अरद्निना प्रादेशेन च विर्धितो ऽग्निः प्राकृतो यावान् संपद्यते प्रादेश इति गृह्णीयादिति शेषः । सारत्निप्रादेशाग्नौ यत्प्रादेशं पुच्छे आत्मनि चतुर्तं पुरुषक्षेत्रं चतुर्भागीयाश्वाष्टौ शिष्टे पुरुषे ऽष्टौ चतुर्भागीयाः क्षेत्रं च गृहीत्वा तासां चतुर्भागीयानां दिस्रश्चतुर्बागीयाःशिरसि निधातव्याः । इतरत्सर्वं पक्षयोर्विभज्य क्षिपेत् । षडङ्गुलमात्रं प्रादेशे । षष्टयङ्गुलं पुरुषे । चतुर्भागीयासु पञ्चसु पादोनं नवदशाङ्गुलम् । एतदेवैकैकस्मिन पक्षे क्षैपेत् । पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयो ऽरत्निः । तदर्धं प्रादेश इति कॢप्तिः
aradninā prādeśena ca virdhito 'gniḥ prākṛto yāvān saṃpadyate prādeśa iti gṛhṇīyāditi śeṣaḥ / sāratniprādeśāgnau yatprādeśaṃ pucche ātmani caturtaṃ puruṣakṣetraṃ caturbhāgīyāśvāṣṭau śiṣṭe puruṣe 'ṣṭau caturbhāgīyāḥ kṣetraṃ ca gṛhītvā tāsāṃ caturbhāgīyānāṃ disraścaturbāgīyāḥśirasi nidhātavyāḥ / itaratsarvaṃ pakṣayorvibhajya kṣipet / ṣaḍaṅgulamātraṃ prādeśe / ṣaṣṭayaṅgulaṃ puruṣe / caturbhāgīyāsu pañcasu pādonaṃ navadaśāṅgulam / etadevaikaikasmina pakṣe kṣaipet / pañcāratniḥ puruṣaḥ | caturaratniḥ vyāyāmaḥ | caturviṃśatyaṅgulayo 'ratniḥ | tadardhaṃ prādeśa iti kḷptiḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.