कङ्कः पक्षिविशेषः अलजश् च । कङ्क इव चेतव्यः कङ्कचित् । अलज इव चेतव्यो ऽलजचित् । तौ श्येनचिता व्याख्यातौ - पूर्वेणैव श्येनेन व्याख्यातौ । मुख्यत्वाद्द्विशतप्रस्तारत्वाच्च तस्यैवाकृतिः तान्येव करणानि स एवोपधानमार्गः । सङ्कल्प एव भेदः श्येनो ऽलजः कङ्क इति ॥ एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद् वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश् च । तस्माच् छ्रुतिसामर्थ्यात् हिशब्दः प्रसिद्धौ । श्येनो ऽप्येवमेव । वर्षीयांसौ - बृहन्तौ । पक्षौ । कस्मात् पुच्छाद्दीर्घौ? न केवलं बृलन्तौ किं तु तौ वक्रौ । सन्नतं सम्यङ्नतं आत्मसमीपे ऽल्पीयः अग्रे श्येने पृथु उच्यते तत्सन्नतमिति । दीर्घ आत्मा नं समचतुरश्रः न मण्डलः नापि दीर्घचतुरश्रः । अमण्डलमिवादीर्घचतुरश्रभूतं शिरः । एवम्प्रकारो लोके श्येनः । एवमेव कङ्कालजो लोके । तस्मात्तदाकारावेव कङ्कालजौ तेनैव व्याख्यातौ । श्रुतिसामर्थ्यात् । सामर्थ्यमभिधानशक्तिः । एतावदेव श्रुत्याभिधीयते । अशक्यत्वात्सर्वसाम्या (संपा) पादनस्य । न ह्यशङ्कनीयमर्थं वेदो विदधाति ॥ अशिरस्को वानाम्नानात्
kaṅkaḥ pakṣiviśeṣaḥ alajaś ca / kaṅka iva cetavyaḥ kaṅkacit / alaja iva cetavyo 'lajacit / tau śyenacitā vyākhyātau - pūrveṇaiva śyenena vyākhyātau / mukhyatvāddviśataprastāratvācca tasyaivākṛtiḥ tānyeva karaṇāni sa evopadhānamārgaḥ / saṅkalpa eva bhedaḥ śyeno 'lajaḥ kaṅka iti // evami va hi śyenasya varṣīyāṃsau pakṣau pucchād vakrau saṃnataṃ pucchaṃ dīrgha ātmā maṇḍalaṃ śiraś ca | tasmāc chrutisāmarthyāt hiśabdaḥ prasiddhau / śyeno 'pyevameva / varṣīyāṃsau - bṛhantau / pakṣau / kasmāt pucchāddīrghau? na kevalaṃ bṛlantau kiṃ tu tau vakrau / sannataṃ samyaṅnataṃ ātmasamīpe 'lpīyaḥ agre śyene pṛthu ucyate tatsannatamiti / dīrgha ātmā naṃ samacaturaśraḥ na maṇḍalaḥ nāpi dīrghacaturaśraḥ / amaṇḍalamivādīrghacaturaśrabhūtaṃ śiraḥ / evamprakāro loke śyenaḥ / evameva kaṅkālajo loke / tasmāttadākārāveva kaṅkālajau tenaiva vyākhyātau / śrutisāmarthyāt / sāmarthyamabhidhānaśaktiḥ / etāvadeva śrutyābhidhīyate / aśakyatvātsarvasāmyā (saṃpā) pādanasya / na hyaśaṅkanīyamarthaṃ vedo vidadhāti // aśirasko vānāmnānāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.