0/9 readHide transliteration
न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः । उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ॥
na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ | uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate ||
The Gods have not ordained hunger to be our death: even to the well-fed man comes death in varied shape. The riches of the liberal never waste away, while he who will not give finds none to comfort him.
Translated by Ralph T. H. Griffith (1896)
← PreviousMark as learned Next →
In this sitting
10.117.1 न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः । उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ॥ 10.117.2 य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे । स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारं न विन्दते ॥ 10.117.3 स इद् भोजो यो गृहवे ददात्य् अन्नकामाय चरते कृशाय । अरम् अस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥ 10.117.4 न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः । अपास्मात् प्रेयान् न तद् ओको अस्ति पृणन्तम् अन्यम् अरणं चिद् इच्छेत् ॥ 10.117.5 पृणीयाद् इन् नाधमानाय तव्यान् द्राघीयांसम् अनु पश्येत पन्थाम् । ओ हि वर्तन्ते रथ्येव चक्रान्यम्-अन्यम् उप तिष्ठन्त रायः ॥ 10.117.6 मोघम् अन्नं विन्दते अप्रचेताः सत्यम् ब्रवीमि वध इत् स तस्य । नार्यमणम् पुष्यति नो सखायं केवलाघो भवति केवलादी ॥ 10.117.7 कृषन्न् इत् फाल आशितं कृणोति यन्न् अध्वानम् अप वृङ्क्ते चरित्रैः । वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि ष्यात् ॥ 10.117.8 एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः ॥ 10.117.9 समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् न समं दुहाते । यमयोश् चिन् न समा वीर्याणि ज्ञाती चित् सन्तौ न समम् पृणीतः ॥ Which verse says this?
The Gods have not ordained hunger to be our death: even to the well-fed man comes death in varied shape. The riches of the liberal never waste away, while he who will not give finds none to comfort him.
Translated by Ralph T. H. Griffith (1896)
न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः । उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ॥ एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् । चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः ॥ य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे । स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारं न विन्दते ॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.