृणोति । आत्मैवास्य कर्म । आत्मना हि कर्म करोति । स एष पाङ्क्तो यज्ञः । पाङ्क्तः पशुः । पाङ्क्तः पुरुषः । पाङ्क्तम् इदं सर्वं यद् इदं किञ्च । तद् इदं सर्वम् आप्नोति य एवं वेद Which verse says this?
In the beginning this was Self alone, in the shape of a person (purusha). He looking round saw nothing but his Self. He first said, ‘This is I;’ therefore he became I by name. Therefore even now, if a man is asked, he first says, ‘ This is / and then pronounces the other name which he may have. And because before (pftrva) all this, he (the Self) burnt down (ush) all evils, therefore he was a person (pur-usha). Verily he who knows this, burns down every one who tries to be before him.
Translated by F. Max Müller
आत्मैवेदम् अग्र आसीत् पुरुषविधः । सो ऽनुवीक्ष्य नान्यद् आत्मनो ऽपश्यत् । सो ऽहम् अस्मीत्य् अग्रे व्याहरत् । ततो ऽहंनामाभवत् । तस्माद् अप्य् एतर्ह्य् आमन्त्रितो ऽहम् अयम् इत्य् एवाग्र उक्त्वाथान्यन् नाम प्रब्रूते यद् अस्य भवति । स यत् पूर्वो ऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुषः । ओषति ह वै स तं यो ऽस्मात् पूर्वो बुभूषति य एवं वेद स नैव व्यभवत् । तच् छ्रेयो रूपम् अत्यसृजत धर्मम् । तद् एतत् क्षत्रस्य क्षत्रं यद् धर्मः । तस्माद् धर्मात् परं नास्ति । अथो अबलीयान् बलीयांसम् आशंसते धर्मेण । यथा राज्ञैवम् । यो वै स धर्मः सत्यं वै तत् । तस्मात् सत्यं वदन्तम् आहुर् धर्मं वदतीति । धर्मं वा वदन्तं सत्यं वदतीति । एतद् ध्य् एवैतद् उभयं भवति सो ऽबिभेत् तस्माद् एकाकी बिभेति । स हायम् ईक्षां चक्रे, यन् मद् अन्यन् नास्ति कस्मान् नु बिभेमीति । तत एवास्य भयं वीयाय । कस्माद् ध्य् अभेष्यत् । द्वितीयाद् वै भयं भवति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.