द्वितीयावत्पञ्चमी । प्रथमावत् षष्ठी । तत्र तिसृणां दक्षिणरीतीनां दक्षिणं पार्श्वमुत्तररीतीनामुत्तरं पार्श्वम् । दक्षिणानामुत्तराणं च दक्षिणा पार्श्वरीतिद्वयगता । अत्र प्रतीच्यो मुकुलात्मकाः । तत्प्रतीपमुकाः प्राच्यः । एवं शोभां वितन्वते । पुच्छे मध्यमरीत्यन्तयोर्विशयषोडस्योर्दाक्षिणत उत्तरतश् च द्वे अर्धे बाह्यविशेषे । ततः पश्चान्मध्ये द्वे षोडश्यौ । ते अभित(स्तितस्र)स्तिस्रो ऽर्धेष्टका इत्यष्टेष्टकाः । ततः पुच्छाग्रे षड्भिः षोडशीभिरभितोर्ऽधाभिरष्टेष्टकाः । पक्षाग्रयोश्चतस्रश्चतस्रोर्ऽधेष्टकाः । पक्षद्वये पक्षेष्टकाःसप्त रीतयः । ता द्वादशशतमिष्टकाः । पादेष्टकाभिश् च पूरणपक्षे एता एव रीतयः । तत्र विशेषः पुच्छगतोपान्तरीत्यां बाह्यास्वतस्रोर्ऽधेष्टका द्विधा कुर्यात् । आत्मनि प्रथमद्वितीयपञ्चमषष्ठेषु तन्मध्यगतार्धेषु पश्चिमतो द्वे द्वे अर्धे । अवशिष्टान्येष्वर्धस्थानेषु षोडशीयुग्मान्युपदध्यात् । द्वितीयापञ्चम्योश्वार्धा द्विधा भिद्यात् । ननु भेदो वर्जनीय इति तत्रतत्राग्नौ यत्नेन परिहृतः । स इदानीं पुच्छे प्रादुर्बुभूषति? नैतत्सारम् । नियतलोकानामिष्टकानामसंबाधेन समुदिताभिरिष्टकाबिःसङ्ख्यायां पूरितायां यदीष्टकैकदेशे भेद उपजायते स भेदो मर्षणीय एव, अवर्जनीयत्वादेकदेशभेदस्य । अत एव भेदवर्जनं स्वकण्ठेनोक्तमाचार्येण द्विशत एष इति ॥ व्यात्यार् - षेत् गतम् ॥ सुन्दरराजीया व्याख्या अणू अने प्रकृतौ चतुरश्राग्नौ पञ्चदशभागीयानां कार्यं भेदपरिहारेण संख्यापूरणम् । इह तु तत्कार्ये अणूका उपधेयाः । तत्र समचतुरश्राणामणूकानामुपधाने द्विशतः कर्तुं न शक्यते । तस्मादणूकक्षेत्राणां ग्रहणम् । तत्रापि षोडश्यो न गृह्यन्ते । अवशिष्टं षोडशीभिरित्येव सिद्धत्वात् भेदसम्भवाच्च । तस्माद (न्या ) णूकक्षेत्रादि (द्वि) प्रकारा इष्टकाः कर्तव्याः । दर्शिते च तासां करणे (पूर्वमेव) । आचार्येण तु करणे नोपदिष्टे । अन्त्या बाह्यविशेषा इत्यस्मिन् पक्षे अणूकानामनुपयोगात् । उक्तश्वोपधानप्रकारः । अणूकाभिर्विनैव तस्मिन् पक्षे प्रथम एव प्रस्तारे अणूकानामुपयोगः कर्तव्यः ॥ कपर्दिभाष्यम् कङ्कचिद् अलजचिद् इति श्येनचिता व्याख्यातौ
dvitīyāvatpañcamī / prathamāvat ṣaṣṭhī / tatra tisṛṇāṃ dakṣiṇarītīnāṃ dakṣiṇaṃ pārśvamuttararītīnāmuttaraṃ pārśvam / dakṣiṇānāmuttarāṇaṃ ca dakṣiṇā pārśvarītidvayagatā / atra pratīcyo mukulātmakāḥ / tatpratīpamukāḥ prācyaḥ / evaṃ śobhāṃ vitanvate / pucche madhyamarītyantayorviśayaṣoḍasyordākṣiṇata uttarataś ca dve ardhe bāhyaviśeṣe / tataḥ paścānmadhye dve ṣoḍaśyau / te abhita(stitasra)stisro 'rdheṣṭakā ityaṣṭeṣṭakāḥ / tataḥ pucchāgre ṣaḍbhiḥ ṣoḍaśībhirabhitor'dhābhiraṣṭeṣṭakāḥ / pakṣāgrayoścatasraścatasror'dheṣṭakāḥ / pakṣadvaye pakṣeṣṭakāḥsapta rītayaḥ / tā dvādaśaśatamiṣṭakāḥ / pādeṣṭakābhiś ca pūraṇapakṣe etā eva rītayaḥ / tatra viśeṣaḥ pucchagatopāntarītyāṃ bāhyāsvatasror'dheṣṭakā dvidhā kuryāt / ātmani prathamadvitīyapañcamaṣaṣṭheṣu tanmadhyagatārdheṣu paścimato dve dve ardhe / avaśiṣṭānyeṣvardhasthāneṣu ṣoḍaśīyugmānyupadadhyāt / dvitīyāpañcamyośvārdhā dvidhā bhidyāt / nanu bhedo varjanīya iti tatratatrāgnau yatnena parihṛtaḥ / sa idānīṃ pucche prādurbubhūṣati? naitatsāram / niyatalokānāmiṣṭakānāmasaṃbādhena samuditābhiriṣṭakābiḥsaṅkhyāyāṃ pūritāyāṃ yadīṣṭakaikadeśe bheda upajāyate sa bhedo marṣaṇīya eva, avarjanīyatvādekadeśabhedasya / ata eva bhedavarjanaṃ svakaṇṭhenoktamācāryeṇa dviśata eṣa iti // vyātyār - ṣet gatam // sundararājīyā vyākhyā aṇū ane prakṛtau caturaśrāgnau pañcadaśabhāgīyānāṃ kāryaṃ bhedaparihāreṇa saṃkhyāpūraṇam / iha tu tatkārye aṇūkā upadheyāḥ / tatra samacaturaśrāṇāmaṇūkānāmupadhāne dviśataḥ kartuṃ na śakyate / tasmādaṇūkakṣetrāṇāṃ grahaṇam / tatrāpi ṣoḍaśyo na gṛhyante / avaśiṣṭaṃ ṣoḍaśībhirityeva siddhatvāt bhedasambhavācca / tasmāda (nyā ) ṇūkakṣetrādi (dvi) prakārā iṣṭakāḥ kartavyāḥ / darśite ca tāsāṃ karaṇe (pūrvameva) / ācāryeṇa tu karaṇe nopadiṣṭe / antyā bāhyaviśeṣā ityasmin pakṣe aṇūkānāmanupayogāt / uktaśvopadhānaprakāraḥ / aṇūkābhirvinaiva tasmin pakṣe prathama eva prastāre aṇūkānāmupayogaḥ kartavyaḥ // kapardibhāṣyam kaṅkacid alajacid iti śyenacitā vyākhyātau
Sanskrit only: no published translation is held for this verse.
कङ्कः पक्षिविशेषः अलजश् च । कङ्क इव चेतव्यः कङ्कचित् । अलज इव चेतव्यो ऽलजचित् । तौ श्येनचिता व्याख्यातौ - पूर्वेणैव श्येनेन व्याख्यातौ । मुख्यत्वाद्द्विशतप्रस्तारत्वाच्च तस्यैवाकृतिः तान्येव करणानि स एवोपधानमार्गः । सङ्कल्प एव भेदः श्येनो ऽलजः कङ्क इति ॥ एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद् वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश् च । तस्माच् छ्रुतिसामर्थ्यात् हिशब्दः प्रसिद्धौ । श्येनो ऽप्येवमेव । वर्षीयांसौ - बृहन्तौ । पक्षौ । कस्मात् पुच्छाद्दीर्घौ? न केवलं बृलन्तौ किं तु तौ वक्रौ । सन्नतं सम्यङ्नतं आत्मसमीपे ऽल्पीयः अग्रे श्येने पृथु उच्यते तत्सन्नतमिति । दीर्घ आत्मा नं समचतुरश्रः न मण्डलः नापि दीर्घचतुरश्रः । अमण्डलमिवादीर्घचतुरश्रभूतं शिरः । एवम्प्रकारो लोके श्येनः । एवमेव कङ्कालजो लोके । तस्मात्तदाकारावेव कङ्कालजौ तेनैव व्याख्यातौ । श्रुतिसामर्थ्यात् । सामर्थ्यमभिधानशक्तिः । एतावदेव श्रुत्याभिधीयते । अशक्यत्वात्सर्वसाम्या (संपा) पादनस्य । न ह्यशङ्कनीयमर्थं वेदो विदधाति ॥ अशिरस्को वानाम्नानात्
kaṅkaḥ pakṣiviśeṣaḥ alajaś ca / kaṅka iva cetavyaḥ kaṅkacit / alaja iva cetavyo 'lajacit / tau śyenacitā vyākhyātau - pūrveṇaiva śyenena vyākhyātau / mukhyatvāddviśataprastāratvācca tasyaivākṛtiḥ tānyeva karaṇāni sa evopadhānamārgaḥ / saṅkalpa eva bhedaḥ śyeno 'lajaḥ kaṅka iti // evami va hi śyenasya varṣīyāṃsau pakṣau pucchād vakrau saṃnataṃ pucchaṃ dīrgha ātmā maṇḍalaṃ śiraś ca | tasmāc chrutisāmarthyāt hiśabdaḥ prasiddhau / śyeno 'pyevameva / varṣīyāṃsau - bṛhantau / pakṣau / kasmāt pucchāddīrghau? na kevalaṃ bṛlantau kiṃ tu tau vakrau / sannataṃ samyaṅnataṃ ātmasamīpe 'lpīyaḥ agre śyene pṛthu ucyate tatsannatamiti / dīrgha ātmā naṃ samacaturaśraḥ na maṇḍalaḥ nāpi dīrghacaturaśraḥ / amaṇḍalamivādīrghacaturaśrabhūtaṃ śiraḥ / evamprakāro loke śyenaḥ / evameva kaṅkālajo loke / tasmāttadākārāveva kaṅkālajau tenaiva vyākhyātau / śrutisāmarthyāt / sāmarthyamabhidhānaśaktiḥ / etāvadeva śrutyābhidhīyate / aśakyatvātsarvasāmyā (saṃpā) pādanasya / na hyaśaṅkanīyamarthaṃ vedo vidadhāti // aśirasko vānāmnānāt
Sanskrit only: no published translation is held for this verse.
वाशब्दः पक्षव्यावृत्तौ । अशिरस्क एव चेतव्यः । कुत इत्याह - आनाम्नानात् । न हि शिर आम्नायते । तस्य कथमनाम्नानमित्यत्राह --- ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षो ऽमुष्मिंल् लोके संभवेयम् इति विद्यमाने कथं ब्रूयात्
vāśabdaḥ pakṣavyāvṛttau / aśiraska eva cetavyaḥ / kuta ityāha - ānāmnānāt / na hi śira āmnāyate / tasya kathamanāmnānamityatrāha --- jñāyate ca | kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta saśīrṣo 'muṣmiṃl loke saṃbhaveyam iti vidyamāne kathaṃ brūyāt
Sanskrit only: no published translation is held for this verse.
यदि शिरस आम्नानमस्ति शीर्षण्वन्तं चिन्वीतेति कथं ब्रूयादेवेत्यर्थः । यदि शिरस आम्नानं नास्ति तदा युज्यत एवैतद्विशेषणम् । इतरथा विशेषणमनर्थकमेव स्यात् । तस्मादशिरस्क एव चेतव्यः । चद्यशिरस्कः किमाकारःस इत्याह- प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणात् प्रकृत्यां भवौ प्राकृतौ । तावेव पक्षौ वक्रीकर्तव्यौ । कुतः? विकारश्रवणात् । सन्नतं पुच्छं - पुच्छं च सन्नतं कर्तव्यम् । वक्तपक्षो व्यस्तपुच्छ इति विकारःश्रूयते । पक्षपुच्छानां च वक्तता व्यस्तता च प्रकृतौ नास्ति । तस्माद्विकारत्वं पक्षपुच्छानाम् ॥ यथाप्रकृत्य् आत्माविकारात्
yadi śirasa āmnānamasti śīrṣaṇvantaṃ cinvīteti kathaṃ brūyādevetyarthaḥ / yadi śirasa āmnānaṃ nāsti tadā yujyata evaitadviśeṣaṇam / itarathā viśeṣaṇamanarthakameva syāt / tasmādaśiraska eva cetavyaḥ / cadyaśiraskaḥ kimākāraḥsa ityāha- prākṛtau vakrau pakṣau saṃnataṃ pucchaṃ vikāraśravaṇāt prakṛtyāṃ bhavau prākṛtau / tāveva pakṣau vakrīkartavyau / kutaḥ? vikāraśravaṇāt / sannataṃ pucchaṃ - pucchaṃ ca sannataṃ kartavyam / vaktapakṣo vyastapuccha iti vikāraḥśrūyate / pakṣapucchānāṃ ca vaktatā vyastatā ca prakṛtau nāsti / tasmādvikāratvaṃ pakṣapucchānām // yathāprakṛty ātmāvikārāt
Sanskrit only: no published translation is held for this verse.
पार्श्वमान्यावक्ष्णयावस्थिते एकोनत्रिंशदङ्गुले । आयामःषट्त्रिंशदङ्गुलयः चतुर्दश तिलाश् च । पुच्छाप्ययविशययोरष्टादशाङ्गुलम् । पुच्छे पञ्चदशाङ्गुलमात्मतिलचतुर्थ्यादयो विकृताः पुच्छ उपधेयाः । प्राकृत एवात्मनि उपधानविधिः । स एष द्वितीयश्येनः । विकृते तत्रोक्तकरणान्येवमुन्नीय कृत्वा चेतव्यम् ॥ सुन्दरराजीया व्याख्या व्यत्या - चिकीर्षेत् कङ्क - ख्यातौ "कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत शीर्षण्वानमुष्मिन् लोके स्यामितिऽ । अलजचितं चिन्वीत चतुःसीतं प्रतिष्ठाकामऽ इति श्रुतावग्नी श्येनचिता पूर्वेणोत्तरेण वा व्याख्यातौ । अथोक्तस्यैव श्येनचितः प्रकारान्तरं विधित्सन् उक्तौ तावत्प्रकारौ युक्ततराविति दर्शयितुमाह - एवमिव --- मर्थ्यात् यथास्माभिरुक्तं एवमिव हि पततः श्येनस्य पक्षौ पुच्छाद्वर्षीयांसौ वक्रौ च मध्यतः पुच्छं च सन्नतमप्ययप्रदेशे आत्मा च आमण्डलः ईषन्मण्डलरूपः शिरश्वैवं भवति । तस्मात्--- तच्छब्दश्रुतेः यच्छब्दाध्याहारः कार्यः । यस्मादर्थे वा हिशब्दः । यस्मादेवंरूपः श्येनस्य पक्षपुच्छादिः प्रत्यक्षेण दृश्यते तत्मात् श्येनचितं चिन्वीतेति श्रुतिसामर्थ्यादेवंरूपपक्षपुच्छात्मशिरस्कः श्येनचिदित्युक्त इत्यर्थः ॥ अशि ----- म्नामात् अशिरस्को वा श्येनचिद्भवितुमर्हति । अनाम्नानात्; न(हि)च श्येनचित्प्रकरणे शिर आम्नायते । आत्मनो ऽप्यविकारस्यैतदुपलक्षणम् । अशिरस्क (त्वे) कल्पे प्रमाणान्तरमस्तीत्याह--- विज्ञा - ब्रूयात् यदि श्येनाकृतिविधानमात्रेणैव सशिरस्कत्वं भवेत् । तर्हि कङ्कचितो ऽपि भवेदेव । तथा च तत्र शीर्षण्वन्तमिति विशेषो न वक्तव्यःस्यादित्यर्थः ॥ यद्यशिरस्कस्तर्ह्यस्य किं रूपमित्याह --- प्राकृतौ - श्रवणात् प्राकृतावेव पक्षौ पुच्छौ षडरत्निं पञ्चारत्निं वा । तौ द्विपुरुषां रज्जुमुभयतःपाशामित्युक्तप्रकारेण वक्रीकर्तव्यौ । केचित्तु पूर्वोक्तायाम (भावात्) मार्गात् षष्टिशताङ्गुलया रज्ज्वा संनमन (मपी)मिच्छन्ति । पुच्छं च प्राकृतमेव सन्नतं अर्धपुरुषव्यासम् । पुरुषं प्रादेशाधिकं प्रतीचीनमायच्छेत् । तस्य दक्षिणतो ऽन्यमित्यादि पूर्ववत् । प्रादेशप्रवृद्धयभावे पूर्ववदेव । विकारश्रवणादिति --- वक्रपक्षो व्यस्तपुच्छो भवतीति वचनादित्यर्थः । यथा कारात् चतुः पुरुषः समचतुरश्र एव श्येनचित्यात्मा विकारस्याश्रवणात् कपर्दिभाष्यम् यथो एतच् छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद् व्याख्यातम्
pārśvamānyāvakṣṇayāvasthite ekonatriṃśadaṅgule / āyāmaḥṣaṭtriṃśadaṅgulayaḥ caturdaśa tilāś ca / pucchāpyayaviśayayoraṣṭādaśāṅgulam / pucche pañcadaśāṅgulamātmatilacaturthyādayo vikṛtāḥ puccha upadheyāḥ / prākṛta evātmani upadhānavidhiḥ / sa eṣa dvitīyaśyenaḥ / vikṛte tatroktakaraṇānyevamunnīya kṛtvā cetavyam // sundararājīyā vyākhyā vyatyā - cikīrṣet kaṅka - khyātau "kaṅkacitaṃ śīrṣaṇvantaṃ cinvīta yaḥ kāmayeta śīrṣaṇvānamuṣmin loke syāmiti' / alajacitaṃ cinvīta catuḥsītaṃ pratiṣṭhākāma' iti śrutāvagnī śyenacitā pūrveṇottareṇa vā vyākhyātau / athoktasyaiva śyenacitaḥ prakārāntaraṃ vidhitsan uktau tāvatprakārau yuktatarāviti darśayitumāha - evamiva --- marthyāt yathāsmābhiruktaṃ evamiva hi patataḥ śyenasya pakṣau pucchādvarṣīyāṃsau vakrau ca madhyataḥ pucchaṃ ca sannatamapyayapradeśe ātmā ca āmaṇḍalaḥ īṣanmaṇḍalarūpaḥ śiraśvaivaṃ bhavati / tasmāt--- tacchabdaśruteḥ yacchabdādhyāhāraḥ kāryaḥ / yasmādarthe vā hiśabdaḥ / yasmādevaṃrūpaḥ śyenasya pakṣapucchādiḥ pratyakṣeṇa dṛśyate tatmāt śyenacitaṃ cinvīteti śrutisāmarthyādevaṃrūpapakṣapucchātmaśiraskaḥ śyenacidityukta ityarthaḥ // aśi ----- mnāmāt aśirasko vā śyenacidbhavitumarhati / anāmnānāt; na(hi)ca śyenacitprakaraṇe śira āmnāyate / ātmano 'pyavikārasyaitadupalakṣaṇam / aśiraska (tve) kalpe pramāṇāntaramastītyāha--- vijñā - brūyāt yadi śyenākṛtividhānamātreṇaiva saśiraskatvaṃ bhavet / tarhi kaṅkacito 'pi bhavedeva / tathā ca tatra śīrṣaṇvantamiti viśeṣo na vaktavyaḥsyādityarthaḥ // yadyaśiraskastarhyasya kiṃ rūpamityāha --- prākṛtau - śravaṇāt prākṛtāveva pakṣau pucchau ṣaḍaratniṃ pañcāratniṃ vā / tau dvipuruṣāṃ rajjumubhayataḥpāśāmityuktaprakāreṇa vakrīkartavyau / kecittu pūrvoktāyāma (bhāvāt) mārgāt ṣaṣṭiśatāṅgulayā rajjvā saṃnamana (mapī)micchanti / pucchaṃ ca prākṛtameva sannataṃ ardhapuruṣavyāsam / puruṣaṃ prādeśādhikaṃ pratīcīnamāyacchet / tasya dakṣiṇato 'nyamityādi pūrvavat / prādeśapravṛddhayabhāve pūrvavadeva / vikāraśravaṇāditi --- vakrapakṣo vyastapuccho bhavatīti vacanādityarthaḥ / yathā kārāt catuḥ puruṣaḥ samacaturaśra eva śyenacityātmā vikārasyāśravaṇāt kapardibhāṣyam yatho etac cheyanacitaṃ cinvīteti | yāvadāmnānasārūpyaṃ tad vyākhyātam
Sanskrit only: no published translation is held for this verse.
तत्र यावदाम्नानमेव सारूप्यं ग्राह्यम् । जातिवाचकानां शब्दानां किमपि सामान्यमेव प्रवृत्तिनिमित्तं दृश्यते । यथा गौर्वाहीक इति । एवमत्रापि यावदाम्नानमेव सारूप्यं गृहीत्वा श्येनशब्दो वर्तते । तत्तु सारूयं व्याख्यातं वक्रपक्ष इत्यादिना ॥ त्रिस्तावो ऽग्निर् भवतीत्य् अश्वमेधे विज्ञायते
tatra yāvadāmnānameva sārūpyaṃ grāhyam / jātivācakānāṃ śabdānāṃ kimapi sāmānyameva pravṛttinimittaṃ dṛśyate / yathā gaurvāhīka iti / evamatrāpi yāvadāmnānameva sārūpyaṃ gṛhītvā śyenaśabdo vartate / tattu sārūyaṃ vyākhyātaṃ vakrapakṣa ityādinā // tristāvo 'gnir bhavatīty aśvamedhe vijñāyate
Sanskrit only: no published translation is held for this verse.
तत्र सर्वाब्यासो ऽविशेषात्
tatra sarvābyāso 'viśeṣāt
Sanskrit only: no published translation is held for this verse.
तत्र नारत्निप्रादेशस्य सप्तविधस्याभ्यासः । कुतः? अविशेषात्; न हि कश्विद्विशेषो ऽत्राम्नायते । तस्मात्सर्वस्यावृत्तिः । दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः
tatra nāratniprādeśasya saptavidhasyābhyāsaḥ / kutaḥ? aviśeṣāt; na hi kaśvidviśeṣo 'trāmnāyate / tasmātsarvasyāvṛttiḥ / dīrghacaturaśrāṇāṃ samāsena pakṣapucchānāṃ samāsa uktaḥ
Sanskrit only: no published translation is held for this verse.
दीर्घचतुरश्राणां पक्षपुच्छानां समासविधिरूक्तः । "यदन्यत्सप्तभ्यऽ इत्यादिना विधासप्तमकरणीमित्यादिना (च) वा । वेणुत्रिकरण्या वा विहरेदित्यर्थः ॥ एकविंशो ऽग्निर्भवतीत्य् अश्वमेधे विज्ञायते
dīrghacaturaśrāṇāṃ pakṣapucchānāṃ samāsavidhirūktaḥ / "yadanyatsaptabhya' ityādinā vidhāsaptamakaraṇīmityādinā (ca) vā / veṇutrikaraṇyā vā viharedityarthaḥ // ekaviṃśo 'gnirbhavatīty aśvamedhe vijñāyate
Sanskrit only: no published translation is held for this verse.
गतमेतत् । तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात् सङ्ख्यासंयोगात्
gatametat / tatra puruṣābhyāso nāratniprādeśānāṃ saṅkhyāsaṃyogāt saṅkhyāsaṃyogāt
Sanskrit only: no published translation is held for this verse.