अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः । उणादयो बहुलमित्युपपदलोपः । विवक्षितं चैतत्सूत्रकारस्य । अन्यथा"अन्तस्तद्धर्मोपदेशात्ऽ; इतिवत् अन्तरुपपत्तेरित्यवक्ष्यत् । लघु चैवं सति सूत्रं स्यात् । अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति । ननु च"य एषो ऽन्तरि()क्षणि पुरुषो दृश्यते, एष आत्मेति होवाचऽ; इत्येतदत्रोदाहरणवाक्यम् । अत्र चाक्षिस्थ एव प्रतीयते । न तस्य रमणकर्तृत्वम् । श्रुत्युक्तमेव सूत्रैः प्रतिज्ञातव्यम् । तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह रमणं चेति ॥ न केवलमक्षिस्थत्वम् । किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः । न केवलं सूत्रे ऽपि तु श्रुतौ चेति द्वितीयः । आत्मशब्देन एष आत्मेत्यनेन । आदेयम् उपादेयं सुखं सुखसाधनं च माति अनुभवतीति निर्वचनेनेत्यर्थः । आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् । *३,६८०* सुखविशिष्टाभिधानाद् एव च
antaḥśabdopapadādramaterñamantāḍḍa iti ḍaḥ / uṇādayo bahulamityupapadalopaḥ / vivakṣitaṃ caitatsūtrakārasya / anyathā"antastaddharmopadeśāt'; itivat antarupapatterityavakṣyat / laghu caivaṃ sati sūtraṃ syāt / antara iti kurvannimamevārthaṃ pratijānīta iti / nanu ca"ya eṣo 'ntari()kṣaṇi puruṣo dṛśyate, eṣa ātmeti hovāca'; ityetadatrodāharaṇavākyam / atra cākṣistha eva pratīyate / na tasya ramaṇakartṛtvam / śrutyuktameva sūtraiḥ pratijñātavyam / tatkathaṃ śrutāvanuktaṃ ramaṇakartṛtvaṃ sūtrakṛtā pratijñāyata ityata āha ramaṇaṃ ceti // na kevalamakṣisthatvam / kintu ramaṇaṃ ramaṇakartṛtvaṃ ceti ādyaścaśabdaḥ / na kevalaṃ sūtre 'pi tu śrutau ceti dvitīyaḥ / ātmaśabdena eṣa ātmetyanena / ādeyam upādeyaṃ sukhaṃ sukhasādhanaṃ ca māti anubhavatīti nirvacanenetyarthaḥ / āṅpūrvakāddadātermanyateśca kvip / *3,680* sukhaviśiṣṭābhidhānād eva ca
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.