Library·Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja·1

Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja 1

श्रीः आपस्तम्बशुल्बसूत्रं कपर्दिभाष्यसहितम् उक्ता यज्ञाः । तेषां अग्न्यायतनानि नियतप्रमाणानि नियतदेशानि । तेषामायामविस्तारान्वक्तुकाम आह--विहार योगानिति- विहारयोगान् व्याख्यास्यामः

śrīḥ āpastambaśulbasūtraṃ kapardibhāṣyasahitam uktā yajñāḥ / teṣāṃ agnyāyatanāni niyatapramāṇāni niyatadeśāni / teṣāmāyāmavistārānvaktukāma āha--vihāra yogāniti- vihārayogān vyākhyāsyāmaḥ

Sanskrit only: no published translation is held for this verse.

"तदेकरव्ज्जा विहरणंऽ "रव्ज्जा वा विमायऽ इति रव्ज्जकार्ये विमानविहरणयोरत्र दर्शनादुभयोः पर्याय त्वाम् । "एतावन्ति ज्ञेयानि वेदिविहरणानि भवन्तिऽ इत्यनेन विहरणस्य वेद्यादिसम्बन्धः । "आगन्तुचतुर्थमायामश्वाक्ष्णयारज्जुः प्रमाणमात्री रज्जुंऽ इति तत्र तत्र करणीषु रज्जु व्यपदेशित्ववशात् पार्श्वमानी तिर्यङ्भानीदि करण्यष्टादशकरणीति तत्रतत्र रुत्रीलिङ्गनिर्देशात् रज्ज्वेति तृतीयाश्रुतेश् च रज्जूनां विहरणे साधनत्वं अत एव हेतोरेतत्कर्म शुल्बमित्याचक्षते । आचार्या एतं ग्रन्थराशिं "स समाधिःऽ "अथापरो योगःऽ इति वक्ष्यन्ति । तेन ज्ञायते युजेःसमाधिवचनता । युजेरर्थस्य समाधेर्विहरणसाध्यत्वात् । विहरणसाधनान्यपि योगसाधनानि भवन्तीति रव्ज्जादयो योगा इत्युच्यन्ते । वि हारयोगपरतां ज्ञापयितुं विहरणसाधनेषु योगव्यवहारः । योगग्रहणं किमर्थं ? साधनत्वप्रतीत्यर्थमित्युक्तम् । एवं तर्हि न वक्तव्यं दर्शपूर्णमासौ व्याख्यास्याम इत्यादिषु प्रतिज्ञानन्तरं साधनान्येव व्याख्येयतयावगम्यन्ते । एवं तर्हि योगग्रहणं मानसाधनेषु प्राधान्यख्यापनार्थं । किं तत् प्राधान्यम् ? यद्यपि पदवेण्वादीनि मानसाधनानि सन्ति, तधापि तैर्विमाने बहु प्रयत्नसाध्या सम्यग्वेद्यादिक्षेत्रसमाधिसिद्धिः, पज्जुसीरादिभिर् विमाने तस्याः सिद्धिरीषत्करीत्येतदत्र प्राधान्यं । ननु रव्ज्जादीनां विहरणसाधनत्वं लोकतो ऽपि सेत्स्यति, किमर्थमिदमुच्यते विहारयोगान्व्याख्यास्याम इति? उच्यते--सत्यं सेत्स्यति । तथापि कालवद्देशस्याप्यङ्गत्वादुक्तप्रमाणस्य देशस्य तिलमात्रप्र माणादपि न्यूनाधिकभावे सत्यङ्गवैगुण्यं स्यादिति मन्यमान आचार्यो रव्ज्जादीनामसन्दिग्धमीषत्करमुपायभावं स्वयमेव प्रतिपादयितुमिदं ब्रूते । अतो न्यूनाधिकभावे परिहरणीये सति प्रमादादसामथर्याद्वा यदि भ्रेष उपजायते तत्रावश्यं प्रायाश्वित्तं कर्तव्यमित्येतदर्थमिदमुच्यते "विहारयोगान्व्याख्यास्यामःऽ इति । अथवा विह्रियन्त इति विहाराः । योगाश् च तत्संपादनोपायभूतास्त एव रज्ज्वादयः । अत्र केचिन्नियतदिक्संयोगादीनां वेद्यादीनामज्ञातदिग्विशेषैः पुरुषैर्विहरणं कर्तुम् अशक्यमिति दिग्विशेषज्ञापनार्थमादावेव दिशं लक्षणीकुर्वन्ति । यथाऽह भगवान् कात्यायनः- "समे शङ्कुं निखाय शङ्कुसंमितया रव्ज्जा मण्डलं परिलिख्य यत्र लेखयोःशङ्कग्रवच्छाया निपतति सा प्राची । तत्र शङ्कुं निखाय तदनन्तरं रव्ज्जाभ्यस्य पाशौ कृत्वा शक्ङ्वोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य मध्यमशङ्कुरेवमुत्तरतःसोदीचीऽऽ इति । अस्यार्थः--अथ यत्र शुचौ देशे देवयजनं कीरष्यन् भवति तं देशं जलेन समीकृत्य मध्ये शङ्कुं निहत्य शङ्कुसंमितामेकतः पाशां रज्जुं कृत्वा शक्ङौ प्रतिमुच्य तया मण्डलं परिलिरूय मण्डलरेखायां पूर्वाह्ने यत्र शक्ङ्वग्रच्छाया निपतति तत्र बिन्दुं कुर्यात् तौ पूर्वपरौ बिन्दू सा च प्रची दिक् । बिन्द्वोर्द्वयोःशङ्कुं निखाय तदन्तरद्विगुणां रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणं कृत्वा शक्ङ्वोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य लक्षणे शङ्कुं कुर्याद् एवम् उत्तरतो ऽपि लक्षणेनापायम्य शङ्कुं कुर्यात् । तौ शङ्कू दक्षिणोत्तरौ सा उदीची दिगिति । तथा ज्योतिर्ज्ञाने । इष्टमण्डलमध्यस्थशङ्कुच्छायाग्रव्टत्तयोः । योगाभ्यां कृतमत्स्येन ज्ञेये याम्योत्तरे दिशौऽ इति । एवमन्यैरपि बहुप्रकारं दिशां ग्रहणं तत्र तत्रोक्तमिति प्रसिद्धत्वादेवाचार्येणेह नोक्तं । प्रमीयते ऽनेनेति व्युत्पच्या पार्श्वमान्यादीनां प्रमाणत्वे सिद्धे प्रमाणामिति परिभाष्यते ॥ आपस्तम्बशुल्बसूत्रव्याख्या सुन्दरराजीया आपस्तम्बेन यो ऽयं व्यरचि भगवता शुल्बसंज्ञो गभीरः प्रश्नो ऽर्थं तस्य भाष्यप्रभृतिषु कथितं वीक्ष्य कृत्स्नम् । संक्षिप्योब्दोधनार्थं कुशिककुलनिधेर्माधवार्यस्य यष्टुः पुत्रः शुल्बप्रदीपं विवरणमधुना सुन्दरो निर्मिमीते ॥ विहारो विहरणं, चतुरश्रादिरूपेण भ्मेः करणम् । तस्य योगाः उपायाः । कपर्दिभाष्यम् यावदायामं प्रमाणम् यावदायाममित्यव्ययीभावः । यावदवधारण इति । किमत्रावधार्यते? आयामः । आयाम एव प्रमाणमिति न, तिर्यङ्भान्यक्ष्णया रज्जू । ताभ्यामपि पिहरणस्य शक्यत्वात् । प्रमाणसंज्ञायाः प्रयोजनं "प्रमाणं तृतीयेन वर्धयेदित्यायाम संप्रज्ञानार्थम् । करविन्दीया व्याख्य यावमाणम। यावच्छब्दः परिमाणवाची, आयामशब्दो विस्तारप्रतियोगिवचनः । "यावदवधारणे इति समासः । यावानायामस्तावत् प्रमाणं भवति, किमत्रावधार्यते? आयामपरिमाणमेव प्रमाणमिति । तदत्राऽयामस्य द्विगुणत्वात्तदाश्रयभूतरज्ज्वादिप्रमाणम् इति । अस्य प्रमाणं तिर्यगादिषु प्रयोजनम्, कपर्दिभाष्यम् तदर्धमभ्यस्यापरस्मिंस्तृतीये षड्भागोने लक्षणं करोति तदिति प्रमाणं रामृश्यते । तदर्धं अभ्यस्य प्रक्षिप्य प्रमाणस्योपरि अपरस्मिंस्तृतीये षड्भागोने लक्षणं करोति । अभ्याससहितं प्रमाणं उभयतः पाशौ कृत्वापरस्मिन् भागे तृतीये लक्षणं तिरञ्जनं करोति । आयामस्य षड्भागोने लक्षणं कुर्यात् ॥ पृष्ठ्यान्तयोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमितं करोति पृष्ठे भवा पृष्ठ्या । तस्या अन्तयोःशङ्कू निहत्य तयोः पाशौ प्रतिमुच्य लक्षणेन दक्षिणापायम्य निमित्तं करोति, लक्षणेन प्रसार्य यथा षड्भागोना तिर्यङ्भानी शिष्टाक्ष्णया रज्जुः एवमपसारयति । निमित्तं निहन्यात् ॥ करविन्दीया व्याख्या तदर्ध करोति। इदानीं तावदैष्टिकसौमिकपाशुबन्धिकानां प्रायेण दीर्घचतुरश्रत्वात्तदनुरूपंविहरणमुच्यते- प्रमाणमित्येव तच्छब्देनायामभूतं प्रमाणं परामृश्यते । तस्यार्धं तदर्धं, अभ्यसनमुपरिक्षेपः, अपरस्मिन पश्चाद्धावि न्यागन्तौ, तृतीये प्रमाणार्धाभ्यां सह तृतीये, षड्भागोने--षष्ठो भागःषड्भागः तेन भागेन हीने तस्मिन्नेव तृतीये, लक्षणं लक्ष्यते येन तल्लक्षणं विमातव्यक्षेत्रस्य कोटिपरिज्ञानोपायभूतं चिह्नं करोति कुर्यात्, पृष्ठ्यान्तयोः--विमातव्यक्षेत्रस्य मध्यं पृष्ठं, कुत एतदवगम्यते? तदवयवेषु श्रोण्यंसपार्श्वव्यपदेशाद्यथा श्रोण्यंसदेशपार्श्वानां मध्यं पृष्ठं एपमिदमपीति! तत्र भवा रेखा पृष्ठ्या । तदन्तयोःशङ्कुं निखाय रज्ज्वन्तौ पाशौ कृत्वा तयोर्नियम्य प्रतिमुच्य लक्षणेन चिह्नेन दक्षिणापायम्य--दक्षिणतो ऽपकृष्य रज्जुं तत्र निमित्तं क्षेत्रकोटिज्ञानहेतुं शङ्कुं कुर्यात् । कपर्दिभाष्यम् एवमुत्तरतो विपर्यस्येतरतः स समाधिः एवमुदगपसार्य पूर्ववत्कुर्यात् । विपर्यस्येतरतः पूर्वेस्माच्छङ्काः पाशमुन्मुच्यापरस्मिन् शक्ङौ प्रतिमुञ्चेत् । अपरस्माच् छङ्काः पाशमुन्मुच्य पूर्वस्मिन्प्रतिमुञ्चेत् । स विपर्यासः । तं कृत्वेतरतः अंसौ तेनैव प्रथमकृतेन षड्भागोनेन लक्षणेन दक्षिणमंसं उदगपसार्योत्तरमंसमिति स समाधिः । उक्तेन मार्गविशेषेणापादिताः पार्श्वमान्यादय इति समाधिः । करविन्दीया व्याख्या एवमुत्तरतो ऽपि विकृष्य रज्जुं निमित्तं कुर्यात्, विपर्यासो रज्ज्वन्तयोः पूर्वं पाशं पश्चिमे शक्ङौ पश्चिमं च पूर्वस्मिन् कृत्वा इतरतः कृतनिमित्तात् प्रदेशादन्यत्र तत्र च दक्षिणत उत्तरतश् च विकृष्य निमित्ते कुर्यात् । एतदुक्तं भवति--अयामार्थं प्रमाणे प्रक्षिप्य प्रक्षिप्तं षोढा विभज्य तस्मिन् अन्तादारभ्य पञ्चसु भोगेष्वतीतेषु लक्षणस्यान्तौ पाशौ कृत्वा पृष्ठ्यान्तयोःशङ्कुं निकाय तयोः प्रतिमुच्य लक्षणेन दक्षिणापायम्य शङ्कुं कुर्यात्, उत्तरतो ऽप्येवमेव विकृष्य शङ्कुं कुर्यात्, रज्ज्वन्तौ विपर्यस्येतरस्मिन्नपि प्रदेशे शङ्कुद्वयं कुर्यदिति, ननु अपरग्रहणं पूर्वतृतीये लक्षणव्यावृच्यर्थं किं न स्यात्, तत्रापि तस्याविरोधादेव न स्यात् । तर्हि मधयमतृतीयं व्याकर्त्य पूर्वापरयोः प्रदर्शनार्थं भविष्यतीति चेन्नैतत्यद्येवमिष्टमभविष्यत्तर्हि स्पष्टतरंमध्यमे तृतीय इत्येवावक्ष्यत्, न चासौ तत्तथोक्तवान् । अथ मन्यसे? तदर्थमभयस्यापरस्मिन्न् इत्युक्ते ऽभ्यासादन्यत्, प्रमाणमपरं प्रतीयते, सामर्थ्यात्तत्र तृतीये लक्षणं भवत्विति, नैतदपि युक्तं--यदयमागन्त्वायामाभ्यासः इति आगन्त्ववयवस्याक्ष्णयारज्जुशेषतां वक्ष्यति । पहावेदिमाने च षटात्रिंशिकायामष्टादशोप शमस्येत्यादौ पञ्चदशिकेनैवापायम्य श्रोण्यंसानां विहरणं वक्ष्याति, तेनात्राभ्यासागन्तुरेवापरः, तत्र षड्भागोने निरञ्जनमिति विज्ञायते । ननु यद्यागन्तुपरो ऽपरशब्दः तर्हि षड्भागोने लक्षणमित्येतावदेवालं, किमर्थः तृतीयशब्दः, नैवास्य प्रयोजनं पश्यामः, उच्यते--अस्त्येवास्य प्रयोजनं, कुं तत्, अत्रोच्यमा नविहरणस्य सर्वाभ्यासविषयत्वख्यापनार्थं, तत्कथं, अत्र तावदाचार्येण सर्वज्ञेन सर्वानुग्रहकारिणा प्रयुक्तस्याक्षरावयवस्यापि नानर्थकता युक्ता, किं पुनः पदस्य । अतो मुख्यया वृच्या यथा शब्दोर्ऽथवान् भवति तथा व्याख्येयः । अत एवायं शब्द एवं व्याख्यायते--आगन्तुसमानाधिकरणीभूततृतीयशब्दस्यावयवभूतत्रिशब्दवाच्येन त्रित्वेन साभ्यासस्य प्रमाणस्यागन्तुपरिमिता यावन्तो भागाःसंभवन्ति तावतां भागानां सख्ङ्या लक्ष्यते, तथा--षड्बागशब्दावयवभूतषटछब्दवाच्येन च षट्त्वेन तदनुरूपत्वाय त्रित्वलक्षितसख्ङ्याद्विगुणीभूताभागसंख्ङ्या लक्ष्यते । एतेनायमर्थःसंपद्यते- सर्वेष्वभ्यासेषु साभ्यासस्य प्रमाणस्यागन्तुपरिमिता यावन्तो भागाःसम्पद्यन्ते तावद्द्विगुणभागमागन्तुं कृत्वा तस्मिन् भागेनैकेन हीने लक्षणकरणमिति । तद्यथा--अर्धाभ्यासे तावदर्धमेको भागः, प्रमाणन्तु तत्तुल्यौ भागौ, अदःसाभ्यासस्य प्रमाणस्यागन्तुतुल्यास्त्रयो भागाः, आगन्तौ तद्द्विगुणच्छेदे तस्य षड्भागाः, तत्र भागेनैकेन हीने लक्षणम्, तथा आयामाभ्यासे आयाम एको भागः, च तत्सदृश एको भागः । तेन साभ्यासस्य प्रमाणास्य द्वौ भागौ तद्द्विगुणच्छेदे अभ्यासे चत्वारो भागाः । तत्र चतुर्भागोने लक्षणम् । तथा--तृतीयाभ्यासे अभ्यास एको भागः, प्रमाणं तत्तुल्यास्त्रयो भागाः, द्विगुणच्छेदे ऽभ्यासे ऽष्टौ बागाः, तत्राष्टभागोने लक्षणम्, एवमेव तुरीयाद्यभ्यासे ऽष्टौ प्रमाणस्याभ्यासवशेनैव भागकल्पनम्, आगन्तौ तद्द्विगुणसख्ङ्यया भागक ल्पनम्, भागोने लक्षणं च द्रष्टव्यम् । ननु यत्राभ्यासे ऽभ्यासतुल्यता प्रमाणस्य न सम्भवति कथं तत्र प्रमाणे चागन्तौ च बागकल्पनं लक्षणं च, यथाधिकाभ्यासे छेदनं न्यूनाभ्यसे च ? उच्यते--तत्राप्ययमेव प्रकारः, किन्तु साभ्यासं प्रमाणमंशेन च सदृशच्छेदं कृत्वा आगन्तुम् अपि छेदसख्ङ्याद्विगुणसख्ङ्यया छेदं कृत्वा तत्र यावद्भिर् अंशैर्हीनैरेको भागो हीनो भवति तावद्भिरंशैर्न्यूने ऽभ्यासे निहञ्जनं कुर्यात्, अधिकाभ्यासे तावद्द्विगुणाभ्यासे ऽभ्यास एको भागः, प्रमाणं भागार्थं, तत्रार्धेन च सदृशच्छेदे साभ्यासे प्रमाणे त्रयोर्ऽधच्छेदाः, तत्सख्ङ्याद्विगुणच्छेदे तत्र षडर्धच्छेदाः, तेषु द्वाभ्यामूनाभ्यामेको भागो हीयत इति तढूने लक्षणं स्यात् । त्रिगुणाभ्यासे ऽभ्यास एको भागः, प्रमाणं तु तृतीयांशकः, तत्सदृशा अभ्यासे त्रयस्तृतीयां शकाः, तेन साभ्यासस्य प्रमाणस्य चत्वारस्तृतीयांशाः, तद्द्विगुणच्छेदे आगन्तावष्टौ तृतीयाशाः, तत्र त्रिभिरंशैरूने लक्षणम् । एवं चतुर्गुणाभ्यासेषु भागानुन्नीय तदनुंरूपमा गन्तौ लक्षणं कुर्यात् । तथा त्रिपादाभ्यासे ऽभ्यास एको भागः, प्रमाणं तत्सदृश एको भागस्तृतीयांशश्व, अंशेन च सदृशच्छेदे साभ्यासप्रमाणे सप्त तृतीयांशाः, तैस्त्रिभिरूने तत्र लक्षणम् । एवम् एवान्येष्वपि सांशच्छेदेषु भागकल्पनं लक्षणं च द्रष्टव्यम् । एतदपि न विस्मर्तव्यं सर्वेष्वभ्यासेष्वागन्तुभागैक्यं तद्वशेनन प्रमाणे भागौक्यं भागानेकत्वं केवलां शत्वं चेति, एवमस्य विहरणस्य सर्वाभ्यासविषयत्वमवगन्तव्यम् । यद्येवम् उपपद्यते, कुतो ज्ञायते न्यायो ऽङ्गईकृत इति, उच्यते--आगन्तुचतुर्थमायामश्वाक्ष्णयारज्जुरिति आयामाभ्यासो ऽभ्यासचतुर्थस्याक्ष्णयारज्जुविशेषत्वप्रतिपादनादर्धाभ्यासायामाभ्यां सिद्धस्य पञ्चदशिकाष्टिकयोःसप्तदशिकाक्ष्णयारज्जुरित्यादेर्विषमाभ्यासोपन्यासाच्च ज्ञायते न्यायो ऽयमङ्गीकृत इत्यलमतिर्थं, तिर्यङ्भान्यक्ष्णयारज्जुविवेकार्थं च, दक्षिणोत्तरग्रहणं किमर्थं, प्रदर्शनार्थं तिरश्व्याः, इतरथा सदःप्रभृतिषु विरोधात् । अस्य विहरमस्यान्ते ऽन्यस्य प्रतिपादनायाहस समाधिः । द्विपदमिदम् । तच्छब्देन विहरणमुच्यते, समाध्याभिप्रायः पुंल्लिङ्गनिर्देशः, संशब्दः सम्यगर्थे समशब्दार्थे वा, आङ् समन्ततोभावे, दधातिः करोत्यर्थे समशब्दार्थे वा, आङ् समन्ततोभावे, दधातिः करोत्यर्थे, सम्यगन्यूनानतिरिक्तं क्षेत्रं समन्तादापादयतीति समाधिः, यद्वा--समानानामाधिः समाधिः । पार्श्वमान्यौ तिर्यङ्भान्यौ अक्ष्णयारज्जुश् च परस्परमन्योन्यसमाःसंपादयतीति, चतुर्दिक्षु समं क्षेत्रमापादयतीति समाधिः, अयमर्थः- विमीयमानक्षेत्रस्यान्युनानतिरेकित्वेनावस्थानं समाधानम्, तच्च सम्यगुपायस्य विहरणस्य फलम्, तद्धेतुत्वाद्विहरणस्य, हेतुफलयोरभेदोपचारेण तदेव विहरणं समाधिरित्युच्यते, योग इति चेति, किमर्थमिदमुच्यते? श्रोतॄणां प्रतिपत्तिप्ररोचनार्थं, यदेददृक्तं विहरणं स समाधिः, समीचः श्रोण्यंसान् संपादयति तस्मादिदं निःसंदिग्दमनेन विहर्तव्यमिति ॥ कपर्दिभाष्यम् तन्निमित्तो निर्ह्रासो विवृद्धिर्वा

"tadekaravjjā viharaṇaṃ' "ravjjā vā vimāya' iti ravjjakārye vimānaviharaṇayoratra darśanādubhayoḥ paryāya tvām / "etāvanti jñeyāni vediviharaṇāni bhavanti' ityanena viharaṇasya vedyādisambandhaḥ / "āgantucaturthamāyāmaśvākṣṇayārajjuḥ pramāṇamātrī rajjuṃ' iti tatra tatra karaṇīṣu rajju vyapadeśitvavaśāt pārśvamānī tiryaṅbhānīdi karaṇyaṣṭādaśakaraṇīti tatratatra rutrīliṅganirdeśāt rajjveti tṛtīyāśruteś ca rajjūnāṃ viharaṇe sādhanatvaṃ ata eva hetoretatkarma śulbamityācakṣate / ācāryā etaṃ grantharāśiṃ "sa samādhiḥ' "athāparo yogaḥ' iti vakṣyanti / tena jñāyate yujeḥsamādhivacanatā / yujerarthasya samādherviharaṇasādhyatvāt / viharaṇasādhanānyapi yogasādhanāni bhavantīti ravjjādayo yogā ityucyante / vi hārayogaparatāṃ jñāpayituṃ viharaṇasādhaneṣu yogavyavahāraḥ / yogagrahaṇaṃ kimarthaṃ ? sādhanatvapratītyarthamityuktam / evaṃ tarhi na vaktavyaṃ darśapūrṇamāsau vyākhyāsyāma ityādiṣu pratijñānantaraṃ sādhanānyeva vyākhyeyatayāvagamyante / evaṃ tarhi yogagrahaṇaṃ mānasādhaneṣu prādhānyakhyāpanārthaṃ / kiṃ tat prādhānyam ? yadyapi padaveṇvādīni mānasādhanāni santi, tadhāpi tairvimāne bahu prayatnasādhyā samyagvedyādikṣetrasamādhisiddhiḥ, pajjusīrādibhir vimāne tasyāḥ siddhirīṣatkarītyetadatra prādhānyaṃ / nanu ravjjādīnāṃ viharaṇasādhanatvaṃ lokato 'pi setsyati, kimarthamidamucyate vihārayogānvyākhyāsyāma iti? ucyate--satyaṃ setsyati / tathāpi kālavaddeśasyāpyaṅgatvāduktapramāṇasya deśasya tilamātrapra māṇādapi nyūnādhikabhāve satyaṅgavaiguṇyaṃ syāditi manyamāna ācāryo ravjjādīnāmasandigdhamīṣatkaramupāyabhāvaṃ svayameva pratipādayitumidaṃ brūte / ato nyūnādhikabhāve pariharaṇīye sati pramādādasāmatharyādvā yadi bhreṣa upajāyate tatrāvaśyaṃ prāyāśvittaṃ kartavyamityetadarthamidamucyate "vihārayogānvyākhyāsyāmaḥ' iti / athavā vihriyanta iti vihārāḥ / yogāś ca tatsaṃpādanopāyabhūtāsta eva rajjvādayaḥ / atra kecinniyatadiksaṃyogādīnāṃ vedyādīnāmajñātadigviśeṣaiḥ puruṣairviharaṇaṃ kartum aśakyamiti digviśeṣajñāpanārthamādāveva diśaṃ lakṣaṇīkurvanti / yathā'ha bhagavān kātyāyanaḥ- "same śaṅkuṃ nikhāya śaṅkusaṃmitayā ravjjā maṇḍalaṃ parilikhya yatra lekhayoḥśaṅkagravacchāyā nipatati sā prācī / tatra śaṅkuṃ nikhāya tadanantaraṃ ravjjābhyasya pāśau kṛtvā śakṅvoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya madhyamaśaṅkurevamuttarataḥsodīcī'' iti / asyārthaḥ--atha yatra śucau deśe devayajanaṃ kīraṣyan bhavati taṃ deśaṃ jalena samīkṛtya madhye śaṅkuṃ nihatya śaṅkusaṃmitāmekataḥ pāśāṃ rajjuṃ kṛtvā śakṅau pratimucya tayā maṇḍalaṃ parilirūya maṇḍalarekhāyāṃ pūrvāhne yatra śakṅvagracchāyā nipatati tatra binduṃ kuryāt tau pūrvaparau bindū sā ca pracī dik / bindvordvayoḥśaṅkuṃ nikhāya tadantaradviguṇāṃ rajjumubhayataḥpāśāṃ kṛtvā madhye lakṣaṇaṃ kṛtvā śakṅvoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya lakṣaṇe śaṅkuṃ kuryād evam uttarato 'pi lakṣaṇenāpāyamya śaṅkuṃ kuryāt / tau śaṅkū dakṣiṇottarau sā udīcī digiti / tathā jyotirjñāne / iṣṭamaṇḍalamadhyasthaśaṅkucchāyāgravṭattayoḥ / yogābhyāṃ kṛtamatsyena jñeye yāmyottare diśau' iti / evamanyairapi bahuprakāraṃ diśāṃ grahaṇaṃ tatra tatroktamiti prasiddhatvādevācāryeṇeha noktaṃ / pramīyate 'neneti vyutpacyā pārśvamānyādīnāṃ pramāṇatve siddhe pramāṇāmiti paribhāṣyate // āpastambaśulbasūtravyākhyā sundararājīyā āpastambena yo 'yaṃ vyaraci bhagavatā śulbasaṃjño gabhīraḥ praśno 'rthaṃ tasya bhāṣyaprabhṛtiṣu kathitaṃ vīkṣya kṛtsnam / saṃkṣipyobdodhanārthaṃ kuśikakulanidhermādhavāryasya yaṣṭuḥ putraḥ śulbapradīpaṃ vivaraṇamadhunā sundaro nirmimīte // vihāro viharaṇaṃ, caturaśrādirūpeṇa bhmeḥ karaṇam / tasya yogāḥ upāyāḥ / kapardibhāṣyam yāvadāyāmaṃ pramāṇam yāvadāyāmamityavyayībhāvaḥ / yāvadavadhāraṇa iti / kimatrāvadhāryate? āyāmaḥ / āyāma eva pramāṇamiti na, tiryaṅbhānyakṣṇayā rajjū / tābhyāmapi piharaṇasya śakyatvāt / pramāṇasaṃjñāyāḥ prayojanaṃ "pramāṇaṃ tṛtīyena vardhayedityāyāma saṃprajñānārtham / karavindīyā vyākhya yāvamāṇama. yāvacchabdaḥ parimāṇavācī, āyāmaśabdo vistārapratiyogivacanaḥ / "yāvadavadhāraṇe iti samāsaḥ / yāvānāyāmastāvat pramāṇaṃ bhavati, kimatrāvadhāryate? āyāmaparimāṇameva pramāṇamiti / tadatrā'yāmasya dviguṇatvāttadāśrayabhūtarajjvādipramāṇam iti / asya pramāṇaṃ tiryagādiṣu prayojanam, kapardibhāṣyam tadardhamabhyasyāparasmiṃstṛtīye ṣaḍbhāgone lakṣaṇaṃ karoti taditi pramāṇaṃ rāmṛśyate / tadardhaṃ abhyasya prakṣipya pramāṇasyopari aparasmiṃstṛtīye ṣaḍbhāgone lakṣaṇaṃ karoti / abhyāsasahitaṃ pramāṇaṃ ubhayataḥ pāśau kṛtvāparasmin bhāge tṛtīye lakṣaṇaṃ tirañjanaṃ karoti / āyāmasya ṣaḍbhāgone lakṣaṇaṃ kuryāt // pṛṣṭhyāntayorantau niyamya lakṣaṇena dakṣiṇāpāyamya nimitaṃ karoti pṛṣṭhe bhavā pṛṣṭhyā / tasyā antayoḥśaṅkū nihatya tayoḥ pāśau pratimucya lakṣaṇena dakṣiṇāpāyamya nimittaṃ karoti, lakṣaṇena prasārya yathā ṣaḍbhāgonā tiryaṅbhānī śiṣṭākṣṇayā rajjuḥ evamapasārayati / nimittaṃ nihanyāt // karavindīyā vyākhyā tadardha karoti. idānīṃ tāvadaiṣṭikasaumikapāśubandhikānāṃ prāyeṇa dīrghacaturaśratvāttadanurūpaṃviharaṇamucyate- pramāṇamityeva tacchabdenāyāmabhūtaṃ pramāṇaṃ parāmṛśyate / tasyārdhaṃ tadardhaṃ, abhyasanamuparikṣepaḥ, aparasmina paścāddhāvi nyāgantau, tṛtīye pramāṇārdhābhyāṃ saha tṛtīye, ṣaḍbhāgone--ṣaṣṭho bhāgaḥṣaḍbhāgaḥ tena bhāgena hīne tasminneva tṛtīye, lakṣaṇaṃ lakṣyate yena tallakṣaṇaṃ vimātavyakṣetrasya koṭiparijñānopāyabhūtaṃ cihnaṃ karoti kuryāt, pṛṣṭhyāntayoḥ--vimātavyakṣetrasya madhyaṃ pṛṣṭhaṃ, kuta etadavagamyate? tadavayaveṣu śroṇyaṃsapārśvavyapadeśādyathā śroṇyaṃsadeśapārśvānāṃ madhyaṃ pṛṣṭhaṃ epamidamapīti! tatra bhavā rekhā pṛṣṭhyā / tadantayoḥśaṅkuṃ nikhāya rajjvantau pāśau kṛtvā tayorniyamya pratimucya lakṣaṇena cihnena dakṣiṇāpāyamya--dakṣiṇato 'pakṛṣya rajjuṃ tatra nimittaṃ kṣetrakoṭijñānahetuṃ śaṅkuṃ kuryāt / kapardibhāṣyam evamuttarato viparyasyetarataḥ sa samādhiḥ evamudagapasārya pūrvavatkuryāt / viparyasyetarataḥ pūrvesmācchaṅkāḥ pāśamunmucyāparasmin śakṅau pratimuñcet / aparasmāc chaṅkāḥ pāśamunmucya pūrvasminpratimuñcet / sa viparyāsaḥ / taṃ kṛtvetarataḥ aṃsau tenaiva prathamakṛtena ṣaḍbhāgonena lakṣaṇena dakṣiṇamaṃsaṃ udagapasāryottaramaṃsamiti sa samādhiḥ / uktena mārgaviśeṣeṇāpāditāḥ pārśvamānyādaya iti samādhiḥ / karavindīyā vyākhyā evamuttarato 'pi vikṛṣya rajjuṃ nimittaṃ kuryāt, viparyāso rajjvantayoḥ pūrvaṃ pāśaṃ paścime śakṅau paścimaṃ ca pūrvasmin kṛtvā itarataḥ kṛtanimittāt pradeśādanyatra tatra ca dakṣiṇata uttarataś ca vikṛṣya nimitte kuryāt / etaduktaṃ bhavati--ayāmārthaṃ pramāṇe prakṣipya prakṣiptaṃ ṣoḍhā vibhajya tasmin antādārabhya pañcasu bhogeṣvatīteṣu lakṣaṇasyāntau pāśau kṛtvā pṛṣṭhyāntayoḥśaṅkuṃ nikāya tayoḥ pratimucya lakṣaṇena dakṣiṇāpāyamya śaṅkuṃ kuryāt, uttarato 'pyevameva vikṛṣya śaṅkuṃ kuryāt, rajjvantau viparyasyetarasminnapi pradeśe śaṅkudvayaṃ kuryaditi, nanu aparagrahaṇaṃ pūrvatṛtīye lakṣaṇavyāvṛcyarthaṃ kiṃ na syāt, tatrāpi tasyāvirodhādeva na syāt / tarhi madhayamatṛtīyaṃ vyākartya pūrvāparayoḥ pradarśanārthaṃ bhaviṣyatīti cennaitatyadyevamiṣṭamabhaviṣyattarhi spaṣṭataraṃmadhyame tṛtīya ityevāvakṣyat, na cāsau tattathoktavān / atha manyase? tadarthamabhayasyāparasminn ityukte 'bhyāsādanyat, pramāṇamaparaṃ pratīyate, sāmarthyāttatra tṛtīye lakṣaṇaṃ bhavatviti, naitadapi yuktaṃ--yadayamāgantvāyāmābhyāsaḥ iti āgantvavayavasyākṣṇayārajjuśeṣatāṃ vakṣyati / pahāvedimāne ca ṣaṭātriṃśikāyāmaṣṭādaśopa śamasyetyādau pañcadaśikenaivāpāyamya śroṇyaṃsānāṃ viharaṇaṃ vakṣyāti, tenātrābhyāsāganturevāparaḥ, tatra ṣaḍbhāgone nirañjanamiti vijñāyate / nanu yadyāgantuparo 'paraśabdaḥ tarhi ṣaḍbhāgone lakṣaṇamityetāvadevālaṃ, kimarthaḥ tṛtīyaśabdaḥ, naivāsya prayojanaṃ paśyāmaḥ, ucyate--astyevāsya prayojanaṃ, kuṃ tat, atrocyamā naviharaṇasya sarvābhyāsaviṣayatvakhyāpanārthaṃ, tatkathaṃ, atra tāvadācāryeṇa sarvajñena sarvānugrahakāriṇā prayuktasyākṣarāvayavasyāpi nānarthakatā yuktā, kiṃ punaḥ padasya / ato mukhyayā vṛcyā yathā śabdor'thavān bhavati tathā vyākhyeyaḥ / ata evāyaṃ śabda evaṃ vyākhyāyate--āgantusamānādhikaraṇībhūtatṛtīyaśabdasyāvayavabhūtatriśabdavācyena tritvena sābhyāsasya pramāṇasyāgantuparimitā yāvanto bhāgāḥsaṃbhavanti tāvatāṃ bhāgānāṃ sakhṅyā lakṣyate, tathā--ṣaḍbāgaśabdāvayavabhūtaṣaṭachabdavācyena ca ṣaṭtvena tadanurūpatvāya tritvalakṣitasakhṅyādviguṇībhūtābhāgasaṃkhṅyā lakṣyate / etenāyamarthaḥsaṃpadyate- sarveṣvabhyāseṣu sābhyāsasya pramāṇasyāgantuparimitā yāvanto bhāgāḥsampadyante tāvaddviguṇabhāgamāgantuṃ kṛtvā tasmin bhāgenaikena hīne lakṣaṇakaraṇamiti / tadyathā--ardhābhyāse tāvadardhameko bhāgaḥ, pramāṇantu tattulyau bhāgau, adaḥsābhyāsasya pramāṇasyāgantutulyāstrayo bhāgāḥ, āgantau taddviguṇacchede tasya ṣaḍbhāgāḥ, tatra bhāgenaikena hīne lakṣaṇam, tathā āyāmābhyāse āyāma eko bhāgaḥ, ca tatsadṛśa eko bhāgaḥ / tena sābhyāsasya pramāṇāsya dvau bhāgau taddviguṇacchede abhyāse catvāro bhāgāḥ / tatra caturbhāgone lakṣaṇam / tathā--tṛtīyābhyāse abhyāsa eko bhāgaḥ, pramāṇaṃ tattulyāstrayo bhāgāḥ, dviguṇacchede 'bhyāse 'ṣṭau bāgāḥ, tatrāṣṭabhāgone lakṣaṇam, evameva turīyādyabhyāse 'ṣṭau pramāṇasyābhyāsavaśenaiva bhāgakalpanam, āgantau taddviguṇasakhṅyayā bhāgaka lpanam, bhāgone lakṣaṇaṃ ca draṣṭavyam / nanu yatrābhyāse 'bhyāsatulyatā pramāṇasya na sambhavati kathaṃ tatra pramāṇe cāgantau ca bāgakalpanaṃ lakṣaṇaṃ ca, yathādhikābhyāse chedanaṃ nyūnābhyase ca ? ucyate--tatrāpyayameva prakāraḥ, kintu sābhyāsaṃ pramāṇamaṃśena ca sadṛśacchedaṃ kṛtvā āgantum api chedasakhṅyādviguṇasakhṅyayā chedaṃ kṛtvā tatra yāvadbhir aṃśairhīnaireko bhāgo hīno bhavati tāvadbhiraṃśairnyūne 'bhyāse nihañjanaṃ kuryāt, adhikābhyāse tāvaddviguṇābhyāse 'bhyāsa eko bhāgaḥ, pramāṇaṃ bhāgārthaṃ, tatrārdhena ca sadṛśacchede sābhyāse pramāṇe trayor'dhacchedāḥ, tatsakhṅyādviguṇacchede tatra ṣaḍardhacchedāḥ, teṣu dvābhyāmūnābhyāmeko bhāgo hīyata iti taḍhūne lakṣaṇaṃ syāt / triguṇābhyāse 'bhyāsa eko bhāgaḥ, pramāṇaṃ tu tṛtīyāṃśakaḥ, tatsadṛśā abhyāse trayastṛtīyāṃ śakāḥ, tena sābhyāsasya pramāṇasya catvārastṛtīyāṃśāḥ, taddviguṇacchede āgantāvaṣṭau tṛtīyāśāḥ, tatra tribhiraṃśairūne lakṣaṇam / evaṃ caturguṇābhyāseṣu bhāgānunnīya tadanuṃrūpamā gantau lakṣaṇaṃ kuryāt / tathā tripādābhyāse 'bhyāsa eko bhāgaḥ, pramāṇaṃ tatsadṛśa eko bhāgastṛtīyāṃśaśva, aṃśena ca sadṛśacchede sābhyāsapramāṇe sapta tṛtīyāṃśāḥ, taistribhirūne tatra lakṣaṇam / evam evānyeṣvapi sāṃśacchedeṣu bhāgakalpanaṃ lakṣaṇaṃ ca draṣṭavyam / etadapi na vismartavyaṃ sarveṣvabhyāseṣvāgantubhāgaikyaṃ tadvaśenana pramāṇe bhāgaukyaṃ bhāgānekatvaṃ kevalāṃ śatvaṃ ceti, evamasya viharaṇasya sarvābhyāsaviṣayatvamavagantavyam / yadyevam upapadyate, kuto jñāyate nyāyo 'ṅgaīkṛta iti, ucyate--āgantucaturthamāyāmaśvākṣṇayārajjuriti āyāmābhyāso 'bhyāsacaturthasyākṣṇayārajjuviśeṣatvapratipādanādardhābhyāsāyāmābhyāṃ siddhasya pañcadaśikāṣṭikayoḥsaptadaśikākṣṇayārajjurityāderviṣamābhyāsopanyāsācca jñāyate nyāyo 'yamaṅgīkṛta ityalamatirthaṃ, tiryaṅbhānyakṣṇayārajjuvivekārthaṃ ca, dakṣiṇottaragrahaṇaṃ kimarthaṃ, pradarśanārthaṃ tiraśvyāḥ, itarathā sadaḥprabhṛtiṣu virodhāt / asya viharamasyānte 'nyasya pratipādanāyāhasa samādhiḥ / dvipadamidam / tacchabdena viharaṇamucyate, samādhyābhiprāyaḥ puṃlliṅganirdeśaḥ, saṃśabdaḥ samyagarthe samaśabdārthe vā, āṅ samantatobhāve, dadhātiḥ karotyarthe samaśabdārthe vā, āṅ samantatobhāve, dadhātiḥ karotyarthe, samyaganyūnānatiriktaṃ kṣetraṃ samantādāpādayatīti samādhiḥ, yadvā--samānānāmādhiḥ samādhiḥ / pārśvamānyau tiryaṅbhānyau akṣṇayārajjuś ca parasparamanyonyasamāḥsaṃpādayatīti, caturdikṣu samaṃ kṣetramāpādayatīti samādhiḥ, ayamarthaḥ- vimīyamānakṣetrasyānyunānatirekitvenāvasthānaṃ samādhānam, tacca samyagupāyasya viharaṇasya phalam, taddhetutvādviharaṇasya, hetuphalayorabhedopacāreṇa tadeva viharaṇaṃ samādhirityucyate, yoga iti ceti, kimarthamidamucyate? śrotṝṇāṃ pratipattiprarocanārthaṃ, yadedadṛktaṃ viharaṇaṃ sa samādhiḥ, samīcaḥ śroṇyaṃsān saṃpādayati tasmādidaṃ niḥsaṃdigdamanena vihartavyamiti // kapardibhāṣyam tannimitto nirhrāso vivṛddhirvā

Sanskrit only: no published translation is held for this verse.

अभीष्टक्षेत्रायामसंमिता रज्जुः प्रमाणम् । सा सर्वमानेषूभयतःपाशा प्राची । सा पूर्वापरयोःशङ्क्वोर्नियता भवति । सैव पृष्ठभवत्वात् पृष्ठ्येत्यपि व्यपदिश्यते । तद्यावदायामं तावदायामे शुल्बान्तरे तस्यार्धमभ्यस्योपरि प्रक्षिण्य अन्तयोः पाशौ कुर्यात् । तत्र त्रीणि प्रमाणार्धनि भवन्ति । तेषामपरभागभावितृतीयमर्ध्धं षोढा म्भुज्य पाशादारभ्य पञ्चसु भागेष्विति तेषु लक्षणं कुर्यात् । अस्य शुल्बस्यान्तौ पृष्ठ्यान्तयोर्नियम्य कृतेन लक्षणेन दक्षिणा प्रसार्य निमित्तं करोति शङ्कुं निहन्ति । एवमुत्तरतः पाशौ विपर्यस्य पूर्वान्ते ऽप्येवं शङ्कुम् । स समाधिः स एको विहारयोगः । अस्योदाहरणम्- "षट्त्रिंशिकायामष्टादशेऽ त्यादि । एवं कृते यदि तिर्यङ्भान्या निर्ह्रासो विवृद्धिर्वेष्यते सो ऽपि तन्निमित्तः । ये दक्षिणोत्तरा निमित्तभूताःशङ्कवः तानेव चिह्नीकृत्य कर्तव्याः । निर्ह्रासस्योदाहरणम्--"पञ्चदशिकेनैकापायम्यार्धेन ततःऽ इत्यादि । प्रची तु सर्वत्र लोकल एव ग्राह्या । तत्र बोधायनः "कृत्तिकाः खल्विमाः प्राचीं न जहति कदाचन । तासां सन्दर्शनेन मापयेदित्येकम् । श्रोणासन्दर्शनेनमापयेदित्येकम् । चित्रास्वात्योरन्तरालेन मापयेदित्यपरंऽ इति । एतनि लक्षणानि देशविसेषेतु व्यवतिष्ठन्ते, सर्वदेशसाधारणं लक्षणमाह कात्यायनः "समे क्षेत्रे शङ्कुं निखाय शङ्कुसंमितया रज्ज्वा मण्डलं परिलिख्य यत्र लेखयोःशङ्क्वग्रच्छाया निपतति सा प्राचीऽ इति । लेखयोरिति । मण्डलरेखयाः पूर्वापर भागयोरित्यर्थः ॥ कपर्दिभाष्यम् आयामं वाभ्यस्यागन्तुचतुर्थम् आयामश्चाक्ष्णया रज्जुस् तिर्यङ्भानीशेषः । व्याख्यातं विहरणम्

abhīṣṭakṣetrāyāmasaṃmitā rajjuḥ pramāṇam / sā sarvamāneṣūbhayataḥpāśā prācī / sā pūrvāparayoḥśaṅkvorniyatā bhavati / saiva pṛṣṭhabhavatvāt pṛṣṭhyetyapi vyapadiśyate / tadyāvadāyāmaṃ tāvadāyāme śulbāntare tasyārdhamabhyasyopari prakṣiṇya antayoḥ pāśau kuryāt / tatra trīṇi pramāṇārdhani bhavanti / teṣāmaparabhāgabhāvitṛtīyamardhdhaṃ ṣoḍhā mbhujya pāśādārabhya pañcasu bhāgeṣviti teṣu lakṣaṇaṃ kuryāt / asya śulbasyāntau pṛṣṭhyāntayorniyamya kṛtena lakṣaṇena dakṣiṇā prasārya nimittaṃ karoti śaṅkuṃ nihanti / evamuttarataḥ pāśau viparyasya pūrvānte 'pyevaṃ śaṅkum / sa samādhiḥ sa eko vihārayogaḥ / asyodāharaṇam- "ṣaṭtriṃśikāyāmaṣṭādaśe' tyādi / evaṃ kṛte yadi tiryaṅbhānyā nirhrāso vivṛddhirveṣyate so 'pi tannimittaḥ / ye dakṣiṇottarā nimittabhūtāḥśaṅkavaḥ tāneva cihnīkṛtya kartavyāḥ / nirhrāsasyodāharaṇam--"pañcadaśikenaikāpāyamyārdhena tataḥ' ityādi / pracī tu sarvatra lokala eva grāhyā / tatra bodhāyanaḥ "kṛttikāḥ khalvimāḥ prācīṃ na jahati kadācana / tāsāṃ sandarśanena māpayedityekam / śroṇāsandarśanenamāpayedityekam / citrāsvātyorantarālena māpayedityaparaṃ' iti / etani lakṣaṇāni deśaviseṣetu vyavatiṣṭhante, sarvadeśasādhāraṇaṃ lakṣaṇamāha kātyāyanaḥ "same kṣetre śaṅkuṃ nikhāya śaṅkusaṃmitayā rajjvā maṇḍalaṃ parilikhya yatra lekhayoḥśaṅkvagracchāyā nipatati sā prācī' iti / lekhayoriti / maṇḍalarekhayāḥ pūrvāpara bhāgayorityarthaḥ // kapardibhāṣyam āyāmaṃ vābhyasyāgantucaturtham āyāmaścākṣṇayā rajjus tiryaṅbhānīśeṣaḥ | vyākhyātaṃ viharaṇam

Sanskrit only: no published translation is held for this verse.

अथ योगान्तरमाह- प्रमाणमात्रे शुल्बे (प्रमाणमेवाभ्यश्च तां रज्जुं चतुर्धा संभुज्य तृतीयचतुर्थयोर्मध्ये लक्षणं कृत्वा पूर्वापरयोः पाशौ प्रतिमुच्य चतुर्थमायामश्व) विहरणकाले ऽक्ष्णयारज्जुः कार्या । शेषः पादोन आयामस्तिर्यङ्भानीस्थानीयः । एतदुक्तं भवति--आयामं द्विगुणं कृत्वान्यतरस्मिन्नर्घे चतुर्थभागेन लक्षणमिति । यथा गार्हपत्यचितेरायतने चतुररत्नौ चतुररत्निमभ्यश्च त्रिष्वरत्निषु लक्षणमिति कृत्वा विहरेत् । व्याख्यातमिति । पृष्ठ्यान्तयोरन्तावित्यादिना ॥ अत्रेमावभी ष्टाभ्यासया रज्ज्वा विहरणार्थौ श्लोकौ- इष्टायां पृष्ठ्यायामिष्टामागन्तुरज्जुमभ्यस्येत् । अभ्यासार्धसमाना यावन्त्ॐऽशाःसहाधिकायामे ॥ १ ॥ अभ्यासं तावद्धा संभुज्यैकोनिते ऽत्र चिह्नं स्यात् । एक्ॐऽशःसायामः कर्णस्तर्यङ्क्तु शेषःस्यात् ॥ २ ॥ कपर्दिभाष्यम् दीर्घस्याक्ष्णयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत् पृथग्भुते कुरुतस् तद् उभयं करोति दीर्घचतुरश्रस्येत्यर्थः । सममण्डलस्य पार्श्वमान्यादीनाम् अभावाद् विषमचतुरश्राच्चायामाः परिगृह्यन्ते । पार्श्वमानी तिर्यङ्भानी कुरुत इति निर्देशादक्ष्णयारज्जुरित्येकवचननिर्देशाच्च यस्य चतुरश्रस्य पार्श्वमान्येका तिर्यङ्भान्येकैवाक्ष्णयारज्जुःसङ्गृह्यते पार्श्वमान्या कृते चतुरश्रे यावत् क्षेत्रं भवति तिर्यङ्भान्या च, तदुभयमक्ष्णयारज्जुः करोति--पार्श्वमानीक्षेत्रं तिर्यङ्मानीक्षेत्रं च करोतीत्यर्थः । वक्ष्यति च "त्रिकचतुष्कयोःऽ इत्यादिना । त्रिकस्य वर्गो नव (३न्३उ९); चतुष्कस्य वर्गः षोडश (४न्४उ१६) । षोडशसु नवके क्षिप्ते (१६अ९उ२५)पञ्चविंशतिः । पञ्चका वर्गाः पञ्चविंशतिः (५उ५न्५)एवं सवत्र द्रष्टव्यम् । पृथग्ग्रहणं संसर्गो मा भूदित्येवमर्थम् । भूतग्रहणं किमर्थं? पृथक्कुरुत इत्युच्यमाने संसर्गविशेषो ऽपि स्यात् । भूतग्रहणे सत्येतद्दोषो न भवति । ताभिर् ज्ञेयाभिर् उक्तं विहरणम्

atha yogāntaramāha- pramāṇamātre śulbe (pramāṇamevābhyaśca tāṃ rajjuṃ caturdhā saṃbhujya tṛtīyacaturthayormadhye lakṣaṇaṃ kṛtvā pūrvāparayoḥ pāśau pratimucya caturthamāyāmaśva) viharaṇakāle 'kṣṇayārajjuḥ kāryā / śeṣaḥ pādona āyāmastiryaṅbhānīsthānīyaḥ / etaduktaṃ bhavati--āyāmaṃ dviguṇaṃ kṛtvānyatarasminnarghe caturthabhāgena lakṣaṇamiti / yathā gārhapatyaciterāyatane caturaratnau caturaratnimabhyaśca triṣvaratniṣu lakṣaṇamiti kṛtvā viharet / vyākhyātamiti / pṛṣṭhyāntayorantāvityādinā // atremāvabh.ī ṣṭābhyāsayā rajjvā viharaṇārthau ślokau- iṣṭāyāṃ pṛṣṭhyāyāmiṣṭāmāganturajjumabhyasyet / abhyāsārdhasamānā yāvantoṃ'śāḥsahādhikāyāme // 1 // abhyāsaṃ tāvaddhā saṃbhujyaikonite 'tra cihnaṃ syāt / ekoṃ'śaḥsāyāmaḥ karṇastaryaṅktu śeṣaḥsyāt // 2 // kapardibhāṣyam dīrghasyākṣṇayārajjuḥ pārśvamānī tiryaṅmānī ca yat pṛthagbhute kurutas tad ubhayaṃ karoti dīrghacaturaśrasyetyarthaḥ / samamaṇḍalasya pārśvamānyādīnām abhāvād viṣamacaturaśrāccāyāmāḥ parigṛhyante / pārśvamānī tiryaṅbhānī kuruta iti nirdeśādakṣṇayārajjurityekavacananirdeśācca yasya caturaśrasya pārśvamānyekā tiryaṅbhānyekaivākṣṇayārajjuḥsaṅgṛhyate pārśvamānyā kṛte caturaśre yāvat kṣetraṃ bhavati tiryaṅbhānyā ca, tadubhayamakṣṇayārajjuḥ karoti--pārśvamānīkṣetraṃ tiryaṅmānīkṣetraṃ ca karotītyarthaḥ / vakṣyati ca "trikacatuṣkayoḥ' ityādinā / trikasya vargo nava (3n3u9); catuṣkasya vargaḥ ṣoḍaśa (4n4u16) / ṣoḍaśasu navake kṣipte (16a9u25)pañcaviṃśatiḥ / pañcakā vargāḥ pañcaviṃśatiḥ (5u5n5)evaṃ savatra draṣṭavyam / pṛthaggrahaṇaṃ saṃsargo mā bhūdityevamartham / bhūtagrahaṇaṃ kimarthaṃ? pṛthakkuruta ityucyamāne saṃsargaviśeṣo 'pi syāt / bhūtagrahaṇe satyetaddoṣo na bhavati / tābhir jñeyābhir uktaṃ viharaṇam

Sanskrit only: no published translation is held for this verse.

अथ सनिदानमनेकप्रकारं विहरणमाह----- दीर्घस्य चतुरश्रस्य पार्श्वमान्या समचतुरश्रे कृते यत् क्षेत्रं संपद्यते,यच्च तिर्यङ्भान्या तदुभयं अक्ष्णयारज्ज्वा समचतुरश्रे कृते संपद्यते क्षेत्रं । त्रिकचतुष्कयोरित्याद्युदा हरणम् । एवञ्चासां द्वयोर्ज्ञातयोस्तृतीया ज्ञातुं शक्यते । यथा पार्श्वमानीतिर्यङ्भान्योर्ज्ञातयोः ते पृथग्वर्गयित्वा संयोज्य तद्वर्गम्लमक्ष्णयारज्जुः । तथा पार्श्वमान्यक्ष्णयारज्ज्वोर्ज्ञातयोः अक्ष्णयारज्जुवर्गात्पार्श्वमानीवर्ङ्ग विशोध्य (वि) शिष्टस्य मूलं तिर्यङ्भानी । एवं तिर्यङ्भानीवर्गं विशेध्य पार्श्वमानी । एवं भूताभिर्ज्ञेयाभिः पूर्वोक्तं विहरणम् । त्रिकचतुष्कयोरित्यादीन्येवोदाहरणानि । पूर्वयोगावप्यस्यैव प्रपञ्चौ ॥ कपर्दिभाष्यम् चतुरश्रस्याक्ष्णयारज्जुर्द्विस्तवतीं भूमिं करोति । समस्य द्विकरणी

atha sanidānamanekaprakāraṃ viharaṇamāha----- dīrghasya caturaśrasya pārśvamānyā samacaturaśre kṛte yat kṣetraṃ saṃpadyate,yacca tiryaṅbhānyā tadubhayaṃ akṣṇayārajjvā samacaturaśre kṛte saṃpadyate kṣetraṃ / trikacatuṣkayorityādyudā haraṇam / evañcāsāṃ dvayorjñātayostṛtīyā jñātuṃ śakyate / yathā pārśvamānītiryaṅbhānyorjñātayoḥ te pṛthagvargayitvā saṃyojya tadvargamlamakṣṇayārajjuḥ / tathā pārśvamānyakṣṇayārajjvorjñātayoḥ akṣṇayārajjuvargātpārśvamānīvarṅga viśodhya (vi) śiṣṭasya mūlaṃ tiryaṅbhānī / evaṃ tiryaṅbhānīvargaṃ viśedhya pārśvamānī / evaṃ bhūtābhirjñeyābhiḥ pūrvoktaṃ viharaṇam / trikacatuṣkayorityādīnyevodāharaṇāni / pūrvayogāvapyasyaiva prapañcau // kapardibhāṣyam caturaśrasyākṣṇayārajjurdvistavatīṃ bhūmiṃ karoti | samasya dvikaraṇī

Sanskrit only: no published translation is held for this verse.

प्रमाणं तृतीयेन वर्धयेत् तच् चतुर्थेनात्मचतुस्त्रिंशोनेन सविशेषः

pramāṇaṃ tṛtīyena vardhayet tac caturthenātmacatustriṃśonena saviśeṣaḥ

Sanskrit only: no published translation is held for this verse.

सविशेषः--सविशेष इति संज्ञा । एवं संवर्गितस्य सह विशेषण वर्तत इति अन्वर्था संज्ञा । द्वादशे चत्वारि चतुर्षु एकं चतुस्त्रिङ्क्षद्धा विभज्य एकं भागमुत्सृज्य, एवं तिलोनसप्तदशाङ्गुलं भवति । द्वादशाङ्गुलस्य तिलवर्गः ; एकं नियुतं षडयुतानि षट् सहस्राणि चत्वारि शतानि षष्टिः चत्वारीति (१६६४६४) तिलप्रमाणानि सप्तदशाङ्गुलमानस्य तिलोनस्य तिलवर्गः- त्रीणि नियुतानि त्रीणि नियुतानि त्रीण्ययुतानि द्वे सहस्रे नव शतानि वंशतिर्नव च (३३२९२९) अत्रैकत्रिकयोःशेषो न भवतीति वेणोःसविशेषे गृह्यमाणे दशतिलक्षेत्राण्यतिरिक्तानि । तेन नीवारशूकार्धमात्रमप्यतिरिक्तं भवति । तस्माद्विशेष इति व्यवहारार्थमेव भविष्यतीति प्रगणय्य संज्ञा कृताचार्येण ॥ अथापरम् विहारं वक्ष्याम इति शेषः । प्रमाणमात्रीं रज्जुम् उभयतः पाशां करोति यत्प्रमाणं चतुरश्रं कर्तुमिच्छति तावत्प्रमाणां रज्जुमुभयतःपाशां कृत्वा मध्ये लक्षणम् अर्धमध्यमयोश् च पृष्ठ्यायां रज्जुम् आयम्य पाशयोर्लक्षणेष्विति शङ्कून् निहत्य् उपान्त्ययोः पाशौ प्रतिमुच्य मध्यमेन लक्षणेन दक्षिणापायम्य शङ्कुं निमित्तं करोति । मध्यमे पाशौ प्रतिमुच्य, उपर्युपरि निमित्तं मध्यमेन लक्षणेन दक्षिणमंसम् आयच्छेत् । उन्मुच्य पूर्वस्माद् अपरस्मिन् प्रतिमुच्य मध्यमेनैव लक्षणेन दक्षिणां श्रोणिम् आयच्छेत् । एवमुत्तरौ श्रोण्यंसौ

saviśeṣaḥ--saviśeṣa iti saṃjñā / evaṃ saṃvargitasya saha viśeṣaṇa vartata iti anvarthā saṃjñā / dvādaśe catvāri caturṣu ekaṃ catustriṅkṣaddhā vibhajya ekaṃ bhāgamutsṛjya, evaṃ tilonasaptadaśāṅgulaṃ bhavati / dvādaśāṅgulasya tilavargaḥ ; ekaṃ niyutaṃ ṣaḍayutāni ṣaṭ sahasrāṇi catvāri śatāni ṣaṣṭiḥ catvārīti (166464) tilapramāṇāni saptadaśāṅgulamānasya tilonasya tilavargaḥ- trīṇi niyutāni trīṇi niyutāni trīṇyayutāni dve sahasre nava śatāni vaṃśatirnava ca (332929) atraikatrikayoḥśeṣo na bhavatīti veṇoḥsaviśeṣe gṛhyamāṇe daśatilakṣetrāṇyatiriktāni / tena nīvāraśūkārdhamātramapyatiriktaṃ bhavati / tasmādviśeṣa iti vyavahārārthameva bhaviṣyatīti pragaṇayya saṃjñā kṛtācāryeṇa // athāparam vihāraṃ vakṣyāma iti śeṣaḥ / pramāṇamātrīṃ rajjum ubhayataḥ pāśāṃ karoti yatpramāṇaṃ caturaśraṃ kartumicchati tāvatpramāṇāṃ rajjumubhayataḥpāśāṃ kṛtvā madhye lakṣaṇam ardhamadhyamayoś ca pṛṣṭhyāyāṃ rajjum āyamya pāśayorlakṣaṇeṣviti śaṅkūn nihaty upāntyayoḥ pāśau pratimucya madhyamena lakṣaṇena dakṣiṇāpāyamya śaṅkuṃ nimittaṃ karoti | madhyame pāśau pratimucya, uparyupari nimittaṃ madhyamena lakṣaṇena dakṣiṇamaṃsam āyacchet | unmucya pūrvasmād aparasmin pratimucya madhyamenaiva lakṣaṇena dakṣiṇāṃ śroṇim āyacchet | evamuttarau śroṇyaṃsau

Sanskrit only: no published translation is held for this verse.