0/23 readHide transliteration
यत् सप्तान्नानि मेधया तपसाजनयत् पिता । एकम् अस्य साधारणं द्वे देवान् अभाजयत् । त्रीण्य् आत्मने ऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । कस्मात् तानि न क्षीयन्ते अद्यमानानि सर्वदा । यो वै ताम् अक्षितिं वेद सो ऽन्नम् अत्ति प्रतीकेन । स देवान् अपिगच्छति स ऊऋजम् उपजीवति । इति श्लोकाः
yat saptānnāni medhayā tapasājanayat pitā | ekam asya sādhāraṇaṃ dve devān abhājayat | trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat | tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na | kasmāt tāni na kṣīyante adyamānāni sarvadā | yo vai tām akṣitiṃ veda so 'nnam atti pratīkena | sa devān apigacchati sa ūṛjam upajīvati | iti ślokāḥ
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
1.5.1 यत् सप्तान्नानि मेधया तपसाजनयत् पिता । एकम् अस्य साधारणं द्वे देवान् अभाजयत् । त्रीण्य् आत्मने ऽकुरुत पशुभ्य एकं प्रायच्छत् । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । कस्मात् तानि न क्षीयन्ते अद्यमानानि सर्वदा । यो वै ताम् अक्षितिं वेद सो ऽन्नम् अत्ति प्रतीकेन । स देवान् अपिगच्छति स ऊऋजम् उपजीवति । इति श्लोकाः 1.5.2 यत् सप्तान्नानि मेधया तपसाजनयत् पितेति । मेधया हि तपसाजनयत् पितैकम् अस्य साधारणम् इति । इदम् एवास्य तत् साधारणम् अन्नं यद् इदम् अद्यते । स य एतद् उपास्ते न स पाप्मनो व्यावर्तते । मिश्रं ह्य् एतत् । द्वे देवान् अभाजयद् इति । हुतं च प्रहुतं च । तस्माद् देवेभ्यो जुह्वति च प्र च जुह्वति । अथो आहुर् दर्शपूर्णमासाव् इति । तस्मान् नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छद् इति । तत् पयः । पयो ह्य् एवाग्रे मनुष्याश् च पशवश् चोपजीवन्ति । तस्मात् कुमारं जातं घृतं वैवाग्रे प्रतिलेहयन्ति स्तनं वानुधापयन्ति । अथ वत्सं जातम् आहुस् तृणाद् इति । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति । पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च न । तद् यद् इदम् आहुः संवत्सरं पयसा जुह्वद् अप पुनर्मृत्युं जयतीति । न तथा विद्यात् । यद् अहर् एव जुहोति तद् अहः पुनर्मृत्युम् अपजयत्य् एवं विद्वान् । सर्वं हि देवेभ्यो ऽन्नाद्यं प्रयच्छति । कस्मात् तानि न क्षीयन्ते अद्यमानानि सर्वदेति । पुरुषो वा अक्षितिः । स हीदम् अन्नं पुनः पुनर् जनयते । यो वैताम् अक्षितिं वेदेति । पुरुषो वा अक्षितिः । स हीदम् अन्नं धियाधिया जनयते कर्मभिः । यद् धैतन् न कुर्यात् क्षीयेत ह । सो ऽन्नम् अत्ति प्रतीकेनेति । मुखं प्रतीकं मुखेनेत्य् एतत् । स देवान् अपिगच्छति स ऊर्जम् उपजीवतीति प्रशंसा 1.5.3 मनो वाचं प्राणं तान्य् आत्मने ऽकुरुत । अन्यत्रमना अभूवं नादर्शम् अन्यत्रमना अभूवं नाश्रौषम् इति मनसा ह्य् एव पश्यति मनसा शृणोति । कामः संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिर् अधृतिर् ह्रीर् धीर् भीर् इत्य् एतत् सर्वं मन एव । तस्माद् अपि पृष्ठत उपस्पृष्टो मनसा विजानाति । यः कश्च शब्दो वाग् एव सा । एषा ह्य् अन्तं आयत्तैषा हि न । प्राणो ऽपानो व्यान उदानः समानो ऽन इत्य् एतत् सर्वं प्राण एव । एतन्मयो वा अयम् आत्मा । वाङ्मयो मनोमयः प्राणमयः 1.5.4 त्रयो लोका एत एव । वाग् एवायं लोको मनो ऽन्तरिक्षलोकः प्राणो ऽसौ लोकः 1.5.5 त्रयो वेदा एत एव । वाग् एवर्ग्वेदो मनो यजुर्वेदः प्राणः सामवेदः 1.5.6 देवा पितरो मनुष्या एत एव । वाग् एव देवा मनः पितरः, प्राणो मानुष्याः 1.5.7 पिता माता प्रजैत एव । मन एव पिता वाङ् माता प्राणः प्रजा 1.5.8 विज्ञातं विजिज्ञास्यम् अविज्ञातम् एत एव । यत् किञ्च विज्ञातं वाचस् तद् रूपम् । वाग् घि विज्ञाता । वाग् एनं तद् भूत्वावति 1.5.9 यत् किञ्च विजिज्ञास्यं मनसस् तद् रूपम् । मनो हि विजिज्ञास्यम् । मन एनं तद् भूत्वावति 1.5.10 यत् किञ्चाविज्ञातं प्राणस्य तद् रूपम् । प्राणो ह्य् अविज्ञातः । प्राण एनं तद् भूत्वावति 1.5.11 तस्यै वाचः पृथिवी शरीरम् । ज्योतीरूपम् अयम् अग्निः । तद् यावत्य् एव वाक् तावती पृथिवी तावान् अयम् अग्निः 1.5.12 अथैतस्य मनसो द्यौः शरीरम् । ज्योतीरूपम् असाव् आदित्यः । तद् यावद् एव मनस् तावती द्यौस् तावान् असाव् आदित्यः । तौ मिथुनं समैताम् । ततः प्राणो ऽजायत । स इन्द्रः । स एषो ऽसपत्नः । द्वितीयो वै सपत्नः । नास्य सपत्नो भवति य एवं वेद 1.5.13 अथैतस्य प्राणस्यापः शरीरम् । ज्योतीरूपम् असौ चन्द्रः । तद् यावान् एव प्राणस् तावत्य आपस् तावान् असौ चन्द्रः । त एते सर्व एव समाः सर्वे ऽनन्ताः । स यो हैतान् अन्तवत उपास्ते ऽन्तवन्तं स लोकं जयति । अथ यो हैतान् अनन्तान् उपास्ते ऽनन्तं स लोकं जयति 1.5.14 स एष संवत्सरः प्रजापतिष् षोडशकलः । तस्य रात्रय एव पञ्चदश कला । ध्रुवैवास्य षोडशी कला । स रात्रिभिर् एवा च पूर्यते ऽप च क्षीयते । सो ऽमावास्यां रात्रिम् एतया षोडश्या कलया सर्वम् इदं प्राणभृद् अनुप्रविश्य ततः प्रातर् जायते । तस्माद् एतां रात्रिं प्राणभृतः प्राणं न विच्छिन्द्याद् अपि कृकलासस्यैतस्या एव देवताया अपचित्यै 1.5.15 यो वै स संवत्सरः प्रजापतिः षोडशकालो ऽयम् एव स यो ऽयम् एवंवित् पुरुषः । तस्य वित्तम् एव पञ्चदश कलाः । आत्मैवास्य षोडशी कला । स वित्तेनैवा च पूर्यते ऽप च क्षीयते । तद् एतन् नभ्यं यद् अयम् आत्मा । प्रधिर् वित्तम् । तस्माद् यद्य् अपि सर्वज्यानिं जीयत आत्मना चेज् जीवति प्रधिनागाद् इत्य् एवाहुः 1.5.16 अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति । सो ऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा । कर्मणा पितृलोकः । विद्यया देवलोकः । देवलोको वै लोकानां श्रेष्ठः । तस्माद् विद्यां प्रशंसन्ति 1.5.17 अथातः सम्प्रत्तिः । यदा प्रैष्यन् मन्यते ऽथ पुत्रम् आह -- त्वं ब्रह्म त्वं यज्ञस् त्वं लोक इति । स पुत्रः प्रत्याहाहं ब्रह्माहं यज्ञो ऽहम् लोक इति । यद् वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्य् एकता । ये वै के च यज्ञास् तेषां सर्वेषां यज्ञ इत्य् एकता । ये वै के च लोकास् तेषां सर्वेषां लोक इत्य् एकता । एतावद् वा इदं सर्वम् । एतन् मा सर्वं सन्न् अयम् इतो भुनजद् इति । तस्मात् पुत्रम् अनुशिष्टं लोक्यम् आहुः । तस्माद् एनम् अनुशासति । स यदैवंविद् अस्माल् लोकात् प्रैत्य् अथैभिर् एव प्राणैः सह पुत्रम् आविशति । स यद्य् अनेन किञ्चिद् अक्ष्णया कृतं भवति तस्माद् एनं सर्वस्मात् पुत्रो मुञ्चति तस्मात् पुत्रो नाम । स पुत्रेणैवास्मिल् लोके प्रतितिष्ठति । अथैनम् एते देवाः प्राणा अमृता आविशन्ति 1.5.18 पृथिव्यै चैनम् अग्नेश् च दैवी वाग् आविशति । सा वै दैवी वाग् यया यद् यद् एव वदति तत् तद् भवति 1.5.19 दिवश् चैनम् आदित्याच् च दैवं मन आविशति । तद् वै दैवं मनो येनानन्द्य् एव भवत्य् अथो न शोचति 1.5.20 अद्भ्यश् चैनं चन्द्रमसश् च दैवः प्राण आविशति । स वै दैवः प्राणो यः संचरंश् चासंचरंश् च न व्यथते ऽथो न रिष्यति । स एष एवंवित् सर्वेषां भूतानाम् आत्मा भवति । यथैषा देवतैवं सः । यथैतां देवतां सर्वाणि भूतान्य् अवन्त्य् एवं हैवंविदं सर्वाणि भूतान्य् अवन्ति । यद् उ किञ्चेमाः प्रजाः शोचन्त्य् अमैवासां तद् भवति । पुण्यम् एवामुं गच्छति । न ह वै देवान् पापं गच्छति 1.5.21 अथातो व्रतमीमांसा । प्रजापतिर् ह कर्माणि ससृजे । तानि सृष्टान्य् अन्यो ऽन्येनास्पर्धन्त । वदिष्याम्य् एवाहम् इति वाग् दध्रे । द्रक्ष्याम्य् अहम् इति चक्षुः । श्रोष्याम्य् अहम् इति श्रोत्रम् । एवम् अन्यानि कर्माणि यथाकर्मम् । तानि मृत्युः श्रमो भूत्वोपयेमे । तान्य् आप्नोत् । तान्य् आप्त्वा मृत्युर् अवारुन्ध । तस्माच् छ्राम्यत्य् एव वाक् । श्राम्यति चक्षुः । श्राम्यति श्रोत्रम् । अथेमम् एव नाप्नोत् यो ऽयं मध्यमः प्राणः । तानि ज्ञातुं दध्रिरे । अयं वै नः श्रेष्ठो यः संचरंश् चासंचरंश् च न व्यथते ऽथो न रिष्यति । हन्तास्यैव सर्वे रूपं भवामेति । त एतस्यैव सर्वे रूपम् अभवन् । तस्माद् एत एतेनाख्यायन्ते प्राणा इति । तेन ह वाव तत् कुलम् आचक्षते यस्मिन् कुले भवति य एवं वेद । य उ हैवंविदा स्पर्धते ऽनुशुष्यति । अनुशुष्य हैवान्ततो म्रियत इत्य् अध्यात्मम् 1.5.22 ज्वलिष्याम्य् एवाहम् इत्य् अग्निर् दध्रे । तप्स्याम्य् अहम् इत्य् आदित्यः । भास्याम्य् अहम् इति चन्द्रमाः । एवम् अन्या देवता यथादेवतम् । स यथैषां प्राणानां मध्यमः प्राण एवम् एतासां देवतानां वायुः । म्लोचन्ति ह्य् अन्या देवता न वायुः । सैषानस्तमिता देवता यद् वायुः 1.5.23 अथैष श्लोको भवति -- यतश् चोदेति सूर्यो ऽस्तं यत्र च गच्छतीति । प्राणाद् वा एष उदेति प्राणे ऽस्तम् एति । तं देवाश् चक्रिरे धर्मं स एवाद्य स उ श्व इति । यद् वा एते ऽमुर्ह्य् अध्रियन्त तद् एवाप्य् अद्य कुर्वन्ति । तस्माद् एकम् एव व्रतं चरेत् प्राण्याच् चैवापान्याच् च । नेन् मा पाप्मा मृत्युर् आप्नवद् इति । यद्य् उ चरेत् समापिपयिषेत् तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.