0/12 readHide transliteration
अथ हैनं कौसल्यश् चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथम् आयात्य् अस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रातिष्ठते । केनोत्क्रमते । कथं बाह्यम् अभिधत्ते । कथम् अध्यात्मम् इति
atha hainaṃ kausalyaś cāśvalāyanaḥ papraccha | bhagavan kuta eṣa prāṇo jāyate | katham āyāty asmin śarīre | ātmānaṃ vā pravibhajya kathaṃ prātiṣṭhate | kenotkramate | kathaṃ bāhyam abhidhatte | katham adhyātmam iti
Then Kausalya Âsvalâyana asked: "Sir, whence is that Prâna (spirit) born? How does it come into this body? And how does it abide, after it has divided itself? How does it go out? How does it support what is without, and how what is within?"
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
3.1 अथ हैनं कौसल्यश् चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथम् आयात्य् अस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रातिष्ठते । केनोत्क्रमते । कथं बाह्यम् अभिधत्ते । कथम् अध्यात्मम् इति 3.2 तस्मै स होवाच । अतिप्रश्नान् पृच्छसि । ब्रह्मिष्ठो ऽसीति । तस्मात् ते ऽहं ब्रवीमि 3.3 आत्मन एष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन्न् एतदाततम् । मनोकृतेनायात्य् अस्मिञ् शरीरे 3.4 यथा सम्राड् एवाधिकृतान् विनियुङ्क्ते । एतान् ग्रामान् एतान् ग्रामान् अधितिष्ठस्वेति । एवम् एवैष प्राण इतरान् प्राणान् पृथक् पृथग् एव संनिधत्ते 3.5 पायूपस्थे ऽपानम् । चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्य् एतद् धुतम् अन्नं समं नयति । तस्माद् एताः सप्तार्चिषो भवन्ति 3.6 हृदि ह्य् एष आत्मा । अत्रैतद् एकशतं नाडीनाम् । तासां शतं शतम् एकैकस्याः । द्वासप्ततिर् द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति । आसु व्यानश्चरति 3.7 अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति । पापेन पापम् । उभाभ्याम् एव मनुष्यलोकम् 3.8 आदित्यो ह वै बाह्यः प्राण उदयति । एष ह्य् एनं चाक्षुषं प्राणम् अनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानम् अवष्टभ्य । अन्तरा यदाकाशः स समानः । वायुर् व्यानः 3.9 तेजो ह वा उदानः । तस्माद् उपशान्ततेजाः । पुनर्भवम् इन्द्रियैर् मनसि संपद्यमानैः 3.10 यच्चित्तस् तेनैष प्राणम् आयाति । प्राणस् तेजसा युक्तः सहात्मना यथा संकल्पितं लोकं नयति 3.11 य एवं विद्वान् प्राणं वेद । न हास्य प्रजा हीयते ऽमृतो भवति । तद् एष श्लोकः 3.12 उत्पत्तिम् आयातिं स्थानं विभुत्वं चैव पञ्चधा । अध्यात्मं चैव प्राणस्य विज्ञायामृतम् अश्नुते विज्ञायामृतम् अश्नुत इति Which verse says this?
Then Kausalya Âsvalâyana asked: "Sir, whence is that Prâna (spirit) born? How does it come into this body? And how does it abide, after it has divided itself? How does it go out? How does it support what is without, and how what is within?"
Translated by F. Max Müller
अथ हैनं कौसल्यश् चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथम् आयात्य् अस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रातिष्ठते । केनोत्क्रमते । कथं बाह्यम् अभिधत्ते । कथम् अध्यात्मम् इति यच्चित्तस् तेनैष प्राणम् आयाति । प्राणस् तेजसा युक्तः सहात्मना यथा संकल्पितं लोकं नयति तस्मै स होवाच । अतिप्रश्नान् पृच्छसि । ब्रह्मिष्ठो ऽसीति । तस्मात् ते ऽहं ब्रवीमि See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.