0/10 readHide transliteration
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt | sa dādhāra pṛthivīṃ dyām utemāṃ kasmai devāya haviṣā vidhema ||
In the beginning rose Hiranyagarbha, born Only Lord of all created beings. He fixed and holdeth up this earth and heaven. What God shall we adore with our oblation?
Translated by Ralph T. H. Griffith (1896)
← PreviousMark as learned Next →
In this sitting
10.121.1 हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ 10.121.2 य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ 10.121.3 यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ 10.121.4 यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ 10.121.5 येन द्यौर् उग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ 10.121.6 यं क्रन्दसी अवसा तस्तभाने अभ्य् ऐक्षेताम् मनसा रेजमाने । यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥ 10.121.7 आपो ह यद् बृहतीर् विश्वम् आयन् गर्भं दधाना जनयन्तीर् अग्निम् । ततो देवानां सम् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥ 10.121.8 यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् यज्ञम् । यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥ 10.121.9 मा नो हिंसीज् जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान । यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥ 10.121.10 प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥ Which verse says this?
In the beginning rose Hiranyagarbha, born Only Lord of all created beings. He fixed and holdeth up this earth and heaven. What God shall we adore with our oblation?
Translated by Ralph T. H. Griffith (1896)
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥ यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ See also: Puzzles · Ask the texts A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.