पदादिषु मानार्थेषु यथाकामी--यथेच्छा तथा गृह्णीयात् । किमुक्तं भवति ॥ अणवश्चतुर्दश तिलः चतुस्त्रिंशत्तिलाः अङ्गुलः (पृथुतःसंस्पृष्टा इत्यपरम्) द्वादशाङ्गुलाः प्रादेशः त्रयोदशाङ्गुलः वितस्तिः पञ्चदशाङ्गुलं पदम् चतुर्विंशत्यङ्गुलयः अरत्निः द्वात्रिंशदङ्गुलयः जानुः षट्त्रिंशदङ्गुला शम्या षडशीत्यङ्गुलं युगम् चतुःशतं अक्षः विंशत्युत्तरं शतं पुरुषः इत्येवमादिशुल्बान्तरोक्तलक्षणमानार्थेषु प्रमाणावयवा गृह्येरन् । लक्षणे वर्गेण विमाय तत्र यथाकामी शब्दार्थस्य विशयित्वात् । पञ्चदशाङ्गुलं पदमपि भवति । यजमानपदमपि । तत्रान्यतरद्ग्राह्यमित्याधाने । इयद्द्वादशविक्रामा इति । तत्र स्वसंवित्तिं अपरसंवित्तिं लोकप्रसिद्धिं शास्त्रप्रसिद्धिं वा गृह्णीयादित्यर्थः । विमितायां पुरस्तात् पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्यात्
padādiṣu mānārtheṣu yathākāmī--yathecchā tathā gṛhṇīyāt / kimuktaṃ bhavati // aṇavaścaturdaśa tilaḥ catustriṃśattilāḥ aṅgulaḥ (pṛthutaḥsaṃspṛṣṭā ityaparam) dvādaśāṅgulāḥ prādeśaḥ trayodaśāṅgulaḥ vitastiḥ pañcadaśāṅgulaṃ padam caturviṃśatyaṅgulayaḥ aratniḥ dvātriṃśadaṅgulayaḥ jānuḥ ṣaṭtriṃśadaṅgulā śamyā ṣaḍaśītyaṅgulaṃ yugam catuḥśataṃ akṣaḥ viṃśatyuttaraṃ śataṃ puruṣaḥ ityevamādiśulbāntaroktalakṣaṇamānārtheṣu pramāṇāvayavā gṛhyeran / lakṣaṇe vargeṇa vimāya tatra yathākāmī śabdārthasya viśayitvāt / pañcadaśāṅgulaṃ padamapi bhavati / yajamānapadamapi / tatrānyataradgrāhyamityādhāne / iyaddvādaśavikrāmā iti / tatra svasaṃvittiṃ aparasaṃvittiṃ lokaprasiddhiṃ śāstraprasiddhiṃ vā gṛhṇīyādityarthaḥ / vimitāyāṃ purastāt pārśvamānyā upasaṃharet | śrutisāmarthyāt
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.