0/11 readHide transliteration
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्न् एतस्मिन् पुरुषे कानि स्वपन्ति । कान्य् अस्मिञ् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन् नु सर्वे संप्रतिष्ठिता भवन्तीति
atha hainaṃ sauryāyaṇī gārgyaḥ papraccha | bhagavann etasmin puruṣe kāni svapanti | kāny asmiñ jāgrati | katara eṣa devaḥ svapnān paśyati | kasyaitat sukhaṃ bhavati | kasmin nu sarve saṃpratiṣṭhitā bhavantīti
Then Sauryâyanin Gârgya asked: "Sir, What are they that sleep in this man, and what are they that are awake in him? What power (deva) is it that sees dreams? Whose is the happiness? On what do all these depend?"
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
4.1 अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्न् एतस्मिन् पुरुषे कानि स्वपन्ति । कान्य् अस्मिञ् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन् नु सर्वे संप्रतिष्ठिता भवन्तीति 4.2 तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास् तं गच्छतः सर्वा एतस्मिंस् तेजोमण्डल एकीभवन्ति । ताः पुनः पुनर् उदयतः प्रचरन्ति । एवं ह वै तत् सर्वं परे देवे मनस्य् एकीभवति । तेन तर्ह्य् एष पुरुषो न शृणोति । न पश्यति । न जिघ्रति । न रसयते । न स्पृशते । नाभिवदते । नादत्ते । नानन्दयते । न विसृजते । नेयायते । स्वपतीत्य् आचक्षते 4.3 प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषो ऽपानः । व्यानो ऽन्वाहार्यपचनः । यद् गार्हपत्यात् प्रणीयते प्रणयनात् । आहवनीयः प्राणः 4.4 यद् उच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वावन यजमानः । इष्टफलम् एवोदानः । स एनं यजमानम् अहरहर्ब्रह्म गमयति 4.5 अत्रैष देवः स्वप्ने महिमानम् अनुभवति । यद् दृष्टं इष्टम् अनुपश्यति । श्रुतं श्रुतम् एवार्थम् अनुशृणोति । देशदिगन्तरैश् च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति । सर्वः पश्यति 4.6 स यदा तेजसाभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यति । अथ तदैतस्मिञ् शरीर एतत् सुखं भवति 4.7 स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत् सर्वं पर आत्मनि संप्रतिष्ठते 4.8 पृथिवी च पृथिवीमात्रा च । आपश् चापोमात्रा च । तेजश् च तेजोमात्रा च । वायुश् च वायुमात्रा च । आकाशश् चाकाशमात्रा च । चक्षुश् च द्रष्टव्यं च । श्रोत्रं च श्रोतव्यं च । घ्राणं च घ्रातव्यं च । रसश् च रसयितव्यं च । त्वक् च स्पर्शयितव्यं च । वाक् च वक्तव्यं च । हस्तौ चादातव्यं च । उपस्थश् चानन्दयितव्यं च । पायुश् च विसर्जयितव्यं च । पादौ च गन्तव्यं च । मनश् च मन्तव्यं च । बुद्धिश् च बोद्धव्यं च । अहङ्कारश् चाहङ्कर्तव्यं च । चित्तं च चेतयितव्यं च । तेजश् च विद्योतयितव्यं च । प्राणश् च विधारयितव्यं च 4.9 एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परे ऽक्षर आत्मनि संप्रतिष्ठते 4.10 परम् एवाक्षरं प्रतिपद्यते । स यो ह वै तदच्छायम् अशरीरम् अलोहितं शुभ्रम् अक्षरं वेदयते यस् तु सोम्य । स सर्वः सर्वो भवति । तद् एष श्लोकः 4.11 विज्ञानात्मा सह देवैश् च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र । तद् अक्षरं वेदयते यस् तु सोम्य स सर्वज्ञः सर्वम् एवाविवेशेति Which verse says this?
Then Sauryâyanin Gârgya asked: "Sir, What are they that sleep in this man, and what are they that are awake in him? What power (deva) is it that sees dreams? Whose is the happiness? On what do all these depend?"
Translated by F. Max Müller
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्न् एतस्मिन् पुरुषे कानि स्वपन्ति । कान्य् अस्मिञ् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति । कस्मिन् नु सर्वे संप्रतिष्ठिता भवन्तीति एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परे ऽक्षर आत्मनि संप्रतिष्ठते तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास् तं गच्छतः सर्वा एतस्मिंस् तेजोमण्डल एकीभवन्ति । ताः पुनः पुनर् उदयतः प्रचरन्ति । एवं ह वै तत् सर्वं परे देवे मनस्य् एकीभवति । तेन तर्ह्य् एष पुरुषो न शृणोति । न पश्यति । न जिघ्रति । न रसयते । न स्पृशते । नाभिवदते । नादत्ते । नानन्दयते । न विसृजते । नेयायते । स्वपतीत्य् आचक्षते See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.