देवा वै स्वर्गकामास् तपो ऽतप्यन्त तेषां तप्यमानानां रसो ऽजायत पृथिव्य् अन्तरिक्षं द्यौर् इति ते ऽभ्यतपन् तेषां तप्यमानानां रसो ऽजायत ऋग्वेदः पृथिव्या यजुर्वेदो ऽन्तरिक्षात् सामवेदो ऽमुष्मात् ते ऽभ्यतपन् तेषां तप्यमानानां रसो ऽजायत ऋग्वेदाद् गार्हपत्यो यजुर्वेदाद् दक्षिणाग्निः सामवेदाद् आहवनीयः ते ऽभ्यतपन् तेषां तप्यमानानां पुरुषो ऽजायत सहस्रशीर्षः सहस्राक्षः सहस्रपात्
devā vai svargakāmās tapo 'tapyanta teṣāṃ tapyamānānāṃ raso 'jāyata pṛthivy antarikṣaṃ dyaur iti te 'bhyatapan teṣāṃ tapyamānānāṃ raso 'jāyata ṛgvedaḥ pṛthivyā yajurvedo 'ntarikṣāt sāmavedo 'muṣmāt te 'bhyatapan teṣāṃ tapyamānānāṃ raso 'jāyata ṛgvedād gārhapatyo yajurvedād dakṣiṇāgniḥ sāmavedād āhavanīyaḥ te 'bhyatapan teṣāṃ tapyamānānāṃ puruṣo 'jāyata sahasraśīrṣaḥ sahasrākṣaḥ sahasrapāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.