0/8 readHide transliteration
स होवाच किं मे ऽन्नं भविष्यतीति । यत् किंचिद् इदम् आ श्वभ्य आ शकुनिभ्य इति होचुः । तद् वा एतद् अनस्यान्नम् । अनो ह वै नाम प्रत्यक्षम् । न ह वा एवंविदि किंचनानन्नं भवतीति
sa hovāca kiṃ me 'nnaṃ bhaviṣyatīti | yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ | tad vā etad anasyānnam | ano ha vai nāma pratyakṣam | na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti
Sanskrit only: no published translation is held for this verse.
← PreviousMark as learned Next →
In this sitting
5.2.1 स होवाच किं मे ऽन्नं भविष्यतीति । यत् किंचिद् इदम् आ श्वभ्य आ शकुनिभ्य इति होचुः । तद् वा एतद् अनस्यान्नम् । अनो ह वै नाम प्रत्यक्षम् । न ह वा एवंविदि किंचनानन्नं भवतीति 5.2.2 स होवाच किं मे वासो भविष्यतीति । आप इति होचुः । तस्माद् वा एतद् अशिष्यन्तः पुरस्ताच् चोपरिष्टाच् चाद्भिः परिदधति । लम्भुको ह वासो भवति । अनग्नो ह भवति 5.2.3 तद् धैतत् सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच । यद्य् अप्य् एनच् छुष्काय स्थाणवे ब्रूयाज् जायेरन्न् एवास्मिञ् छाखाः प्ररोहेयुः पलाशानीति 5.2.4 अथ यदि महज् जिगमिषेत्, अमावास्यायाम् दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थम् दधिमधुनोर् उपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् 5.2.5 वसिष्ठाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् । प्रतिष्ठायै स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् । संपदे स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् । आयतनाय स्वाहेत्य् अग्नाव् आज्यस्य हुत्वा मन्थे संपातम् अवनयेत् 5.2.6 अथ प्रतिसृप्याञ्जलौ मन्थम् आधाय जपति । अमो नामासि । अमा हि ते सर्वम् इदम् । स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः । स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यम् आधिपत्यं गमयतु । अहम् एवेदं सर्वम् असानीति 5.2.7 अथ खल्व् एतयर्चा पच्छ आचामति । तत् सवितुर् वृणीमह इत्य् आचामति । वयं देवस्य भोजनम् इत्य् आचामति । श्रेष्ठं सर्वधातमम् इत्य् आचामति । तुरं भगस्य धीमहीति सर्वं पिबति । निर्णिज्य कंसं चमसं वा पश्चाद् अग्नेः संविशति । चर्मणि वा स्थण्डिले वा वाचंयमो ऽप्रसाहः । स यदि स्त्रियं पश्येत् समृद्धं कर्मेति विद्यात् 5.2.8 तद् एष श्लोकः । यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति । समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शने See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.