॥ अथ श्रीमन्न्यायसुधायां अंशाधिकरणम् ॥ ॥ ॐ अंशो नानाव्यपदेशादन्यथा चापि ताशकितवादित्वमधीयत एके ॐ ॥ केचिदिदमेवं व्याचक्षते । जीवः परमात्मन्ॐऽशः । अंशत्वं च नारम्भकत्वम् । परमात्मनो ऽनारब्धत्वात् । नापि खण्डत्वम् । अच्छेद्यत्वात् । नच प्रदेशत्वम् । प(घ)टादिवदनित्यत्वप्रसङ्गात् । किन्नाम भिन्नाभिन्नत्वम् । अत्र भेद औपाधिको ऽभेदस्तु स्वाभाविकः । उपाधिश्च अनाद्यनिर्वाच्याविद्येत्येके । अन्ये तु सत्यमेवान्तःकरणादिकमिति । कुत एतत् । "द्वा सुपर्णाऽ"नित्यो नित्यानाम्ऽ; इत्यादिनानाव्यपदेशात् । अन्यथा चापि"तत्त्वमसिऽ"अहं ब्रह्मास्मिऽ; इत्याद्यभेदव्यपदेशात् । नचैकस्यैव जीवस्य ब्रह्मणा भेदाभेदौ किन्तु सर्वेषाम् । यतो ब्रह्मदाशा ब्रह्मकितवा इत्येके ब्रह्मररो दाशकितवादित्वमधीयत इत्यादि । तदिदमयुक्तम् । तथाहि । को ऽयमभेदः । किं मुख्य एवोतामुख्यः । सादृश्यादिलक्षणः । आद्यं निराकरोति भेदस्येति ॥ *८,६२३* अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके
// atha śrīmannyāyasudhāyāṃ aṃśādhikaraṇam // // oṃ aṃśo nānāvyapadeśādanyathā cāpi tāśakitavāditvamadhīyata eke oṃ // kecididamevaṃ vyācakṣate / jīvaḥ paramātmanoṃ'śaḥ / aṃśatvaṃ ca nārambhakatvam / paramātmano 'nārabdhatvāt / nāpi khaṇḍatvam / acchedyatvāt / naca pradeśatvam / pa(gha)ṭādivadanityatvaprasaṅgāt / kinnāma bhinnābhinnatvam / atra bheda aupādhiko 'bhedastu svābhāvikaḥ / upādhiśca anādyanirvācyāvidyetyeke / anye tu satyamevāntaḥkaraṇādikamiti / kuta etat / "dvā suparṇā'"nityo nityānām'; ityādinānāvyapadeśāt / anyathā cāpi"tattvamasi'"ahaṃ brahmāsmi'; ityādyabhedavyapadeśāt / nacaikasyaiva jīvasya brahmaṇā bhedābhedau kintu sarveṣām / yato brahmadāśā brahmakitavā ityeke brahmararo dāśakitavāditvamadhīyata ityādi / tadidamayuktam / tathāhi / ko 'yamabhedaḥ / kiṃ mukhya evotāmukhyaḥ / sādṛśyādilakṣaṇaḥ / ādyaṃ nirākaroti bhedasyeti // *8,623* aṃśo nānāvyapadeśād anyathā cāpi dāśakitavāditvam adhīyata eke
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.