0/3 readHide transliteration
त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वाग् इत्य् एतद् एषाम् उक्थम् । अतो हि सर्वाणि नामान्य् उत्तिष्ठन्ति । एतद् एषां साम । एतद् धि सर्वैर् नामभिः समम् । एतद् एषां ब्रह्म । एतद् धि सर्वाणि नामानि बिभर्ति
trayaṃ vā idaṃ nāma rūpaṃ karma | teṣāṃ nāmnāṃ vāg ity etad eṣām uktham | ato hi sarvāṇi nāmāny uttiṣṭhanti | etad eṣāṃ sāma | etad dhi sarvair nāmabhiḥ samam | etad eṣāṃ brahma | etad dhi sarvāṇi nāmāni bibharti
Verily this is a triad, name, form, and work. Of these names, that which is called Speech is the Uktha (hymn, supposed to mean also origin), for from it all names arise. It is their Saman (song, supposed to mean also sameness), for it is the same as all names. It is their Brahman (prayer, supposed to mean also support), for it supports all names.
Translated by F. Max MüllerFrom an unproofread scan of the printed edition; spelling and line breaks may carry OCR errors.
← PreviousMark as learned Next →
In this sitting
1.6.1 त्रयं वा इदं नाम रूपं कर्म । तेषां नाम्नां वाग् इत्य् एतद् एषाम् उक्थम् । अतो हि सर्वाणि नामान्य् उत्तिष्ठन्ति । एतद् एषां साम । एतद् धि सर्वैर् नामभिः समम् । एतद् एषां ब्रह्म । एतद् धि सर्वाणि नामानि बिभर्ति 1.6.2 अथ रूपाणां चक्षुर् इत्य् एतद् एषाम् उक्थम् । अतो हि सर्वाणि रूपाण्य् उत्तिष्ठन्ति । एतद् एषां साम । एतद् धि सर्वै रूपैः समम् । एतद् एषां ब्रह्म । एतद् धि सर्वाणि रूपाणि बिभर्ति 1.6.3 अथ कर्मणाम् आत्मेत्य् एतद् एषाम् उक्थम् । अतो हि सर्वाणि कर्माण्य् उत्तिष्ठन्ति । एतद् एषां साम । एतद् धि सर्वैः कर्मभिः समम् । एतद् एषां ब्रह्म । एतद् धि सर्वाणि कर्माणि बिभर्ति । तद् एतत् त्रयं सद् एकम् अयम् आत्मा । आत्मो एकः सन्न् एतत् त्रयम् । तद् एतद् अमृतं सत्येन छन्नम् । प्राणो वा अमृतम् । नामरूपे सत्यम् । ताभ्याम् अयं प्राणश् छन्नः See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.