0/4 readHide transliteration
अस्य लोकस्य का गतिर् इति । आकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते । आकाशं प्रत्य् अस्तं यन्ति । आकाशो ह्य् एवैभ्यो ज्यायान् । आकाशः परायणम्
asya lokasya kā gatir iti | ākāśa iti hovāca | sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante | ākāśaṃ praty astaṃ yanti | ākāśo hy evaibhyo jyāyān | ākāśaḥ parāyaṇam
'What is the origin of this world?' 'Ether,' he replied. For all these beings take their rise from the ether, and return into the ether. Ether is older than these, ether is their rest.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
1.9.1 अस्य लोकस्य का गतिर् इति । आकाश इति होवाच । सर्वाणि ह वा इमानि भूतान्य् आकाशाद् एव समुत्पद्यन्ते । आकाशं प्रत्य् अस्तं यन्ति । आकाशो ह्य् एवैभ्यो ज्यायान् । आकाशः परायणम् 1.9.2 स एष परोवरीयान् उद्गीथः । स एषो ऽनन्तः । परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ् जयति य एतद् एवं विद्वान् परोवरीयांसम् उद्गीथम् उपास्ते 1.9.3 तं हैतम् अतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच । यावत् त एनं प्रजायाम् उद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस् तावद् अस्मिंल् लोके जीवनं भविष्यति 1.9.4 तथामुष्मिंल् लोके लोक इति । स य एतम् एव विद्वान् उपास्ते परोवरीय एव हास्यामुष्मिंल् लोके जीवनं भवति तथामुष्मिंल् लोके लोक इति लोके लोक इति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.