परमाणोरिति जात्यपेक्षमेकवचनम् । पार्थिवादीनां चतुर्विधानां परमाणूनां नित्यतामुपयान्ति वैशेषिकादयः । तदनुपपन्नम् । पाथिर्वाः पाथसीयास्तैजसाश्च परमाणवो ऽनित्या रूपवत्त्वात्पटवत् । यद्वा चतुर्विधा अप्यनित्याः स्पर्शवत्त्वात्पटवत् । एवं पार्थितवा आप्याश्चानित्या रसवत्त्वात्पटवत् । पार्थिवा अनित्या गन्धवत्त्वात्तद्वदेवेत्याद्यनुमानविरुद्धत्वात् । नच सावयवत्वमुपाधिः । गुणादौ साध्याव्याप्तेः । नच द्रव्यत्वावच्छिन्ने साध्ये ऽस्योपाधित्वम् । यद्रूपादिमत्तत्सावयवमिति साधनव्यापकत्वात् । नच धर्मिग्राहकविरोधः । साक्षिणैव परमाणुसिद्धेरुक्तत्वात् । अनित्यत्वे च परमाणूनां न मूलकारणत्वसिद्धिः । यदि च रूपादिमन्तो ऽपि परमाणवो नानित्यास्तदा घटादयो ऽप्यनित्या न स्युरविशेषात् । तथा(च)पि न परमाणूनां मूलकारणत्वम् । नचेश्वरे हेतूनां व्यभिचारः । भौतिकत्वेन विशेषणात् । तथाच वक्ष्यति । "भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मतेऽ; । इति । *८,१६४* नन्वस्माभिर्भूतसूक्ष्माणां नित्यताङ्गीक्रियते । तत्कथमेवमनुमीयते । मैवम् । नहि परमाणवो भूतसूक्ष्माणि, किन्नामाहं(कारो)मात्रोपचितानि । विकृताकाराश्च अनित्या एवेति । *८,१६५* अपरिग्रहाच् चात्यन्तम् अनपेक्षा
paramāṇoriti jātyapekṣamekavacanam / pārthivādīnāṃ caturvidhānāṃ paramāṇūnāṃ nityatāmupayānti vaiśeṣikādayaḥ / tadanupapannam / pāthirvāḥ pāthasīyāstaijasāśca paramāṇavo 'nityā rūpavattvātpaṭavat / yadvā caturvidhā apyanityāḥ sparśavattvātpaṭavat / evaṃ pārthitavā āpyāścānityā rasavattvātpaṭavat / pārthivā anityā gandhavattvāttadvadevetyādyanumānaviruddhatvāt / naca sāvayavatvamupādhiḥ / guṇādau sādhyāvyāpteḥ / naca dravyatvāvacchinne sādhye 'syopādhitvam / yadrūpādimattatsāvayavamiti sādhanavyāpakatvāt / naca dharmigrāhakavirodhaḥ / sākṣiṇaiva paramāṇusiddheruktatvāt / anityatve ca paramāṇūnāṃ na mūlakāraṇatvasiddhiḥ / yadi ca rūpādimanto 'pi paramāṇavo nānityāstadā ghaṭādayo 'pyanityā na syuraviśeṣāt / tathā(ca)pi na paramāṇūnāṃ mūlakāraṇatvam / naceśvare hetūnāṃ vyabhicāraḥ / bhautikatvena viśeṣaṇāt / tathāca vakṣyati / "bhautikaṃ tveva rūpādi vyāptaṃ nāśena no mate'; / iti / *8,164* nanvasmābhirbhūtasūkṣmāṇāṃ nityatāṅgīkriyate / tatkathamevamanumīyate / maivam / nahi paramāṇavo bhūtasūkṣmāṇi, kinnāmāhaṃ(kāro)mātropacitāni / vikṛtākārāśca anityā eveti / *8,165* aparigrahāc cātyantam anapekṣā
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.