0/8 readHide transliteration
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तम् अहं कुमारम् अब्रुवं नाहम् इमं वेद । यद्य् अहम् इमम् अवेदिषं कथं ते नावक्ष्यम् इति । समूलो वा एष परिशुष्यति यो ऽनृतम् अभिवदति । तस्मान् नार्हाम्य् अनृतं वक्तुं । स तूष्णीं रथम् आरुह्य प्रवव्राज । तं त्वा पृच्छामि कासौ पुरुष इति
atha hainaṃ sukeśā bhāradvājaḥ papraccha | bhagavan hiraṇyanābhaḥ kausalyo rājaputro māmupetyaitaṃ praśnamapṛcchata | ṣoḍaśakalaṃ bhāradvāja puruṣaṃ vettha | tam ahaṃ kumāram abruvaṃ nāham imaṃ veda | yady aham imam avediṣaṃ kathaṃ te nāvakṣyam iti | samūlo vā eṣa pariśuṣyati yo 'nṛtam abhivadati | tasmān nārhāmy anṛtaṃ vaktuṃ | sa tūṣṇīṃ ratham āruhya pravavrāja | taṃ tvā pṛcchāmi kāsau puruṣa iti
Then Sukesas Bhâradvâga asked him, saying: "Sir, Hiranyanâbha, the prince of Kosalâ, came to me and asked this question: Do you know the person of sixteen parts, O Bhâradvâga? I said to the prince: I do not know him; if I knew him, how should I not tell you? Surely, he who speaks what is untrue withers away to the very root; therefore I will not say what is untrue. Then he mounted his chariot and went away silently. Now I ask you, where is that person?"
Translated by F. Max Müller
← PreviousMark as learned Next →
In this sitting
6.1 अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तम् अहं कुमारम् अब्रुवं नाहम् इमं वेद । यद्य् अहम् इमम् अवेदिषं कथं ते नावक्ष्यम् इति । समूलो वा एष परिशुष्यति यो ऽनृतम् अभिवदति । तस्मान् नार्हाम्य् अनृतं वक्तुं । स तूष्णीं रथम् आरुह्य प्रवव्राज । तं त्वा पृच्छामि कासौ पुरुष इति 6.2 तस्मै स होवाच । इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्न् एताः षोडश कलाः प्रभवन्तीति 6.3 स ईक्षां चक्रे । कस्मिन्न् अहम् उत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति 6.4 स प्राणमसृजत । प्राणाच् छद्वां खं वायुर् ज्योतिर् आपः पृथिवीन्द्रियं मनो ऽन्नम् अन्नाद् वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च 6.5 स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति । भिद्येते तासां नामरूपे । समुद्र इत्य् एवं प्रोच्यते । एवम् एवास्य परिद्रष्टुर् इमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चासां नामरूपे । पुरुष इत्य् एवं प्रोच्यते । स एषो ऽकलो ऽमृतो भवति तदेष श्लोकः 6.6 अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः । तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति 6.7 तान् होवाच । एतावद् एवाहम् एतत् परं ब्रह्म वेद । नातः परम् अस्तीति 6.8 ते तम् अर्चयन्तस् त्वं हि नः पिता यो ऽस्माकम् अविद्यायाः परं पारं तारयसीति नमः । परमऋषिभ्यो नमः परमऋषिभ्यः Which verse says this?
Then Sukesas Bhâradvâga asked him, saying: "Sir, Hiranyanâbha, the prince of Kosalâ, came to me and asked this question: Do you know the person of sixteen parts, O Bhâradvâga? I said to the prince: I do not know him; if I knew him, how should I not tell you? Surely, he who speaks what is untrue withers away to the very root; therefore I will not say what is untrue. Then he mounted his chariot and went away silently. Now I ask you, where is that person?"
Translated by F. Max Müller
तान् होवाच । एतावद् एवाहम् एतत् परं ब्रह्म वेद । नातः परम् अस्तीति अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तम् अहं कुमारम् अब्रुवं नाहम् इमं वेद । यद्य् अहम् इमम् अवेदिषं कथं ते नावक्ष्यम् इति । समूलो वा एष परिशुष्यति यो ऽनृतम् अभिवदति । तस्मान् नार्हाम्य् अनृतं वक्तुं । स तूष्णीं रथम् आरुह्य प्रवव्राज । तं त्वा पृच्छामि कासौ पुरुष इति स ईक्षां चक्रे । कस्मिन्न् अहम् उत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.