0/5 readHide transliteration
एष ह वै यज्ञो यो ऽयं पवते । एष ह यन्न् इदं सर्वं पुनाति । यद् एष यन्न् इदं सर्वं पुनाति । तस्माद् एष एव यज्ञः । तस्य मनश् च वाक् च वर्तनी
eṣa ha vai yajño yo 'yaṃ pavate | eṣa ha yann idaṃ sarvaṃ punāti | yad eṣa yann idaṃ sarvaṃ punāti | tasmād eṣa eva yajñaḥ | tasya manaś ca vāk ca vartanī
Verily, he who purifies (Vâyu) is the sacrifice, for he (the air) moving along, purifies everything. Because moving along he purifies everything, therefore he is the sacrifice. Of that sacrifice there are two ways, by mind and by speech.
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
4.16.1 एष ह वै यज्ञो यो ऽयं पवते । एष ह यन्न् इदं सर्वं पुनाति । यद् एष यन्न् इदं सर्वं पुनाति । तस्माद् एष एव यज्ञः । तस्य मनश् च वाक् च वर्तनी 4.16.2 तयोर् अन्यतरां मनसा संस्करोति ब्रह्मा । वाचा होताध्वर्युर् उद्गातान्यतराम् । स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति 4.16.3 अन्यतराम् एव वर्तनीं संस्करोति । हीयते ऽन्यतरा । स यथैकपाद् व्रजन् रथो वैकेन चक्रेण वर्तमानो रिष्यत्य् एवम् अस्य यज्ञो रिष्यति । यज्ञं रिष्यन्तं यजमानो ऽनु रिष्यति । स इष्ट्वा पापीयान् भवति 4.16.4 अथ यत्र उपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदत्य् उभे एव वर्तनी संस्कुर्वन्ति । न हीयते ऽन्यतरा 4.16.5 स यथोभयपाद् व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्य् एवम् अस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानो ऽनु प्रतितिष्ठति । स इष्ट्वा श्रेयान् भवति Which verse says this?
Verily, he who purifies (Vâyu) is the sacrifice, for he (the air) moving along, purifies everything. Because moving along he purifies everything, therefore he is the sacrifice. Of that sacrifice there are two ways, by mind and by speech.
Translated by F. Max Müller
अन्यतराम् एव वर्तनीं संस्करोति । हीयते ऽन्यतरा । स यथैकपाद् व्रजन् रथो वैकेन चक्रेण वर्तमानो रिष्यत्य् एवम् अस्य यज्ञो रिष्यति । यज्ञं रिष्यन्तं यजमानो ऽनु रिष्यति । स इष्ट्वा पापीयान् भवति एष ह वै यज्ञो यो ऽयं पवते । एष ह यन्न् इदं सर्वं पुनाति । यद् एष यन्न् इदं सर्वं पुनाति । तस्माद् एष एव यज्ञः । तस्य मनश् च वाक् च वर्तनी तयोर् अन्यतरां मनसा संस्करोति ब्रह्मा । वाचा होताध्वर्युर् उद्गातान्यतराम् । स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.