इति त्रिविधं निमित्तं । आज्ञातुकामता । कालज्ञता । निर्मानता च । सत्कारलाभेषु गतस्पृहो ऽसौ प्रपत्तये तं परिणामयेच् च । इति परिणामना प्रतिपत्त्यर्थं सेवनान् न लाभसत्कारार्थं । यथानुशिष्टप्रतिपत्तितश् च संराधयेच् चित्तम् अतो ऽस्य धीरः
iti trividhaṃ nimittaṃ | ājñātukāmatā | kālajñatā | nirmānatā ca | satkāralābheṣu gataspṛho 'sau prapattaye taṃ pariṇāmayec ca | iti pariṇāmanā pratipattyarthaṃ sevanān na lābhasatkārārthaṃ | yathānuśiṣṭapratipattitaś ca saṃrādhayec cittam ato 'sya dhīraḥ
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.