Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·1·1.1·1.1.19

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 1.1.19

BSBh 1.1.19

अस्मिन्न् अस्य च तद्योगं शास्ति इतश्च न प्रधाने जीवे वानन्दमयशब्दः । यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्यास्य जीवस्य तद्योगं शास्ति । तदात्मना योगस्तद्योगः, तद्भावापत्तिः । मुक्तिरित्यर्थः । तद्योगं शास्ति शास्त्रं- ऽयदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रतिष्ठां विन्दते । अथ सो ऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवतिऽ (तै। २।७) इति । एतदुक्तं भवति- यदैतस्मिन्नानन्दमये ऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति तदा संसारभयान्न निवर्तते । यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति तदा संसारभयान्निवर्तत इति । तच्च परमात्मपरिग्रहे घटते, न प्रधानपरिग्रहे जीवपरिग्रहे वा । तस्मादानन्दमयः परमात्मेति स्थितम् । इदं त्विह वक्तव्यम्- ऽस वा एष पुरुषो ऽन्नरसमयःऽ । ऽतस्माद्वा एतस्मादन्नरसमयात् । अन्यो ऽन्तर आत्मा प्राणमयःऽ तस्मात् ऽअन्यो ऽन्तर आत्मा मनोमयःऽ तस्मात् ऽअन्यो ऽन्तर आत्मा विज्ञानमयःऽ (तै। २।१,२,३,४) इति च विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यर्थात्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्रवर्णिकब्रह्माधिकारादिति चेत्, न । अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अत्राह- युक्तमन्नमयादीनामब्रह्मत्वं, तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात् आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते, तेनानन्दमयस्य ब्रह्मत्वम्, अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति । अत्रोच्यते- यद्यप्यन्नमयादिभ्य इवानन्दमयादन्यो ऽन्तर आत्मेति न श्रूयते तथापि नानन्दमयस्य ब्रह्मत्वं, यत आनन्दमयं प्रकृत्य श्रूयते- ऽतस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठाऽ (तै। २।५) इति । तत्र यद्ब्रह्म मन्त्रवर्णे प्रकृतम्- ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ इति, तदिह ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्युच्यते । तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते । तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः । नन्वानन्दमयस्यावयवत्वेन ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्युच्यते, अन्नमयादीनामिव ऽइदं पुच्छं प्रतिष्ठाऽ इत्यादि । तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् । प्रकृतत्वादिति ब्रूमः । नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति । अत्रोच्यते- तथा सति तदेव ब्रह्मानन्दमय आत्मावयवी तदेव च ब्रह्मपुच्छं प्रतिष्ठावयव इत्यसामञ्जस्यं स्यात् । अन्यतरपरिग्रहे तु युक्तं ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्रैव ब्रह्मनिर्देश आश्रयितुं, ब्रह्मशब्दसंयोगात् । नानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावादिति । अपिच ब्रह्म पुच्छं प्रतिष्ठा इत्युक्तत्वेदमुच्यते- ऽतदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरितिऽ (तै। २।६) अस्मिंश्च श्लोके ऽननुकृष्यानन्दमयं, ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति । न चानन्दमयस्यत्मनो भावाभावाशङ्का युक्ता, प्रियमोदादिविशेषस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात् । कथं पुनः स्वप्रधानं सद्ब्रह्म, आनन्दमयस्य पुच्छत्वेन निर्दिश्यते- ऽब्रह्म पुच्छं प्रतिष्ठाऽ इति । नैष दोषः । पुच्छवत्पुच्छं , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते, नावयवत्वं, ऽएतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ (बृह। ४।३।३२) इति श्रुत्यन्तरात् । अपिच आनन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम् । निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्- ऽ यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेतिऽ (तै। २।९) । अपिच आनन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् । तथाच सति, ऽयत्र नान्यत्पश्ति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा। ७।२४।१) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरूपरुध्येत । प्रतिशरीरं च प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम् । ब्रह्म तु न प्रतिशरीरं भिद्यते, ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तैत्ति। २।१) इत्यानन्तश्रुतेः, ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे। ६।११) इति च श्रुत्यन्तरात् । नचानन्दमयस्याभ्यासः श्रूयते । प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते- ऽरसो वै सः, रसंह्येवायं लब्ध्वानन्दी भवति, को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्ऽ । ऽसैषानन्दस्य मीमांसा भवतिऽ । ऽआनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेतिऽ (तै।२।७।८।९) ऽआनन्दो ब्रह्मेति व्यजानात्ऽ (तै। ६।६) इति च । यदिच आनन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत्, तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत । न त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम । तस्माच्छ्रुत्यन्तरे ऽविज्ञानमानन्दं ब्रह्मऽ (बृ। ३।९।२८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात्, ऽयदेष आकाश आनन्दो न स्यात्ऽ इत्यादिर्ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम् । यत्स्वयं मयडन्तस्यैवानन्दशब्दस्याभ्यासः - ऽएतमानन्दमयात्मानमुपसंक्रामतिऽ (तै। २।८) इति, न तस्य ब्रह्मविषयत्वमस्ति, विकारात्मनामेवान्नमयादीनामनात्मनामुपसंक्रमितव्यानां प्रवाहे पठितत्वात् । नन्वानन्दमयस्योपसंक्रमितव्यस्यान्नमयादिवद्ब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिफलं निर्दिष्टं भवेत् । नैष दोषः । आनन्दमयोपसंक्रमणनिर्देशेनैव पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्यनिर्दिष्टत्वात् । ऽतदप्येष श्लोको भवति । यतो वाचो निवर्तन्तेऽ इत्यदिना च प्रपञ्च्यमानत्वात् । या त्वानन्दमयसंनिधाने ऽसो ऽकामयत बहुस्यां प्रजायेयेतिऽ इयं श्रुतिरुदाहृता सा ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यनेन संनिहिततरेण ब्रह्मणा संबध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति । तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य ऽरसो वै सःऽ इत्यादेर्नानन्दमयविषयता । ननु ऽसो ऽकामयतऽ इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते । नायं दोषः । ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात् । या तु भार्गवी वारुणी विद्या ऽआनन्दो ब्रह्मेति व्यजानात्ऽ इति तस्यां मयडश्रवणात्, प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम् । तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते । नचेह सविशेषं ब्रह्म प्रतिपिपादयिषितं, वाङ्मनसगोचरातिक्रमश्रुतेः । तस्मादन्नमयादिष्विवानन्दमये ऽपि विकारार्थ एव मयड्विज्ञेयो न प्राचुर्यार्थः । सूत्राणि त्वेवं व्याख्येयानि- ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यत उत स्वप्रधानत्वेनेति । पुच्छशब्दादवयवत्वेनेति प्राप्त उच्यते- ऽआनन्दमयो ऽभ्यासात्ऽ आनन्दमय आत्मेत्यत्र ऽब्रह्म पुच्छं प्रतिष्ठाऽ इति स्वप्रधानमेव ब्रह्मोपदिश्यते, अभ्यसात् । ऽअसन्नेव स भवतिऽ इत्यस्मिन्निगमनाश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात् । विकारशब्दान्नेति चेन्न प्राचुर्यात् । विकारशब्देनावयवशब्दो ऽभिप्रेतः । पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तं, तस्य परिहारो वक्तव्यः । अत्रोच्यते- नायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः । प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः । अन्नमयादीनां हि शिरआदिषु पुच्छान्तेववयवेःषूक्ते त्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वावयवप्रायापत्त्या ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्याह, नावयवविवक्षया । यत्कारणमभ्यासादिति स्वप्रधानत्वं ब्रह्मणः समर्थितम् । ऽतद्धेतुव्यपदेशाच्चऽ । सर्वस्य विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते- इदं सर्वमसृजत । यदिदं किञ्च (तै। २।६) इति । नच कारणं सत् ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते । अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥ १९॥ ---------------------- फ़्न्: अनात्म्ये ससंबन्धितयाध्यस्तेन्द्रियजातेनापञ्चाकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, अनिरुक्ते निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनं माया तच्छून्ये । उदरमिति उत् अपि अरमल्पम् अन्तरं भेदम् । आनन्दमयात्त्विति ब्रह्मण्यान्तरत्वमश्रुतं पुच्छत्वं तु श्रुतमित्यर्थः । पुच्छमित्याधारत्वमात्रं प्रतिष्ठेति । एकनीडमधिष्ठानं सोपादानस्य जगतः । यतो यस्मात् वाचः शक्तिवृत्त्या तमप्रकाश्यैव निवर्तन्ते । प्रतियोगी विरोधी तस्यात्मत्वमपेक्षते । यथा विप्रमयो ग्राम इत्यत्र शूद्रल्पत्वम् । उपक्रमणं बाधः । उपसंक्रतिमितव्यानां विवेकेन त्याज्यानाम् । प्रायापत्तिरवयवक्रमस्य बुद्धौ प्राप्तिः । अन्तरधिकरणम् । २०-२१

asminn asya ca tadyogaṃ śāsti itaśca na pradhāne jīve vānandamayaśabdaḥ / yasmādasminnānandamaye prakṛta ātmani pratibuddhasyāsya jīvasya tadyogaṃ śāsti / tadātmanā yogastadyogaḥ, tadbhāvāpattiḥ / muktirityarthaḥ / tadyogaṃ śāsti śāstraṃ- 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate / atha so 'bhayaṃ gato bhavati / yadā hyevaiṣa etasminnudaramantaraṃ kurute / atha tasya bhayaṃ bhavati' (tai. 2.7) iti / etaduktaṃ bhavati- yadaitasminnānandamaye 'lpamapyantaramatādātmyarūpaṃ paśyati tadā saṃsārabhayānna nivartate / yadā tvetasminnānandamaye nirantaraṃ tādātmyena pratitiṣṭhati tadā saṃsārabhayānnivartata iti / tacca paramātmaparigrahe ghaṭate, na pradhānaparigrahe jīvaparigrahe vā / tasmādānandamayaḥ paramātmeti sthitam / idaṃ tviha vaktavyam- 'sa vā eṣa puruṣo 'nnarasamayaḥ' / 'tasmādvā etasmādannarasamayāt / anyo 'ntara ātmā prāṇamayaḥ' tasmāt 'anyo 'ntara ātmā manomayaḥ' tasmāt 'anyo 'ntara ātmā vijñānamayaḥ' (tai. 2.1,2,3,4) iti ca vikārārthe mayaṭpravāhe satyānandamaya evākasmādardhajaratīyanyāyena kathamiva mayaṭaḥ prācuryarthātvaṃ brahmaviṣayatvaṃ cāśrīyata iti / māntravarṇikabrahmādhikārāditi cet, na / annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ / atrāha- yuktamannamayādīnāmabrahmatvaṃ, tasmāttasmādāntarasyāntarasyānyasyānyasyātmana ucyamānatvāt ānandamayāttu na kaścidanya āntara ātmocyate, tenānandamayasya brahmatvam, anyathā prakṛtahānāprakṛtaprakriyāprasaṅgāditi / atrocyate- yadyapyannamayādibhya ivānandamayādanyo 'ntara ātmeti na śrūyate tathāpi nānandamayasya brahmatvaṃ, yata ānandamayaṃ prakṛtya śrūyate- 'tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti / tatra yadbrahma mantravarṇe prakṛtam- 'satyaṃ jñānamanantaṃ brahma' iti, tadiha 'brahma pucchaṃ pratiṣṭhā' ityucyate / tadvijijñāpayiṣayaivānnamayādaya ānandamayaparyantāḥ pañca kośāḥ kalpyante / tatra kutaḥ prakṛtahānāprakṛtaprakriyāprasaṅgaḥ / nanvānandamayasyāvayavatvena 'brahma pucchaṃ pratiṣṭhā' ityucyate, annamayādīnāmiva 'idaṃ pucchaṃ pratiṣṭhā' ityādi / tatra kathaṃ brahmaṇaḥ svapradhānatvaṃ śakyaṃ vijñātum / prakṛtatvāditi brūmaḥ / nanvānandamayāvayavatvenāpi brahmaṇi vijñāyamāne na prakṛtatvaṃ hīyate, ānandamayasya brahmatvāditi / atrocyate- tathā sati tadeva brahmānandamaya ātmāvayavī tadeva ca brahmapucchaṃ pratiṣṭhāvayava ityasāmañjasyaṃ syāt / anyataraparigrahe tu yuktaṃ 'brahma pucchaṃ pratiṣṭhā' ityatraiva brahmanirdeśa āśrayituṃ, brahmaśabdasaṃyogāt / nānandamayavākye brahmaśabdasaṃyogābhāvāditi / apica brahma pucchaṃ pratiṣṭhā ityuktatvedamucyate- 'tadapyeṣa śloko bhavati / asanneva sa bhavati / asadbrahmeti veda cet / asti brahmeti cedveda / santamenaṃ tato viduriti' (tai. 2.6) asmiṃśca śloke 'nanukṛṣyānandamayaṃ, brahmaṇa eva bhāvābhāvavedanayorguṇadoṣābhidhānādgamyate 'brahma pucchaṃ pratiṣṭhā' ityatra brahmaṇa eva svapradhānatvamiti / na cānandamayasyatmano bhāvābhāvāśaṅkā yuktā, priyamodādiviśeṣasyānandamayasya sarvalokaprasiddhatvāt / kathaṃ punaḥ svapradhānaṃ sadbrahma, ānandamayasya pucchatvena nirdiśyate- 'brahma pucchaṃ pratiṣṭhā' iti / naiṣa doṣaḥ / pucchavatpucchaṃ , pratiṣṭhā parāyaṇamekanīḍaṃ laukikasyānandajātasya brahmānanda ityetadanena vivakṣyate, nāvayavatvaṃ, 'etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛha. 4.3.32) iti śrutyantarāt / apica ānandamayasya brahmatve priyādyavayavatvena saviśeṣaṃ brahmābhyupagantavyam / nirviśeṣaṃ tu brahma vākyaśeṣe śrūyate, vāṅmanasayoragocaratvābhidhānāt- ' yato vāco nivartante / aprāpya manasā saha / ānandaṃ brahmaṇo vidvān / na bibheti kutaścaneti' (tai. 2.9) / apica ānandapracura ityukte duḥkhāstitvamapi gamyate prācuryasya loke pratiyogyalpatvāpekṣatvāt / tathāca sati, 'yatra nānyatpaśti nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti bhūmni brahmaṇi tadvyatiriktābhāvaśrutirūparudhyeta / pratiśarīraṃ ca priyādibhedādānandamayasyāpi bhinnatvam / brahma tu na pratiśarīraṃ bhidyate, 'satyaṃ jñānamanantaṃ brahma' (taitti. 2.1) ityānantaśruteḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti ca śrutyantarāt / nacānandamayasyābhyāsaḥ śrūyate / prātipadikārthamātrameva hi sarvatrābhyasyate- 'raso vai saḥ, rasaṃhyevāyaṃ labdhvānandī bhavati, ko hyevānyātkaḥ prāṇyāt, yadeṣa ākāśa ānando na syāt' / 'saiṣānandasya mīmāṃsā bhavati' / 'ānandaṃ brahmaṇo vidvānna bibheti kutaścaneti' (tai.2.7.8.9) 'ānando brahmeti vyajānāt' (tai. 6.6) iti ca / yadica ānandamayaśabdasya brahmaviṣayatvaṃ niścitaṃ bhavet, tata uttareṣvānandamātraprayogeṣvapyānandamayābhyāsaḥ kalpyeta / na tvānandamayasya brahmatvamasti, priyaśirastvādibhirhetubhirityavocāma / tasmācchrutyantare 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) ityānandaprātipadikasya brahmaṇi prayogadarśanāt, 'yadeṣa ākāśa ānando na syāt' ityādirbrahmaviṣayaḥ prayogo na tvānandamayābhyāsa ityavagantavyam / yatsvayaṃ mayaḍantasyaivānandaśabdasyābhyāsaḥ - 'etamānandamayātmānamupasaṃkrāmati' (tai. 2.8) iti, na tasya brahmaviṣayatvamasti, vikārātmanāmevānnamayādīnāmanātmanāmupasaṃkramitavyānāṃ pravāhe paṭhitatvāt / nanvānandamayasyopasaṃkramitavyasyānnamayādivadbrahmatve sati naiva viduṣo brahmaprāptiphalaṃ nirdiṣṭaṃ bhavet / naiṣa doṣaḥ / ānandamayopasaṃkramaṇanirdeśenaiva pucchapratiṣṭhābhūtabrahmaprāpteḥ phalasyanirdiṣṭatvāt / 'tadapyeṣa śloko bhavati / yato vāco nivartante' ityadinā ca prapañcyamānatvāt / yā tvānandamayasaṃnidhāne 'so 'kāmayata bahusyāṃ prajāyeyeti' iyaṃ śrutirudāhṛtā sā 'brahma pucchaṃ pratiṣṭhā' ityanena saṃnihitatareṇa brahmaṇā saṃbadhyamānā nānandamayasya brahmatāṃ pratibodhayati / tadapekṣatvāccottarasya granthasya 'raso vai saḥ' ityādernānandamayaviṣayatā / nanu 'so 'kāmayata' iti brahmaṇi puṃliṅganirdeśo nopapadyate / nāyaṃ doṣaḥ / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' ityatra puṃliṅgenāpyātmaśabdena brahmaṇaḥ prakṛtatvāt / yā tu bhārgavī vāruṇī vidyā 'ānando brahmeti vyajānāt' iti tasyāṃ mayaḍaśravaṇāt, priyaśirastvādyaśravaṇācca yuktamānandasya brahmatvam / tasmādaṇumātramapi viśeṣamanāśritya na svata eva priyaśirastvādi brahmaṇa upapadyate / naceha saviśeṣaṃ brahma pratipipādayiṣitaṃ, vāṅmanasagocarātikramaśruteḥ / tasmādannamayādiṣvivānandamaye 'pi vikārārtha eva mayaḍvijñeyo na prācuryārthaḥ / sūtrāṇi tvevaṃ vyākhyeyāni- 'brahma pucchaṃ pratiṣṭhā' ityatra kimānandamayāvayavatvena brahma vivakṣyata uta svapradhānatveneti / pucchaśabdādavayavatveneti prāpta ucyate- 'ānandamayo 'bhyāsāt' ānandamaya ātmetyatra 'brahma pucchaṃ pratiṣṭhā' iti svapradhānameva brahmopadiśyate, abhyasāt / 'asanneva sa bhavati' ityasminnigamanāśloke brahmaṇa eva kevalasyābhyasyamānatvāt / vikāraśabdānneti cenna prācuryāt / vikāraśabdenāvayavaśabdo 'bhipretaḥ / pucchamityavayavaśabdānna svapradhānatvaṃ brahmaṇa iti yaduktaṃ, tasya parihāro vaktavyaḥ / atrocyate- nāyaṃ doṣaḥ, prācuryādapyavayavaśabdopapatteḥ / prācuryaṃ prāyāpattiḥ, avayavaprāye vacanamityarthaḥ / annamayādīnāṃ hi śiraādiṣu pucchāntevavayaveḥṣūkte tvānandamayasyāpi śiraādīnyavayavāntarāṇyuktvāvayavaprāyāpattyā 'brahma pucchaṃ pratiṣṭhā' ityāha, nāvayavavivakṣayā / yatkāraṇamabhyāsāditi svapradhānatvaṃ brahmaṇaḥ samarthitam / 'taddhetuvyapadeśācca' / sarvasya vikārajātasya sānandamayasya kāraṇatvena brahma vyapadiśyate- idaṃ sarvamasṛjata / yadidaṃ kiñca (tai. 2.6) iti / naca kāraṇaṃ sat brahma svavikārasyānandamayasya mukhyayā vṛttyāvayava upapadyate / aparāṇyapi sūtrāṇi yathāsaṃbhavaṃ pucchavākyanirdiṣṭasyaiva brahmaṇa upapādakāni draṣṭavyāni // 19// ---------------------- FN: anātmye sasaṃbandhitayādhyastendriyajātenāpañcākṛtabhūtakāryeṇātmyena tādātmyādihīne, anirukte nikṛṣyocyanta iti niruktāni bhūtasūkṣmāṇi taiścābhedavarjite, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye / udaramiti ut api aramalpam antaraṃ bhedam / ānandamayāttviti brahmaṇyāntaratvamaśrutaṃ pucchatvaṃ tu śrutamityarthaḥ / pucchamityādhāratvamātraṃ pratiṣṭheti / ekanīḍamadhiṣṭhānaṃ sopādānasya jagataḥ / yato yasmāt vācaḥ śaktivṛttyā tamaprakāśyaiva nivartante / pratiyogī virodhī tasyātmatvamapekṣate / yathā vipramayo grāma ityatra śūdralpatvam / upakramaṇaṃ bādhaḥ / upasaṃkratimitavyānāṃ vivekena tyājyānām / prāyāpattiravayavakramasya buddhau prāptiḥ / antaradhikaraṇam / 20-21

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/BSBh/1.1.19

Cite as: Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 1.1.19, in HREEM (hreem.cc/library/BSBh/1.1.19), after GRETIL …, Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra..

Edition, numbering and licence

GRETIL 6_sastra/3_phil/vedanta/brssbh1u.htm … brssbh4u.htm — Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text