0/11 readHide transliteration
बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः । यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ॥
bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ | yad eṣāṃ śreṣṭhaṃ yad aripram āsīt preṇā tad eṣāṃ nihitaṃ guhāviḥ ||
When-men, Brhaspati, giving names to objects, sent out Vak's first and earliest utterances, All that was excellent and spotless, treasured within them, was disclosed through their affection.
Translated by Ralph T. H. Griffith (1896)
← PreviousMark as learned Next →
In this sitting
10.71.1 बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः । यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ॥ 10.71.2 सक्तुम् इव तितौना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर् निहिताधि वाचि ॥ 10.71.3 यज्ञेन वाचः पदवीयम् आयन् ताम् अन्व् अविन्दन्न् ऋषिषु प्रविष्टाम् । ताम् आभृत्या व्य् अदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥ 10.71.4 उत त्वः पश्यन् न ददर्श वाचम् उत त्वः शृण्वन् न शृणोत्य् एनाम् । उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥ 10.71.5 उत त्वं सख्ये स्थिरपीतम् आहुर् नैनं हिन्वन्त्य् अपि वाजिनेषु । अधेन्वा चरति माययैष वाचं शुश्रुवां अफलाम् अपुष्पाम् ॥ 10.71.6 यस् तित्याज सचिविदं सखायं न तस्य वाच्य् अपि भागो अस्ति । यद् ईं शृणोत्य् अलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥ 10.71.7 अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्व् असमा बभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ 10.71.8 हृदा तष्टेषु मनसो जवेषु यद् ब्राह्मणाः संयजन्ते सखायः । अत्राह त्वं वि जहुर् वेद्याभिर् ओहब्रह्माणो वि चरन्त्य् उ त्वे ॥ 10.71.9 इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञयः ॥ 10.71.10 सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । किल्बिषस्पृत् पितुषणिर् ह्य् एषाम् अरं हितो भवति वाजिनाय ॥ 10.71.11 ऋचां त्वः पोषम् आस्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥ Which verse says this?
When-men, Brhaspati, giving names to objects, sent out Vak's first and earliest utterances, All that was excellent and spotless, treasured within them, was disclosed through their affection.
Translated by Ralph T. H. Griffith (1896)
बृहस्पते प्रथमं वाचो अग्रं यत् प्रैरत नामधेयं दधानाः । यद् एषां श्रेष्ठं यद् अरिप्रम् आसीत् प्रेणा तद् एषां निहितं गुहाविः ॥ इमे ये नार्वाङ् न परश् चरन्ति न ब्राह्मणासो न सुतेकरासः । त एते वाचम् अभिपद्य पापया सिरीस् तन्त्रं तन्वते अप्रजज्ञयः ॥ सक्तुम् इव तितौना पुनन्तो यत्र धीरा मनसा वाचम् अक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर् निहिताधि वाचि ॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.