0/12 readHide transliteration
अथाधिदैवतम् । य एवासौ तपति तम् उद्गीथम् उपासीत । उद्यन् वा एष प्रजाभ्य उद्गायति । उद्यंस् तमो भयम् अपहन्ति । अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद
athādhidaivatam | ya evāsau tapati tam udgītham upāsīta | udyan vā eṣa prajābhya udgāyati | udyaṃs tamo bhayam apahanti | apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
1.3.1 अथाधिदैवतम् । य एवासौ तपति तम् उद्गीथम् उपासीत । उद्यन् वा एष प्रजाभ्य उद्गायति । उद्यंस् तमो भयम् अपहन्ति । अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद 1.3.2 समान उ एवायं चासौ च । उष्णो ऽयम् उष्णो ऽसौ । स्वर इतीमम् आचक्षते स्वर इति प्रत्यास्वर इत्य् अमुम् । तस्माद् वा एतम् इमम् अमुं च उद्गीथम् उपासीत 1.3.3 अथ खलु व्यानम् एवोद्गीथम् उपासीत । यद् वै प्राणिति स प्राणः । यद् अपानिति सो ऽपानः । अथ यः प्राणापानयोः संधिः स व्यानः । यो व्यानः सा वाक् । तस्माद् अप्राणन्न् अनपानन् वाचम् अभिव्याहरति 1.3.4 या वाक् सर्क् । तस्माद् अप्राणन्न् अनपानन्न् ऋचम् अभिव्याहरति । यर्क् तत् साम । तस्माद् अप्राणन्न् अनपानन् साम गायति । यत् साम स उद्गीथः । तस्माद् अप्रानन्न् अनपानन्न् उद्गायति 1.3.5 अतो यान्य् अन्यानि वीर्यवन्ति कर्माणि यथाग्नेर् मन्थनम् आजेः सरणं दृढस्य धनुष आयमनम् अप्राणन्न् अनपानंस् तानि करोति । एतस्य हेतोर् व्यानम् एवोद्गीथम् उपासीत 1.3.6 अथ खलूद्गीथाक्षराण्य् उपासीत उद्-गी-थ इति । प्राण एवोत् । प्राणेन ह्य् उत्तिष्ठति । वग् गीः । वाचो ह गिर इत्य् आचक्षते । अन्नं थम् । अन्ने हीदं सर्वं स्थितम् 1.3.7 द्यौर् एवोत् । अन्तरिक्षं गीः । पृथिवी थम् । आदित्य एवोत् । वायुर् गीः । अग्निस् थम् । सामवेद एवोत् । यजुर्वेदो गीः । ऋग्वेदस् थम् । दुग्धे ऽस्मै वाग् दोहं यो वाचो दोहः । अन्नवान् अन्नादो भवति । य एतान्य् एवं विद्वान् उद्गीथाक्षराण्य् उपास्त उद्-गी-थ इति 1.3.8 अथ खल्व् आशीः समृद्धिः । उपसरणानीत्य् उपासीत । येन साम्ना स्तोष्यन् स्यात् तत् सामोपधावेत् 1.3.9 यस्याम् ऋचि ताम् ऋचं, यद् आर्षेयं तम् ऋषिं, यां देवताम् अभिष्टोष्यन् स्यात् तां देवताम् उपधावेत् 1.3.10 येन च्छन्दसा स्तोष्यन् स्यात् तच् छन्द उपधावेत् । येन स्तोमेन स्तोष्यमाणः स्यात् तं स्तोमम् उपधावेत् 1.3.11 यां दिशम् अभिष्टोष्यन् स्यात् तां दिशम् उपधावेत् 1.3.12 आत्मानम् अन्तत उपसृत्य स्तुवीत कामं ध्यायन्न् अप्रमत्तः । अभ्याशो ह यद् अस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.