क्अ इ,२७।२-२० रो इ,९३-९४ सर्वे वर्णाः सकृत् उपदिष्टाः । अयम् हकारः द्विः उपदिश्यते पूर्वः च परः च । यदि पुनः पूर्वः एव उपदिश्येत परः एव वा । कः च अत्र विशेषः । हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् । हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् कर्तव्यम् । आतः अटि नित्यम् , शः छः अटि , दीर्घात् अटि समानपदे । हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : महां हि सः । उत्त्वे च । उत्त्वे च हकारग्रहणम् कर्तव्यम् । अतः रोः अप्लुतात् अप्लुते , हशि च । हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : पुरुषः हसति , ब्राह्मणः हसति इति । अस्तु तर्हि पूर्वोपदेशः । पूर्वोपदेशे कित्त्वक्सेड्विधयः झल्ग्रहणानि च । यदि पूर्वोपदेशः कित्त्वम् विधेयम् । स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषति । रलः व्युपधात् हलादेः इति कित्त्वम् न प्राप्नोति । क्सविधिः । क्सः च विधेयः । अधुक्षत् अलिक्षत् । शलः इगुपधात् अनिटः क्सः इति क्सः न प्राप्नोति । इड्विधिः । इट् च विधेयः । रुदिहि स्वपिहि । वलादिलक्षणः इट् न प्राप्नोति। झल्ग्रहणानि च । किम् । अहकाराणि स्युः । तत्र कः दोषः । झलः झलि इति इह न स्यात् : अदाग्धाम् अदाग्धम् । तस्मात् पूर्वः च उपदेष्टव्यः परः च । यदि च किम् चित् अन्यत्र अपि उपदेशे प्रयोजनम् अस्ति तत्र अपि उपदेशः कर्तव्यः ।
KA I,27.2-20 Ro I,93-94 sarve varṇāḥ sakṛt upadiṣṭāḥ . ayam hakāraḥ dviḥ upadiśyate pūrvaḥ ca paraḥ ca . yadi punaḥ pūrvaḥ eva upadiśyeta paraḥ eva vā . kaḥ ca atra viśeṣaḥ . hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam . hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam kartavyam . ātaḥ aṭi nityam , śaḥ chaḥ aṭi , dīrghāt aṭi samānapade . hakāre ca iti vaktavyam iha api yathā syāt : mahāṃ hi saḥ . uttve ca . uttve ca hakāragrahaṇam kartavyam . ataḥ roḥ aplutāt aplute , haśi ca . hakāre ca iti vaktavyam iha api yathā syāt : puruṣaḥ hasati , brāhmaṇaḥ hasati iti . astu tarhi pūrvopadeśaḥ . pūrvopadeśe kittvakseḍvidhayaḥ jhalgrahaṇāni ca . yadi pūrvopadeśaḥ kittvam vidheyam . snihitvā snehitvā sisnihiṣati sisnehiṣati . ralaḥ vyupadhāt halādeḥ iti kittvam na prāpnoti . ksavidhiḥ . ksaḥ ca vidheyaḥ . adhukṣat alikṣat . śalaḥ igupadhāt aniṭaḥ ksaḥ iti ksaḥ na prāpnoti . iḍvidhiḥ . iṭ ca vidheyaḥ . rudihi svapihi . valādilakṣaṇaḥ iṭ na prāpnoti. jhalgrahaṇāni ca . kim . ahakārāṇi syuḥ . tatra kaḥ doṣaḥ . jhalaḥ jhali iti iha na syāt : adāgdhām adāgdham . tasmāt pūrvaḥ ca upadeṣṭavyaḥ paraḥ ca . yadi ca kim cit anyatra api upadeśe prayojanam asti tatra api upadeśaḥ kartavyaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.