Library·Patanjali: Vyakaranamahabhasya [Śs]·5

Patanjali: Vyakaranamahabhasya [Śs] 5

क्अ इ,२७।२-२० रो इ,९३-९४ सर्वे वर्णाः सकृत् उपदिष्टाः । अयम् हकारः द्विः उपदिश्यते पूर्वः च परः च । यदि पुनः पूर्वः एव उपदिश्येत परः एव वा । कः च अत्र विशेषः । हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् । हकारस्य परोपदेशे अड्ग्रहणेषु हग्रहणम् कर्तव्यम् । आतः अटि नित्यम् , शः छः अटि , दीर्घात् अटि समानपदे । हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : महां हि सः । उत्त्वे च । उत्त्वे च हकारग्रहणम् कर्तव्यम् । अतः रोः अप्लुतात् अप्लुते , हशि च । हकारे च इति वक्तव्यम् इह अपि यथा स्यात् : पुरुषः हसति , ब्राह्मणः हसति इति । अस्तु तर्हि पूर्वोपदेशः । पूर्वोपदेशे कित्त्वक्सेड्विधयः झल्ग्रहणानि च । यदि पूर्वोपदेशः कित्त्वम् विधेयम् । स्निहित्वा स्नेहित्वा सिस्निहिषति सिस्नेहिषति । रलः व्युपधात् हलादेः इति कित्त्वम् न प्राप्नोति । क्सविधिः । क्सः च विधेयः । अधुक्षत् अलिक्षत् । शलः इगुपधात् अनिटः क्सः इति क्सः न प्राप्नोति । इड्विधिः । इट् च विधेयः । रुदिहि स्वपिहि । वलादिलक्षणः इट् न प्राप्नोति। झल्ग्रहणानि च । किम् । अहकाराणि स्युः । तत्र कः दोषः । झलः झलि इति इह न स्यात् : अदाग्धाम् अदाग्धम् । तस्मात् पूर्वः च उपदेष्टव्यः परः च । यदि च किम् चित् अन्यत्र अपि उपदेशे प्रयोजनम् अस्ति तत्र अपि उपदेशः कर्तव्यः ।

KA I,27.2-20 Ro I,93-94 sarve varṇāḥ sakṛt upadiṣṭāḥ . ayam hakāraḥ dviḥ upadiśyate pūrvaḥ ca paraḥ ca . yadi punaḥ pūrvaḥ eva upadiśyeta paraḥ eva vā . kaḥ ca atra viśeṣaḥ . hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam . hakārasya paropadeśe aḍgrahaṇeṣu hagrahaṇam kartavyam . ātaḥ aṭi nityam , śaḥ chaḥ aṭi , dīrghāt aṭi samānapade . hakāre ca iti vaktavyam iha api yathā syāt : mahāṃ hi saḥ . uttve ca . uttve ca hakāragrahaṇam kartavyam . ataḥ roḥ aplutāt aplute , haśi ca . hakāre ca iti vaktavyam iha api yathā syāt : puruṣaḥ hasati , brāhmaṇaḥ hasati iti . astu tarhi pūrvopadeśaḥ . pūrvopadeśe kittvakseḍvidhayaḥ jhalgrahaṇāni ca . yadi pūrvopadeśaḥ kittvam vidheyam . snihitvā snehitvā sisnihiṣati sisnehiṣati . ralaḥ vyupadhāt halādeḥ iti kittvam na prāpnoti . ksavidhiḥ . ksaḥ ca vidheyaḥ . adhukṣat alikṣat . śalaḥ igupadhāt aniṭaḥ ksaḥ iti ksaḥ na prāpnoti . iḍvidhiḥ . iṭ ca vidheyaḥ . rudihi svapihi . valādilakṣaṇaḥ iṭ na prāpnoti. jhalgrahaṇāni ca . kim . ahakārāṇi syuḥ . tatra kaḥ doṣaḥ . jhalaḥ jhali iti iha na syāt : adāgdhām adāgdham . tasmāt pūrvaḥ ca upadeṣṭavyaḥ paraḥ ca . yadi ca kim cit anyatra api upadeśe prayojanam asti tatra api upadeśaḥ kartavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७।२१-२८।१५ रो इ,९५-९७ इदम् विचार्यते : अयम् रेफः यकारवकाराभ्याम् पूर्वः एव उपदिश्येत ह र य वट् इति परः एव वा यथान्यासम् इति । कः च अत्र विशेषः । रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः । रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णानाम् प्रतिषेधः वक्तव्यः । अनुनासिकस्य : स्वः नयति , प्रातः नयति इति यरः अनुनासिके अनुनासिकः वा इति अनुनासिकः प्राप्नोति । द्विर्वचनस्य : भद्रह्रदः , मद्रह्रदः इति यरः इति द्विर्वचनम् प्राप्नोति । परसवर्णस्य : कुण्डम् रथेन , वनम् रथेन । अनुस्वारस्य ययि इति परसवर्णः प्राप्नोति । अस्तु तर्हि पूर्वोपदेशः । पूर्वोपदेशे कित्त्वप्रतिषेधः व्यलोपवचनम् च । यदि पूर्वोपदेशः कित्त्वम् प्रतिषेध्यम् । देवित्वा दिदेविषति । रलः व्युपधात् इति कित्त्वम् प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते रलः व्युपधात् इति । किम् तर्हि । रलः अव्व्युपधात् इति । किम् इदम् अव्व्युपधात् इति । अवकारान्तात् व्युव्पधात् अव्व्युपधात् इति । व्यलोपवचनम् च । व्योः च लोपः वक्तव्यः : गौधेरः , पचेरन् यजेरन् । जीवेः रदानुक् : जीरदानुः । वलि इति लोपः न प्राप्नोति । न एषः दोषः । रेफः अपि अत्र निर्दिश्यते । लोपः व्योः वलि इति रेफे च वलि च इति । अथ वा पुनः अस्तु परोपदेशः । ननु च उक्तम् रेफस्य परोपदेशे अनुनासिकद्विर्वचनपरसवर्णप्रतिषेधः इति । अनुनासिकपरसवर्णयोः तावत् प्रतिषेधः न वक्तव्यः । रेफोष्मणाम् सवर्णाः न सन्ति । द्विर्वचने अपि न इमौ रहौ कार्यिणौ द्विर्वचनस्य । किम् तर्हि । निमित्तम् इमौ रहौ द्विर्वचनस्य । तत् यथा । ब्राह्मणाः भोज्यन्ताम् । माठरकौण्डिन्यौ परिवेविष्टाम् इति। न इदानीम् तौ भुञ्जाते ।

KA I,27.21-28.15 Ro I,95-97 idam vicāryate : ayam rephaḥ yakāravakārābhyām pūrvaḥ eva upadiśyeta ha ra ya vaṭ iti paraḥ eva vā yathānyāsam iti . kaḥ ca atra viśeṣaḥ . rephasya paropadeśe anunāsikadvirvacanaparasavarṇapratiṣedhaḥ . rephasya paropadeśe anunāsikadvirvacanaparasavarṇānām pratiṣedhaḥ vaktavyaḥ . anunāsikasya : svaḥ nayati , prātaḥ nayati iti yaraḥ anunāsike anunāsikaḥ vā iti anunāsikaḥ prāpnoti . dvirvacanasya : bhadrahradaḥ , madrahradaḥ iti yaraḥ iti dvirvacanam prāpnoti . parasavarṇasya : kuṇḍam rathena , vanam rathena . anusvārasya yayi iti parasavarṇaḥ prāpnoti . astu tarhi pūrvopadeśaḥ . pūrvopadeśe kittvapratiṣedhaḥ vyalopavacanam ca . yadi pūrvopadeśaḥ kittvam pratiṣedhyam . devitvā dideviṣati . ralaḥ vyupadhāt iti kittvam prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate ralaḥ vyupadhāt iti . kim tarhi . ralaḥ avvyupadhāt iti . kim idam avvyupadhāt iti . avakārāntāt vyuvpadhāt avvyupadhāt iti . vyalopavacanam ca . vyoḥ ca lopaḥ vaktavyaḥ : gaudheraḥ , paceran yajeran . jīveḥ radānuk : jīradānuḥ . vali iti lopaḥ na prāpnoti . na eṣaḥ doṣaḥ . rephaḥ api atra nirdiśyate . lopaḥ vyoḥ vali iti rephe ca vali ca iti . atha vā punaḥ astu paropadeśaḥ . nanu ca uktam rephasya paropadeśe anunāsikadvirvacanaparasavarṇapratiṣedhaḥ iti . anunāsikaparasavarṇayoḥ tāvat pratiṣedhaḥ na vaktavyaḥ . rephoṣmaṇām savarṇāḥ na santi . dvirvacane api na imau rahau kāryiṇau dvirvacanasya . kim tarhi . nimittam imau rahau dvirvacanasya . tat yathā . brāhmaṇāḥ bhojyantām . māṭharakauṇḍinyau pariveviṣṭām iti. na idānīm tau bhuñjāte .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८।१६-२९।२८ रो इ,९७-१०१ इदम् विचार्यते । इमे अयोगवाहाः न क्व चित् उपदिश्यन्ते श्रूयन्ते च । तेषाम् कार्यार्थः उपदेशः कर्तव्यः । के पुनः अयोगवाहाः । विसर्जनीयजिह्वामूलीयोपध्मानीयानुस्वारानुनासिक्ययमाः । कथम् पुनः अयोगवाहाः । यत् अयुक्ताः वहन्ति अनुपदिष्टाः च श्रूयन्ते । क्व पुनः एषाम् उपदेशः कर्तव्यः । अयोगवाहानाम् अट्सु णत्वम् । अयोगवाहानाम् अट्सु उपदेशः कर्तव्यः । किम् प्रयोजनम् । णत्वम् । उरःकेण , उरःपेण : अड्व्यवाये इति णत्वम् सिद्धम् भवति । शर्षु जश्भावषत्वे । शर्षु उपदेशः कर्तव्यः । किम् प्रयोजनम् । जश्भावषत्वे । अयम् उब्जिः उपध्मानीयोपधः पठ्यते । तस्य जश्त्वे कृते उब्जिता उब्जितुम् इति एतत् रूपम् यथा स्यात् । यदि उब्जिः उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयादेः एव द्विर्वचनम् प्राप्नोति। दकारोपधे पुनः नन्द्राः संयोगादयः इति प्रतिषेधस्ः सिद्धः भवति । यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति । असिद्धे भः उद्जेः । इदम् अस्ति स्तोः श्चुना श्चुः इति । ततः वक्ष्यामि भः उद्जेः । उद्जेः श्चुना सन्निपाते भः भवति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । निपातनात् एव सिद्धम् । किम् निपातनम् । भुजन्युब्जौ पण्युपतपयोः इति । इह अपि तर्हि प्राप्नोति अभ्युद्गः , समुद्गः इति । अकुत्वविषये तत् निपातनम् । अथ वा न एतत् उब्जेः रूपम् । गमेः द्व्युपर्सर्गात् डः विधीयते । अभ्युद्गतः अभ्युद्गः । समुद्गतः समुद्गः इति । षत्वम् च प्रयोजनम् । सर्पिःषु धनुःषु । शर्व्यवाये इति षत्वम् सिद्धम् भवति । नुम्विसर्जनीयशर्व्यवाये अपि इति विसर्जनीयग्रहणम् न कर्तव्यम् भवति । नुमः च अपि तर्हि ग्रहणम् शक्यम् अकर्तुम् । कथम् सर्पींषि धनूंषि । अनुस्वारे कृते शर्व्यवाये इति एव सिद्धम् । अवश्यम् नुमः ग्रहणम् कर्तव्यम् अनुस्वारविशेषणम् नुम्ग्रहणम् नुमः यः अनुस्वारः तत्र यथा स्यात् इह मा भूत् : पुंसु इति । अथ वा अविशेषेण उपदेशः कर्तव्यः । किम् प्रयोजनम् । अविशेषेण संयोगोपधासञ्ज्ञालोन्त्यद्विर्वचनस्थानिवद्भावप्रतिषेधाः । अविशेषेण संयोगसञ्ज्ञा प्रयोजनम् । ऊब्जक । हलः अनन्तराः संयोगः इति संयोगसञ्ज्ञा संयोगे गुरु इति गुरुसञ्ज्ञा गुरोः इति प्लुतः भवति । उपधासञ्ज्ञा च प्रयोजनम् । दुष्कृतम् , निष्कृतम् , निष्पीतम् , दुष्पीतम् । इदुदुपधस्य च अप्रत्ययस्य इति षत्वम् सिद्धम् भवति । न एतत् अस्ति प्रयोजनम् । न इदुदुपधग्रहणनेन विसर्जनीयः विशेष्यते । किम् तर्हि । सकारः विशेष्यते । इदुदुपधस्य सकारस्य यः विसर्जनीयः इति । अथ वा उपधाग्रहणम् न करिष्यते । इदुद्भ्याम् तु विसर्जनीयम् विशेषयिष्यामः । इदुद्भ्याम् उत्तरस्य विसर्जनीयस्य इति । अलः अन्त्यविधिः प्रयोजनम् । वृक्षः तरति । प्लक्षः तरति । अलः अन्त्यस्य विधयः भवन्ति इति अलः अन्त्यस्य सत्वम् सिद्धम् भवति । एतत् अपि न अस्ति प्रयोजनम् । निर्दिश्यमानस्य आदेशाः भवन्ति इति विसर्जनीयस्य एव भविष्यति । द्विर्वचनम् प्रयोजनम् । उरःकः , उरःपः । अनचि च । अचः उत्तरस्य यरः द्वे भवतः इति द्विर्वचनम् सिद्धम् भवति । स्थानिवद्भावप्रतिषेधः च प्रयोजनम् । यथा इह भवति उरःकेण , उरःपेण इति अड्व्यवाये अपि इति णत्वम् एवम् इह अपि स्थानिवद्भावात् प्राप्नोति व्यूढोरस्केन महोरस्केन इति । तत्र अनल्विधौ इति प्रतिषेधः सिद्धः भवति ।

KA I,28.16-29.28 Ro I,97-101 idam vicāryate . ime ayogavāhāḥ na kva cit upadiśyante śrūyante ca . teṣām kāryārthaḥ upadeśaḥ kartavyaḥ . ke punaḥ ayogavāhāḥ . visarjanīyajihvāmūlīyopadhmānīyānusvārānunāsikyayamāḥ . katham punaḥ ayogavāhāḥ . yat ayuktāḥ vahanti anupadiṣṭāḥ ca śrūyante . kva punaḥ eṣām upadeśaḥ kartavyaḥ . ayogavāhānām aṭsu ṇatvam . ayogavāhānām aṭsu upadeśaḥ kartavyaḥ . kim prayojanam . ṇatvam . uraḥkeṇa , uraḥpeṇa : aḍvyavāye iti ṇatvam siddham bhavati . śarṣu jaśbhāvaṣatve . śarṣu upadeśaḥ kartavyaḥ . kim prayojanam . jaśbhāvaṣatve . ayam ubjiḥ upadhmānīyopadhaḥ paṭhyate . tasya jaśtve kṛte ubjitā ubjitum iti etat rūpam yathā syāt . yadi ubjiḥ upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyādeḥ eva dvirvacanam prāpnoti. dakāropadhe punaḥ nandrāḥ saṃyogādayaḥ iti pratiṣedhasḥ siddhaḥ bhavati . yadi dakāropadhaḥ paṭhyate kā rūpasiddhiḥ : ubjitā ubjitum iti . asiddhe bhaḥ udjeḥ . idam asti stoḥ ścunā ścuḥ iti . tataḥ vakṣyāmi bhaḥ udjeḥ . udjeḥ ścunā sannipāte bhaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . nipātanāt eva siddham . kim nipātanam . bhujanyubjau paṇyupatapayoḥ iti . iha api tarhi prāpnoti abhyudgaḥ , samudgaḥ iti . akutvaviṣaye tat nipātanam . atha vā na etat ubjeḥ rūpam . gameḥ dvyuparsargāt ḍaḥ vidhīyate . abhyudgataḥ abhyudgaḥ . samudgataḥ samudgaḥ iti . ṣatvam ca prayojanam . sarpiḥṣu dhanuḥṣu . śarvyavāye iti ṣatvam siddham bhavati . numvisarjanīyaśarvyavāye api iti visarjanīyagrahaṇam na kartavyam bhavati . numaḥ ca api tarhi grahaṇam śakyam akartum . katham sarpīṃṣi dhanūṃṣi . anusvāre kṛte śarvyavāye iti eva siddham . avaśyam numaḥ grahaṇam kartavyam anusvāraviśeṣaṇam numgrahaṇam numaḥ yaḥ anusvāraḥ tatra yathā syāt iha mā bhūt : puṃsu iti . atha vā aviśeṣeṇa upadeśaḥ kartavyaḥ . kim prayojanam . aviśeṣeṇa saṃyogopadhāsañjñālontyadvirvacanasthānivadbhāvapratiṣedhāḥ . aviśeṣeṇa saṃyogasañjñā prayojanam . ūbjaka . halaḥ anantarāḥ saṃyogaḥ iti saṃyogasañjñā saṃyoge guru iti gurusañjñā guroḥ iti plutaḥ bhavati . upadhāsañjñā ca prayojanam . duṣkṛtam , niṣkṛtam , niṣpītam , duṣpītam . idudupadhasya ca apratyayasya iti ṣatvam siddham bhavati . na etat asti prayojanam . na idudupadhagrahaṇanena visarjanīyaḥ viśeṣyate . kim tarhi . sakāraḥ viśeṣyate . idudupadhasya sakārasya yaḥ visarjanīyaḥ iti . atha vā upadhāgrahaṇam na kariṣyate . idudbhyām tu visarjanīyam viśeṣayiṣyāmaḥ . idudbhyām uttarasya visarjanīyasya iti . alaḥ antyavidhiḥ prayojanam . vṛkṣaḥ tarati . plakṣaḥ tarati . alaḥ antyasya vidhayaḥ bhavanti iti alaḥ antyasya satvam siddham bhavati . etat api na asti prayojanam . nirdiśyamānasya ādeśāḥ bhavanti iti visarjanīyasya eva bhaviṣyati . dvirvacanam prayojanam . uraḥkaḥ , uraḥpaḥ . anaci ca . acaḥ uttarasya yaraḥ dve bhavataḥ iti dvirvacanam siddham bhavati . sthānivadbhāvapratiṣedhaḥ ca prayojanam . yathā iha bhavati uraḥkeṇa , uraḥpeṇa iti aḍvyavāye api iti ṇatvam evam iha api sthānivadbhāvāt prāpnoti vyūḍhoraskena mahoraskena iti . tatra analvidhau iti pratiṣedhaḥ siddhaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३०।१-३२।११ रो इ,१०१-१०६ किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः । अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् । धातवः एकवर्णाः अर्थवन्तः दृश्यन्ते : एति , अध्येति , अधीते इति । प्रातिपदिकनि एकवर्णानि अर्थवन्ति : आभ्याम् , एभिः , एषु । प्रत्ययाः एकवर्णाः अर्थवन्तः : औपगवः , कापटवः । निपाताः एकवर्णाः अर्थवन्तः : अ*अपेहि । इ*इन्द्रम् पश्य । उ*उत्तिष्ठ । धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् मन्यामहे अर्थवन्तः वर्णाः इति । वर्णव्यत्यये च अर्थान्तरगमनात् । वर्णव्यत्यये च अर्थान्तरगमनात् मन्यामहे अर्थवन्तः वर्णाः इति । कूपः , सूपः , यूपः इति । कूपः इति सककारेण कः चित् अर्थः गम्यते । सूपः इति ककारापाये सकारोपजने च अर्थान्तरम् गम्यते । यूपः इति ककारसकारापाये यकारोपजने च अर्थान्ततम् गम्यते । ते मन्यामहे : यः कूपे कूपार्थः सः ककारस्य । यः सूपे सूपार्थः सः सकारस्य । यः यूपे यूपार्थः सः यकारस्य इति । वर्णानुपलब्धौ च अनर्थगतेः । वर्णानुपलब्धौ च अनर्थगतेः मन्यामहे अर्थवन्तः वर्णाः इति । वृक्षः , ऋक्षः , काण्डीरः , आण्डीरः । वृक्षः इति सककारेण कः चित् अर्थः गम्यते । ऋक्षः इति वकारापाये सः अर्थः न गम्यते । काण्डीरः इति सककारेण कः चित् अर्थः गम्यते । आण्डीरः इति ककारापाये सः अर्थः न गम्यते । किम् तर्हि उच्यते अनर्थगतेः इति । न साधीयः हि अत्र अर्थस्य गतिः भवति । एवम् तर्हि इदम् पठितव्यम् स्यात् । वर्णानुपलब्धौ च अतदर्थगतेः । किम् इदम् अतदर्थगतेः इति । तस्य अर्थः तदर्थः । तदर्थस्य गतिः तदर्थगतिः । न तदर्थगतिः अतदर्थगतिः । अतदर्थगतेः इति । अथ वा सः अर्थः तदर्थः । तदर्थस्य गतिः तदर्थगतिः । न तदर्थगतिः अतदर्थगतिः । अतदर्थगतेः इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत् यथा: उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखम् इव मुखम् अस्य खरमुखः । एवम् अतदर्थगतेः अनर्थगतेः । सङ्घातार्थवत्त्वात् च । सङ्घातार्थवत्त्वात् च मन्यामहे अर्थवन्तः वर्णाः इति । येषाम् सङ्घाताः अर्थवन्तः अवयवाः अपि तेषाम् अर्थवन्तः । येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः । तत् यथा: एकः चक्षुष्मान् दर्शने समर्थः तत्समुदायः च शतम् अपि समर्थम् । एकः च तिलः तैलदाने समर्थः तत्समुदायः च खारी अपि समर्था । येषाम् पुनः अवयवाः अनर्थकाः समुदायाः अपि तेषाम् अनर्थकाः । तत् यथा: एकः अन्धः दर्शने असमर्थः तत्समुदायः च शतम् अपि असमर्थम् । एका च सिकता तैलदाने असमर्था तत्समुदायः च खारीशतम् अपि असमर्थम् । यदि तर्हि इमे वर्णाः अर्थवन्तः अर्थवत्कृतानि प्राप्नुवन्ति । कानि । अर्थवत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा प्रातिपदिकात् इति स्वाद्युत्पत्तिः सुबन्तम् पदम् इति पदसञ्ज्ञा । तत्र कः दोषः । पदस्य इति नलोपादीनि प्राप्नुवन्ति । धनम् , वनम् इति । सङ्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् । सङ्घातस्य एकत्वम् अर्थः । तेन वर्णात् सुबुत्पत्तिः न भविष्यति । अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः । अनर्थकाः तु वर्णाः । कुतः । प्रतिवर्णम् अर्थानुपलब्धेः । न हि प्रतिवर्णम् अर्थाः उपलभ्यन्ते । किम् इदम् प्रतिवर्णम् इति । वर्णम् वर्णम् प्रति प्रतिवर्णम् । वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् । वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् मन्यामहे अनर्थकाः वर्णाः इति । वर्णव्यत्यये: कृतेः तर्कुः , कसेः सिकताः , हिंसेः सिंहः । वर्णव्यत्ययः न अर्थव्यत्ययः । अपायः लोपः । घ्नन्ति , घन्तु , अघ्नन् । वर्णापायः नार्थापायः । उपजनः आगमः । लविता , लवितुम् । वर्णोपजनः न अर्थोपजनः । विकारः आदेशः । घातयति , घातकः । वर्णविकारः न अर्थविकारः । यथा एव वर्णव्यत्ययापायोपजनविकाराः भवन्ति तद्वत् अर्थव्यत्ययापायोपजनविकारैः भवितव्यम् । न च इह तद्वत् । अतः मन्यामहे अनर्थकाः वर्णाः इति । उभयम् इदम् वर्णेषु उक्तम् अर्थवन्तः अनर्थकाः इति च । किम् अत्र न्याय्यम् । उभयम् इति आह । कुतः । स्वभावतः । तत् यथा: समानम् ईहमानानाम् अधीयानानाम् च के चित् अर्थैः युज्यन्ते अपरे न । न च इदानीम् कः चित् अर्थवान् इति कृत्वा सर्वैः अर्थवद्भिः शक्यम् भवितुम् , कः चित् अनर्थकः इति कृत्वा सर्वैः अनर्थकैः । तत्र किम् अस्माभिः शक्यम् कर्तुम् । यत् धातुप्रत्ययप्रातिपदिकनिपाताः एकवर्णाः अर्थवन्तः अतः अन्ये अनर्थकाः इति स्वाभाविकम् एतत् । कथम् यः एषः भवता वर्णानाम् अर्थवत्तायाम् हेतुः उपदिष्टः अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् वर्णव्यत्यये च अर्थान्तरगमनात् वर्णानुपलब्धौ च अनर्थगतेः सङ्घातार्थवत्त्वात् च इति । सङ्घातान्तराणि

KA I,30.1-32.11 Ro I,101-106 kim punaḥ ime varṇāḥ arthavantaḥ āhosvit anarthakāḥ . arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt . dhātavaḥ ekavarṇāḥ arthavantaḥ dṛśyante : eti , adhyeti , adhīte iti . prātipadikani ekavarṇāni arthavanti : ābhyām , ebhiḥ , eṣu . pratyayāḥ ekavarṇāḥ arthavantaḥ : aupagavaḥ , kāpaṭavaḥ . nipātāḥ ekavarṇāḥ arthavantaḥ : a*apehi . i*indram paśya . u*uttiṣṭha . dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt manyāmahe arthavantaḥ varṇāḥ iti . varṇavyatyaye ca arthāntaragamanāt . varṇavyatyaye ca arthāntaragamanāt manyāmahe arthavantaḥ varṇāḥ iti . kūpaḥ , sūpaḥ , yūpaḥ iti . kūpaḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . sūpaḥ iti kakārāpāye sakāropajane ca arthāntaram gamyate . yūpaḥ iti kakārasakārāpāye yakāropajane ca arthāntatam gamyate . te manyāmahe : yaḥ kūpe kūpārthaḥ saḥ kakārasya . yaḥ sūpe sūpārthaḥ saḥ sakārasya . yaḥ yūpe yūpārthaḥ saḥ yakārasya iti . varṇānupalabdhau ca anarthagateḥ . varṇānupalabdhau ca anarthagateḥ manyāmahe arthavantaḥ varṇāḥ iti . vṛkṣaḥ , ṛkṣaḥ , kāṇḍīraḥ , āṇḍīraḥ . vṛkṣaḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . ṛkṣaḥ iti vakārāpāye saḥ arthaḥ na gamyate . kāṇḍīraḥ iti sakakāreṇa kaḥ cit arthaḥ gamyate . āṇḍīraḥ iti kakārāpāye saḥ arthaḥ na gamyate . kim tarhi ucyate anarthagateḥ iti . na sādhīyaḥ hi atra arthasya gatiḥ bhavati . evam tarhi idam paṭhitavyam syāt . varṇānupalabdhau ca atadarthagateḥ . kim idam atadarthagateḥ iti . tasya arthaḥ tadarthaḥ . tadarthasya gatiḥ tadarthagatiḥ . na tadarthagatiḥ atadarthagatiḥ . atadarthagateḥ iti . atha vā saḥ arthaḥ tadarthaḥ . tadarthasya gatiḥ tadarthagatiḥ . na tadarthagatiḥ atadarthagatiḥ . atadarthagateḥ iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā: uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukham iva mukham asya kharamukhaḥ . evam atadarthagateḥ anarthagateḥ . saṅghātārthavattvāt ca . saṅghātārthavattvāt ca manyāmahe arthavantaḥ varṇāḥ iti . yeṣām saṅghātāḥ arthavantaḥ avayavāḥ api teṣām arthavantaḥ . yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ . tat yathā: ekaḥ cakṣuṣmān darśane samarthaḥ tatsamudāyaḥ ca śatam api samartham . ekaḥ ca tilaḥ tailadāne samarthaḥ tatsamudāyaḥ ca khārī api samarthā . yeṣām punaḥ avayavāḥ anarthakāḥ samudāyāḥ api teṣām anarthakāḥ . tat yathā: ekaḥ andhaḥ darśane asamarthaḥ tatsamudāyaḥ ca śatam api asamartham . ekā ca sikatā tailadāne asamarthā tatsamudāyaḥ ca khārīśatam api asamartham . yadi tarhi ime varṇāḥ arthavantaḥ arthavatkṛtāni prāpnuvanti . kāni . arthavat prātipadikam iti prātipadikasañjñā prātipadikāt iti svādyutpattiḥ subantam padam iti padasañjñā . tatra kaḥ doṣaḥ . padasya iti nalopādīni prāpnuvanti . dhanam , vanam iti . saṅghātasya aikārthyāt subabhāvaḥ varṇāt . saṅghātasya ekatvam arthaḥ . tena varṇāt subutpattiḥ na bhaviṣyati . anarthakāḥ tu prativarṇam arthānupalabdheḥ . anarthakāḥ tu varṇāḥ . kutaḥ . prativarṇam arthānupalabdheḥ . na hi prativarṇam arthāḥ upalabhyante . kim idam prativarṇam iti . varṇam varṇam prati prativarṇam . varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt . varṇavyatyayāpāyopajanavikāreṣu arthadarśanāt manyāmahe anarthakāḥ varṇāḥ iti . varṇavyatyaye: kṛteḥ tarkuḥ , kaseḥ sikatāḥ , hiṃseḥ siṃhaḥ . varṇavyatyayaḥ na arthavyatyayaḥ . apāyaḥ lopaḥ . ghnanti , ghantu , aghnan . varṇāpāyaḥ nārthāpāyaḥ . upajanaḥ āgamaḥ . lavitā , lavitum . varṇopajanaḥ na arthopajanaḥ . vikāraḥ ādeśaḥ . ghātayati , ghātakaḥ . varṇavikāraḥ na arthavikāraḥ . yathā eva varṇavyatyayāpāyopajanavikārāḥ bhavanti tadvat arthavyatyayāpāyopajanavikāraiḥ bhavitavyam . na ca iha tadvat . ataḥ manyāmahe anarthakāḥ varṇāḥ iti . ubhayam idam varṇeṣu uktam arthavantaḥ anarthakāḥ iti ca . kim atra nyāyyam . ubhayam iti āha . kutaḥ . svabhāvataḥ . tat yathā: samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na . na ca idānīm kaḥ cit arthavān iti kṛtvā sarvaiḥ arthavadbhiḥ śakyam bhavitum , kaḥ cit anarthakaḥ iti kṛtvā sarvaiḥ anarthakaiḥ . tatra kim asmābhiḥ śakyam kartum . yat dhātupratyayaprātipadikanipātāḥ ekavarṇāḥ arthavantaḥ ataḥ anye anarthakāḥ iti svābhāvikam etat . katham yaḥ eṣaḥ bhavatā varṇānām arthavattāyām hetuḥ upadiṣṭaḥ arthavantaḥ varṇāḥ dhātuprātipadikapratyayanipātānām ekavarṇānām arthadarśanāt varṇavyatyaye ca arthāntaragamanāt varṇānupalabdhau ca anarthagateḥ saṅghātārthavattvāt ca iti . saṅghātāntarāṇi

Sanskrit only: no published translation is held for this verse.

क्अ इ,३२।१२-३३।४ रो इ,१०७-१०८ अ , इ , उण् ऋ , ऌक् ए , ओङ् ऐ , औच् । प्रत्याहारे अनुबन्धानाम् कथम् अज्ग्रहणेषु न । ये एते अक्षु प्रत्याहारार्थाः अनुबन्धाः क्रियन्ते एतेषाम् अज्ग्रहणेषु ग्रहणम् कस्मात् न भवति । किम् च स्यात् । दधि णकारीयति मधु णकारीयति इति । इकः यण् अचि इति यणादेशः प्रसज्येत । आचारात् । किम् इदम् आचारात् इति । आचार्याणाम् उपचारात् । न एतेषु आचार्याः अच्कार्याणि कृतवन्तः । अप्रधानत्वात् । अप्रधानत्वात् च । न खलु अपि एतेषाम् अक्षु प्राधान्येन उपदेशः क्रियते । क्व तर्हि । हल्षु । कुतः एतत् । एषा हि आचार्यस्य शैली लक्ष्यते यत् तुल्यजातीयान् तुल्यजातीयेषु उपदिशति । अचः अक्षु हलः हल्षु । लोपः च बलवत्तरः । लोपः खलु अपि तावत् भवति । ऊकालः अच् इति वा योगः तत्कालानाम् यथा भवेत् अचाम् ग्रहणम् अच्कार्यम् तेन एतेषाम् न भविष्यति । अथ वा योगविभागः करिष्यते । ऊकालः अच् । उ ऊ उ३ इति एवङ्कालः अच् भवति । ततः ह्रस्वदीर्घप्लुतः । ह्रस्वदीर्घप्लुतसञ्ज्ञः च भवति ऊकालः अच् । एवम् अपि कुक्कुटः इति अत्र अपि प्राप्नोति । तस्मात् पूर्वोक्तः एव परिहारः । एषः एव अर्थः। अपरः आह : ह्रस्वादीनाम् वचनात् प्राक् यावत् तावत् एव योगः अस्तु अच्कार्याणि यथा स्युः तत्कालेषु अक्षु कार्याणि ।

KA I,32.12-33.4 Ro I,107-108 a , i , uṇ ṛ , ḷk e , oṅ ai , auc . pratyāhāre anubandhānām katham ajgrahaṇeṣu na . ye ete akṣu pratyāhārārthāḥ anubandhāḥ kriyante eteṣām ajgrahaṇeṣu grahaṇam kasmāt na bhavati . kim ca syāt . dadhi ṇakārīyati madhu ṇakārīyati iti . ikaḥ yaṇ aci iti yaṇādeśaḥ prasajyeta . ācārāt . kim idam ācārāt iti . ācāryāṇām upacārāt . na eteṣu ācāryāḥ ackāryāṇi kṛtavantaḥ . apradhānatvāt . apradhānatvāt ca . na khalu api eteṣām akṣu prādhānyena upadeśaḥ kriyate . kva tarhi . halṣu . kutaḥ etat . eṣā hi ācāryasya śailī lakṣyate yat tulyajātīyān tulyajātīyeṣu upadiśati . acaḥ akṣu halaḥ halṣu . lopaḥ ca balavattaraḥ . lopaḥ khalu api tāvat bhavati . ūkālaḥ ac iti vā yogaḥ tatkālānām yathā bhavet acām grahaṇam ackāryam tena eteṣām na bhaviṣyati . atha vā yogavibhāgaḥ kariṣyate . ūkālaḥ ac . u ū u3 iti evaṅkālaḥ ac bhavati . tataḥ hrasvadīrghaplutaḥ . hrasvadīrghaplutasañjñaḥ ca bhavati ūkālaḥ ac . evam api kukkuṭaḥ iti atra api prāpnoti . tasmāt pūrvoktaḥ eva parihāraḥ . eṣaḥ eva arthaḥ. aparaḥ āha : hrasvādīnām vacanāt prāk yāvat tāvat eva yogaḥ astu ackāryāṇi yathā syuḥ tatkāleṣu akṣu kāryāṇi .

Sanskrit only: no published translation is held for this verse.

क्अ इ,३३।५-३४।२ रो इ,१०८-११० अथ किमर्थम् अन्तःस्थानाम् अण्सु उपदेशः क्रियते । इह सय्ंय्ंयन्ता सव्ंव्ंवत्सरः यल्ं ल्ंलोकम् तल्ं ल्ंलोकम् इति परसवर्णस्य असिद्धत्वात् अनुस्वारस्य एव द्विर्वचनम् । तत्र परस्य परसवर्णे कृते तस्य यय्ग्रहणेन ग्रहणात् पूर्वस्य अपि परसवर्णः यथा स्यात् । न एतत् अस्ति प्रयोजनम् । वक्ष्यति एतत् । द्विर्वचने परसवर्णत्वम् सिद्धम् वक्तव्यम् इति । यावता सिद्धत्वम् उच्यते परसवर्णः एव तावद् भवति । परसवर्णे तर्हि कृते तस्य यर्ग्रहणेण ग्रहणात् द्विर्वचनम् यथा स्यात् । मा भूत् द्विर्वचनम् । ननु च भेदः भवति। सति द्विर्वचने त्रियकारम् असति द्विर्वचने द्वियकारम् । न अस्ति भेदः । सति अपि द्विर्वचने द्वियकारम् एव । कथम् । हलः यमाम् यमि लोपः इति एवम् एकस्य लोपेन भवितव्यम् । एवम् अपि भेदः । सति द्विर्वचने कदा चित् द्वियकारम् कदा चित् त्रियकारम् । सः एषः कथम् भेदः न स्यात् । यदि नित्यः लोपः स्यात् । विभाषा च सः लोपः । यथा अभेदः तथा अस्तु । अनुवर्तते विभाषा शरः अचि यत् वारयति अयम् द्वित्वम् । यत् अयम् शरः अचि इति द्विर्वचनप्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः अनुवर्तते विभाषा इति । कथम् कृत्वा ज्ञापकम् । नित्ये हि तस्य लोपे प्रतिषेधार्थः न कः चित् स्यात् । यदि नित्यः लोपः स्यात् प्रतिषेधवचनम् अनर्थकम् स्यात् । अस्तु अत्र द्विर्वचनम् । झरः झरि सवर्णे इति लोपः भविष्यति । पश्यति तु आचार्यः विभाषा सः लोपः इति । ततः द्विर्वचनप्रतिषेधम् शास्ति । न एतत् अस्ति ज्ञापकम् । नित्ये अपि तस्य लोपे सः प्रतिषेधः अवश्यम् वक्तव्यः । यत् एतत् अचः रहाभ्याम् इति द्विर्वचनम् लोपापवादः सः विज्ञायते । कथम् । यरः इति उच्यते । एतावन्तः च यरः यत् उत झरः वा यमः वा । यदि च अत्र नित्यः लोपः स्यात् द्विर्वचनम् अनर्थकम् स्यात् । किम् तर्हि तयोः योगयोः उदाहरणम् । यत् अकृते द्विर्वचने त्रिव्यञ्जनः संयोगः । प्रत्त्तम् , अवत्त्तम् , आदित्य्यः । इह इदानीम् कर्त्ता , हर्त्ता इति द्विर्वचनसामर्थ्यात् लोपः न भवति । एवम् इह अपि लोपः न स्यात्:: कर्षति वर्षति इति । तस्मात् नित्ये अपि लोपे अवश्यम् सः प्रतिषेधः वक्तव्यः । तत् एतत् अत्यन्तम् सन्दिग्धम् वर्तते आचार्याणाम् विभाषा अनुवर्तते न वा इति ।

KA I,33.5-34.2 Ro I,108-110 atha kimartham antaḥsthānām aṇsu upadeśaḥ kriyate . iha sayṃyṃyantā savṃvṃvatsaraḥ yalṃ lṃlokam talṃ lṃlokam iti parasavarṇasya asiddhatvāt anusvārasya eva dvirvacanam . tatra parasya parasavarṇe kṛte tasya yaygrahaṇena grahaṇāt pūrvasya api parasavarṇaḥ yathā syāt . na etat asti prayojanam . vakṣyati etat . dvirvacane parasavarṇatvam siddham vaktavyam iti . yāvatā siddhatvam ucyate parasavarṇaḥ eva tāvad bhavati . parasavarṇe tarhi kṛte tasya yargrahaṇeṇa grahaṇāt dvirvacanam yathā syāt . mā bhūt dvirvacanam . nanu ca bhedaḥ bhavati. sati dvirvacane triyakāram asati dvirvacane dviyakāram . na asti bhedaḥ . sati api dvirvacane dviyakāram eva . katham . halaḥ yamām yami lopaḥ iti evam ekasya lopena bhavitavyam . evam api bhedaḥ . sati dvirvacane kadā cit dviyakāram kadā cit triyakāram . saḥ eṣaḥ katham bhedaḥ na syāt . yadi nityaḥ lopaḥ syāt . vibhāṣā ca saḥ lopaḥ . yathā abhedaḥ tathā astu . anuvartate vibhāṣā śaraḥ aci yat vārayati ayam dvitvam . yat ayam śaraḥ aci iti dvirvacanapratiṣedham śāsti tat jñāpayati ācāryaḥ anuvartate vibhāṣā iti . katham kṛtvā jñāpakam . nitye hi tasya lope pratiṣedhārthaḥ na kaḥ cit syāt . yadi nityaḥ lopaḥ syāt pratiṣedhavacanam anarthakam syāt . astu atra dvirvacanam . jharaḥ jhari savarṇe iti lopaḥ bhaviṣyati . paśyati tu ācāryaḥ vibhāṣā saḥ lopaḥ iti . tataḥ dvirvacanapratiṣedham śāsti . na etat asti jñāpakam . nitye api tasya lope saḥ pratiṣedhaḥ avaśyam vaktavyaḥ . yat etat acaḥ rahābhyām iti dvirvacanam lopāpavādaḥ saḥ vijñāyate . katham . yaraḥ iti ucyate . etāvantaḥ ca yaraḥ yat uta jharaḥ vā yamaḥ vā . yadi ca atra nityaḥ lopaḥ syāt dvirvacanam anarthakam syāt . kim tarhi tayoḥ yogayoḥ udāharaṇam . yat akṛte dvirvacane trivyañjanaḥ saṃyogaḥ . pratttam , avatttam , ādityyaḥ . iha idānīm karttā , harttā iti dvirvacanasāmarthyāt lopaḥ na bhavati . evam iha api lopaḥ na syāt:: karṣati varṣati iti . tasmāt nitye api lope avaśyam saḥ pratiṣedhaḥ vaktavyaḥ . tat etat atyantam sandigdham vartate ācāryāṇām vibhāṣā anuvartate na vā iti .

Sanskrit only: no published translation is held for this verse.