Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·1·1.1

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 1.1

अथातो ब्रह्मजिज्ञासा तत्राथाब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थः, ब्रह्मजिज्ञासायाः अनधिकार्यत्वात् । मङ्गलस्य च वाक्यार्थे समन्वयाभावात् । अर्थान्तरप्रयुक्त एव श्रुत्या मङ्गलप्रयोजनो भवति । पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात् । सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षत एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम् । स्वाध्यायानन्तर्यं तु समानम् । नन्विह कर्मावबोधनार्थं विशेषः । न । धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेः । यथाच हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वान्न तथेह क्रमो विवक्षितः, शेषशेषित्वे ऽधिकृताधिकारे वा प्रमाणाभावात्, धर्मब्रह्मजिज्ञासयोः फलजिज्ञासस्यभेदाच्च । अभ्युदयफलं धर्मज्ञानं तच्चानुष्ठानापेक्षम् । निःश्रेयसफलं तु ब्रह्मविज्ञानं न चानुष्ठानान्तरापेक्षम् । भव्यश्च धर्मो जिज्ञास्यो न ज्ञानकाले ऽस्ति, पुरुषव्यापारतन्त्रत्वात् । इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम् । चोदनाप्रवृत्तिभेदाच्च । या हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयति । ब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलं, अवबोधस्य चोदनाजन्यत्वान्न पुरुषो ऽवबोधे नियुज्यते । यथाक्षार्थसंनिकर्षेणार्थावबोधे तद्वत् । तस्मात्किमपि वक्तव्यं यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति । उच्यते- नित्यानित्यवस्तुविवेकः, इहामुत्रार्थभोगविरागः, शमदमादिसाधनसंपत्, मुमुक्षुत्वं च । तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्मजिज्ञासितुं ज्ञातुं च न विपर्यये । तस्मादथाब्देन यथोक्तसाधनसंपत्त्यानन्तर्यमुपदिश्यते । अतःशब्दो हेत्वर्थः । यस्माद्वेद एवाग्निहोत्रादीनां श्रेयःसाधनानामनित्यफलतां दर्शयति- ऽतद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयतेऽ (छान्दो।८।१।६) इत्यादिः । तथा ब्रह्मविज्ञानादपि परं पुरुषार्थं दर्शयति- ऽब्रह्मविदाप्नोति परम्ऽ इत्यादिः (तैत्ति।२।१) तस्माद्यथोक्तसाधनसंपत्त्यनन्तरं ब्रह्मजिज्ञासा कर्तव्या । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा । ब्रह्म च वक्ष्यमाणलक्षणं ऽजन्माद्यस्य यतःऽ इति । अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम् । ब्रह्मण इति कर्मणिषष्ठी न शेषे, जिज्ञासापेक्ष्यत्वाज्जिज्ञासायाः, जिज्ञास्यान्तरानिर्देशाच्च । ननु शेषषष्ठीपरिग्रहे ऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते, संबन्धसामान्यस्य विशेषनिष्ठत्वात् । एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थ प्रयासः स्यात् । न व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेन्न, प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात् । ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम् । तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति तान्यर्थाक्षिप्तान्येवेति न पृथक्सूत्रयितव्यानि । यथा राजासौ गच्छतीत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति तद्वत् । श्रुत्यनुगमाच्च । ऽयतो वा इमानि भूतानि जायन्तेऽ (तैत्ति।३।१) इत्याद्याः श्रुतयः, ऽतद्विजिज्ञासस्व तद्ब्रह्मऽ इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद्ब्रह्मण इति कर्मणिषष्ठी ॥ ज्ञातुमिच्छा जिज्ञासा । अवगतिपर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः । कर्मफलविषयत्वादिच्छायाः । ज्ञानेन हि प्रमाणेनावगन्तुमिष्टं ब्रह्म । ब्रह्मावगतिर्हि पुरुषार्थः, निःशेषसंसारबीजाविद्याद्यनर्थनिबर्हणात् । तस्माद्ब्रह्म विजिज्ञासितव्यम् ॥ तत्पुनर्ब्रह्म प्रसिद्धमप्रस्द्धं वा स्यात् । यदि प्रसिद्धं न जिज्ञासितव्यम् । अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमिति । उच्यते- अस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं, सर्वज्ञं, सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोर्ऽथाः प्रतीयन्ते, बृहतेर्धातोरर्थानुगमात् । सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिः । सर्वो ह्यात्मास्तित्वं प्रत्येति, न नाहमस्मीति । यदि हि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् । आत्मा च ब्रह्म । यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम् । न । तद्विशेषं प्रति विप्रतिपत्तेः । देहमात्रं चैतन्यविशिष्टमात्मेति प्रकृता जना लौकायतिकाश्च प्रतिपन्नाः । इन्द्रियाण्येव चेतनान्यात्मेत्यपरे । मन इत्यन्ये । विज्ञानमात्रं क्षणिकमित्येके । शून्यमित्यपरे । अस्ति देहादिव्यतिरिक्तः संसारी कर्ता, भोक्तेत्यपरे । भोक्तैव केवलं न कर्तेत्येके । अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वाक्तिरिति केचित् । आत्मा स भोक्तुरित्यपरे । एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः । तत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येतानर्थं चेयात् । तस्मात्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥ ---------------------- फ़्न्: अधिकरणमिति- विषयः संदेहः संगतिः पूर्वपक्षः सिद्धान्त इत्येकैकमधिकरणं पञ्चावयवं ज्ञेयम् । ततश्च ज्ञानजन्यचिकीर्षया यत्नेसति यागादिधर्मो भवति । ब्रह्मणो हि निवृत्तावरणत्वेन फलरूपत्वं तज्ज्ञानोपयोगितया चतुर्थिसमास एषितव्यः ऽचतुर्थी तदर्थेऽ इत्यादिनेति केचित् । यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति भण्यते । विप्रतिपत्तृपरिगणनम्-शून्यवादो माध्यमिकानां, क्षणिकिज्ञानवादो योगाचाराणां, ज्ञानाकारानुमेयक्षणिकबाह्यार्थवादः सौत्रान्तिकानां, क्षणिकबाह्यार्थवादो वैभाषिकाणां, देहार्थवादश्चार्वाकाणां, देहातिरिक्तदेहपरिणामवादो दिगम्बराणामित्याद्यूह्यम् । २ जन्माद्याधिकरणम् । सू। २। ब्रह्मजिज्ञासितव्यमित्युक्तम् । किंलक्षणं पुनस्तद्ब्रह्मेत्यत आह भगवान्सूत्रकारः-

athāto brahmajijñāsā tatrāthābda ānantaryārthaḥ parigṛhyate nādhikārārthaḥ, brahmajijñāsāyāḥ anadhikāryatvāt / maṅgalasya ca vākyārthe samanvayābhāvāt / arthāntaraprayukta eva śrutyā maṅgalaprayojano bhavati / pūrvaprakṛtāpekṣāyāśca phalata ānantaryāvyatirekāt / sati cānantaryārthatve yathā dharmajijñāsā pūrvavṛttaṃ vedādhyayanaṃ niyamenāpekṣata evaṃ brahmajijñāsāpi yatpūrvavṛttaṃ niyamenāpekṣate tadvaktavyam / svādhyāyānantaryaṃ tu samānam / nanviha karmāvabodhanārthaṃ viśeṣaḥ / na / dharmajijñāsāyāḥ prāgapyadhītavedāntasya brahmajijñāsopapatteḥ / yathāca hṛdayādyavadānānāmānantaryaniyamaḥ, kramasya vivakṣitatvānna tatheha kramo vivakṣitaḥ, śeṣaśeṣitve 'dhikṛtādhikāre vā pramāṇābhāvāt, dharmabrahmajijñāsayoḥ phalajijñāsasyabhedācca / abhyudayaphalaṃ dharmajñānaṃ taccānuṣṭhānāpekṣam / niḥśreyasaphalaṃ tu brahmavijñānaṃ na cānuṣṭhānāntarāpekṣam / bhavyaśca dharmo jijñāsyo na jñānakāle 'sti, puruṣavyāpāratantratvāt / iha tu bhūtaṃ brahma jijñāsyaṃ nityatvānna puruṣavyāpāratantram / codanāpravṛttibhedācca / yā hi codanā dharmasya lakṣaṇaṃ sā svaviṣaye niyuñjānaiva puruṣamavabodhayati / brahmacodanā tu puruṣamavabodhayatyeva kevalaṃ, avabodhasya codanājanyatvānna puruṣo 'vabodhe niyujyate / yathākṣārthasaṃnikarṣeṇārthāvabodhe tadvat / tasmātkimapi vaktavyaṃ yadanantaraṃ brahmajijñāsopadiśyata iti / ucyate- nityānityavastuvivekaḥ, ihāmutrārthabhogavirāgaḥ, śamadamādisādhanasaṃpat, mumukṣutvaṃ ca / teṣu hi satsu prāgapi dharmajijñāsāyā ūrdhvaṃ ca śakyate brahmajijñāsituṃ jñātuṃ ca na viparyaye / tasmādathābdena yathoktasādhanasaṃpattyānantaryamupadiśyate / ataḥśabdo hetvarthaḥ / yasmādveda evāgnihotrādīnāṃ śreyaḥsādhanānāmanityaphalatāṃ darśayati- 'tadyatheha karmacito lokaḥ kṣīyata evamevāmutra puṇyacito lokaḥ kṣīyate' (chāndo.8.1.6) ityādiḥ / tathā brahmavijñānādapi paraṃ puruṣārthaṃ darśayati- 'brahmavidāpnoti param' ityādiḥ (taitti.2.1) tasmādyathoktasādhanasaṃpattyanantaraṃ brahmajijñāsā kartavyā / brahmaṇo jijñāsā brahmajijñāsā / brahma ca vakṣyamāṇalakṣaṇaṃ 'janmādyasya yataḥ' iti / ata eva na brahmaśabdasya jātyādyarthāntaramāśaṅkitavyam / brahmaṇa iti karmaṇiṣaṣṭhī na śeṣe, jijñāsāpekṣyatvājjijñāsāyāḥ, jijñāsyāntarānirdeśācca / nanu śeṣaṣaṣṭhīparigrahe 'pi brahmaṇo jijñāsākarmatvaṃ na virudhyate, saṃbandhasāmānyasya viśeṣaniṣṭhatvāt / evamapi pratyakṣaṃ brahmaṇaḥ karmatvamutsṛjya sāmānyadvāreṇa parokṣaṃ karmatvaṃ kalpayato vyartha prayāsaḥ syāt / na vyarthaḥ, brahmāśritāśeṣavicārapratijñānārthatvāditi cenna, pradhānaparigrahe tadapekṣitānāmarthākṣiptatvāt / brahma hi jñānenāptumiṣṭatamatvātpradhānam / tasminpradhāne jijñāsākarmaṇi parigṛhīte yairjijñāsitairvinā brahma jijñāsitaṃ na bhavati tānyarthākṣiptānyeveti na pṛthaksūtrayitavyāni / yathā rājāsau gacchatītyukte saparivārasya rājño gamanamuktaṃ bhavati tadvat / śrutyanugamācca / 'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityādyāḥ śrutayaḥ, 'tadvijijñāsasva tadbrahma' iti pratyakṣameva brahmaṇo jijñāsākarmatvaṃ darśayanti / tacca karmaṇi ṣaṣṭhīparigrahe sūtreṇānugataṃ bhavati / tasmādbrahmaṇa iti karmaṇiṣaṣṭhī // jñātumicchā jijñāsā / avagatiparyantaṃ jñānaṃ sanvācyāyā icchāyāḥ / karmaphalaviṣayatvādicchāyāḥ / jñānena hi pramāṇenāvagantumiṣṭaṃ brahma / brahmāvagatirhi puruṣārthaḥ, niḥśeṣasaṃsārabījāvidyādyanarthanibarhaṇāt / tasmādbrahma vijijñāsitavyam // tatpunarbrahma prasiddhamaprasddhaṃ vā syāt / yadi prasiddhaṃ na jijñāsitavyam / athāprasiddhaṃ naiva śakyaṃ jijñāsitumiti / ucyate- asti tāvadbrahma nityaśuddhabuddhamuktasvabhāvaṃ, sarvajñaṃ, sarvaśaktisamanvitam / brahmaśabdasya hi vyutpādyamānasya nityaśuddhatvādayor'thāḥ pratīyante, bṛhaterdhātorarthānugamāt / sarvasyātmatvācca brahmāstitvaprasiddhiḥ / sarvo hyātmāstitvaṃ pratyeti, na nāhamasmīti / yadi hi nātmāstitvaprasiddhiḥ syāt sarvo loko nāhamasmīti pratīyāt / ātmā ca brahma / yadi tarhi loke brahmātmatvena prasiddhamasti tato jñātamevetyajijñāsyatvaṃ punarāpannam / na / tadviśeṣaṃ prati vipratipatteḥ / dehamātraṃ caitanyaviśiṣṭamātmeti prakṛtā janā laukāyatikāśca pratipannāḥ / indriyāṇyeva cetanānyātmetyapare / mana ityanye / vijñānamātraṃ kṣaṇikamityeke / śūnyamityapare / asti dehādivyatiriktaḥ saṃsārī kartā, bhoktetyapare / bhoktaiva kevalaṃ na kartetyeke / asti tadvyatirikta īśvaraḥ sarvajñaḥ sarvāktiriti kecit / ātmā sa bhokturityapare / evaṃ bahavo vipratipannā yuktivākyatadābhāsasamāśrayāḥ santaḥ / tatrāvicārya yatkiñcitpratipadyamāno niḥśreyasātpratihanyetānarthaṃ ceyāt / tasmātbrahmajijñāsopanyāsamukhena vedāntavākyamīmāṃsā tadavirodhitarkopakaraṇā niḥśreyasaprayojanā prastūyate // 1 // ---------------------- FN: adhikaraṇamiti- viṣayaḥ saṃdehaḥ saṃgatiḥ pūrvapakṣaḥ siddhānta ityekaikamadhikaraṇaṃ pañcāvayavaṃ jñeyam / tataśca jñānajanyacikīrṣayā yatnesati yāgādidharmo bhavati / brahmaṇo hi nivṛttāvaraṇatvena phalarūpatvaṃ tajjñānopayogitayā caturthisamāsa eṣitavyaḥ 'caturthī tadarthe' ityādineti kecit / yaccāpnoti yadādatte yaccātti viṣayāniha / yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate / vipratipattṛparigaṇanam-śūnyavādo mādhyamikānāṃ, kṣaṇikijñānavādo yogācārāṇāṃ, jñānākārānumeyakṣaṇikabāhyārthavādaḥ sautrāntikānāṃ, kṣaṇikabāhyārthavādo vaibhāṣikāṇāṃ, dehārthavādaścārvākāṇāṃ, dehātiriktadehapariṇāmavādo digambarāṇāmityādyūhyam / 2 janmādyādhikaraṇam / sū. 2. brahmajijñāsitavyamityuktam / kiṃlakṣaṇaṃ punastadbrahmetyata āha bhagavānsūtrakāraḥ-

Sanskrit only: no published translation is held for this verse.

जन्माद्यस्य यतः जन्मोत्पत्तिरादिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिः । जन्मस्थितिभङ्गं समासार्थः । जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं च । श्रुतिनिर्देशस्तावत् ऽयतो वा इमानि भूतानि जायन्तेऽ (तैत्ति।३।१) इत्यस्मिन्वाक्ये जन्मस्थितिप्रलयानां क्रमदर्शनात् । वस्तुवृत्तमपि, जन्मना लब्धसत्ताकस्य धर्मिणः स्थितिप्रयसंभवात् । अस्येति प्रत्यक्षादिसंनिधापितस्य धर्मिण इदमा निर्देशः । षष्ठी जन्मादिधर्मसंबन्धार्था । यत इति कारणनिर्देशः अस्य जगतो नामरूपाभ्यां व्याकृतस्यानेककर्तृभोक्तृसंयुक्तस्य प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभङ्गं यतः सर्वज्ञात्सर्वशक्तेः कारणाद्भवति तद्ब्रह्मेति वाक्यशेषः । अन्येषामपि भावविकाराणां त्रिष्वेवान्तर्भाव इति जन्मस्थितिनाशानामिह ग्रहणम् । यास्कपरिपठितानां तु ऽजायते ऽस्तिऽ इत्यादीनां ग्रहणे तेषां जगतः स्थित्काले संभाव्यमानत्वान्मूलकारणादुत्पत्तिस्थितिनाशां जगतो न गृहीताः स्युरित्याशङ्क्येत, तन्मा शङ्कीति योत्पत्तिर्ब्रह्मस्तत्रैव स्थितिः प्रलयश्च त एव गृह्यन्ते ॥ न यथोक्तविशेषणस्य जगतो यथोक्तविशेषणमीश्वरं मुक्त्वान्यतः प्रधानादचेतनादणुभ्यो ऽभावात्संसारिणो वा उत्पत्त्यादि संभावयितुं शक्यम् । नच स्वभावतः, विशिष्टदेशकालनिमित्तानामिहोपादानात् । एतदेवानुमानं संसारिव्यतिरिक्तेश्वरास्तित्वादिसाधनं मन्यन्त ईश्वरकारणिनः । नन्विहापि तदेवोपन्यस्तं जन्मादिसूत्रे । न । वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् । वेदान्तवाक्यानि हि सूत्रैरुदाहृत्य विचार्यन्ते । वाक्यार्थविचारणाध्यवसाननिवृत्ता । सत्सु तु वेदान्तवाक्येषु जगतो जन्मादिकारणवादिषु तदर्थग्रहणदार्ढायानुमानमपि वेदान्तवाक्याविरोधि प्रमाणं भवन्न निवार्यते, श्रुत्यैव च सहायत्वेन तर्कस्याभ्युपेतत्वात् । तथाहि- ऽश्रोतव्यो मन्तव्यःऽ (बृह। २।४।५) इति श्रुतिः ऽपण्डितो मेधावी गन्धारानेवोपसंपद्येतैवमेवेहाचार्यवान्पुरुषो वेदऽ (छान्दो।६।१४।२) इति च पुरुषबुद्धिसाहाय्यमात्मनोर् दायति । न धर्मजिज्ञासायामिव श्रुत्यादयो ऽनुभवादयश्च यथासंभवमिह प्रमाणं अनुभवावसानत्वाद्भूतवस्तुविषयत्वाच्च ब्रह्मज्ञानस्य । कर्तव्ये हि विषये नानुभवापेक्षास्तीति श्रुत्यादीनामेव प्रामाण्यं स्यात्पुरुषाधीनात्मलाभत्वाच्च कर्तव्यस्य । कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं लौकिकं वैदिकं च कर्म, यथाश्वेन गच्छति, पद्भ्यामन्यथा वा, न वा गच्छतीति । तथा ऽअतिरात्रे षोडशिनं गृह्णाति, नातिरात्रे षोडशिनं गृह्णातिऽ, ऽउदिते जुहोति, अनुदिते जुहोतिऽ इति विधिप्रतिषेधाश्चात्रार्थवन्तः स्युः, विकल्पोत्सर्गापवादाश्च । नतु वस्त्वेवं नैवमस्ति नास्तीति वा विकल्प्यते । विकल्पनास्तु पुरुषबुद्ध्यपेक्षाः । न वस्तुयाथात्म्यज्ञानं पुरुषबुद्ध्यपेक्षम् । किं तर्हि वस्तुतन्त्रमेव तत् । नहि स्थाणावेकस्मिस्थाणुर्वा पुरुषो ऽन्यो वेति तत्त्वज्ञानं भवति । तत्र पुरुषो ऽन्यो वेति मिथ्याज्ञानम् । स्थाणुरेवेति तत्त्वज्ञानं,वस्तुतन्त्रत्वात् । एवं भूतवस्तुविषयाणां प्रामाण्यं वस्तुतन्त्रम् । तत्रैवं सति ब्रह्मज्ञानमपि वस्तुतन्त्रमेव, भूतवस्तु विषयत्वात् । ननु भूतवस्तुत्वे ब्रह्मणः प्रमाणान्तरविषयत्वमेवेति वेदान्तवाक्यविचारणानर्थिकैव प्राप्ता । न । इन्द्रियाविषयत्वेन संबन्धाग्रहणात् । स्वभावतो विषयविषयाणीन्द्रियाणि, न ब्रह्मविषयाणि । सति हीन्द्रियविषयत्वे ब्रह्मण-, इदं ब्रह्मणा संबद्धं कार्यमिति गृह्येत । कार्यमात्रमेव तु गृह्यमाणं किं ब्रह्मणा संबद्धं किमन्येन केनचिद्वा संबद्धमिति न शक्यं निश्चेतुम् । तस्माजन्मादिसूत्रं नानुमानोपन्यासार्थं, किं तर्हि वेदान्तवाक्यप्रर्दानार्थम् । किं पुनस्तद्वेदान्तवाक्यं यत्सूत्रेणैह लिलक्षयिषितम् । ऽभृगुर्वै वारुणिः । वरुणं पितरमुपससार । अधीहि भगवो ब्रह्मेतिऽ । इत्युपक्रम्य- ऽयतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेतिऽ । (तैत्ति। ३।१) । तस्य च निर्णयवाक्यम्- ऽआनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्तिऽ । (तैत्ति। ३।६) अन्यान्याप्येवञ्जातीयकानि वाक्यानि नित्याशुद्धबुद्धमुक्तस्वभावसर्वज्ञस्वरूपकारणविषयाण्युदाहर्तव्यानि ॥ २ ॥ ---------------------- फ़्न्: ऽइदं सर्वमसृजत यदिदं किञ्चऽ इति प्रत्यक्षम् । ३ शास्त्रयोनित्वाधिकरणम् । सू। ३ जगत्कारणत्वप्रर्दानेन सर्वज्ञं ब्रह्मेत्युपक्षिप्तं तदेव द्रढयन्नाह-

janmādyasya yataḥ janmotpattirādirasyeti tadguṇasaṃvijñāno bahuvrīhiḥ / janmasthitibhaṅgaṃ samāsārthaḥ / janmanaścāditvaṃ śrutinirdeśāpekṣaṃ vastuvṛttāpekṣaṃ ca / śrutinirdeśastāvat 'yato vā imāni bhūtāni jāyante' (taitti.3.1) ityasminvākye janmasthitipralayānāṃ kramadarśanāt / vastuvṛttamapi, janmanā labdhasattākasya dharmiṇaḥ sthitiprayasaṃbhavāt / asyeti pratyakṣādisaṃnidhāpitasya dharmiṇa idamā nirdeśaḥ / ṣaṣṭhī janmādidharmasaṃbandhārthā / yata iti kāraṇanirdeśaḥ asya jagato nāmarūpābhyāṃ vyākṛtasyānekakartṛbhoktṛsaṃyuktasya pratiniyatadeśakālanimittakriyāphalāśrayasya manasāpyacintyaracanārūpasya janmasthitibhaṅgaṃ yataḥ sarvajñātsarvaśakteḥ kāraṇādbhavati tadbrahmeti vākyaśeṣaḥ / anyeṣāmapi bhāvavikārāṇāṃ triṣvevāntarbhāva iti janmasthitināśānāmiha grahaṇam / yāskaparipaṭhitānāṃ tu 'jāyate 'sti' ityādīnāṃ grahaṇe teṣāṃ jagataḥ sthitkāle saṃbhāvyamānatvānmūlakāraṇādutpattisthitināśāṃ jagato na gṛhītāḥ syurityāśaṅkyeta, tanmā śaṅkīti yotpattirbrahmastatraiva sthitiḥ pralayaśca ta eva gṛhyante // na yathoktaviśeṣaṇasya jagato yathoktaviśeṣaṇamīśvaraṃ muktvānyataḥ pradhānādacetanādaṇubhyo 'bhāvātsaṃsāriṇo vā utpattyādi saṃbhāvayituṃ śakyam / naca svabhāvataḥ, viśiṣṭadeśakālanimittānāmihopādānāt / etadevānumānaṃ saṃsārivyatirikteśvarāstitvādisādhanaṃ manyanta īśvarakāraṇinaḥ / nanvihāpi tadevopanyastaṃ janmādisūtre / na / vedāntavākyakusumagrathanārthatvātsūtrāṇām / vedāntavākyāni hi sūtrairudāhṛtya vicāryante / vākyārthavicāraṇādhyavasānanivṛttā / satsu tu vedāntavākyeṣu jagato janmādikāraṇavādiṣu tadarthagrahaṇadārḍhāyānumānamapi vedāntavākyāvirodhi pramāṇaṃ bhavanna nivāryate, śrutyaiva ca sahāyatvena tarkasyābhyupetatvāt / tathāhi- 'śrotavyo mantavyaḥ' (bṛha. 2.4.5) iti śrutiḥ 'paṇḍito medhāvī gandhārānevopasaṃpadyetaivamevehācāryavānpuruṣo veda' (chāndo.6.14.2) iti ca puruṣabuddhisāhāyyamātmanor dāyati / na dharmajijñāsāyāmiva śrutyādayo 'nubhavādayaśca yathāsaṃbhavamiha pramāṇaṃ anubhavāvasānatvādbhūtavastuviṣayatvācca brahmajñānasya / kartavye hi viṣaye nānubhavāpekṣāstīti śrutyādīnāmeva prāmāṇyaṃ syātpuruṣādhīnātmalābhatvācca kartavyasya / kartumakartumanyathā vā kartuṃ śakyaṃ laukikaṃ vaidikaṃ ca karma, yathāśvena gacchati, padbhyāmanyathā vā, na vā gacchatīti / tathā 'atirātre ṣoḍaśinaṃ gṛhṇāti, nātirātre ṣoḍaśinaṃ gṛhṇāti', 'udite juhoti, anudite juhoti' iti vidhipratiṣedhāścātrārthavantaḥ syuḥ, vikalpotsargāpavādāśca / natu vastvevaṃ naivamasti nāstīti vā vikalpyate / vikalpanāstu puruṣabuddhyapekṣāḥ / na vastuyāthātmyajñānaṃ puruṣabuddhyapekṣam / kiṃ tarhi vastutantrameva tat / nahi sthāṇāvekasmisthāṇurvā puruṣo 'nyo veti tattvajñānaṃ bhavati / tatra puruṣo 'nyo veti mithyājñānam / sthāṇureveti tattvajñānaṃ,vastutantratvāt / evaṃ bhūtavastuviṣayāṇāṃ prāmāṇyaṃ vastutantram / tatraivaṃ sati brahmajñānamapi vastutantrameva, bhūtavastu viṣayatvāt / nanu bhūtavastutve brahmaṇaḥ pramāṇāntaraviṣayatvameveti vedāntavākyavicāraṇānarthikaiva prāptā / na / indriyāviṣayatvena saṃbandhāgrahaṇāt / svabhāvato viṣayaviṣayāṇīndriyāṇi, na brahmaviṣayāṇi / sati hīndriyaviṣayatve brahmaṇa-, idaṃ brahmaṇā saṃbaddhaṃ kāryamiti gṛhyeta / kāryamātrameva tu gṛhyamāṇaṃ kiṃ brahmaṇā saṃbaddhaṃ kimanyena kenacidvā saṃbaddhamiti na śakyaṃ niścetum / tasmājanmādisūtraṃ nānumānopanyāsārthaṃ, kiṃ tarhi vedāntavākyaprardānārtham / kiṃ punastadvedāntavākyaṃ yatsūtreṇaiha lilakṣayiṣitam / 'bhṛgurvai vāruṇiḥ / varuṇaṃ pitaramupasasāra / adhīhi bhagavo brahmeti' / ityupakramya- 'yato vā imāni bhūtāni jāyante / yena jātāni jīvanti / yatprayantyabhisaṃviśanti / tadvijijñāsasva / tadbrahmeti' / (taitti. 3.1) / tasya ca nirṇayavākyam- 'ānandāddhyeva khalvimāni bhūtāni jāyante / ānandena jātāni jīvanti / ānandaṃ prayantyabhisaṃviśanti' / (taitti. 3.6) anyānyāpyevañjātīyakāni vākyāni nityāśuddhabuddhamuktasvabhāvasarvajñasvarūpakāraṇaviṣayāṇyudāhartavyāni // 2 // ---------------------- FN: 'idaṃ sarvamasṛjata yadidaṃ kiñca' iti pratyakṣam / 3 śāstrayonitvādhikaraṇam / sū. 3 jagatkāraṇatvaprardānena sarvajñaṃ brahmetyupakṣiptaṃ tadeva draḍhayannāha-

Sanskrit only: no published translation is held for this verse.

शास्त्रयोनित्वात् महत ऋग्वेदादेः शास्त्रस्यानेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणंब्रह्म । नहीदृशस्य शास्त्रस्यर्ग्वेदादिक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः संभवो ऽस्ति । यद्यद्विस्तरार्थं शास्त्रं यस्मात्पुरुषविशेषात्संभवति, यथा व्याकरणादि पाणिन्यादेर्ज्ञेयैकदेशार्थमपि स ततो ऽप्यधिकतरविज्ञान इति प्रसिद्धं लोके । किमु वक्तव्यमनेकशाखाभेदभिन्नस्य देवतिर्यङ्मनुष्यवर्णाश्रमदिप्रविभागहेतोर् ऋग्वेदाद्याख्यस्य सर्वज्ञानाकरस्याप्रयत्नेनैव लीलान्ययेन पुरुषनिःश्वासवद्यस्मान्महतो भूताद्योनेः संभवः, ऽअस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदःऽ (बृह। २।४।१०) इत्यादिश्रुतेः । तस्य महतो भूतस्य निरतिशयं सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति । अथवा यथोक्त ऋग्वेदादिशास्त्रं योनिः कारणं प्रमाणमस्य ब्रह्मणो यथावत्स्वरूपाधिगमे । शास्त्रादेव प्रणाणाज्जगतो जन्मादिकारणं ब्रह्माधिगम्यत इत्यभिप्रायः । शास्त्रमुदाहृतं पूर्वसूत्रे- ऽयतो वा इमानि भूतानि जायन्तेऽ इत्यादि । किमर्थं तर्हीदं सूत्रं, यावता पूर्वसूत्र एवैवञ्जातीयकं शास्त्रमुदाहरता शास्त्रयोनित्वं ब्रह्मणो दर्शितम् । उच्यते- तत्र पूर्वसूत्राक्षरेण स्पष्टं शास्त्रस्यानुपादानाज्जन्मादि केवलमनुमानमुपन्यस्तमित्याशङ्क्येत तामाशङ्कां निर्वर्तयितुमिदं सूत्रं प्रववृते शास्त्रयोनित्वादिति ॥ ३ ॥ ---------------------- फ़्न्: उपबृंहणीयाश्चत्वारो वेदाः तत्र । पुराणानि सृष्ट्यादिप्रतिपादकवाक्यानि परकृतिपुराकल्परूपानर्थवादांश्च प्राधान्येनोपबृंहयन्ति प्रसङ्गादद्वैतभागं कर्मभागं च । न्यायशास्त्रं तु प्रमाणप्रमेयलक्षणानिरूपणेन पदार्थान्विविच्य ज्ञापयदुपबृंहयति । पूर्वोत्तरमीमांसे तु तात्पर्यनिर्णयद्वारोपयुक्ते । धर्मशास्त्रं श्रुतमनुस्मृतिं वा विधिभागमुपबृंहयति । शिक्षा स्थानकरणादिनिरूपणद्वारा स्वाध्यायो ऽध्येतव्य इति विध्यर्थमुपबृंहयति । कल्पास्तु प्रयोगनिरूपणार्थमुपयुक्ताः । व्याकरणं तावदस्मिन्नर्थे इदं पदं साध्विति पदार्थान्व्याकरोति । निरुक्तं तेषु तेषु पदेषु यौगिकमर्थं प्रदर्शयति । छन्दःशास्त्रं वेदगतान्गायत्र्यादिछन्दान् लक्षणमुखेन विशदयति । ज्योतिषं पौर्णमास्यां जयेद्देतामावास्यायाममावास्यया यजेतेत्यादिनोपात्तं कालविशेषं व्यवस्थापयति । तथाच तत्तद्देशव्याख्यानाय बहवो महर्षयः पुराणादिनिबन्धप्रणेतारो यत्र प्रवृत्तास्तस्य महत्त्वं व्यक्तमेव । विस्तररूपोर्ऽथो धर्मो यस्येति विग्रहः । विस्तृतमित्यर्थः । ४ समन्वयाधिकरणम् । सू। ४ कथं पुनर्ब्रह्मणः सास्त्रप्रमाणकत्वमुच्यते, यावता, ऽ आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्ऽ । (जैसू। १।२।१) इति क्रियापरत्वं शास्त्रस्य प्रदर्शितिम् । अतो वेदान्तानामानर्थक्यं, अक्रियार्थत्वात् । कर्तृदेवतादिप्रकाशनार्थत्वेन वा क्रियाविधिशेषत्वं, उपासनादिक्रियान्तविधानार्थत्वं वा । नहि परिनिष्ठितवस्तुप्रतिपादनं संभवति, प्रत्यक्षादिविषयत्वात्परिनिष्ठितवस्तुनः । तत्प्रतिपादने च हेयोपादेयरहिते पुरुषार्थाभावात् । अत एव ऽसो ऽरोदीत्ऽ इत्येवमादिनामानर्थक्यं मा भूदिति ऽविधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधिना स्युःऽ । (जैसू। १।२।७) इति स्तावकत्वेनार्थवत्त्वमुक्तम् । मन्त्राणां च ऽइषे त्वाऽ इत्यादीनां क्रियातत्साधनाभिधायित्वेन कर्मसमवायित्वमुक्तम् । न द्वचिदपि वेदवाक्यानां विधिसंस्पर्शमन्तरेणार्थवत्ता दृष्टोपपन्ना वा । न च परिनिष्ठिते वस्तुस्वरूपे विधिः संभवति, क्रियाविषयत्वाद्विधेः । तस्मात्कर्मापेक्षितकर्तृस्वरूपदेवतादिप्रकाशनेन क्रियाविधिशेषत्वं वेदान्तानाम् । अथ प्रकरणान्तरभयान्नैतदभ्युपगम्यते तथापि स्ववाक्यगतोपासनादिकर्मपरत्वम् । तसामान्न ब्रह्मणः शास्त्रयोनित्वमिति प्राप्ते उच्यते- ---------------------- फ़्न्: आम्नायस्येति पूर्वपक्षम् । अस्यार्थः - आम्नायस्य वेदस्य क्रियाप्रतिपादनपरत्वादतदर्थानामक्रियार्थानां ऽसो ऽरोदीऽ दित्यादिवाक्यानामानर्थकत्वं । तस्मादनित्यमनियतं वेदानां प्रामाण्यमुच्यते । तद्भूतानां क्रियार्थेन समन्वय इति सिद्धान्तः । तत्तेषु वेदवाक्येषु भूतानां सिद्दार्थप्रतिपादकवाक्यानां क्रियार्थेन क्रियाप्रतिपादकवाक्येन ऽबर्हिषि रजतं न देयं, पशुना यजेतेऽ त्यादिना सहान्वयः । तथाच निन्द्यत्वाद्यर्थपूरणेनान्वये कृते क्रियापरत्वसिद्ध्या प्रामाण्यं सिद्धम् । सिद्धवस्तुज्ञानात्फलभावादेवेत्यर्थः ।

śāstrayonitvāt mahata ṛgvedādeḥ śāstrasyānekavidyāsthānopabṛṃhitasya pradīpavatsarvārthāvadyotinaḥ sarvajñakalpasya yoniḥ kāraṇaṃbrahma / nahīdṛśasya śāstrasyargvedādikṣaṇasya sarvajñaguṇānvitasya sarvajñādanyataḥ saṃbhavo 'sti / yadyadvistarārthaṃ śāstraṃ yasmātpuruṣaviśeṣātsaṃbhavati, yathā vyākaraṇādi pāṇinyāderjñeyaikadeśārthamapi sa tato 'pyadhikataravijñāna iti prasiddhaṃ loke / kimu vaktavyamanekaśākhābhedabhinnasya devatiryaṅmanuṣyavarṇāśramadipravibhāgahetor ṛgvedādyākhyasya sarvajñānākarasyāprayatnenaiva līlānyayena puruṣaniḥśvāsavadyasmānmahato bhūtādyoneḥ saṃbhavaḥ, 'asya mahato bhūtasya niḥśvasitametadyadṛgvedaḥ' (bṛha. 2.4.10) ityādiśruteḥ / tasya mahato bhūtasya niratiśayaṃ sarvajñatvaṃ sarvaśaktimattvaṃ ceti / athavā yathokta ṛgvedādiśāstraṃ yoniḥ kāraṇaṃ pramāṇamasya brahmaṇo yathāvatsvarūpādhigame / śāstrādeva praṇāṇājjagato janmādikāraṇaṃ brahmādhigamyata ityabhiprāyaḥ / śāstramudāhṛtaṃ pūrvasūtre- 'yato vā imāni bhūtāni jāyante' ityādi / kimarthaṃ tarhīdaṃ sūtraṃ, yāvatā pūrvasūtra evaivañjātīyakaṃ śāstramudāharatā śāstrayonitvaṃ brahmaṇo darśitam / ucyate- tatra pūrvasūtrākṣareṇa spaṣṭaṃ śāstrasyānupādānājjanmādi kevalamanumānamupanyastamityāśaṅkyeta tāmāśaṅkāṃ nirvartayitumidaṃ sūtraṃ pravavṛte śāstrayonitvāditi // 3 // ---------------------- FN: upabṛṃhaṇīyāścatvāro vedāḥ tatra / purāṇāni sṛṣṭyādipratipādakavākyāni parakṛtipurākalparūpānarthavādāṃśca prādhānyenopabṛṃhayanti prasaṅgādadvaitabhāgaṃ karmabhāgaṃ ca / nyāyaśāstraṃ tu pramāṇaprameyalakṣaṇānirūpaṇena padārthānvivicya jñāpayadupabṛṃhayati / pūrvottaramīmāṃse tu tātparyanirṇayadvāropayukte / dharmaśāstraṃ śrutamanusmṛtiṃ vā vidhibhāgamupabṛṃhayati / śikṣā sthānakaraṇādinirūpaṇadvārā svādhyāyo 'dhyetavya iti vidhyarthamupabṛṃhayati / kalpāstu prayoganirūpaṇārthamupayuktāḥ / vyākaraṇaṃ tāvadasminnarthe idaṃ padaṃ sādhviti padārthānvyākaroti / niruktaṃ teṣu teṣu padeṣu yaugikamarthaṃ pradarśayati / chandaḥśāstraṃ vedagatāngāyatryādichandān lakṣaṇamukhena viśadayati / jyotiṣaṃ paurṇamāsyāṃ jayeddetāmāvāsyāyāmamāvāsyayā yajetetyādinopāttaṃ kālaviśeṣaṃ vyavasthāpayati / tathāca tattaddeśavyākhyānāya bahavo maharṣayaḥ purāṇādinibandhapraṇetāro yatra pravṛttāstasya mahattvaṃ vyaktameva / vistararūpor'tho dharmo yasyeti vigrahaḥ / vistṛtamityarthaḥ / 4 samanvayādhikaraṇam / sū. 4 kathaṃ punarbrahmaṇaḥ sāstrapramāṇakatvamucyate, yāvatā, ' āmnāyasya kriyārthatvādānarthakyamatadarthānām' / (jai.sū. 1.2.1) iti kriyāparatvaṃ śāstrasya pradarśitim / ato vedāntānāmānarthakyaṃ, akriyārthatvāt / kartṛdevatādiprakāśanārthatvena vā kriyāvidhiśeṣatvaṃ, upāsanādikriyāntavidhānārthatvaṃ vā / nahi pariniṣṭhitavastupratipādanaṃ saṃbhavati, pratyakṣādiviṣayatvātpariniṣṭhitavastunaḥ / tatpratipādane ca heyopādeyarahite puruṣārthābhāvāt / ata eva 'so 'rodīt' ityevamādināmānarthakyaṃ mā bhūditi 'vidhinā tvekavākyatvātstutyarthena vidhinā syuḥ' / (jai.sū. 1.2.7) iti stāvakatvenārthavattvamuktam / mantrāṇāṃ ca 'iṣe tvā' ityādīnāṃ kriyātatsādhanābhidhāyitvena karmasamavāyitvamuktam / na Dvacidapi vedavākyānāṃ vidhisaṃsparśamantareṇārthavattā dṛṣṭopapannā vā / na ca pariniṣṭhite vastusvarūpe vidhiḥ saṃbhavati, kriyāviṣayatvādvidheḥ / tasmātkarmāpekṣitakartṛsvarūpadevatādiprakāśanena kriyāvidhiśeṣatvaṃ vedāntānām / atha prakaraṇāntarabhayānnaitadabhyupagamyate tathāpi svavākyagatopāsanādikarmaparatvam / tasāmānna brahmaṇaḥ śāstrayonitvamiti prāpte ucyate- ---------------------- FN: āmnāyasyeti pūrvapakṣam / asyārthaḥ - āmnāyasya vedasya kriyāpratipādanaparatvādatadarthānāmakriyārthānāṃ 'so 'rodī' dityādivākyānāmānarthakatvaṃ / tasmādanityamaniyataṃ vedānāṃ prāmāṇyamucyate / tadbhūtānāṃ kriyārthena samanvaya iti siddhāntaḥ / tatteṣu vedavākyeṣu bhūtānāṃ siddārthapratipādakavākyānāṃ kriyārthena kriyāpratipādakavākyena 'barhiṣi rajataṃ na deyaṃ, paśunā yajete' tyādinā sahānvayaḥ / tathāca nindyatvādyarthapūraṇenānvaye kṛte kriyāparatvasiddhyā prāmāṇyaṃ siddham / siddhavastujñānātphalabhāvādevetyarthaḥ /

Sanskrit only: no published translation is held for this verse.

तत् तु समन्वयात् तु शब्दः पूर्वपक्षव्यावृत्त्यर्थः । तद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्ति स्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यते । कथम्, समन्वयात् । सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि । ऽसदेव सोम्येदमग्र आसीत्ऽ । ऽएकमेवाद्वितायम्ऽ । (छान्दो। ६।२।१) ऽआत्मावा इदमेक एवाग्र आसीत्ऽ । (ऐत। २।१।१।१) ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्ऽ । ऽअयमातमा ब्रह्म सर्वानुभूःऽ । (बृह। २।५।१९) ऽब्रह्मैवेदममृतं पुरस्तात्ऽ । (मुण्ड। २।२।११) इत्यादीनि । नच तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वये ऽवगम्यमानेर्ऽथान्तरकल्पना युक्ता, श्रुतिहानन्यश्रुतकल्पनाप्रसङ्गात् । नच तेषां कर्तृस्वरूपप्रतिपादनपरतावसीयते, ऽतत्केन कं पयेत्ऽ (बृह। २।४।१३) इत्यादि क्रियाकारकफलनिरीकरणश्रुतेः । नच परिनिष्ठितवस्तुस्वरूपत्वे ऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, ऽतत्त्वमसिऽ (छान्दो। ६।८।७) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् । यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति, नैष दोषः, हेयोपादेयाशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्राहाणात्पुरुषार्थसिद्धेः । देवतादिप्रतिपादनास्य तु स्ववाक्यगतोपासनार्थत्वे ऽपि न कश्चिद्विरोधः । नतु तथा ब्रह्मण उपासनाविधिशेषित्वं संभवति, एकत्वे हेयोपादेयाशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्देपपत्तेः । नह्येकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः संभवो ऽस्ति, येनोपासनाविधिशेषित्वं ब्रह्मणः प्रतिपद्येत । यद्यप्यन्यत्र वेदवाक्यानां वीधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टं, तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् । न चानुमानगम्यं शास्त्रप्रामाण्यं, येनान्यत्र दृष्टं निदर्शनमपेक्षेत । तस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम् । अत्रापरे प्रत्यवतिफष्ठन्ते- यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिविषयतैव शास्त्रेण ब्रह्म समर्प्यते । यथा यूपाहवहनीयादीन्यलौकिकान्यपि विधिशषतया शास्त्रेण समर्प्यन्ते तद्वत् । कुत एतत् । प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य । तथाहि शास्त्रतात्पर्यविद आहुः- ऽदृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इति । ऽचोदनेति क्रियायाः प्रवर्तकं वचनम्ऽ । ऽतस्य ज्ञानमुपदेशःऽ- (जैसू। १।१।५) ऽतद्भूतानां क्रियार्थेन समाम्नायःऽ- (जैसू। १।१।२५) ऽआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्-ऽ (जैसू। १।२।१) इतिच । अतः पुरुषं द्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम् । तच्छेषतया चान्यदुपयुक्तम् । तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् । सति च विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयत एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् । नन्विह जिज्ञास्यवैलक्षण्यमुक्तम्- कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति । तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति । नार्हत्येवं भवितुम् । कार्यविधिप्रयुक्त्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् । ऽआत्मा वा अरे द्रष्टव्यःऽ (बृह। २।४।५) इति । ऽय आत्मापहतपाप्मा-सो ऽन्वेव्यः स विजिज्ञासितव्यःऽ (छान्दो। ८।७।१) ऽआत्मेत्योवोपासीतऽ (बृह।१।४।७) ऽआत्मानमेव लोकमुपासतऽ (बृह। १।४।१५) । ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड। ३।२।९) इत्यादिविधानेषु सत्सु को ऽसावात्मा किं तद्ब्रह्म इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः- ऽनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्याशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म। इत्येवमादयः । तदुपासनाच्च शास्त्रदृष्टो ऽपि मोक्षः फलं भविष्यतीति । कर्तव्यविध्यननुप्रवेशे वस्तुमात्रकथने हानोपादानसंभवात्, सप्तद्वीपा वसुमती, राजासौ गच्छतीत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात् । ननु वस्तुमात्रकथने ऽपि रजुरियं नायं सर्प इत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टं तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात् । स्यादेतदेवं, यदि रजुस्वरूपश्रवण इव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत । नतु निवर्तते, श्रुतब्रह्मणो ऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात्, ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृह। २।४।५) इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिर्दर्शनात् । तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति । अत्राभिधीयते- न । कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् । शारीरं वाचिकं मानसं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यं, यद्विषया जिज्ञासा ऽअथातो धर्मजिज्ञासाऽ (जैसू। १।१।१) इति सूत्रिता, अधर्मो ऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहाराय । तयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे । मनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते । ततश्च तद्धेतोर्धर्मस्य तारतम्यं गम्यते । धर्मतारतम्यादधिकारितारतम्यम् । प्रसिद्धं चार्थित्वसार्मथ्यादिकृतमधिकारितारतम्यम् । तथाच यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनं, केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनं, तत्रापि सुखतारतम्यं तत्साधनतारतम्यं च शास्त्रात् ऽयावत्संपातमुषित्वाऽ (छान्दो। ५।१०।५) इत्यस्माद्गम्यते । तथा मनुष्यादिषु नारकस्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानः । तथोर्ध्वगतेष्वधोगतेषु च देहवत्सु दुःखतारतम्यर्दानात्तद्धेतोरधर्मस्य प्रतिषेधचोदनाक्षणस्य तदनुष्ठायिनां च तारतम्ये गम्यते । एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यनिमित्तं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम् । तथाच स्मृतिः- ऽन ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिऽ इति यथावर्णितं संसाररूपमनुवदति । अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छान्दो। ८।१२।१) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते । धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्यते । अशरीरत्वमेव धर्मकार्यमितिचेन्न, तस्य स्वाभाविकत्वात् । ऽअशरीरं शरीरेश्वनवस्थेष्ववस्थितम् । महान्तं विभुमात्मानं मत्वा धीरो न शोचतिऽ (काठ। १।२।२१) ऽअप्राणो ह्यमनाः शुभ्रःऽ (मुण्ड। २।१।२) ऽअसङ्गो ह्ययं पुरुषःऽ (बृह। ४।३।१५) इत्यादिश्रुतिभ्यः । अत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम् । तत्र किञ्चित्परिणामि नित्यं यस्मिन्विक्रियमाणे ऽपि तदेवेदमिति बुद्धिर्न विहन्यते । यथा पृथिव्यादिजगन्नित्यत्ववादिनाम् । यथा च सांख्यानां गुणाः । इदं तु पारमार्थिकं, कूटस्थनित्यं, व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयञ्ज्योतिःस्वभावम् । यत्र धर्माधर्मी सह कार्येण कालत्रयं च नोपावर्तेते । तदेदारीरत्वं मोक्षाख्यम् । ऽअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् । अन्यत्र भूताच्च भव्याच्चऽ (क। २।१४) इत्यादिश्रुतिभ्यः । अतस्तद्ब्रह्म यस्येयं जिज्ञासा प्रस्तुता, तद्यदि कर्तव्योषत्वेनोपदियेत, तेन च कर्तव्येन साध्यश्चेन्मोक्षो ऽभ्युपगम्येत, अनित्य एव स्यात् । तत्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत, नित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते, अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः । अपिच ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड। ३।२।९) ऽक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परापरेऽ (मुण्ड। २।२।८) । ऽआनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चयनऽ (तैत्ति। २।९) । ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृह। ४।२।४) ऽतदात्मानमेवावेदेहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्ऽ । (वाजसनेयब्राह्मणोप। १।४।१०) ऽतत्र को मोहः कः शोक एकत्वमनुपयतःऽ (ई(?)। ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति । तथा ऽतद्वैतत्पशयन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ (बृह। १।४।१०)इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम् । यथा तिष्ठन्गायतीति तिष्ठतिगायत्ययोर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते । ऽत्वं हि नः पिता यो ऽस्माकमविद्यायाः परं पारं तारयसिऽ (प्र। ६।८) ऽश्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सो ऽहं भगवः शोचामि त्वं मा भगवच्छोकस्य पारं तारयतुऽ (छान्दो। ७।१।३) ऽतस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारःऽ (छान्दो। ७।२६।२) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्ति । तथाचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्- ऽदुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गःऽ (न्या। सू। १।१।२) इति । मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति । नचेदं ब्रह्मात्मैकत्वविज्ञानं संपद्रूपम् । यथा ऽअनन्तं वै मनो ऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयतिऽ (बृह। ३।१।९) इति । न चाध्यासरूपम् । यथा ऽमनो ब्रह्मेत्युपासीतऽ (छान्दो। ३।१८।१) ऽआदित्यो ब्रह्मेत्यादेःशःऽ (छान्दो। ३।१९।१) इति च मन आदित्यादिषु ब्रह्मदृष्टध्यासः । नापि विशिष्टक्रियायोगनिमित्तं ऽवायुर्वाव संवर्गःऽ ऽप्राणो वाव संवर्गःऽ (छान्दो। ४।३।१) इतिवत् । नाष्वाज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम् । संपदादिरूपे हि ब्रह्मात्मैकत्वविज्ञाने ऽभ्युपगम्यमाने ऽतत्वमसिऽ (छान्दो। ६।८।७) ऽअहं ब्रह्मास्मिऽ (बृह। १४।१०) ऽअयमात्मा ब्रह्मऽ (बृह। २।५।१९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत । ऽभिद्यते हृदयग्रन्थिशिछद्यन्ते सर्वसंशयाःऽ (मुण्ड। २।२।८) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन् । ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड। ३।२।९) इति चैवमादीनि तद्भावापत्तिवचनानि संपदादिपक्षे न सामञ्जस्येनोपपद्येरन् । तस्मान्न संपदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् । अतो न पुरुषव्यापारतन्त्रा ब्रह्मविद्या । किं तर्हि प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रा । एवंभूतस्य ब्रह्मणस्तज् ज्ञानस्य च न कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् । नच विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः, ऽअन्यदेव तद्विदितादथो अविदितादधिऽ (केन। १।३) इति विदिक्रियाकर्मत्वप्रतिषेधात्, ऽयेनेदं सर्वं विजानाति तं केन विजानीयात्ऽ (बृह। २।४।१३) इति च । तथोपास्तिक्रियाकर्मत्वप्रतिषेधो ऽपि भवति- यद्वाचानभ्युदितं येन वागभ्युद्यते इत्यविषयत्वं ब्रह्मण उपन्यस्य, ऽतदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासतेऽ (केन। १।४) इति । अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरितिचेत् । न । अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य । नहि शास्त्रमिदन्तया विषयभूतं ब्रह्म प्रतिपिपादयिषति । किं तर्हि, प्रत्यगात्मत्वेनाविषयतया प्रतिपादयविद्याकल्पितं वेद्य-वेदितृ-वेदनादिभेदमपनयति । तथाच शास्त्रम्- ऽयस्यामतं तस्य मतं, मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्ऽ (केन। २।३) ऽन दृष्टेर्द्रष्टारं पश्येःऽ, ऽन विज्ञातेर्विज्ञातारं विजानीयाःऽ (बृह। ३।४।२) इति चैवमादि । अतो ऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः । यस्य तूत्पाद्यो मोक्षस्तस्य मानसं, वाचिकं, कायिकं वा कार्यमपेक्षत इति युक्तम् । तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् । नहि दध्यादि विकार्यं, उत्पाद्यं वा धटादि, नित्यं दृष्टं लोके । नचाप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् । स्वरूपव्यतिरिक्तत्वे ऽपि ब्रह्मणो नाप्यत्वं, सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मणः, आकाशस्येव । नापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेत । संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्याद्दोषापनयनेन वा । न तावद्गुणाधानेन संभवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य । नापि दोषापनयनेन, नित्याशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य । स्वात्मधर्म एव संस्थिरोभीतो मोक्षः क्रिययात्मनि संस्क्रियमाणे ऽभिव्यज्यते, यथाऽदर्शे निघर्षणक्रियया संस्क्रयमाणे भास्वरत्वं धर्म इतिचेत् । न । क्रियाश्रयत्वानुपपत्तेरात्मनः । यदाश्रया क्रिया तमविकुर्वती नैवात्मानं लभते । यद्यात्मा क्रियया विक्रियेतानित्यत्वमात्मनः प्रसज्येत । ऽअविकार्यो ऽयमुच्यतेऽ इति चैवमादीनि वाक्यानि बाध्येरन् । तच्चानिष्टम् । तस्मान्न स्वाश्रया क्रियाऽत्मानः संभवति । अन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते । ननु देहाश्रयया स्नानाचमनयज्ञोपवीतादिकया क्रियया देही संस्क्रियमाणो दृष्टः । न । देहादिसंहतस्यैवाविद्यागृहीतस्यात्मानः संस्क्रियमाणत्वात् । प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम् । तया देहाश्रयया तत्संहत एव कश्चिदविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम् । यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलं, अहमरोग इति यत्र बुद्धिरुत्पद्यते । एवं स्नानाचमनयज्ञोपवीतादिना अहं शुद्धः संस्कृत इति यत्र बुद्धिरुत्पद्यते स संस्क्रियते । स च देहेन संहत एव । तेनैव ह्यहङ्कर्त्राहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते । तत्फलं च स एवाश्नाति, ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनाश्नन्नन्यो अभिचाकाशीतिऽ (मुण्ड। ३।१।१) इति मन्त्रवर्णात् । ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणःऽ (काठ। १।३।४) इति च । तथाच ऽएको देवःसर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्चऽ (श्वेता। ६।११) इति । स पर्यगाच्छुक्रमकायमन्त्रणमस्त्राविरंशुद्धमपापविद्धम् । (ई(?)। ८) इति च । एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः । ब्रह्मभावश्च मोक्षः । तस्मान्न संस्कार्यो ऽपि मोक्षः । अतो ऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं केनचिद्दर्शयितुम् । तस्मात् ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते । ननु ज्ञानं नाम मानसी क्रिया । न । वैलक्षण्यात् । क्रिया हि नाम सा यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना च । यथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्व्षट्करिष्यन् इति । ऽसंध्यां मनसा द्यायेत्ऽ (ऐब्रा। ३।८।१) इति चैवमादिषु । ध्यानं चिन्तनं यद्यपि मानसं तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं, पुरुषतन्त्रत्वात् । ज्ञानं तु प्रमाणजन्यम् । प्रमाणं च यथाभूतवस्तुविषयमतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यं, केवलं वस्तुतन्त्रमेव तत् । न चोदनातन्त्रम् ॥ नापि पुरुषतन्त्रम् । तस्मान्मानसत्वे ऽपि ज्ञानस्य महद्वैलक्षण्यम् । यथाच ऽपुरुषो वाव गौतमाग्निःऽ, ऽयोषा वाव गौतमाग्निः (छान्दो। ५।७,८।१) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवति । केवचोदनाजन्यत्वात्क्रियैव सा पुरुषतन्त्रा च । या तु प्रसिद्धे ऽग्नावग्निबुद्धिर्न सा चोदनातन्त्रा । नापि पुरुषतन्त्रा । किं तर्हि प्रत्यक्षवस्तुतन्त्रैवेति ज्ञानमेवैतन्न क्रिया । एवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम् । तत्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम् । तद्विषये लिङागादयः श्रूयमाणा अप्यनियोज्यविषयत्वात्कुण्ठीभवन्त्युपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत्, अहेयानुपादेयवस्तुविषयत्वात् । किमर्थानि तर्हि ऽआत्मा वारे द्रष्यव्यः श्रोतव्यःऽ इत्यादीनि विधिच्छायानि वचनानि । स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमः । यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयाददनिष्टं माभूदिति, नच तत्रात्यन्तिकं पुरुषीर्थं लभते, तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविककार्यकरणसंघातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्ति ऽआत्मा वा अरे द्रष्टव्यःऽ इत्यादीनि । तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यते । ऽइदं सर्वं यदयमात्माऽ (बृह। २।४।६) ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् केन कं विजानीयात् वीज्ञातारमरे केन विजानीयात्ऽ (बृह। ४।५।१५) ऽअयमात्मा ब्रह्मऽ (बृह। २।५।१९) इत्यादिभिः । यदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा न भवतीति, तत्तथैवेत्यभ्युपगम्यते । अलङ्कारो ह्ययमस्माकं यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति । तथाच श्रुतिः- ऽआत्मानं चेद्विजानीयादयमस्तीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्ऽ ॥ (बृह। ४।४।१२) इति । ऽएतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारतऽ । (भगी। १५।२०) इति स्मृतिः । तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम् । यदपि केचिदाहुः- ऽप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तिऽ इति तन्न, औपनिषदस्य पुरुषस्य पुरुषस्यानन्यशेषत्वात् । यो ऽसावुपनिषत्स्वेवाधिगतः पुरुषो ऽसंसारी ब्रह्म उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थो ऽनन्योशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम्, ऽस एष नेति नेत्यात्माऽ (बृह। ३।९।२६) इत्यामशब्दात्, आत्मनश्च प्रत्याख्यातुमशक्यत्वात्, य एव निराकर्ता तस्यैवात्मत्वात् । नन्वात्माहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम् । न । तत्साक्षित्वेन प्रत्युक्तत्वात् । नह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्मा, अतः स न केनचित्प्रत्याख्यातुं शक्यो विधिशेषत्वं वा नेतुम् । अस्मत्वादेव च सर्वेषां न हेयो नाप्युपादेयः । सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति । पुरुषो विनाशहेत्वाभावादविनाशी, विक्रियाहेत्वभावाच्च, कूटस्थनित्यः, अत एव नित्याशुद्धबुद्धमुक्तस्वभावः । तस्मात् ऽपुरुषान्न परं किञ्चित्सा काष्टा सा परा गतिःऽ (काठ। १।३।११) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृह। ३।९।२३) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्व उपपद्यते । अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम् । यदपि शास्त्रतात्पर्यविदामनुक्रमणम्- ऽदृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इत्येवमादि, तद्धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधाशास्त्राभिप्रायं द्रष्टव्यम् । अपिच ऽआम्नायस्य क्रियार्थत्वादानर्थक्यमतर्थानाम्ऽ इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानार्थक्यप्रसङ्गः । प्रवृत्ति निवृत्तिविधितच्छेषव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः । नहि भूतमुपदिश्यमानं क्रिया भवति । अक्रियात्वे ऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थं एव भूतोपदेश इति चेत् । नैष दोषः । क्रियार्थत्वे ऽपि क्रियातिवर्तनशक्तिमद्वस्तूपदिष्टमेव । क्रियार्थत्वं तु प्रयोजनं तस्य । न चैतावता वस्त्वनुपदिष्टं भवति । यदि नामोपदिष्टं किं तव तेन स्यादिति । उच्यते- अनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हति । तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यवाशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन । अपिच ऽब्राह्मणो न हन्तव्यःऽ इति चैवमाद्या निवृत्तिरुपदिश्यते । नच सा क्रिया । नापि क्रियासाधनम् । अक्रियार्थानामुपदेशो ऽनर्थकश्चेत् ऽब्राह्मणो न हन्तव्यःऽ इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् । तच्चानिष्टम् । नच स्वाभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं, हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण । नञश्चैष स्वभावो यत्स्वसंबन्धिनो ऽभावं बोधयतीति । अभावबुद्धिश्चौदासीन्यकारणम् । सा च दग्धेन्धनाग्निवत्स्वयमेवोपाशाम्यति । तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ऽब्राह्मणो न हन्तव्यःऽ इत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतित्रातादिभ्यः । तस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम् । यदप्युक्तं- कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमानर्थकं स्यात् ऽसप्तद्वीपा वसुमतीऽ त्यादिवदिति, तत्परिहृतम् । रजुरियं नायं सर्प इति वस्तुमात्रकथने ऽपि प्रयोजनस्य दृष्टत्वात् । ननु श्रुतब्रह्मणो ऽपि यथापूर्वं संसारित्वर्दानान्न रजुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् । अत्रोच्यते- नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुं व वेदप्रमाणजनितब्रह्मात्मभावविरोधात् । नहि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् । नहि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापह्रनिमित्तं दुःखं भवति । नच कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमाननिमित्तं सुखं भवति । तदुक्तं श्रुत्या- ऽआरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छान्दो। ८।१२।१) इति । शरीरे पतिते ऽशरीरत्वं स्यात्, न जीवत इति चेन्न, सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्त्वात् । न ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वान्यतः सशरीरत्वं शक्यं कल्पयितुम् । नित्यमशरीरत्वमकर्मनिमित्तत्त्वादित्यवोचाम । तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेन्न, शरीरसंबन्धस्यासिद्धत्वाद्धर्माधर्मयोरात्मकृतत्वासिद्धेः । शरीरसंबन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गादन्धपरम्परैषानादित्वकल्पना । क्रियासमवायाभावाच्चाम्तनः कर्तृत्वानुपपत्तेः । संनिधानमात्रेण राजप्रभृतीनां दृष्टं कर्तव्यमिति चेन्न, धनदानाद्युपार्जितभृत्यसंबन्धत्वात्तेषां कर्तृत्वोपपत्तेः । न त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिसंबन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् । मिथ्याभिमानस्तु प्रत्यक्षः संबन्धहेतुः । एतेन यजमानत्वमात्मनो व्याख्यातम् । अत्राहुः- देहादिव्यतिरिक्तस्यात्मन आत्मीये देहादावभिमानो गौणो न मिथ्येति चेन्न, प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः । यस्य हि प्रसिद्धो वस्तुभेदः, यथा केसरादिमानाकृतिविशेषो ऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्यो ऽन्यः प्रसिद्धः ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः संपन्नः सिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतो नाप्रसिद्धवस्तुभेदस्य । तस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतो न गौणौ । यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथावा शुक्तिकायामकस्माद्रजतमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसंघाते ऽहमिति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् । आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतः । तस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव न गौणः । तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतो ऽपि विदुषो ऽशरीरत्वम् । तथाच ब्रह्मविद्विषया श्रुतिः- ऽ तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते । अथायमशरीरो ऽमृतः प्राणो ब्रह्मैव तेज एवऽ (बृह। ४।४।७) इति । ऽसचक्षुरचक्षुरिव सकर्णो ऽकर्ण इव सवागवागिव समना अमना इव सप्राणो ऽप्राण इवऽ इति च । स्मृतिरपि च- ऽस्थितप्रज्ञस्यका भाषाऽ (भगी। २।५४) इत्याद्या स्थितप्रज्ञलक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसंबन्धं दर्शयति । तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् । यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम् । यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्वधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति । न । अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषित्वम् । नतु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् । तस्मान्न प्रतपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः संभवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् । एवञ्च सति ऽअथातो ब्रह्मजिज्ञासाऽ इति तद्विषयः पृथक्शास्त्रमारम्भ उपपद्यते । प्रतिपत्तिविधिपरत्वे हि ऽअथातो धर्मजिज्ञासेऽत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येत । आरभ्यमाणं चैवमारभ्येत - ऽअथातः परिशिष्टधर्मजिज्ञासेतिऽ ऽ अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासाऽ (जै। ४।१।१) इतिवत् । ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः- ऽअथातो ब्रह्मजिज्ञासाऽ इति । तस्मादहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विषयः सर्वाणि चेतराणि प्रमाणानि । नह्यहेयानुपादेयाद्वैतात्मावगतौ निर्विषयाण्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्तीति । अपिचाहुः- ऽगौणमिथ्यात्मनो ऽसत्त्वे पुत्रदेहादिबाधनात् । सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् ॥ अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः । अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ॥ देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वाऽत्मनिश्चयात्ऽ इति ॥ ४ ॥ इति चतुःसूत्री समाप्ता । ---------------------- फ़्न्: पूर्वपक्षिणा क्रियाशेषतया ब्रह्म प्रतिपाद्यत इत्युक्तं तद्व्यावृत्त्यर्थमिति भावः । पूर्णतया जुहूद्वारा क्रतुशेषतावादात्मनो ऽपि ज्ञानद्वारा कर्मशेषत्वात्तदर्था वेदान्तास्तद्विधिशेषा भविष्यन्तीत्याशङ्क्याह तत्केनेति । प्रतिपत्तिकर्म प्रधानकर्मशेषाङ्गं । यथ प्रधानचरुहोमोत्तरं तेनैव द्रव्येण स्विष्टकृद्बलिदानादि । यथावा श्राद्धे पिण्डप्रदानपूजोत्तरं पिण्डानां गङ्गादिप्रवाहे प्रक्षेपः । अनुनप्रवेशो ऽसंबन्धः । प्रतिपत्तेर्विधिर्नियोगस्तस्य विषयभूतां प्रतिपत्तिप्रत्यवच्छेदकत्वेम विषयतयेत्यर्थः । अग्न्यादिदेवतोद्देशेन पुरोडाशादिद्रव्योत्सर्गो यागः । अशरीरं विदेहं, प्रियाप्रिये सुखदुःखे । कृताकृतादिति । कृतात् कार्यात्, अकृतात् कारणात् । तत् ब्रह्म, अवेत् विदितवत् । वल्कलादिवच्चित्तरञ्जको रागादिकषायो मृदितः क्षालितः विनाशितो यस्य ज्ञानवैराग्याभ्यासक्षारजलेन तस्मै । अध्यासः शास्त्रतो ऽतस्मिंस्तद्धीः । आदेश उपदेशः । प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्गः । तत् विदिताज्ज्ञानविषयादन्यद्भिन्नम् । अथो अपि अविदितादज्ञानविषयादपि अधि अन्यत् । यद्वाचा शब्देनानभ्युदितमप्रकाशितं, येन भ्मणा सा वागभ्यद्यते प्रकाश्यते । ऽनिवृत्तिविषयत्वात्ऽ भापा। । स्वात्मनो धर्मानाश्रयत्वे ऽपि नित्यो धर्मो मोक्षाख्यो भविष्यतीत्यभिप्रायेण धर्मशब्दः, स्वरूपपरो वा । अन्यो जीवात्मा । पिप्पलङ्कर्मफलम् । अभिचाकशीति प्रकाशते । कर्माध्यक्षः कर्मफलप्रदाता । शुक्रमिति बाह्याशुद्धिविरह उक्तः । अव्रणमस्नाविरमित्येव कायनिषेधे सिद्धे पुनस्तन्निषेधो लीलाधृतविषण्वादिविग्रहस्याप्यनृतताप्रतिपादनार्थः । तथाच - ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैवं मां द्रष्टुमर्हसीऽ ति । शरीरोपादानभूताविद्याराहित्याय शुद्धमिति । तन्निमित्तराहित्यायापापविद्धमिति । अत्रानुप्रवेशः संबन्धः । मयेदं कार्यमित्यवगतिमान् हि नियोज्यो भवति । कृतिसाध्यश्च विधिविषयो भवति । ज्ञानस्य च कृत्यसाध्यत्वान्नोभयमात्मज्ञानं भवतीति भावः । विधिच्छायानि प्रसिद्धयागादिविधितुल्यानि । प्रत्यगात्मनि स्रोतश्चित्तवृत्तिप्रवाहः । ऽकृतं कृत्यं प्रापणीयं प्राप्तमित्येव तुष्यतिऽ पञ्च। । अनुसंज्वरेत् शरीरं परितप्यमानमनुतप्येत । प्रमाप्रमारूपधीमात्रविषयः प्रतिपत्तिशब्दः । आ। । ऽयच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति भण्यतेऽ इति । अहंप्रत्ययविषय औपनिषदः पुरुषः । अहंप्रत्ययविषयो यः कर्ता कार्यकरणसंघातोपहितो जीवात्मा तद्व्यतिरेकेण । ऽइत्येवमाद्याऽ भापा। । बटोर्व्रतमित्युपक्रान्तं ऽनेक्षेतोद्यन्तमादित्यंऽ इत्यादि प्रजापतिव्रतम् । विध्यनुप्रवेशो विधिसंबन्धः । कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः । शब्दः शाब्दवोधश्चेत्यर्थः । निरुपचारेण गुणज्ञानंविना । श्रवणमननकुशलतामात्रेण पण्डितानां अनुत्पन्नसाक्षात्काराणामितियावत् । अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तत एवमित्याद्यूह्यम् । ब्रह्मसाक्षात्कारो ऽवगतिस्तदर्थत्वात् । विधिशेषत्वेन ब्रह्मार्पणे ऽपि । अथात इति तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयुक्तिसंभवात्कोनाम क्रतवे कोवा पुरुषार्तायेति जिज्ञासा प्रवृत्ता चतुर्थादौ । तस्मात् ज्ञानस्य प्रमेयप्रमातृबाधकत्वाभावात् । गौमेति । पुत्रदारादिष्वात्माभिमानो गौणः तत्र भेदानुभवात् । देहेन्द्रियादिषप त्वभेदानुभवान्न गौणः किन्तु मिथ्या । तदुभयात्मनो ऽसत्वे पुत्रदेहादिबाधनात्- गौणात्मनो ऽसत्वे पुत्रकलत्रादिबाधनं, मिथ्यात्मनो ऽसत्वे देहेन्द्रियादिबाधनं च । तथाच लोकयात्रकार्यं सद्ब्रह्माहमिति बोधकार्यं- अद्वैतसाक्षात्कारश्च कथं भवेत् । अन्वेष्टव्यात्मविज्ञानात्- ऽय आत्मापहतपाप्माऽ, सो ऽन्वेष्टव्यः इति तद्विज्ञानात्पूर्वमात्मनो मातृत्वं प्रमाप्रमेयप्रमाणविभागश्च । तेन तदभावे कार्यं नोत्पद्यत इत्यर्थः । आत्मनिश्चयात् आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः । एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं, ब्रह्मणि पर्यवसानमुक्तम् । ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाशकारणमित्युक्तम् । सांख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति । सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् । प्रधानपुरुषसंयोगा नित्यानुमेया इति सांख्या मन्यन्ते । काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते अणूंश्च समवायिकारणम् । एवमन्ये ऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्टन्ते । तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मावगतिपरत्वदर्शनाय वाक्याभासयुक्ताभासविप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते । तत्र सांख्याः प्रधानं त्रिगुणमचेतनं जगतः कारणमिति मन्यमाना आहुः- यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं दर्शयन्तीत्यवोचस्तानि प्रधानकारणपक्षे ऽपि योजयितुं शक्यन्ते । सर्वशक्तित्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते । एवं सर्वज्ञत्वमप्युपपद्यते । कथम् । यत्तु ज्ञानं मन्यसे स सत्त्वधर्मः , ऽसत्त्वात्संजायते ज्ञानम्ऽ (गी। १४।१७) इति स्मृतेः । तेन च सत्त्वधर्मेण ज्ञानेन कार्यकारणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः । सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् । न केवलस्याकार्यकारणस्य पुरुषोपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् । त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते । वेदान्तवाक्येष्ववश्यं च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानाक्तिमत्त्वेनैव सर्वज्ञत्वमुपगन्तव्यम् । नहि सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते । तथाहि- ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत । अथानित्यं तदिति ज्ञानक्रियाया उपरमेतापि ब्रह्म, तदा सर्वज्ञानाक्तिमत्त्वेनैव सर्वज्ञत्वमापतति । अपिच प्रागुत्पत्तेः सर्वकारकाशून्यं ब्रह्मेष्यते त्वया । नच ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना । अपिच प्रधानस्यनेकात्मकस्य परिणामासंभवात्कारणत्वोपपत्तिर्मृदादिवत्, नासंहतस्यैकात्मकस्य ब्रह्मण इत्येवं प्राप्तं इदं सूत्रमारभ्यते- ---------------------- फ़्न्: कार्यसंबन्धंविनापि अनुमेया इति । बुद्धौ यः प्रतिबिम्बः स तादृशबिम्बपूर्वकः प्रतिबिम्बत्वात् । दर्पणे मुखाभासादित्यनुमानम् । व्याकरणमीमांसान्यायाः पदवाक्यप्रमाणानि । वाक्याभासेषु युक्त्याभासेषु च विप्रतिपत्तिर्येषां ते । ज्ञानक्रियांप्रति ज्ञाधात्वर्थंप्रति, स्वातन्त्र्यं कर्तृत्वम् । आदिपदेन ज्ञेयज्ञात्रादिसंग्रहः । प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति । ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते ।

tat tu samanvayāt tu śabdaḥ pūrvapakṣavyāvṛttyarthaḥ / tadbrahma sarvajñaṃ sarvaśakti jagadutpatti sthitilayakāraṇaṃ vedāntaśāstrādevāvagamyate / katham, samanvayāt / sarveṣu hi vedānteṣu vākyāni tātparyeṇaitasyārthasya pratipādakatvena samanugatāni / 'sadeva somyedamagra āsīt' / 'ekamevādvitāyam' / (chāndo. 6.2.1) 'ātmāvā idameka evāgra āsīt' / (aita. 2.1.1.1) 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' / 'ayamātamā brahma sarvānubhūḥ' / (bṛha. 2.5.19) 'brahmaivedamamṛtaṃ purastāt' / (muṇḍa. 2.2.11) ityādīni / naca tadgatānāṃ padānāṃ brahmasvarūpaviṣaye niścite samanvaye 'vagamyamāner'thāntarakalpanā yuktā, śrutihānanyaśrutakalpanāprasaṅgāt / naca teṣāṃ kartṛsvarūpapratipādanaparatāvasīyate, 'tatkena kaṃ payet' (bṛha. 2.4.13) ityādi kriyākārakaphalanirīkaraṇaśruteḥ / naca pariniṣṭhitavastusvarūpatve 'pi pratyakṣādiviṣayatvaṃ brahmaṇaḥ, 'tattvamasi' (chāndo. 6.8.7) iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt / yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ, heyopādeyāśūnyabrahmātmatāvagamādeva sarvakleśaprāhāṇātpuruṣārthasiddheḥ / devatādipratipādanāsya tu svavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ / natu tathā brahmaṇa upāsanāvidhiśeṣitvaṃ saṃbhavati, ekatve heyopādeyāśūnyatayā kriyākārakādidvaitavijñānopamardepapatteḥ / nahyekatvavijñānenonmathitasya dvaitavijñānasya punaḥ saṃbhavo 'sti, yenopāsanāvidhiśeṣitvaṃ brahmaṇaḥ pratipadyeta / yadyapyanyatra vedavākyānāṃ vīdhisaṃsparśamantareṇa pramāṇatvaṃ na dṛṣṭaṃ, tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṃ śakyaṃ pratyākhyātum / na cānumānagamyaṃ śāstraprāmāṇyaṃ, yenānyatra dṛṣṭaṃ nidarśanamapekṣeta / tasmātsiddhaṃ brahmaṇaḥ śāstrapramāṇakatvam / atrāpare pratyavatiphaṣṭhante- yadyapi śāstrapramāṇakaṃ brahma tathāpi pratipattividhiviṣayataiva śāstreṇa brahma samarpyate / yathā yūpāhavahanīyādīnyalaukikānyapi vidhiśaṣatayā śāstreṇa samarpyante tadvat / kuta etat / pravṛttinivṛttiprayojanatvācchāstrasya / tathāhi śāstratātparyavida āhuḥ- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' iti / 'codaneti kriyāyāḥ pravartakaṃ vacanam' / 'tasya jñānamupadeśaḥ'- (jai.sū. 1.1.5) 'tadbhūtānāṃ kriyārthena samāmnāyaḥ'- (jai.sū. 1.1.25) 'āmnāyasya kriyārthatvādānarthakyamatadarthānām-' (jai.sū. 1.2.1) itica / ataḥ puruṣaṃ Dvacidviṣayaviśeṣe pravartayatkutaścidviṣayaviśeṣānnivartayaccārthavacchāstram / taccheṣatayā cānyadupayuktam / tatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt / sati ca vidhiparatve yathā svargādikāmasyāgnihotrādisādhanaṃ vidhīyata evamamṛtatvakāmasya brahmajñānaṃ vidhīyata iti yuktam / nanviha jijñāsyavailakṣaṇyamuktam- karmakāṇḍe bhavyo dharmo jijñāsya iha tu bhūtaṃ nityanivṛttaṃ brahma jijñāsyamiti / tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṃ brahmajñānaphalaṃ bhavitumarhati / nārhatyevaṃ bhavitum / kāryavidhiprayukttasyaiva brahmaṇaḥ pratipādyamānatvāt / 'ātmā vā are draṣṭavyaḥ' (bṛha. 2.4.5) iti / 'ya ātmāpahatapāpmā-so 'nvevyaḥ sa vijijñāsitavyaḥ' (chāndo. 8.7.1) 'ātmetyovopāsīta' (bṛha.1.4.7) 'ātmānameva lokamupāsata' (bṛha. 1.4.15) / 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) ityādividhāneṣu satsu ko 'sāvātmā kiṃ tadbrahma ityākāṅkṣāyāṃ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥ- 'nityaḥ sarvajñaḥ sarvagato nityatṛpto nityāśuddhabuddhamuktasvabhāvo vijñānamānandaṃ brahma. ityevamādayaḥ / tadupāsanācca śāstradṛṣṭo 'pi mokṣaḥ phalaṃ bhaviṣyatīti / kartavyavidhyananupraveśe vastumātrakathane hānopādānasaṃbhavāt, saptadvīpā vasumatī, rājāsau gacchatītyādivākyavadvedāntavākyānāmānarthakyameva syāt / nanu vastumātrakathane 'pi rajuriyaṃ nāyaṃ sarpa ityādau bhrāntijanitabhītinivartanenārthavattvaṃ dṛṣṭaṃ tathehāpyasaṃsāryātmavastukathanena saṃsāritvabhrāntinivartanenārthavattvaṃ syāt / syādetadevaṃ, yadi rajusvarūpaśravaṇa iva sarpabhrāntiḥ, saṃsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivarteta / natu nivartate, śrutabrahmaṇo 'pi yathāpūrvaṃ sukhaduḥkhādisaṃsāridharmadarśanāt, 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛha. 2.4.5) iti ca śravaṇottarakālayormanananididhyāsanayorvidhirdarśanāt / tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṃ brahmābhyupagantavyamiti / atrābhidhīyate- na / karmabrahmavidyāphalayorvailakṣaṇyāt / śārīraṃ vācikaṃ mānasaṃ ca karma śrutismṛtisiddhaṃ dharmākhyaṃ, yadviṣayā jijñāsā 'athāto dharmajijñāsā' (jai.sū. 1.1.1) iti sūtritā, adharmo 'pi hiṃsādiḥ pratiṣedhacodanālakṣaṇatvājjijñāsyaḥ parihārāya / tayoścodanālakṣaṇayorarthānarthayordharmādharmayoḥ phale pratyakṣe sukhaduḥkhe śarīravāṅmanobhirevopabhujyamāne viṣayendriyasaṃyogajanye brahmādiṣu sthāvarānteṣu prasiddhe / manuṣyatvādārabhya brahmānteṣu dehavatsu sukhatāratamyamanuśrūyate / tataśca taddhetordharmasya tāratamyaṃ gamyate / dharmatāratamyādadhikāritāratamyam / prasiddhaṃ cārthitvasārmathyādikṛtamadhikāritāratamyam / tathāca yāgādyanuṣṭhāyināmeva vidyāsamādhiviśeṣāduttareṇa pathā gamanaṃ, kevalairiṣṭāpūrtadattasādhanairdhūmādikrameṇa dakṣiṇena pathā gamanaṃ, tatrāpi sukhatāratamyaṃ tatsādhanatāratamyaṃ ca śāstrāt 'yāvatsaṃpātamuṣitvā' (chāndo. 5.10.5) ityasmādgamyate / tathā manuṣyādiṣu nārakasthāvarānteṣu sukhalavaścodanālakṣaṇadharmasādhya eveti gamyate tāratamyena vartamānaḥ / tathordhvagateṣvadhogateṣu ca dehavatsu duḥkhatāratamyardānāttaddhetoradharmasya pratiṣedhacodanākṣaṇasya tadanuṣṭhāyināṃ ca tāratamye gamyate / evamavidyādidoṣavatāṃ dharmādharmatāratamyanimittaṃ śarīropādānapūrvakaṃ sukhaduḥkhatāratamyanimittaṃ saṃsārarūpaṃ śrutismṛtinyāyaprasiddham / tathāca smṛtiḥ- 'na ha vai saśarīrasya sataḥ priyāpriyayorapahatirasti' iti yathāvarṇitaṃ saṃsārarūpamanuvadati / aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti priyāpriyasparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṃ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate / dharmakāryatve hi priyāpriyasparśanapratiṣedho nopapadyate / aśarīratvameva dharmakāryamiticenna, tasya svābhāvikatvāt / 'aśarīraṃ śarīreśvanavastheṣvavasthitam / mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) 'asaṅgo hyayaṃ puruṣaḥ' (bṛha. 4.3.15) ityādiśrutibhyaḥ / ata evānuṣṭheyakarmaphalavilakṣaṇaṃ mokṣākhyamaśarīratvaṃ nityamiti siddham / tatra kiñcitpariṇāmi nityaṃ yasminvikriyamāṇe 'pi tadevedamiti buddhirna vihanyate / yathā pṛthivyādijagannityatvavādinām / yathā ca sāṃkhyānāṃ guṇāḥ / idaṃ tu pāramārthikaṃ, kūṭasthanityaṃ, vyomavatsarvavyāpi, sarvavikriyārahitaṃ, nityatṛptaṃ, niravayavaṃ, svayañjyotiḥsvabhāvam / yatra dharmādharmī saha kāryeṇa kālatrayaṃ ca nopāvartete / tadedārīratvaṃ mokṣākhyam / 'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt / anyatra bhūtācca bhavyācca' (ka. 2.14) ityādiśrutibhyaḥ / atastadbrahma yasyeyaṃ jijñāsā prastutā, tadyadi kartavyoṣatvenopadiyeta, tena ca kartavyena sādhyaścenmokṣo 'bhyupagamyeta, anitya eva syāt / tatraivaṃ sati yathoktakarmaphaleṣveva tāratamyāvasthiteṣvanityeṣu kaścidatiśayo mokṣa iti prasajyeta, nityaśca mokṣaḥ sarvairmokṣavādibhirabhyupagamyate, ato na kartavyaśeṣatvena brahmopadeśo yuktaḥ / apica 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāpare' (muṇḍa. 2.2.8) / 'ānandaṃ brahmaṇo vidvān / na bibheti kutaścayana' (taitti. 2.9) / 'abhayaṃ vai janaka prāpto 'si' (bṛha. 4.2.4) 'tadātmānamevāvedehaṃ brahmāsmīti tasmāttatsarvamabhavat' / (vājasaneyabrāhmaṇopa. 1.4.10) 'tatra ko mohaḥ kaḥ śoka ekatvamanupayataḥ' (ī(?). 7) ityevamādyāḥ śrutayo brahmavidyānantaraṃ mokṣaṃ darśayantyo madhye kāryāntaraṃ vārayanti / tathā 'tadvaitatpaśayannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛha. 1.4.10)iti brahmadarśanasarvātmabhāvayormadhye kartavyāntaravāraṇāyodāhāryam / yathā tiṣṭhangāyatīti tiṣṭhatigāyatyayormadhye tatkartṛkaṃ kāryāntaraṃ nāstīti gamyate / 'tvaṃ hi naḥ pitā yo 'smākamavidyāyāḥ paraṃ pāraṃ tārayasi' (pra. 6.8) 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi tvaṃ mā bhagavacchokasya pāraṃ tārayatu' (chāndo. 7.1.3) 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chāndo. 7.26.2) iti caivamādyāḥ śrutayo mokṣapratibandhanivṛttimātramevātmajñānasya phalaṃ darśayanti / tathācāryapraṇītaṃ nyāyopabṛṃhitaṃ sūtram- 'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ' (nyā. sū. 1.1.2) iti / mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati / nacedaṃ brahmātmaikatvavijñānaṃ saṃpadrūpam / yathā 'anantaṃ vai mano 'nantā viśvedevā anantameva sa tena lokaṃ jayati' (bṛha. 3.1.9) iti / na cādhyāsarūpam / yathā 'mano brahmetyupāsīta' (chāndo. 3.18.1) 'ādityo brahmetyādeḥśaḥ' (chāndo. 3.19.1) iti ca mana ādityādiṣu brahmadṛṣṭadhyāsaḥ / nāpi viśiṣṭakriyāyoganimittaṃ 'vāyurvāva saṃvargaḥ' 'prāṇo vāva saṃvargaḥ' (chāndo. 4.3.1) itivat / nāṣvājyāvekṣaṇādikarmavatkarmāṅgasaṃskārarūpam / saṃpadādirūpe hi brahmātmaikatvavijñāne 'bhyupagamyamāne 'tatvamasi' (chāndo. 6.8.7) 'ahaṃ brahmāsmi' (bṛha. 14.10) 'ayamātmā brahma' (bṛha. 2.5.19) ityevamādīnāṃ vākyānāṃ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyeta / 'bhidyate hṛdayagranthiśichadyante sarvasaṃśayāḥ' (muṇḍa. 2.2.8) iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyeran / 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) iti caivamādīni tadbhāvāpattivacanāni saṃpadādipakṣe na sāmañjasyenopapadyeran / tasmānna saṃpadādirūpaṃ brahmātmaikatvavijñānam / ato na puruṣavyāpāratantrā brahmavidyā / kiṃ tarhi pratyakṣādipramāṇaviṣayavastujñānavadvastutantrā / evaṃbhūtasya brahmaṇastaj jñānasya ca na kayācidyuktyā śakyaḥ kāryānupraveśaḥ kalpayitum / naca vidikriyākarmatvena kāryānupraveśo brahmaṇaḥ, 'anyadeva tadviditādatho aviditādadhi' (kena. 1.3) iti vidikriyākarmatvapratiṣedhāt, 'yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt' (bṛha. 2.4.13) iti ca / tathopāstikriyākarmatvapratiṣedho 'pi bhavati- yadvācānabhyuditaṃ yena vāgabhyudyate ityaviṣayatvaṃ brahmaṇa upanyasya, 'tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate' (kena. 1.4) iti / aviṣayatve brahmaṇaḥ śāstrayonitvānupapattiriticet / na / avidyākalpitabhedanivṛttiparatvācchāstrasya / nahi śāstramidantayā viṣayabhūtaṃ brahma pratipipādayiṣati / kiṃ tarhi, pratyagātmatvenāviṣayatayā pratipādayavidyākalpitaṃ vedya-veditṛ-vedanādibhedamapanayati / tathāca śāstram- 'yasyāmataṃ tasya mataṃ, mataṃ yasya na veda saḥ / avijñātaṃ vijānatāṃ vijñātamavijānatām' (kena. 2.3) 'na dṛṣṭerdraṣṭāraṃ paśyeḥ', 'na vijñātervijñātāraṃ vijānīyāḥ' (bṛha. 3.4.2) iti caivamādi / ato 'vidyākalpitasaṃsāritvanivartanena nityamuktātmasvarūpasamarpaṇānna mokṣasyānityatvadoṣaḥ / yasya tūtpādyo mokṣastasya mānasaṃ, vācikaṃ, kāyikaṃ vā kāryamapekṣata iti yuktam / tathā vikāryatve ca tayoḥ pakṣayormokṣasya dhruvamanityatvam / nahi dadhyādi vikāryaṃ, utpādyaṃ vā dhaṭādi, nityaṃ dṛṣṭaṃ loke / nacāpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt / svarūpavyatiriktatve 'pi brahmaṇo nāpyatvaṃ, sarvagatatvena nityāptasvarūpatvātsarveṇa brahmaṇaḥ, ākāśasyeva / nāpi saṃskāryo mokṣaḥ, yena vyāpāramapekṣeta / saṃskāro hi nāma saṃskāryasya guṇādhānena vā syāddoṣāpanayanena vā / na tāvadguṇādhānena saṃbhavati, anādheyātiśayabrahmasvarūpatvānmokṣasya / nāpi doṣāpanayanena, nityāśuddhabrahmasvarūpatvānmokṣasya / svātmadharma eva saṃsthirobhīto mokṣaḥ kriyayātmani saṃskriyamāṇe 'bhivyajyate, yathā'darśe nigharṣaṇakriyayā saṃskrayamāṇe bhāsvaratvaṃ dharma iticet / na / kriyāśrayatvānupapatterātmanaḥ / yadāśrayā kriyā tamavikurvatī naivātmānaṃ labhate / yadyātmā kriyayā vikriyetānityatvamātmanaḥ prasajyeta / 'avikāryo 'yamucyate' iti caivamādīni vākyāni bādhyeran / taccāniṣṭam / tasmānna svāśrayā kriyā'tmānaḥ saṃbhavati / anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṃskriyate / nanu dehāśrayayā snānācamanayajñopavītādikayā kriyayā dehī saṃskriyamāṇo dṛṣṭaḥ / na / dehādisaṃhatasyaivāvidyāgṛhītasyātmānaḥ saṃskriyamāṇatvāt / pratyakṣaṃ hi snānācamanāderdehasamavāyitvam / tayā dehāśrayayā tatsaṃhata eva kaścidavidyayātmatvena parigṛhītaḥ saṃskriyata iti yuktam / yathā dehāśrayacikitsānimittena dhātusāmyena tatsaṃhatasya tadabhimānina ārogyaphalaṃ, ahamaroga iti yatra buddhirutpadyate / evaṃ snānācamanayajñopavītādinā ahaṃ śuddhaḥ saṃskṛta iti yatra buddhirutpadyate sa saṃskriyate / sa ca dehena saṃhata eva / tenaiva hyahaṅkartrāhaṃpratyayaviṣayeṇa pratyayinā sarvāḥ kriyā nirvartyante / tatphalaṃ ca sa evāśnāti, 'tayoranyaḥ pippalaṃ svādvattyanāśnannanyo abhicākāśīti' (muṇḍa. 3.1.1) iti mantravarṇāt / 'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ' (kāṭha. 1.3.4) iti ca / tathāca 'eko devaḥsarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā / karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca' (śvetā. 6.11) iti / sa paryagācchukramakāyamantraṇamastrāviraṃśuddhamapāpaviddham / (ī(?). 8) iti ca / etau mantrāvanādheyātiśayatāṃ nityaśuddhatāṃ ca brahmaṇo darśayataḥ / brahmabhāvaśca mokṣaḥ / tasmānna saṃskāryo 'pi mokṣaḥ / ato 'nyanmokṣaṃ prati kriyānupraveśadvāraṃ na śakyaṃ kenaciddarśayitum / tasmāt jñānamekaṃ muktvā kriyāyā gandhamātrasyāpyanupraveśa iha nopapadyate / nanu jñānaṃ nāma mānasī kriyā / na / vailakṣaṇyāt / kriyā hi nāma sā yatra vastusvarūpanirapekṣaiva codyate, puruṣacittavyāpārādhīnā ca / yathā yasyai devatāyai havirgṛhītaṃ syāttāṃ manasā dhyāyedvṣaṭkariṣyan iti / 'saṃdhyāṃ manasā dyāyet' (ai.brā. 3.8.1) iti caivamādiṣu / dhyānaṃ cintanaṃ yadyapi mānasaṃ tathāpi puruṣeṇa kartumakartumanyathā vā kartuṃ śakyaṃ, puruṣatantratvāt / jñānaṃ tu pramāṇajanyam / pramāṇaṃ ca yathābhūtavastuviṣayamato jñānaṃ kartumakartumanyathā vā kartumaśakyaṃ, kevalaṃ vastutantrameva tat / na codanātantram // nāpi puruṣatantram / tasmānmānasatve 'pi jñānasya mahadvailakṣaṇyam / yathāca 'puruṣo vāva gautamāgniḥ', 'yoṣā vāva gautamāgniḥ (chāndo. 5.7,8.1) ityatra yoṣitpuruṣayoragnibuddhirmānasī bhavati / kevacodanājanyatvātkriyaiva sā puruṣatantrā ca / yā tu prasiddhe 'gnāvagnibuddhirna sā codanātantrā / nāpi puruṣatantrā / kiṃ tarhi pratyakṣavastutantraiveti jñānamevaitanna kriyā / evaṃ sarvapramāṇaviṣayavastuṣu veditavyam / tatraivaṃ sati yathābhūtabrahmātmaviṣayamapi jñānaṃ na codanātantram / tadviṣaye liṅāgādayaḥ śrūyamāṇā apyaniyojyaviṣayatvātkuṇṭhībhavantyupalādiṣu prayuktakṣurataikṣṇyādivat, aheyānupādeyavastuviṣayatvāt / kimarthāni tarhi 'ātmā vāre draṣyavyaḥ śrotavyaḥ' ityādīni vidhicchāyāni vacanāni / svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ / yo hi bahirmukhaḥ pravartate puruṣaḥ iṣṭaṃ me bhūyādadaniṣṭaṃ mābhūditi, naca tatrātyantikaṃ puruṣīrthaṃ labhate, tamātyantikapuruṣārthavāñchinaṃ svābhāvikakāryakaraṇasaṃghātapravṛttigocarādvimukhīkṛtya pratyagātmasrotastayā pravartayanti 'ātmā vā are draṣṭavyaḥ' ityādīni / tasyātmānveṣaṇāya pravṛttasyāheyamanupādeyaṃ cātmatattvamupadiśyate / 'idaṃ sarvaṃ yadayamātmā' (bṛha. 2.4.6) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet kena kaṃ vijānīyāt vījñātāramare kena vijānīyāt' (bṛha. 4.5.15) 'ayamātmā brahma' (bṛha. 2.5.19) ityādibhiḥ / yadapyakartavyapradhānamātmajñānaṃ hānāyopādānāya vā na bhavatīti, tattathaivetyabhyupagamyate / alaṅkāro hyayamasmākaṃ yadbrahmātmāvagatau satyāṃ sarvakartavyatāhāniḥ kṛtakṛtyatā ceti / tathāca śrutiḥ- 'ātmānaṃ cedvijānīyādayamastīti pūruṣaḥ / kimicchankasya kāmāya śarīramanusaṃjvaret' // (bṛha. 4.4.12) iti / 'etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata' / (bha.gī. 15.20) iti smṛtiḥ / tasmānna pratipattividhiviṣayatayā brahmaṇaḥ samarpaṇam / yadapi kecidāhuḥ- 'pravṛttinivṛttividhitaccheṣavyatirekeṇa kevalavastuvādī vedabhāgo nāsti' iti tanna, aupaniṣadasya puruṣasya puruṣasyānanyaśeṣatvāt / yo 'sāvupaniṣatsvevādhigataḥ puruṣo 'saṃsārī brahma utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇastho 'nanyośeṣaḥ, nāsau nāsti nādhigamyata iti vā śakyaṃ vaditum, 'sa eṣa neti netyātmā' (bṛha. 3.9.26) ityāmaśabdāt, ātmanaśca pratyākhyātumaśakyatvāt, ya eva nirākartā tasyaivātmatvāt / nanvātmāhaṃpratyayaviṣayatvādupaniṣatsveva vijñāyata ityanupapannam / na / tatsākṣitvena pratyuktatvāt / nahyahaṃpratyayaviṣayakartṛvyatirekeṇa tatsākṣī sarvabhūtasthaḥ sama ekaḥ kūṭasthanityaḥ puruṣo vidhikāṇḍe tarkasamaye vā kenacidadhigataḥ sarvasyātmā, ataḥ sa na kenacitpratyākhyātuṃ śakyo vidhiśeṣatvaṃ vā netum / asmatvādeva ca sarveṣāṃ na heyo nāpyupādeyaḥ / sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati / puruṣo vināśahetvābhāvādavināśī, vikriyāhetvabhāvācca, kūṭasthanityaḥ, ata eva nityāśuddhabuddhamuktasvabhāvaḥ / tasmāt 'puruṣānna paraṃ kiñcitsā kāṣṭā sā parā gatiḥ' (kāṭha. 1.3.11) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛha. 3.9.23) iti caupaniṣadatvaviśeṣaṇaṃ puruṣasyopaniṣatsu prādhānyena prakāśyamānatva upapadyate / ato bhūtavastuparo vedabhāgo nāstīti vacanaṃ sāhasamātram / yadapi śāstratātparyavidāmanukramaṇam- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' ityevamādi, taddharmajijñāsāviṣayatvādvidhipratiṣedhāśāstrābhiprāyaṃ draṣṭavyam / apica 'āmnāyasya kriyārthatvādānarthakyamatarthānām' ityetadekāntenābhyupagacchatāṃ bhūtopadeśānārthakyaprasaṅgaḥ / pravṛtti nivṛttividhitaccheṣavyatirekeṇa bhūtaṃ cedvastūpadiśati bhavyārthatvena, kūṭasthanityaṃ bhūtaṃ nopadiśatīti ko hetuḥ / nahi bhūtamupadiśyamānaṃ kriyā bhavati / akriyātve 'pi bhūtasya kriyāsādhanatvātkriyārthaṃ eva bhūtopadeśa iti cet / naiṣa doṣaḥ / kriyārthatve 'pi kriyātivartanaśaktimadvastūpadiṣṭameva / kriyārthatvaṃ tu prayojanaṃ tasya / na caitāvatā vastvanupadiṣṭaṃ bhavati / yadi nāmopadiṣṭaṃ kiṃ tava tena syāditi / ucyate- anavagatātmavastūpadeśaśca tathaiva bhavitumarhati / tadavagatyā mithyājñānasya saṃsārahetornivṛttiḥ prayojanaṃ kriyata ityavāśiṣṭamarthavattvaṃ kriyāsādhanavastūpadeśena / apica 'brāhmaṇo na hantavyaḥ' iti caivamādyā nivṛttirupadiśyate / naca sā kriyā / nāpi kriyāsādhanam / akriyārthānāmupadeśo 'narthakaścet 'brāhmaṇo na hantavyaḥ' ityādinivṛttyupadeśānāmānarthakyaṃ prāptam / taccāniṣṭam / naca svābhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayituṃ, hananakriyānivṛttyaudāsīnyavyatirekeṇa / nañaścaiṣa svabhāvo yatsvasaṃbandhino 'bhāvaṃ bodhayatīti / abhāvabuddhiścaudāsīnyakāraṇam / sā ca dagdhendhanāgnivatsvayamevopāśāmyati / tasmātprasaktakriyānivṛttyaudāsīnyameva 'brāhmaṇo na hantavyaḥ' ityādiṣu pratiṣedhārthaṃ manyāmahe, anyatra prajāpatitrātādibhyaḥ / tasmātpuruṣārthānupayogyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṃ draṣṭavyam / yadapyuktaṃ- kartavyavidhyanupraveśamantareṇa vastumātramucyamānamānarthakaṃ syāt 'saptadvīpā vasumatī' tyādivaditi, tatparihṛtam / rajuriyaṃ nāyaṃ sarpa iti vastumātrakathane 'pi prayojanasya dṛṣṭatvāt / nanu śrutabrahmaṇo 'pi yathāpūrvaṃ saṃsāritvardānānna rajusvarūpakathanavadarthavattvamityuktam / atrocyate- nāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvaṃ śakyaṃ darśayituṃ va vedapramāṇajanitabrahmātmabhāvavirodhāt / nahi śarīrādyātmābhimānino duḥkhabhayādimattvaṃ dṛṣṭamiti tasyaiva vedapramāṇajanitabrahmātmāvagame tadabhimānanivṛttau tadeva mithyājñānanimittaṃ duḥkhabhayādimattvaṃ bhavatīti śakyaṃ kalpayitum / nahi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṃ duḥkhaṃ dṛṣṭamiti tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahranimittaṃ duḥkhaṃ bhavati / naca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṃ sukhaṃ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānanimittaṃ sukhaṃ bhavati / taduktaṃ śrutyā- 'ārīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti / śarīre patite 'śarīratvaṃ syāt, na jīvata iti cenna, saśarīratvasya mithyājñānanimittattvāt / na hyātmanaḥ śarīrātmābhimānalakṣaṇaṃ mithyājñānaṃ muktvānyataḥ saśarīratvaṃ śakyaṃ kalpayitum / nityamaśarīratvamakarmanimittattvādityavocāma / tatkṛtadharmādharmanimittaṃ saśarīratvamiti cenna, śarīrasaṃbandhasyāsiddhatvāddharmādharmayorātmakṛtatvāsiddheḥ / śarīrasaṃbandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgādandhaparamparaiṣānāditvakalpanā / kriyāsamavāyābhāvāccāmtanaḥ kartṛtvānupapatteḥ / saṃnidhānamātreṇa rājaprabhṛtīnāṃ dṛṣṭaṃ kartavyamiti cenna, dhanadānādyupārjitabhṛtyasaṃbandhatvātteṣāṃ kartṛtvopapatteḥ / na tvātmano dhanadānādivaccharīrādibhiḥ svasvāmisaṃbandhanimittaṃ kiñcicchakyaṃ kalpayitum / mithyābhimānastu pratyakṣaḥ saṃbandhahetuḥ / etena yajamānatvamātmano vyākhyātam / atrāhuḥ- dehādivyatiriktasyātmana ātmīye dehādāvabhimāno gauṇo na mithyeti cenna, prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ / yasya hi prasiddho vastubhedaḥ, yathā kesarādimānākṛtiviśeṣo 'nvayavyatirekābhyāṃ siṃhaśabdapratyayabhāṅmukhyo 'nyaḥ prasiddhaḥ tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṃhaguṇaiḥ saṃpannaḥ siddhaḥ, tasya puruṣe siṃhaśabdapratyayau gauṇau bhavato nāprasiddhavastubhedasya / tasya tvanyatrānyaśabdapratyayau bhrāntinimittāveva bhavato na gauṇau / yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe puruṣaśabdapratyayau sthāṇuviṣayau, yathāvā śuktikāyāmakasmādrajatamiti niścitau śabdapratyayau, tadvaddehādisaṃghāte 'hamiti nirupacāreṇa śabdapratyayāvātmānātmāvivekenotpadyamānau kathaṃ gauṇau śakyau vaditum / ātmānātmavivekināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ / tasmāddehādivyatiriktātmāstitvavādināṃ dehādāvahaṃpratyayo mithyaiva na gauṇaḥ / tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṃ jīvato 'pi viduṣo 'śarīratvam / tathāca brahmavidviṣayā śrutiḥ- ' tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṃ śarīraṃ śete / athāyamaśarīro 'mṛtaḥ prāṇo brahmaiva teja eva' (bṛha. 4.4.7) iti / 'sacakṣuracakṣuriva sakarṇo 'karṇa iva savāgavāgiva samanā amanā iva saprāṇo 'prāṇa iva' iti ca / smṛtirapi ca- 'sthitaprajñasyakā bhāṣā' (bha.gī. 2.54) ityādyā sthitaprajñalakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasaṃbandhaṃ darśayati / tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvam / yasya tu yathāpūrvaṃ saṃsāritvaṃ nāsāvavagatabrahmātmabhāva ityanavadyam / yatpunaruktaṃ śravaṇātparācīnayormanananididhyāsanayordarśanādvadhiśeṣatvaṃ brahmaṇo na svarūpaparyavasāyitvamiti / na / avagatyarthatvānmanananididhyāsanayoḥ / yadi hyavagataṃ brahmānyatra viniyujyeta bhavettadā vidhiśeṣitvam / natu tadasti, manananididhyāsanayorapi śravaṇavadavagatyarthatvāt / tasmānna pratapattividhiviṣayatayā śāstrapramāṇakatvaṃ brahmaṇaḥ saṃbhavatītyataḥ svatantrameva brahma śāstrapramāṇakaṃ vedāntavākyasamanvayāditi siddham / evañca sati 'athāto brahmajijñāsā' iti tadviṣayaḥ pṛthakśāstramārambha upapadyate / pratipattividhiparatve hi 'athāto dharmajijñāse'tyevārabdhatvānna pṛthakśāstramārabhyeta / ārabhyamāṇaṃ caivamārabhyeta - 'athātaḥ pariśiṣṭadharmajijñāseti' ' athātaḥ kratvarthapuruṣārthayorjijñāsā' (jai. 4.1.1) itivat / brahmātmaikyāvagatistvapratijñāteti tadartho yuktaḥ śāstrārambhaḥ- 'athāto brahmajijñāsā' iti / tasmādahaṃ brahmāsmītyetadavasānā eva sarve viṣayaḥ sarvāṇi cetarāṇi pramāṇāni / nahyaheyānupādeyādvaitātmāvagatau nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti / apicāhuḥ- 'gauṇamithyātmano 'sattve putradehādibādhanāt / sadbrahmātmāhamityevaṃ bodhe kāryaṃ kathaṃ bhavet // anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ / anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ // dehātmapratyayo yadvatpramāṇatvena kalpitaḥ / laukikaṃ tadvadevedaṃ pramāṇaṃ tvā'tmaniścayāt' iti // 4 // iti catuḥsūtrī samāptā / ---------------------- FN: pūrvapakṣiṇā kriyāśeṣatayā brahma pratipādyata ityuktaṃ tadvyāvṛttyarthamiti bhāvaḥ / pūrṇatayā juhūdvārā kratuśeṣatāvādātmano 'pi jñānadvārā karmaśeṣatvāttadarthā vedāntāstadvidhiśeṣā bhaviṣyantītyāśaṅkyāha tatkeneti / pratipattikarma pradhānakarmaśeṣāṅgaṃ / yatha pradhānacaruhomottaraṃ tenaiva dravyeṇa sviṣṭakṛdbalidānādi / yathāvā śrāddhe piṇḍapradānapūjottaraṃ piṇḍānāṃ gaṅgādipravāhe prakṣepaḥ / anunapraveśo 'saṃbandhaḥ / pratipattervidhirniyogastasya viṣayabhūtāṃ pratipattipratyavacchedakatvema viṣayatayetyarthaḥ / agnyādidevatoddeśena puroḍāśādidravyotsargo yāgaḥ / aśarīraṃ videhaṃ, priyāpriye sukhaduḥkhe / kṛtākṛtāditi / kṛtāt kāryāt, akṛtāt kāraṇāt / tat brahma, avet viditavat / valkalādivaccittarañjako rāgādikaṣāyo mṛditaḥ kṣālitaḥ vināśito yasya jñānavairāgyābhyāsakṣārajalena tasmai / adhyāsaḥ śāstrato 'tasmiṃstaddhīḥ / ādeśa upadeśaḥ / pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvargaḥ / tat viditājjñānaviṣayādanyadbhinnam / atho api aviditādajñānaviṣayādapi adhi anyat / yadvācā śabdenānabhyuditamaprakāśitaṃ, yena bhmaṇā sā vāgabhyadyate prakāśyate / 'nivṛttiviṣayatvāt' bhā.pā. / svātmano dharmānāśrayatve 'pi nityo dharmo mokṣākhyo bhaviṣyatītyabhiprāyeṇa dharmaśabdaḥ, svarūpaparo vā / anyo jīvātmā / pippalaṅkarmaphalam / abhicākaśīti prakāśate / karmādhyakṣaḥ karmaphalapradātā / śukramiti bāhyāśuddhiviraha uktaḥ / avraṇamasnāviramityeva kāyaniṣedhe siddhe punastanniṣedho līlādhṛtaviṣaṇvādivigrahasyāpyanṛtatāpratipādanārthaḥ / tathāca - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / sarvabhūtaguṇairyuktaṃ maivaṃ māṃ draṣṭumarhasī' ti / śarīropādānabhūtāvidyārāhityāya śuddhamiti / tannimittarāhityāyāpāpaviddhamiti / atrānupraveśaḥ saṃbandhaḥ / mayedaṃ kāryamityavagatimān hi niyojyo bhavati / kṛtisādhyaśca vidhiviṣayo bhavati / jñānasya ca kṛtyasādhyatvānnobhayamātmajñānaṃ bhavatīti bhāvaḥ / vidhicchāyāni prasiddhayāgādividhitulyāni / pratyagātmani srotaścittavṛttipravāhaḥ / 'kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptamityeva tuṣyati' pañca. / anusaṃjvaret śarīraṃ paritapyamānamanutapyeta / pramāpramārūpadhīmātraviṣayaḥ pratipattiśabdaḥ / ā. / 'yaccāpnoti yadādatte yaccātti viṣayāniha / yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate' iti / ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ / ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā tadvyatirekeṇa / 'ityevamādyā' bhā.pā. / baṭorvratamityupakrāntaṃ 'nekṣetodyantamādityaṃ' ityādi prajāpativratam / vidhyanupraveśo vidhisaṃbandhaḥ / kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ / śabdaḥ śābdavodhaścetyarthaḥ / nirupacāreṇa guṇajñānaṃvinā / śravaṇamananakuśalatāmātreṇa paṇḍitānāṃ anutpannasākṣātkārāṇāmitiyāvat / ahinirlvayanī sarpatvak valmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartata evamityādyūhyam / brahmasākṣātkāro 'vagatistadarthatvāt / vidhiśeṣatvena brahmārpaṇe 'pi / athāta iti tṛtīye śrutyādibhiḥ śeṣaśeṣitve siddhe satyanantaraṃ śeṣiṇaiva śeṣasya prayuktisaṃbhavātkonāma kratave kovā puruṣārtāyeti jijñāsā pravṛttā caturthādau / tasmāt jñānasya prameyapramātṛbādhakatvābhāvāt / gaumeti / putradārādiṣvātmābhimāno gauṇaḥ tatra bhedānubhavāt / dehendriyādiṣapa tvabhedānubhavānna gauṇaḥ kintu mithyā / tadubhayātmano 'satve putradehādibādhanāt- gauṇātmano 'satve putrakalatrādibādhanaṃ, mithyātmano 'satve dehendriyādibādhanaṃ ca / tathāca lokayātrakāryaṃ sadbrahmāhamiti bodhakāryaṃ- advaitasākṣātkāraśca kathaṃ bhavet / anveṣṭavyātmavijñānāt- 'ya ātmāpahatapāpmā', so 'nveṣṭavyaḥ iti tadvijñānātpūrvamātmano mātṛtvaṃ pramāprameyapramāṇavibhāgaśca / tena tadabhāve kāryaṃ notpadyata ityarthaḥ / ātmaniścayāt ābrahmasvarūpasākṣātkārādityarthaḥ / evaṃ tāvadvedāntavākyānāṃ brahmātmāvagatiprayojanānāṃ brahmātmani tātparyeṇa samanvitānāmantareṇāpi kāryānupraveśaṃ, brahmaṇi paryavasānamuktam / brahma ca sarvajñaṃ sarvaśakti jagadutpattisthitināśakāraṇamityuktam / sāṃkhyādayastu pariniṣṭhitaṃ vastu pramāṇāntaragamyameveti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vedāntavākyāni yojayanti / sarveṣveva vedāntavākyeṣu sṛṣṭiviṣayeṣvanumānenaiva kāryeṇa kāraṇaṃ lilakṣayiṣitam / pradhānapuruṣasaṃyogā nityānumeyā iti sāṃkhyā manyante / kāṇādāstvetebhya eva vākyebhya īśvaraṃ nimittakāraṇamanumimate aṇūṃśca samavāyikāraṇam / evamanye 'pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihottiṣṭante / tatra padavākyapramāṇajñenācāryeṇa vedāntavākyānāṃ brahmāvagatiparatvadarśanāya vākyābhāsayuktābhāsavipratipattayaḥ pūrvapakṣīkṛtya nirākriyante / tatra sāṃkhyāḥ pradhānaṃ triguṇamacetanaṃ jagataḥ kāraṇamiti manyamānā āhuḥ- yāni vedāntavākyāni sarvajñasya sarvaśakterbrahmaṇo jagatkāraṇatvaṃ darśayantītyavocastāni pradhānakāraṇapakṣe 'pi yojayituṃ śakyante / sarvaśaktitvaṃ tāvatpradhānasyāpi svavikāraviṣayamupapadyate / evaṃ sarvajñatvamapyupapadyate / katham / yattu jñānaṃ manyase sa sattvadharmaḥ , 'sattvātsaṃjāyate jñānam' (gī. 14.17) iti smṛteḥ / tena ca sattvadharmeṇa jñānena kāryakāraṇavantaḥ puruṣāḥ sarvajñā yoginaḥ prasiddhāḥ / sattvasya hi niratiśayotkarṣe sarvajñatvaṃ prasiddham / na kevalasyākāryakāraṇasya puruṣopalabdhimātrasya sarvajñatvaṃ kiñcijjñatvaṃ vā kalpayituṃ śakyam / triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṃ sattvaṃ pradhānāvasthāyāmapi vidyata iti pradhānasyācetanasyaiva sataḥ sarvajñatvamupacaryate / vedāntavākyeṣvavaśyaṃ ca tvayāpi sarvajñaṃ brahmābhyupagacchatā sarvajñānāktimattvenaiva sarvajñatvamupagantavyam / nahi sarvaviṣayaṃ jñānaṃ kurvadeva brahma vartate / tathāhi- jñānasya nityatve jñānakriyāṃ prati svātantryaṃ brahmaṇo hīyeta / athānityaṃ taditi jñānakriyāyā uparametāpi brahma, tadā sarvajñānāktimattvenaiva sarvajñatvamāpatati / apica prāgutpatteḥ sarvakārakāśūnyaṃ brahmeṣyate tvayā / naca jñānasādhanānāṃ śarīrendriyādīnāmabhāve jñānotpattiḥ kasyacidupapannā / apica pradhānasyanekātmakasya pariṇāmāsaṃbhavātkāraṇatvopapattirmṛdādivat, nāsaṃhatasyaikātmakasya brahmaṇa ityevaṃ prāptaṃ idaṃ sūtramārabhyate- ---------------------- FN: kāryasaṃbandhaṃvināpi anumeyā iti / buddhau yaḥ pratibimbaḥ sa tādṛśabimbapūrvakaḥ pratibimbatvāt / darpaṇe mukhābhāsādityanumānam / vyākaraṇamīmāṃsānyāyāḥ padavākyapramāṇāni / vākyābhāseṣu yuktyābhāseṣu ca vipratipattiryeṣāṃ te / jñānakriyāṃprati jñādhātvarthaṃprati, svātantryaṃ kartṛtvam / ādipadena jñeyajñātrādisaṃgrahaḥ / pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati / brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate /

Sanskrit only: no published translation is held for this verse.

ईक्षतेर् नाशब्दम् न सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम् । अशब्दं हि तत् । कथमशब्दत्वं, ईक्षतेः- ईक्षितृत्वश्रवणात्कारणस्य । कथम् । एवंहि श्रूयते- ऽसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्ऽ । (छान्दो। ६।२।१) इत्युपक्रम्य ऽतदैक्षत बहु स्यां प्रजायेयेति तत्तेजो ऽसृजतऽ (छान्दो। ६।२।३) इति । तत्रेदंशब्दवाच्यं नामरूपव्याकृतं जगत्प्रागुत्पत्तेः सदात्मनावधार्य तस्यैव प्रकृतस्य सच्छब्दवाच्यस्येक्षणपूर्वकं तेजःप्रभृतेः स्रष्टृत्वं दर्शयति । तथान्यत्र- ऽआत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति । स इमांलोकानसृजतऽ (ऐत। १।१।१) इतीक्षापूर्विकामेव सृष्टिमाचष्टे । द्वचिच्च षोडषकलं पुरुषं प्रस्तुत्याह- ऽस ईक्षाञ्चक्रे । स प्राणमसृजतऽ (प्रश्न। ६।३) इति । ईक्षतेरिति च धात्वर्थनिर्देशो ऽभिप्रेतः, यजतेरितिवत् । न धातुनिर्देशः । तेन ऽयः सर्वज्ञः सर्वविद्यस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं न जायतेऽ (मुण्ड। १।१।९) इत्येवमादीन्यपि सर्वज्ञेश्वरकारणपराणि वाक्यानुदाहर्तव्यानि । यत्तूक्तं सत्त्वधर्मेण ज्ञानेन सर्वज्ञं प्रधानं भविष्यतीति, तन्नोपपद्यते । नहि प्रधानावस्थायां गुणसाम्यात्सत्त्वधर्मो ज्ञानं संभवति । ननूक्तं सर्वज्ञानशक्तिमत्त्वेन सर्वज्ञं भविष्यतीति । तदपि नोपपद्यते । यदि गुणसाम्ये सति सत्त्वव्यपाश्रयां ज्ञानाक्तिमाश्रित्य सर्वज्ञं प्रधानमुच्येत कामं रजस्तमोव्यपाश्रयामपि ज्ञानप्रतिबन्धकशक्तिमाश्रित्य किञ्चिज्ज्ञमुच्येत । अपिच नासाक्षिका सत्त्ववृत्तिर्जानातिनाभिधीयेते । न चाचेतनस्य प्रधानस्य साक्षित्वमस्ति । तस्मादनुपपन्नं प्रधानस्य सर्वज्ञत्वम् । योगिनां तु चेतनत्वात्सत्त्वोत्कर्षनिमित्तं सर्वज्ञत्वमुपपन्नमित्यनुदाहरणम् । अथ पुनः साक्षिनिमित्तमीक्षितृत्वं कल्प्येत, यथाग्निनिमित्तमयःपिण्डादेर्दग्धृत्वम् । तथासति यन्निमित्तमीक्षितृत्वं प्रधानस्य तदेव सर्वज्ञं मुख्यं ब्रह्म जगतः कारणमिति युक्तम् । यत्पुनरुक्तं ब्रह्मणो ऽपि न मुख्यं सर्वज्ञत्वमुपपद्यते, नित्यज्ञानक्रियत्वे ज्ञानक्रियांप्रति स्वातन्त्र्यासंभवादिति । अत्रोच्यते- इदं तावद्भवान्प्रष्टव्यः, कथं नित्यज्ञानक्रियत्वे सर्वज्ञत्वहानिरिति । यस्य हि सर्वविषयावभासनक्षमं ज्ञानं नित्यमस्ति सो ऽसर्वज्ञ इति विप्रतिषिद्धम् । अनित्यत्वे हि ज्ञानस्य कदाचिज्जानाति कदाचिन्नजानातीत्यसर्वज्ञत्वमपि स्यात् । नासौ ज्ञाननित्यत्वे दोषो ऽस्ति ज्ञाननित्यत्वे ज्ञानविषयः स्वातन्त्र्यव्यपदेशो नोपपद्यत इति चेन्न, प्रततौष्ण्यप्रकाशे ऽपि सवितरि दहति प्रकाशयतीति स्वातन्त्र्यव्यपदेशदर्शनात् । ननु सवितुर्दाह्यप्रकाशसंयोगे सति दहति प्रकाशयतीति व्यपदेशः स्यात्, नतु ब्रह्मणः प्रागुत्पत्तेर्ज्ञानकर्मसंयोगो ऽस्तीति विषमो दृष्टान्तः । न । असत्यपि कर्मणि सविता प्रकाशत इति कर्तृत्वव्यपदेशदर्शनात् । एवमसत्यपि ज्ञानकर्मणि ब्रह्मणः ऽतदैक्षतऽ इति कर्तृत्वव्यपदेशोपपत्तेर्न वैषम्यम् । कर्मापेक्षायां तु ब्रह्मणीक्षितृत्वश्रुतयः सुतरामुपपन्नाः । किं पुनस्तत्कर्म, यत्प्रागुत्पत्तेरीश्वरज्ञानस्य विषयो भवतीति । तत्त्वान्यत्वाभ्यामनिर्वचनीये नामरूपे अव्याकृते व्याचिकीर्षिते इति ब्रूमः । यत्प्रसादाद्धि योगिनामप्यतीतानागतविषयं प्रत्यक्षं ज्ञानमिच्छन्ति योगशास्त्रविदः, किमु वक्तव्यं तस्य नित्यसिद्धस्येश्वरस्य सृष्टिस्थितिसंहृतिविषयं नित्यज्ञानं भवतीति । यदप्युक्तं प्रागुत्पत्तेर्ब्रह्मणः शरीरादिसंबन्धमन्तरेणेक्षितृत्वमनुपपन्नमिति, न तच्चोद्यमवतरति, सवितृप्रकाशवद्ब्रह्मणो ज्ञानस्वरूपनित्यत्वे ज्ञानसाधनापेक्षानुपपत्तेः । अपिचाविद्यादिमतः संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिः स्यान्न ज्ञानप्रतिबन्धकारणरहितस्येश्वरस्य । मन्त्रौ चेमावीश्वरस्य शरीराद्यनपेक्षतामनावरणज्ञानतां च दर्शयतः- ऽन तस्य कार्यं करणं च विद्यते न तत्समश्चाभ्यधिकश्च दृश्यते । परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चऽ (श्वेता। ६।८) इति । ऽअपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं पुरुषं महान्तम्ऽ (श्वेता। ३।१९) इति च । ननु नास्ति तावज् ज्ञानप्रतिबन्धकारणवानीश्वरादन्यः संसारी, ऽनान्यो ऽस्ती द्रष्टा नान्यो ऽतो ऽस्ती विज्ञाताऽ (बृह। ३।७।२३) इति श्रुतेः । तत्र किमिदमुच्यते संसारिणः शरीराद्यपेक्षा ज्ञानोत्पत्तिर्नेश्वरस्येति । अत्रोच्यते - सत्यं, नेश्वरादन्यः संसारी । तथापि देहादिसंघातोपाधिसंबन्ध इत्यत एव, घटकरकगिरिगुहाद्युपाधिसंबन्ध इव व्योम्नः । तत्कृतश्च शब्दप्रत्ययव्यवहारो लोकस्य दृष्टो घटच्छिद्रं करकादिच्छिद्रमित्यादिराकाशाव्यतिरेके ऽपि तत्कृता चाकाशे घटाकाशादिभेदमिथ्याबुद्धिर्दृष्टा । तथेहापि देहादिसंघातोपाधिसंबन्धाविवेककृतेश्वरसंसारिभेदमिथ्याबुद्धिः । दृश्यते चात्मन एव सतो देहादिसंघाते ऽनात्मन्यात्मत्वाभिनिवेशो मिथ्याबुद्धिमात्रेण पूर्वेण । सति चैवं संसारित्वे देहाद्यपेक्षमीक्षितृत्वमुपपन्नं संसारिणः । यदप्युक्तं प्रधानस्यानेकात्मकत्वान्मृदादिवत्कारणत्वोपपत्तिर्नासंहतस्य ब्रह्मण इति, तत्प्रधानस्याशब्दत्वेनैव प्रत्युक्तम् । यथा तु तर्केणापि ब्रह्मण एव कारणत्वं निर्वोढुं शक्यते न प्रधानादीनां तथा प्रपञ्चयिष्यति- ऽन विलक्षणत्वादस्यऽ- (ब्र। २।१।४) इत्येवमादिना ॥ ५ ॥ अत्राह- यदुक्तं नाचेतनं प्रधानं जगत्कारणमीक्षितृत्वादिति तदन्यथाप्युपपद्यते, अचेतने ऽपि चेतनवदुपचारदर्शनात् । यथा प्रत्यासन्नपतनतां नद्याः कूलस्यालक्ष्य कूलं पिपातिषतीत्यचेतने ऽपि कूले चेतनवदुपचारो दृष्टः, तद्वदचेतनो ऽपि प्रधाने प्रत्यासन्नसर्गे चेतनवदुपचारो भविष्यति ऽतदैक्षतऽ इति । यथा लोके कश्चिच्चेतनः स्नात्वा भुक्त्वा चापराह्ने ग्रामं रथेन गमिष्यामीतीक्षित्वानन्तरं तथैव नियमेन प्रवर्तते, तथा प्रधानमपि महदाद्याकारेण नियमेन प्रवर्तते । तस्माच्चेतनवदुपचर्यते । कस्मात्पुनः कारणाद्विहाय मुख्यमीक्षितृत्वमौपचारिकं कल्प्यते, ऽतत्तेज ऐक्षतऽ, ऽता आप ऐक्षन्तऽ (छान्दो। ६।२।३,४) इति चाचेतनयोरप्यप्तेजसोश्चेतनवदुपचारदर्शनात् । तस्मात्कर्तृकमपीक्षणमौपचारिकमिति गम्यते, ऽउपचारप्राये वचनात्ऽ इति । एवं प्राप्त इदं सूत्रमारभ्यते- ---------------------- फ़्न्: सामान्यतः सर्वे जानातीति सर्वज्ञः । तत्तद्विशेषधर्मघटादिपुरस्कारेण सर्वे वेत्तीति सर्ववित् । एतद्ब्रह्म जायमानं हिरण्यगर्भाख्यं कार्यम् । सांख्यीयं स्वमतसमाधानमुपन्यस्य दूषयति- यत्तूक्तमिति । अचेतनस्याज्ञातृत्वं तच्छब्दार्थः । सेश्वरसांख्यमतमाह- अथेति । प्रततेत्यस्य संततेत्यर्थः । असत्यपि अविवक्षितेपि । प्रकृत्यर्थवत्प्रत्ययार्थस्यापि बाधाभावात्सुतरामित्युक्तम् । कार्यं शरीरम्, करणमिन्द्रियजातम् । अभिनिवेशो मिथ्याभिमानः ।

īkṣater nāśabdam na sāṃkhyaparikalpitamacetanaṃ pradhānaṃ jagataḥ kāraṇaṃ śakyaṃ vedānteṣvāśrayitum / aśabdaṃ hi tat / kathamaśabdatvaṃ, īkṣateḥ- īkṣitṛtvaśravaṇātkāraṇasya / katham / evaṃhi śrūyate- 'sadeva somyedamagra āsīdekamevādvitīyam' / (chāndo. 6.2.1) ityupakramya 'tadaikṣata bahu syāṃ prajāyeyeti tattejo 'sṛjata' (chāndo. 6.2.3) iti / tatredaṃśabdavācyaṃ nāmarūpavyākṛtaṃ jagatprāgutpatteḥ sadātmanāvadhārya tasyaiva prakṛtasya sacchabdavācyasyekṣaṇapūrvakaṃ tejaḥprabhṛteḥ sraṣṭṛtvaṃ darśayati / tathānyatra- 'ātmā vā idameka evāgra āsīt / nānyatkiñcana miṣat / sa īkṣata lokānnu sṛjā iti / sa imāṃlokānasṛjata' (aita. 1.1.1) itīkṣāpūrvikāmeva sṛṣṭimācaṣṭe / Dvacicca ṣoḍaṣakalaṃ puruṣaṃ prastutyāha- 'sa īkṣāñcakre / sa prāṇamasṛjata' (praśna. 6.3) iti / īkṣateriti ca dhātvarthanirdeśo 'bhipretaḥ, yajateritivat / na dhātunirdeśaḥ / tena 'yaḥ sarvajñaḥ sarvavidyasya jñānamayaṃ tapaḥ / tasmādetadbrahma nāma rūpamannaṃ na jāyate' (muṇḍa. 1.1.9) ityevamādīnyapi sarvajñeśvarakāraṇaparāṇi vākyānudāhartavyāni / yattūktaṃ sattvadharmeṇa jñānena sarvajñaṃ pradhānaṃ bhaviṣyatīti, tannopapadyate / nahi pradhānāvasthāyāṃ guṇasāmyātsattvadharmo jñānaṃ saṃbhavati / nanūktaṃ sarvajñānaśaktimattvena sarvajñaṃ bhaviṣyatīti / tadapi nopapadyate / yadi guṇasāmye sati sattvavyapāśrayāṃ jñānāktimāśritya sarvajñaṃ pradhānamucyeta kāmaṃ rajastamovyapāśrayāmapi jñānapratibandhakaśaktimāśritya kiñcijjñamucyeta / apica nāsākṣikā sattvavṛttirjānātinābhidhīyete / na cācetanasya pradhānasya sākṣitvamasti / tasmādanupapannaṃ pradhānasya sarvajñatvam / yogināṃ tu cetanatvātsattvotkarṣanimittaṃ sarvajñatvamupapannamityanudāharaṇam / atha punaḥ sākṣinimittamīkṣitṛtvaṃ kalpyeta, yathāgninimittamayaḥpiṇḍāderdagdhṛtvam / tathāsati yannimittamīkṣitṛtvaṃ pradhānasya tadeva sarvajñaṃ mukhyaṃ brahma jagataḥ kāraṇamiti yuktam / yatpunaruktaṃ brahmaṇo 'pi na mukhyaṃ sarvajñatvamupapadyate, nityajñānakriyatve jñānakriyāṃprati svātantryāsaṃbhavāditi / atrocyate- idaṃ tāvadbhavānpraṣṭavyaḥ, kathaṃ nityajñānakriyatve sarvajñatvahāniriti / yasya hi sarvaviṣayāvabhāsanakṣamaṃ jñānaṃ nityamasti so 'sarvajña iti vipratiṣiddham / anityatve hi jñānasya kadācijjānāti kadācinnajānātītyasarvajñatvamapi syāt / nāsau jñānanityatve doṣo 'sti jñānanityatve jñānaviṣayaḥ svātantryavyapadeśo nopapadyata iti cenna, pratatauṣṇyaprakāśe 'pi savitari dahati prakāśayatīti svātantryavyapadeśadarśanāt / nanu saviturdāhyaprakāśasaṃyoge sati dahati prakāśayatīti vyapadeśaḥ syāt, natu brahmaṇaḥ prāgutpatterjñānakarmasaṃyogo 'stīti viṣamo dṛṣṭāntaḥ / na / asatyapi karmaṇi savitā prakāśata iti kartṛtvavyapadeśadarśanāt / evamasatyapi jñānakarmaṇi brahmaṇaḥ 'tadaikṣata' iti kartṛtvavyapadeśopapatterna vaiṣamyam / karmāpekṣāyāṃ tu brahmaṇīkṣitṛtvaśrutayaḥ sutarāmupapannāḥ / kiṃ punastatkarma, yatprāgutpatterīśvarajñānasya viṣayo bhavatīti / tattvānyatvābhyāmanirvacanīye nāmarūpe avyākṛte vyācikīrṣite iti brūmaḥ / yatprasādāddhi yogināmapyatītānāgataviṣayaṃ pratyakṣaṃ jñānamicchanti yogaśāstravidaḥ, kimu vaktavyaṃ tasya nityasiddhasyeśvarasya sṛṣṭisthitisaṃhṛtiviṣayaṃ nityajñānaṃ bhavatīti / yadapyuktaṃ prāgutpatterbrahmaṇaḥ śarīrādisaṃbandhamantareṇekṣitṛtvamanupapannamiti, na taccodyamavatarati, savitṛprakāśavadbrahmaṇo jñānasvarūpanityatve jñānasādhanāpekṣānupapatteḥ / apicāvidyādimataḥ saṃsāriṇaḥ śarīrādyapekṣā jñānotpattiḥ syānna jñānapratibandhakāraṇarahitasyeśvarasya / mantrau cemāvīśvarasya śarīrādyanapekṣatāmanāvaraṇajñānatāṃ ca darśayataḥ- 'na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaścābhyadhikaśca dṛśyate / parāsya śaktirvividhaiva śrūyate svābhāvikī jñānabalakriyā ca' (śvetā. 6.8) iti / 'apāṇipādo javano grahītā paśyatyacakṣuḥ sa śṛṇotyakarṇaḥ / sa vetti vedyaṃ na ca tasyāsti vettā tamāhuragryaṃ puruṣaṃ mahāntam' (śvetā. 3.19) iti ca / nanu nāsti tāvaj jñānapratibandhakāraṇavānīśvarādanyaḥ saṃsārī, 'nānyo 'stī draṣṭā nānyo 'to 'stī vijñātā' (bṛha. 3.7.23) iti śruteḥ / tatra kimidamucyate saṃsāriṇaḥ śarīrādyapekṣā jñānotpattirneśvarasyeti / atrocyate - satyaṃ, neśvarādanyaḥ saṃsārī / tathāpi dehādisaṃghātopādhisaṃbandha ityata eva, ghaṭakarakagiriguhādyupādhisaṃbandha iva vyomnaḥ / tatkṛtaśca śabdapratyayavyavahāro lokasya dṛṣṭo ghaṭacchidraṃ karakādicchidramityādirākāśāvyatireke 'pi tatkṛtā cākāśe ghaṭākāśādibhedamithyābuddhirdṛṣṭā / tathehāpi dehādisaṃghātopādhisaṃbandhāvivekakṛteśvarasaṃsāribhedamithyābuddhiḥ / dṛśyate cātmana eva sato dehādisaṃghāte 'nātmanyātmatvābhiniveśo mithyābuddhimātreṇa pūrveṇa / sati caivaṃ saṃsāritve dehādyapekṣamīkṣitṛtvamupapannaṃ saṃsāriṇaḥ / yadapyuktaṃ pradhānasyānekātmakatvānmṛdādivatkāraṇatvopapattirnāsaṃhatasya brahmaṇa iti, tatpradhānasyāśabdatvenaiva pratyuktam / yathā tu tarkeṇāpi brahmaṇa eva kāraṇatvaṃ nirvoḍhuṃ śakyate na pradhānādīnāṃ tathā prapañcayiṣyati- 'na vilakṣaṇatvādasya'- (bra. 2.1.4) ityevamādinā // 5 // atrāha- yaduktaṃ nācetanaṃ pradhānaṃ jagatkāraṇamīkṣitṛtvāditi tadanyathāpyupapadyate, acetane 'pi cetanavadupacāradarśanāt / yathā pratyāsannapatanatāṃ nadyāḥ kūlasyālakṣya kūlaṃ pipātiṣatītyacetane 'pi kūle cetanavadupacāro dṛṣṭaḥ, tadvadacetano 'pi pradhāne pratyāsannasarge cetanavadupacāro bhaviṣyati 'tadaikṣata' iti / yathā loke kaściccetanaḥ snātvā bhuktvā cāparāhne grāmaṃ rathena gamiṣyāmītīkṣitvānantaraṃ tathaiva niyamena pravartate, tathā pradhānamapi mahadādyākāreṇa niyamena pravartate / tasmāccetanavadupacaryate / kasmātpunaḥ kāraṇādvihāya mukhyamīkṣitṛtvamaupacārikaṃ kalpyate, 'tatteja aikṣata', 'tā āpa aikṣanta' (chāndo. 6.2.3,4) iti cācetanayorapyaptejasoścetanavadupacāradarśanāt / tasmātkartṛkamapīkṣaṇamaupacārikamiti gamyate, 'upacāraprāye vacanāt' iti / evaṃ prāpta idaṃ sūtramārabhyate- ---------------------- FN: sāmānyataḥ sarve jānātīti sarvajñaḥ / tattadviśeṣadharmaghaṭādipuraskāreṇa sarve vettīti sarvavit / etadbrahma jāyamānaṃ hiraṇyagarbhākhyaṃ kāryam / sāṃkhyīyaṃ svamatasamādhānamupanyasya dūṣayati- yattūktamiti / acetanasyājñātṛtvaṃ tacchabdārthaḥ / seśvarasāṃkhyamatamāha- atheti / pratatetyasya saṃtatetyarthaḥ / asatyapi avivakṣitepi / prakṛtyarthavatpratyayārthasyāpi bādhābhāvātsutarāmityuktam / kāryaṃ śarīram, karaṇamindriyajātam / abhiniveśo mithyābhimānaḥ /

Sanskrit only: no published translation is held for this verse.

गौणश्चेन्नात्मशब्दात् यदुक्तं प्रधानमचेतनं सच्छब्दवाच्यं तस्मिन्नौपचारिक ईक्षतिः, अप्तेजसोरिवेति, तदसत् । कस्मात्, आत्मशब्दात् । ऽसदेव सोम्येदमग्र आसीत्ऽ इत्युपक्रम्य ऽतदैक्षत तत्तेजो ऽसृजतऽ (छान्दो। ६।२।१,३) इति च तेजो ऽबन्नानां सृष्टिमुक्त्वा तदेव प्रकृतं सदीक्षितृ, तानि च तेजो ऽबन्नानि, देवताशब्देन परामृश्याह- ऽसेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रवश्य नामरूपे व्याकरवाणिऽ (छान्दो। ६।३।२) इति । तत्र यदि प्रधानमचेतनं गुणवृत्त्येक्षितृ कल्प्येत तदेव प्रकृतत्वात्सेयं देवतेति परामृश्येत । न तदा देवता जीवात्मशब्देनाभिदध्यात् । जीवो हि नाम चेतनः शरीराध्यक्षः प्राणानां धारयिता, तत्प्रसिद्धेर्निर्वचनाच्च । स कथमचेतनस्य प्रधानस्यात्मा भवेत् । आत्मा हि नाम स्वरूपम् । नाचेतनस्य प्रधानस्य चेतनो जीवः स्वरूपं भवितुमर्हति । अथ तु चेतनं ब्रह्म मुख्यमीक्षितृ परिगृह्यते तस्य जीवविषय आत्मशब्दप्रयोग उपपद्यते । तथा ऽस य एषो ऽणिमैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतोऽ (छान्दो। ६।१४।३) इत्यत्र ऽस आत्माऽ इति प्रकृतं सदणिमानमात्मानमात्मशब्देनोपदिश्य ऽतत्त्वमसि श्वेतकेतोऽ इति चेतनस्य श्वेतकेतोरात्मत्वेनोपदिशति, अप्तेजसोस्तु विषयत्वादचेतनत्वं, नामरूपव्याकरणादौ च प्रयोज्यत्वेनैव निर्देशात्, नचात्मशब्दवत्किञ्चिन्मुख्यत्वे कारणमस्तीति युक्तं कूलवद्गौणत्वमीक्षितृत्वस्य । तयोरपि च सदधिष्ठितत्वापेक्षमेवेक्षितृत्वम् । सतस्त्वात्मशब्दान्न गौणमीक्षितृत्वमित्युक्तम् ॥ ६ ॥ अथोच्येताचेतने ऽपि प्रधाने भवत्यात्माब्दः, आत्मनः सर्वार्थकारित्वात्, यथा राज्ञः सर्वार्थकारिणि भृत्ये भवत्यात्मशब्दो ममात्मा भद्रसेन इति । प्रधानं हि पुरुषस्यात्मनो भोगापवर्गो कुर्वदुपकरोति, राज्ञ इव भृत्यः संधिविग्रहादिषु वर्तमानः । अथवैक एवात्मशब्दश्चेतनाचेतनविषयो भविष्यति, भूतात्मेन्द्रियात्मेति च प्रयोगदर्शनात् । यथैक एव ज्योतिःशब्दः क्रतुज्वलनविषयः । तत्र कुत एतदात्मशब्दादीक्षतेरगौणत्वमित्यत उत्तरं पठति- ---------------------- फ़्न्: अनेन पूर्वसृष्ट्यनुभूतेन प्राणधृतिहेतुनामात्मना सद्रूपेण यथोक्ता देवताः सर्गानन्तरं प्रविश्य नाम रूपं चेति विस्पष्टमासमन्तात्करवाणीति परा देवतेक्षितवतीत्यर्थः । कूलस्य गुणवृत्त्या पिपतिषावद्युक्तमप्तेजसोर्गौणमीक्षितृत्वमित्यर्थः ।

gauṇaścennātmaśabdāt yaduktaṃ pradhānamacetanaṃ sacchabdavācyaṃ tasminnaupacārika īkṣatiḥ, aptejasoriveti, tadasat / kasmāt, ātmaśabdāt / 'sadeva somyedamagra āsīt' ityupakramya 'tadaikṣata tattejo 'sṛjata' (chāndo. 6.2.1,3) iti ca tejo 'bannānāṃ sṛṣṭimuktvā tadeva prakṛtaṃ sadīkṣitṛ, tāni ca tejo 'bannāni, devatāśabdena parāmṛśyāha- 'seyaṃ devataikṣata hantāhamimāstisro devatā anena jīvenātmanānupravaśya nāmarūpe vyākaravāṇi' (chāndo. 6.3.2) iti / tatra yadi pradhānamacetanaṃ guṇavṛttyekṣitṛ kalpyeta tadeva prakṛtatvātseyaṃ devateti parāmṛśyeta / na tadā devatā jīvātmaśabdenābhidadhyāt / jīvo hi nāma cetanaḥ śarīrādhyakṣaḥ prāṇānāṃ dhārayitā, tatprasiddhernirvacanācca / sa kathamacetanasya pradhānasyātmā bhavet / ātmā hi nāma svarūpam / nācetanasya pradhānasya cetano jīvaḥ svarūpaṃ bhavitumarhati / atha tu cetanaṃ brahma mukhyamīkṣitṛ parigṛhyate tasya jīvaviṣaya ātmaśabdaprayoga upapadyate / tathā 'sa ya eṣo 'ṇimaitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi śvetaketo' (chāndo. 6.14.3) ityatra 'sa ātmā' iti prakṛtaṃ sadaṇimānamātmānamātmaśabdenopadiśya 'tattvamasi śvetaketo' iti cetanasya śvetaketorātmatvenopadiśati, aptejasostu viṣayatvādacetanatvaṃ, nāmarūpavyākaraṇādau ca prayojyatvenaiva nirdeśāt, nacātmaśabdavatkiñcinmukhyatve kāraṇamastīti yuktaṃ kūlavadgauṇatvamīkṣitṛtvasya / tayorapi ca sadadhiṣṭhitatvāpekṣamevekṣitṛtvam / satastvātmaśabdānna gauṇamīkṣitṛtvamityuktam // 6 // athocyetācetane 'pi pradhāne bhavatyātmābdaḥ, ātmanaḥ sarvārthakāritvāt, yathā rājñaḥ sarvārthakāriṇi bhṛtye bhavatyātmaśabdo mamātmā bhadrasena iti / pradhānaṃ hi puruṣasyātmano bhogāpavargo kurvadupakaroti, rājña iva bhṛtyaḥ saṃdhivigrahādiṣu vartamānaḥ / athavaika evātmaśabdaścetanācetanaviṣayo bhaviṣyati, bhūtātmendriyātmeti ca prayogadarśanāt / yathaika eva jyotiḥśabdaḥ kratujvalanaviṣayaḥ / tatra kuta etadātmaśabdādīkṣateragauṇatvamityata uttaraṃ paṭhati- ---------------------- FN: anena pūrvasṛṣṭyanubhūtena prāṇadhṛtihetunāmātmanā sadrūpeṇa yathoktā devatāḥ sargānantaraṃ praviśya nāma rūpaṃ ceti vispaṣṭamāsamantātkaravāṇīti parā devatekṣitavatītyarthaḥ / kūlasya guṇavṛttyā pipatiṣāvadyuktamaptejasorgauṇamīkṣitṛtvamityarthaḥ /

Sanskrit only: no published translation is held for this verse.

तन्निष्ठस्य मोक्षोपदेशात् न प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति, ऽस आत्माऽ इति प्रकृतं सदणिमानमादाय ऽतत्त्वमसि श्वेतकेतोऽ इति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठमुपदिश्य ऽआचार्यवान्पुरुषो वेदऽ ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छान्दो। ६।१४।२) इति मोक्षोपदेशात् । यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यं तदसीति ग्राहयेन्मुमुक्षुं चेतनं सन्तमचेतनो ऽसीति तदा विपरीतवादी शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् । नतु निर्देषं शास्त्रमप्रमाणं कल्पयितुं युक्तम् । यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रं स श्रद्धधानतयान्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं न परित्यजेत्, तद्व्यतिरिक्तं चात्मानं न प्रतिपद्येत, तथा सति पुरुषार्थाद्विहन्येतानर्थं न ऋच्छेत् । तस्माद्यथा स्वर्गाद्यर्थिनो ऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति तथा मुमुक्षोरपि ऽस आत्मा तत्त्वमसि श्वेतकेतोऽ इति यथाभूतमेवात्मानमुपदुशतीति युक्तम् । एवञ्च सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यते । अन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे ऽअहमुक्थमस्मीति विद्यात्ऽ (ऐ। आर। २।१।२।६) इतिवत्संपन्मात्रमिदमनित्यफलं स्यात् । तत्र मोक्षोपदेशो नोपपद्येत । तस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम् । भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दो ममात्मा भद्रसेन इति । अपिच द्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेर्ऽथो गौणी कल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात् । यत्तूक्तं चेतनाचेतनयोः साधारण आत्माब्दः क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्न, अनेकार्थत्वास्यान्याय्यत्वात् । तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते भूतात्मेन्द्रियात्मेति च । साधारणत्वे ऽप्यात्मशब्दस्य न प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते । नचात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्ति । प्रकृतं तु सदीक्षितृ, संनिहितश्चेतनः श्वेतकेतुः नहि चेतनस्य श्वेतकेतोरचेतन आत्मा संभवतीत्यवोचाम । तस्माच्चेतनविषय इहात्मशब्द इति निश्चीयते । ज्योतिःशब्दो ऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढोर्ऽथवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तः । अथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वशङ्कतया व्याख्याय ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः ऽतन्निष्ठस्य मोक्षोपदेशात्ऽ इति । तस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ ७ ॥ ---------------------- फ़्न्: अत्रोत्तमपुरुषस्तूभयत्र प्रथमपुरुषे छान्दसवत् । तदा चेतनं सन्तं मुमुक्षुमचेतनो ऽसीतिब्रुवच्छास्त्रं विपरीतवादिभूत्वा पुंसो ऽनर्थायेतिकृत्वा स्यादप्रमाणमिति योजना । अत्र विहतिर्मुक्तिभाक्त्वाभावः । ऽयथा सत्याभिसंधस्तप्तं परशुं स न दह्यते ऽथ मुच्यतेऽ इति । उक्थं प्राणः । महावाक्योत्थं ज्ञानमिदमुच्यते । कुतश्च न प्रधानं सच्छब्दवाच्यम् ।

tanniṣṭhasya mokṣopadeśāt na pradhānamacetanamātmaśabdālambanaṃ bhavitumarhati, 'sa ātmā' iti prakṛtaṃ sadaṇimānamādāya 'tattvamasi śvetaketo' iti cetanasya śvetaketormokṣayitavyasya tanniṣṭhamupadiśya 'ācāryavānpuruṣo veda' 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti mokṣopadeśāt / yadi hyacetanaṃ pradhānaṃ sacchabdavācyaṃ tadasīti grāhayenmumukṣuṃ cetanaṃ santamacetano 'sīti tadā viparītavādī śāstraṃ puruṣasyānarthāyetyapramāṇaṃ syāt / natu nirdeṣaṃ śāstramapramāṇaṃ kalpayituṃ yuktam / yadi cājñasya sato mumukṣoracetanamanātmānamātmetyupadiśetpramāṇabhūtaṃ śāstraṃ sa śraddhadhānatayāndhagolāṅgūlanyāyena tadātmadṛṣṭiṃ na parityajet, tadvyatiriktaṃ cātmānaṃ na pratipadyeta, tathā sati puruṣārthādvihanyetānarthaṃ na ṛcchet / tasmādyathā svargādyarthino 'gnihotrādisādhanaṃ yathābhūtamupadiśati tathā mumukṣorapi 'sa ātmā tattvamasi śvetaketo' iti yathābhūtamevātmānamupaduśatīti yuktam / evañca sati taptaparaśugrahaṇamokṣadṛṣṭāntena satyābhisandhasya mokṣopadeśa upapadyate / anyathā hyamukhye sadātmatattvopadeśe 'ahamukthamasmīti vidyāt' (ai. āra. 2.1.2.6) itivatsaṃpanmātramidamanityaphalaṃ syāt / tatra mokṣopadeśo nopapadyeta / tasmānna sadaṇimanyātmaśabdasya gauṇatvam / bhṛtye tu svāmibhṛtyabhedasya pratyakṣatvādupapanno gauṇa ātmaśabdo mamātmā bhadrasena iti / apica Dvacidgauṇaḥ śabdo dṛṣṭa iti naitāvatā śabdapramāṇaker'tho gauṇī kalpanā nyāyyā, sarvatrānāśvāsaprasaṅgāt / yattūktaṃ cetanācetanayoḥ sādhāraṇa ātmābdaḥ kratujvalanayoriva jyotiḥśabda iti, tanna, anekārthatvāsyānyāyyatvāt / tasmāccetanaviṣaya eva mukhya ātmaśabdaścetanatvopacārādbhūtādiṣu prayujyate bhūtātmendriyātmeti ca / sādhāraṇatve 'pyātmaśabdasya na prakaraṇamupapadaṃ vā kiñcinniścāyakamantareṇānyataravṛttitā nirdhārayituṃ śakyate / nacātrācetanasya niścāyakaṃ kiñcitkāraṇamasti / prakṛtaṃ tu sadīkṣitṛ, saṃnihitaścetanaḥ śvetaketuḥ nahi cetanasya śvetaketoracetana ātmā saṃbhavatītyavocāma / tasmāccetanaviṣaya ihātmaśabda iti niścīyate / jyotiḥśabdo 'pi laukikena prayogeṇa jvalana eva rūḍhor'thavādakalpitena tu jvalanasādṛśyena kratau pravṛtta ityadṛṣṭāntaḥ / athavā pūrvasūtra evātmaśabdaṃ nirastasamastagauṇatvasādhāraṇatvaśaṅkatayā vyākhyāya tataḥ svatantra eva pradhānakāraṇanirākaraṇaheturvyākhyeyaḥ 'tanniṣṭhasya mokṣopadeśāt' iti / tasmānnācetanaṃ pradhānaṃ sacchabdavācyam // 7 // ---------------------- FN: atrottamapuruṣastūbhayatra prathamapuruṣe chāndasavat / tadā cetanaṃ santaṃ mumukṣumacetano 'sītibruvacchāstraṃ viparītavādibhūtvā puṃso 'narthāyetikṛtvā syādapramāṇamiti yojanā / atra vihatirmuktibhāktvābhāvaḥ / 'yathā satyābhisaṃdhastaptaṃ paraśuṃ sa na dahyate 'tha mucyate' iti / ukthaṃ prāṇaḥ / mahāvākyotthaṃ jñānamidamucyate / kutaśca na pradhānaṃ sacchabdavācyam /

Sanskrit only: no published translation is held for this verse.

हेयत्वावचनाच्च यद्यानात्मैव प्रधानं सच्छब्दवाच्यं ऽस आत्मा तत्त्वमसिऽ इतीहोपदिष्टं स्यात्स तदुपदेशश्रवणादनात्मज्ञतया तन्निष्ठो मा भूदिति मुख्यमात्मानमुपदिदिक्षुस्तस्य हेयत्वं ब्रूयात् । यथारुन्धतीं दिदर्शयिषुस्तत्समीपस्थां स्थूलां ताराममुख्यां प्रथममरुन्धतिति ग्राहयित्वा तां प्रत्याख्याय पश्चादरुन्धतीमेव ग्राहयति तद्वन्नायमात्मेति ब्रूयात् । नचैवमवोचत् । सन्मात्रात्मावगतिनिष्ठैव हि षष्ठप्रपाठकपरिसमाप्तिर्दृश्यते । चशब्दः [प्रतिज्ञाविरोधात् । ब्ब्स्_१,१।८अ ।] प्रतिज्ञाविरोधाभ्युच्चयप्रदर्शनार्थः । सत्यपि हेयत्ववचने प्रतिज्ञाविरोधः प्रसज्येत । कारणविज्ञानाद्धि सर्वं विज्ञातमिति प्रतिज्ञातम् । ऽउत तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति कथं नु भगवः स आदेशो भवतीति यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्ऽ । ऽएवं सोम्य स आदेशो भवतिऽ (छान्दो। ६।१।१,३) इति वाक्योपक्रमे श्रवणात् । नच सच्छब्दवाच्ये प्रधाने भोग्यवर्गकारणे हेयत्वेनाहेयत्वेन वा विज्ञाते भोक्तृवर्गो विज्ञातो भवति, अप्रधानविकारत्वाद्भोक्तृवर्गस्य । तस्मान्न प्रधानं सच्छब्दवाच्यम् ॥ ८ ॥ कुतश्च न प्रधानं सच्छब्दवाच्यम्- हे श्वेतकेतो, उत अपि आदिस्यत इत्यादेशस्तं शास्त्राचार्योक्तिगम्यं वस्त्वप्राक्ष्यः पृष्टवानस्याचार्यम् । वाचारभ्यमाणमुच्चार्यमाणं नामधेयमेव विकारो न तु घटशरावादिनामातिरिक्तो मृदि विकारो वस्तुतो ऽस्ति परमार्थतो मृत्तिकैव तु सत्यं वस्त्वस्तीति ।

heyatvāvacanācca yadyānātmaiva pradhānaṃ sacchabdavācyaṃ 'sa ātmā tattvamasi' itīhopadiṣṭaṃ syātsa tadupadeśaśravaṇādanātmajñatayā tanniṣṭho mā bhūditi mukhyamātmānamupadidikṣustasya heyatvaṃ brūyāt / yathārundhatīṃ didarśayiṣustatsamīpasthāṃ sthūlāṃ tārāmamukhyāṃ prathamamarundhatiti grāhayitvā tāṃ pratyākhyāya paścādarundhatīmeva grāhayati tadvannāyamātmeti brūyāt / nacaivamavocat / sanmātrātmāvagatiniṣṭhaiva hi ṣaṣṭhaprapāṭhakaparisamāptirdṛśyate / caśabdaḥ [pratijñāvirodhāt | BBs_1,1.8a |] pratijñāvirodhābhyuccayapradarśanārthaḥ / satyapi heyatvavacane pratijñāvirodhaḥ prasajyeta / kāraṇavijñānāddhi sarvaṃ vijñātamiti pratijñātam / 'uta tamādeśamaprākṣyo yenāśrutaṃ śrutaṃ bhavatyamataṃ matamavijñātaṃ vijñātamiti kathaṃ nu bhagavaḥ sa ādeśo bhavatīti yathā somyaikena mṛtpiṇḍena sarvaṃ mṛnmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam' / 'evaṃ somya sa ādeśo bhavati' (chāndo. 6.1.1,3) iti vākyopakrame śravaṇāt / naca sacchabdavācye pradhāne bhogyavargakāraṇe heyatvenāheyatvena vā vijñāte bhoktṛvargo vijñāto bhavati, apradhānavikāratvādbhoktṛvargasya / tasmānna pradhānaṃ sacchabdavācyam // 8 // kutaśca na pradhānaṃ sacchabdavācyam- he śvetaketo, uta api ādisyata ityādeśastaṃ śāstrācāryoktigamyaṃ vastvaprākṣyaḥ pṛṣṭavānasyācāryam / vācārabhyamāṇamuccāryamāṇaṃ nāmadheyameva vikāro na tu ghaṭaśarāvādināmātirikto mṛdi vikāro vastuto 'sti paramārthato mṛttikaiva tu satyaṃ vastvastīti /

Sanskrit only: no published translation is held for this verse.

स्वाप्ययात् तदेव सच्छब्दवाच्यं कारणं प्रकृत्य श्रूयते- ऽयत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति स्वमपीतो भवति तस्मादेनं स्वपितीत्याचक्षते स्वं ह्यपीतो भवतिऽ (छान्दो। ६।८।१) इति । एषा श्रुतिः स्वपितीत्येतत्पुरुषस्य लोकप्रसिद्धं नाम निर्वक्ति । स्वशब्देनेहात्मोच्यते । यः प्रकृतः सच्छब्दवाच्यस्तमपीतो भवत्यपिगतो भवतीत्यर्थः । अपिपूर्वस्यैतेर्लर्यार्थत्वं प्रसिद्धं, प्रभवाप्ययावित्युत्पत्तिप्रलययोः प्रयोगदर्शनात् । मनःप्रचारोपाधिविशेषसंबन्धादिन्द्रियार्थान्गृह्यंस्तद्विशेषापन्नो जीवो जागर्ति । तद्वासनाविशिष्टः स्वप्नान्पश्यन्मनःशब्दवाच्यो भवति । स उपाधिद्वयोपरमे सुषुप्तावस्थामुपाधिकृतविशेषाभावात्स्वात्मनि प्रलीन इवेति ऽस्वं ह्यपीतो भवतिऽ इत्युच्यते । यथा हृदयशब्दनिर्वचनं श्रुत्वा दर्शितम्- ऽस वा एष आत्मा हृदि तस्यैतदेव निरुक्तं हृद्ययमिति तस्माधृदयमितिऽ (छान्दो। ८।३।३) इति । यथावाशनायोदन्याशब्दप्रवृत्तिमूलं दर्शयति श्रुतिः- ऽआप एव तदशितं नयन्तेऽ ऽतेज एव तत्पीतं नयन्तेऽ (छा। ६। ८। ३,५) इति च । एवं स्वमात्मानं सच्छब्दवाच्यमपीतो भवतीतीममर्थं स्वपितिनामनिर्वचनेन दर्शयति । नच चेतन आत्माचेतनं प्रधानं स्वरूपत्वेन प्रतिपद्येत । यदि पुनः प्रधानमेवात्मीयात्वात्स्वाशब्देनैवोच्येत, एवमपि चेतनो ऽचेतनमप्येतीति विरुद्धमापद्येत । श्रुत्यन्तरं च - ऽप्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किञ्चन वेद नान्तरम्ऽ । (बृह। ४।३।२१) इति सुषुप्तावस्थायां चेतने ऽप्ययं दर्शयति । अतो यस्मिन्नप्ययः सर्वेषां चेतनानां तच्चेतनं सच्छब्दवाच्यं जगतः कारणं न प्रधानम् ॥ ९ ॥ ---------------------- फ़्न्: यत्र सुप्तौ पुंसः स्वपितीत्येतन्नाम भवति तदा पुरुषः सता संपन्नस्तेनैकीभूत इति योजना । कुतश्च न प्रधानं जगतः कारणम्-

svāpyayāt tadeva sacchabdavācyaṃ kāraṇaṃ prakṛtya śrūyate- 'yatraitatpuruṣaḥ svapiti nāma satā somya tadā saṃpanno bhavati svamapīto bhavati tasmādenaṃ svapitītyācakṣate svaṃ hyapīto bhavati' (chāndo. 6.8.1) iti / eṣā śrutiḥ svapitītyetatpuruṣasya lokaprasiddhaṃ nāma nirvakti / svaśabdenehātmocyate / yaḥ prakṛtaḥ sacchabdavācyastamapīto bhavatyapigato bhavatītyarthaḥ / apipūrvasyaiterlaryārthatvaṃ prasiddhaṃ, prabhavāpyayāvityutpattipralayayoḥ prayogadarśanāt / manaḥpracāropādhiviśeṣasaṃbandhādindriyārthāngṛhyaṃstadviśeṣāpanno jīvo jāgarti / tadvāsanāviśiṣṭaḥ svapnānpaśyanmanaḥśabdavācyo bhavati / sa upādhidvayoparame suṣuptāvasthāmupādhikṛtaviśeṣābhāvātsvātmani pralīna iveti 'svaṃ hyapīto bhavati' ityucyate / yathā hṛdayaśabdanirvacanaṃ śrutvā darśitam- 'sa vā eṣa ātmā hṛdi tasyaitadeva niruktaṃ hṛdyayamiti tasmādhṛdayamiti' (chāndo. 8.3.3) iti / yathāvāśanāyodanyāśabdapravṛttimūlaṃ darśayati śrutiḥ- 'āpa eva tadaśitaṃ nayante' 'teja eva tatpītaṃ nayante' (chā. 6. 8. 3,5) iti ca / evaṃ svamātmānaṃ sacchabdavācyamapīto bhavatītīmamarthaṃ svapitināmanirvacanena darśayati / naca cetana ātmācetanaṃ pradhānaṃ svarūpatvena pratipadyeta / yadi punaḥ pradhānamevātmīyātvātsvāśabdenaivocyeta, evamapi cetano 'cetanamapyetīti viruddhamāpadyeta / śrutyantaraṃ ca - 'prājñenātmanā saṃpariṣvakto na bāhyaṃ kiñcana veda nāntaram' / (bṛha. 4.3.21) iti suṣuptāvasthāyāṃ cetane 'pyayaṃ darśayati / ato yasminnapyayaḥ sarveṣāṃ cetanānāṃ taccetanaṃ sacchabdavācyaṃ jagataḥ kāraṇaṃ na pradhānam // 9 // ---------------------- FN: yatra suptau puṃsaḥ svapitītyetannāma bhavati tadā puruṣaḥ satā saṃpannastenaikībhūta iti yojanā / kutaśca na pradhānaṃ jagataḥ kāraṇam-

Sanskrit only: no published translation is held for this verse.

गतिसामान्यात् यदि तार्किकसमय इव वेदान्तेष्वपि भिन्ना कारणावगतिरभविष्यत्क्वचिच्चेतनं ब्रह्म जगतः कारणं द्वचिदन्यदेवेति, ततः कदाचित्प्रधानकारणवादानुरोधेनापीक्षत्यादिश्रवणमकल्पयिष्यत् । नत्वेतदस्ति । समानैव हि सर्वेषु वेदान्तेषु चेतनकारणावगतिः । ऽयथाग्नेर्ज्वलतः सर्वा दिशो विस्फुलिङ्गा विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः सर्वे प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाःऽ (कौ। ३।३) इति । ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ (तै। २।१) इति । ऽआत्मत एवेदं सर्वम्ऽ (छान्दो। ७।२६।१) इति । ऽआत्मन एष प्राणो जायतेऽ (प्र। ३।३) इति चात्मनः कारणत्वं दर्शयन्ति सर्वे वेदान्ताः । आत्मशब्दश्च चेतनवचन इत्यवोचाम । महच्च प्रामाण्यकारणमेतद्यद्वेदान्तवाक्यानां चेतनकारणत्वे समानगतित्वं, चक्षुरादीनामिव रूपादिषु । अतो गतिसामान्यात्सर्वज्ञं ब्रह्म जगतः कारणम् ॥ १० ॥ ---------------------- फ़्न्: गतिरवगतिः । विप्रतिष्ठेरन् नानागतित्वेन दिशो दशापि प्रसृताः स्युरित्यर्थः । अज्ञातज्ञापकत्वं प्रामाण्यम् । कुतश्च सर्वज्ञं ब्रह्म जगतः कारणम्-

gatisāmānyāt yadi tārkikasamaya iva vedānteṣvapi bhinnā kāraṇāvagatirabhaviṣyatkvaciccetanaṃ brahma jagataḥ kāraṇaṃ Dvacidanyadeveti, tataḥ kadācitpradhānakāraṇavādānurodhenāpīkṣatyādiśravaṇamakalpayiṣyat / natvetadasti / samānaiva hi sarveṣu vedānteṣu cetanakāraṇāvagatiḥ / 'yathāgnerjvalataḥ sarvā diśo visphuliṅgā vipratiṣṭherannevamevaitasmādātmanaḥ sarve prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ' (kau. 3.3) iti / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' (tai. 2.1) iti / 'ātmata evedaṃ sarvam' (chāndo. 7.26.1) iti / 'ātmana eṣa prāṇo jāyate' (pra. 3.3) iti cātmanaḥ kāraṇatvaṃ darśayanti sarve vedāntāḥ / ātmaśabdaśca cetanavacana ityavocāma / mahacca prāmāṇyakāraṇametadyadvedāntavākyānāṃ cetanakāraṇatve samānagatitvaṃ, cakṣurādīnāmiva rūpādiṣu / ato gatisāmānyātsarvajñaṃ brahma jagataḥ kāraṇam // 10 // ---------------------- FN: gatiravagatiḥ / vipratiṣṭheran nānāgatitvena diśo daśāpi prasṛtāḥ syurityarthaḥ / ajñātajñāpakatvaṃ prāmāṇyam / kutaśca sarvajñaṃ brahma jagataḥ kāraṇam-

Sanskrit only: no published translation is held for this verse.

श्रुतत्वाच् च स्वशब्देनैव च सर्वज्ञ ईश्वरो जगतः कारणमिति श्रूयते श्वेताश्वतराणां मन्त्रोपनिषदि सर्वज्ञमीश्वरं प्रकृत्य ऽस कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपःऽ (श्वे। ६।९) इति । तस्मात् सर्वज्ञं ब्रह्म जगतः कारणं, नाचेतनं प्रधानमन्यद्वेति सिद्धम् ॥ ११ ॥ ---------------------- फ़्न्: कारणाधिपा जीवस्तेषामधिपः । वस्तुतन्त्रं भवेज्ज्ञानं कर्मतन्त्रमुपासनम् । आविस्तरामतिशयेन प्रकटम् । ६ आनन्दमयाधिकरणम् । सू। १२-१९ ऽजन्माद्यस्य यतःऽ इत्यारभ्य ऽश्रुतत्वाच्चऽ इत्येवमन्तैः सूत्रैर्यान्युदाहृतानि वेदान्तवाक्यानि तेषां सर्वज्ञः सर्वशक्तिरीश्वरो जगतो जन्मस्थितिलयकारणमित्येतस्यार्थस्य प्रतिपादकत्वं न्यायपूर्वकं प्रतिपादितम् । गतिसामान्योपन्यासेन च सर्वे वेदान्ताश्चेतनकारणवादिन इति व्याख्यातम् । अतः परस्य ग्रन्थस्य किमुत्थानमिति । उच्यते- द्विरूपं हि ब्रह्मावगम्यते, नामरूपविकारभेदोपाधिविशिष्टं, तद्विपरीतं च सर्वोपाधिविवर्जितम् । ऽयत्र हि द्वैतमिव भवति तदितर इतरं पश्यति यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृह। ४।५।१५) ऽयत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमाथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं वो वै भूमा तदमृतमथ यदल्पं तन्मर्त्यम्ऽ (छान्दो। ७।२४।१) ऽसर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्तेऽ (तैआ। ३।१२।७) ऽनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् । अमृतस्य परं सेतुं दग्धेन्धनमिवानलम्ऽ (श्वे। ६।१९) ऽनेति नेतिऽ (बृ। २।३।६) इति ऽअस्थूलमनणुऽ (बृ। ३।८।८) ऽन्यूनमन्यत्स्थानं संपूर्णमन्यत्ऽ इति चैवं सहस्रशो विद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति वाक्यानि । तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिक्षणः सर्वो व्यवहारः । तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि, कानिचित्क्रममुक्त्यर्थानि, कानिचित्कर्मसमृद्ध्यर्थानि । तेषां गुणविशेषोपाधिभेदेन भेदः । एक एव तु परमात्मेश्वरस्तैस्तैर्गुणविशेषैर्विशिष्ट उपास्यो यद्यपि भवति तथापि यथागुणोपासनमेव फलानि भिद्यन्ते । ऽतं यथा यथोपासते तदेव भवतिऽ इति श्रुतेः, ऽयथाक्रतुरस्मिंलोके पुरुषो भवति तथेतः प्रेत्य भवतिऽ (छा। ३।१४।१) इति च । स्मृतेश्च- ऽयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ऽ (गी। ८।६) इति । यद्यप्येक आत्मा सर्वभूतेषु स्थावरजङ्गमेषु गूढस्तथापि चित्तोपाधिविशेषतारतम्यादात्मनः कूटस्थनित्यस्यैकरूपस्याप्युत्तरोत्तरमाविष्कृतस्य तारतम्यमैश्वर्यशक्तिविशेषैः श्रूयते- ऽतस्य य आत्मानमाविस्तरां वेदऽ (ऐआ। २।३।२।१) इत्यत्र । स्मृतावपि- ऽयद्यद्विभूतिमत्सर्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेज्ॐऽशसंभवम् ।ऽ (गी। १०।४१) इति । यत्र यत्र विभूत्याद्यतिशयः स स ईश्वर इत्युपास्यतया चोद्यते । एवमिहाप्यादित्यमण्डले हिरण्मयः पुरुषः सर्वपाप्मोदयलिङ्गात्पर एवेति वक्ष्यति । एवं ऽआकाशस्तल्लिङ्गात्ऽ (ब्र। १।१।२२) इत्यादिषु द्रष्टव्यम् । एवं सद्योमुक्तिकारणमप्यात्मज्ञानमुपाधिविशेषद्वारेणोपदिश्यमानमप्यविवक्षितोपाधिसंबन्धविशेषं परापरविषयत्वेन संदिह्यमानं वाक्यगतिपर्यालोचनया निर्णेतव्यं भवति । यथेहैव तावत् ऽआनन्दमयो ऽभ्यासात्ऽ इति । एवमेकमपि ब्रह्मापेक्षितोपाधिसंबन्धं निरस्तोपाधिसंबन्धं चोपास्यत्वेन ज्ञेयत्वेन च वेदान्तेषूपदिश्यत इति प्रदर्शयितुं परो ग्रन्थ आरभ्यते । यच्च ऽगतिसामान्यात्ऽ इत्यचेतनकारणनिराकरणमुक्तं तदपि वाक्यान्तराणि ब्रह्मविषयाणि व्याचक्षाणेन ब्रह्मविपरीतकारणनिषेधेन प्रपञ्च्यते-

śrutatvāc ca svaśabdenaiva ca sarvajña īśvaro jagataḥ kāraṇamiti śrūyate śvetāśvatarāṇāṃ mantropaniṣadi sarvajñamīśvaraṃ prakṛtya 'sa kāraṇaṃ karaṇādhipādhipo na cāsya kaścijjanitā na cādhipaḥ' (śve. 6.9) iti / tasmāt sarvajñaṃ brahma jagataḥ kāraṇaṃ, nācetanaṃ pradhānamanyadveti siddham // 11 // ---------------------- FN: kāraṇādhipā jīvasteṣāmadhipaḥ / vastutantraṃ bhavejjñānaṃ karmatantramupāsanam / āvistarāmatiśayena prakaṭam / 6 ānandamayādhikaraṇam / sū. 12-19 'janmādyasya yataḥ' ityārabhya 'śrutatvācca' ityevamantaiḥ sūtrairyānyudāhṛtāni vedāntavākyāni teṣāṃ sarvajñaḥ sarvaśaktirīśvaro jagato janmasthitilayakāraṇamityetasyārthasya pratipādakatvaṃ nyāyapūrvakaṃ pratipāditam / gatisāmānyopanyāsena ca sarve vedāntāścetanakāraṇavādina iti vyākhyātam / ataḥ parasya granthasya kimutthānamiti / ucyate- dvirūpaṃ hi brahmāvagamyate, nāmarūpavikārabhedopādhiviśiṣṭaṃ, tadviparītaṃ ca sarvopādhivivarjitam / 'yatra hi dvaitamiva bhavati taditara itaraṃ paśyati yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛha. 4.5.15) 'yatra nānyatpaśyati nānyacchṛṇoti nānyadvijānāti sa bhūmātha yatrānyatpaśyatyanyacchṛṇotyanyadvijānāti tadalpaṃ vo vai bhūmā tadamṛtamatha yadalpaṃ tanmartyam' (chāndo. 7.24.1) 'sarvāṇi rūpāṇi vicitya dhīro nāmāni kṛtvābhivadanyadāste' (tai.ā. 3.12.7) 'niṣkalaṃ niṣkriyaṃ śāntaṃ niravadyaṃ nirañjanam / amṛtasya paraṃ setuṃ dagdhendhanamivānalam' (śve. 6.19) 'neti neti' (bṛ. 2.3.6) iti 'asthūlamanaṇu' (bṛ. 3.8.8) 'nyūnamanyatsthānaṃ saṃpūrṇamanyat' iti caivaṃ sahasraśo vidyāvidyāviṣayabhedena brahmaṇo dvirūpatāṃ darśayanti vākyāni / tatrāvidyāvasthāyāṃ brahmaṇa upāsyopāsakādikṣaṇaḥ sarvo vyavahāraḥ / tatra kānicidbrahmaṇa upāsanānyabhyudayārthāni, kānicitkramamuktyarthāni, kānicitkarmasamṛddhyarthāni / teṣāṃ guṇaviśeṣopādhibhedena bhedaḥ / eka eva tu paramātmeśvarastaistairguṇaviśeṣairviśiṣṭa upāsyo yadyapi bhavati tathāpi yathāguṇopāsanameva phalāni bhidyante / 'taṃ yathā yathopāsate tadeva bhavati' iti śruteḥ, 'yathākraturasmiṃloke puruṣo bhavati tathetaḥ pretya bhavati' (chā. 3.14.1) iti ca / smṛteśca- 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram / taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ //' (gī. 8.6) iti / yadyapyeka ātmā sarvabhūteṣu sthāvarajaṅgameṣu gūḍhastathāpi cittopādhiviśeṣatāratamyādātmanaḥ kūṭasthanityasyaikarūpasyāpyuttarottaramāviṣkṛtasya tāratamyamaiśvaryaśaktiviśeṣaiḥ śrūyate- 'tasya ya ātmānamāvistarāṃ veda' (ai.ā. 2.3.2.1) ityatra / smṛtāvapi- 'yadyadvibhūtimatsarvaṃ śrīmadūrjitameva vā / tattadevāvagaccha tvaṃ mama tejoṃ'śasaṃbhavam /' (gī. 10.41) iti / yatra yatra vibhūtyādyatiśayaḥ sa sa īśvara ityupāsyatayā codyate / evamihāpyādityamaṇḍale hiraṇmayaḥ puruṣaḥ sarvapāpmodayaliṅgātpara eveti vakṣyati / evaṃ 'ākāśastalliṅgāt' (bra. 1.1.22) ityādiṣu draṣṭavyam / evaṃ sadyomuktikāraṇamapyātmajñānamupādhiviśeṣadvāreṇopadiśyamānamapyavivakṣitopādhisaṃbandhaviśeṣaṃ parāparaviṣayatvena saṃdihyamānaṃ vākyagatiparyālocanayā nirṇetavyaṃ bhavati / yathehaiva tāvat 'ānandamayo 'bhyāsāt' iti / evamekamapi brahmāpekṣitopādhisaṃbandhaṃ nirastopādhisaṃbandhaṃ copāsyatvena jñeyatvena ca vedānteṣūpadiśyata iti pradarśayituṃ paro grantha ārabhyate / yacca 'gatisāmānyāt' ityacetanakāraṇanirākaraṇamuktaṃ tadapi vākyāntarāṇi brahmaviṣayāṇi vyācakṣāṇena brahmaviparītakāraṇaniṣedhena prapañcyate-

Sanskrit only: no published translation is held for this verse.

आनन्दमयो ऽभ्यासात् तैत्तिरीयके ऽन्नमयं, प्राणमयं, मनोमयं, विज्ञानमयं,चानुक्रम्याम्नायते- ऽतस्माद्वा एतस्माद्विज्ञानमयात् । अन्यो ऽन्तर आत्मानन्दमयःऽ (तै। २।५) इति । तत्र संशयः- किमिहानन्दमयशब्देन परमेव ब्रह्मोच्यते यत्प्रकृतम् ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै। २।१) इति, किंवान्नमयादिब्रह्मणोर्ऽथान्तरमिति । किं तावत्प्राप्तं ब्रह्मणोर्ऽथान्तरममुख्य आत्मानन्दमयः स्यात् । कस्मात् । अन्नमयाद्यमुख्यात्मप्रवाहपतितत्वात् । अथापि स्यात्सर्वान्तरत्वादानन्दमयो मुख्य एवात्मेति । न स्यात्प्रियाद्यवयवयोगाच्छरीरत्वश्रवणाच्च । मुख्यश्चेदात्मानन्दमयः स्यान्न प्रियादिसंस्पर्शः स्यात् । इह तु ऽतस्य प्रियमेव शिरःऽ इत्यादि श्रूयते । शारीरत्वं च श्रूयते- ऽतस्यैष एव शारीर आत्मा । यः पूर्वस्यऽ इति । तस्य पूर्वस्य विज्ञानमयस्यैष एव शारीर आत्मा य एष आनन्दमय इत्यर्थः । नच सशरीरस्य सतः प्रियाप्रियसंस्पार्शो वारयितुं शक्यः । तस्मात्संसार्येवानन्दमय आत्मेत्यवं प्राप्त इदमुच्यते- ऽआनन्दमयो ऽभ्यासात्ऽ । पर एवात्मानन्दमयो भवितुमर्हति । कुतः । अभ्यासात् । परस्मिन्नेव ह्यात्मन्यानन्दशब्दो बहुकृत्वो ऽभ्यस्यते । आनन्दमयं प्रस्तुत्य ऽरसो वै सःऽ इति तस्यैव रसत्वमुक्त्वोच्यते- ऽरसंह्येवायं लब्ध्वाऽनन्दी भवतिऽ इति, ऽको ह्येवान्यात्कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात् । एष ह्येवानन्दयातिऽ । (तै। २।७) ऽसैषानन्दस्य मीमांसा भवतिऽ, ऽ एतमानन्दमयमात्मानमुपसंक्रामतिऽ, ऽआनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चनऽ (तै। २।८,९) इति । ऽआनन्दो ब्रह्मेति व्यजानात्ऽ (तै। ३।६) इति च । श्रुत्यन्तरे च ऽविज्ञानमानन्दं ब्रह्मऽ (बृ। ३।९।२८) इति ब्रह्मण्येवानन्दशब्दो दृष्टः । एवमानन्दशब्दस्य बहुकृत्वो ब्रह्मण्यभ्यासादानन्दमय आत्मा ब्रह्मेति गम्यते । यत्तूक्तमन्नमयाद्यमुख्यात्मप्रवाहपतितत्वादानन्दमयस्याप्यमुख्यत्वमिति, नासौ दोषः । आनन्दमयस्य सर्वान्तरत्वात् । मुख्यमेव ह्यात्मानमुपदिदिक्षु शास्त्रं लोकबुद्धिमनुसरत्, अन्नमयं शरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषिक्तद्रुतताम्रादिप्रतिमावत्ततो ऽनन्तरं ततो ऽन्तरमित्येवं पूर्वेण पूर्वेण समानमुत्तरमुत्तरमनात्मानमात्मेति ग्राहयत्, प्रतिपत्तिसौकर्यापेक्षया सर्वान्तरं मुख्यमानन्दमयमात्मानमुपदिदेशेति श्लिष्टतरम् । यथारुन्धतीनिदर्शने बर्ह्वीष्वपि तारास्वमुख्यास्वरुन्धतीषु दर्शितासु यान्त्या प्रदर्श्यते सा मुख्यैवारुन्धती भवति, एवमिहाप्यानन्दमयस्य सर्वान्तरत्वान्मुख्यमात्मत्वम् । यत्तु ब्रूषे, प्रियादीनां शिरस्त्वादिकल्पनानुपपन्ना मुख्यस्यात्मन इति, आतीतानन्तरोपाधिजनिता सा न स्वाभाविकीत्यदोषः । शारीरत्वमप्यानन्दमयस्यान्नमयादिशरीरपरम्परया प्रदर्श्यमानत्वात्, न पुनः साक्षादेव शारीरत्वं संसारिवत्, तस्मादान्दमयः पर एवात्मा ॥ १२ ॥ ---------------------- फ़्न्: तस्य निष्कलत्वश्रुत्या निरंशत्वादित्यर्थः । कोवान्याच्चलेत्, को वा विशिष्य प्राण्याज्जीवेत् । आनन्दयाति आनन्दयतीत्यर्थः । उपसंक्रमणं प्राप्तिः ब्रह्मणः स्वरूपमिति शेषः । लोकबुद्धेः स्थूलग्राहितामनुसरदित्यर्थः । इहापि अमुख्यप्रवाहे पतितस्यापि ।

ānandamayo 'bhyāsāt taittirīyake 'nnamayaṃ, prāṇamayaṃ, manomayaṃ, vijñānamayaṃ,cānukramyāmnāyate- 'tasmādvā etasmādvijñānamayāt / anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti / tatra saṃśayaḥ- kimihānandamayaśabdena parameva brahmocyate yatprakṛtam 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) iti, kiṃvānnamayādibrahmaṇor'thāntaramiti / kiṃ tāvatprāptaṃ brahmaṇor'thāntaramamukhya ātmānandamayaḥ syāt / kasmāt / annamayādyamukhyātmapravāhapatitatvāt / athāpi syātsarvāntaratvādānandamayo mukhya evātmeti / na syātpriyādyavayavayogāccharīratvaśravaṇācca / mukhyaścedātmānandamayaḥ syānna priyādisaṃsparśaḥ syāt / iha tu 'tasya priyameva śiraḥ' ityādi śrūyate / śārīratvaṃ ca śrūyate- 'tasyaiṣa eva śārīra ātmā / yaḥ pūrvasya' iti / tasya pūrvasya vijñānamayasyaiṣa eva śārīra ātmā ya eṣa ānandamaya ityarthaḥ / naca saśarīrasya sataḥ priyāpriyasaṃspārśo vārayituṃ śakyaḥ / tasmātsaṃsāryevānandamaya ātmetyavaṃ prāpta idamucyate- 'ānandamayo 'bhyāsāt' / para evātmānandamayo bhavitumarhati / kutaḥ / abhyāsāt / parasminneva hyātmanyānandaśabdo bahukṛtvo 'bhyasyate / ānandamayaṃ prastutya 'raso vai saḥ' iti tasyaiva rasatvamuktvocyate- 'rasaṃhyevāyaṃ labdhvā'nandī bhavati' iti, 'ko hyevānyātkaḥ prāṇyāt / yadeṣa ākāśa ānando na syāt / eṣa hyevānandayāti' / (tai. 2.7) 'saiṣānandasya mīmāṃsā bhavati', ' etamānandamayamātmānamupasaṃkrāmati', 'ānandaṃ brahmaṇo vidvān na bibheti kutaścana' (tai. 2.8,9) iti / 'ānando brahmeti vyajānāt' (tai. 3.6) iti ca / śrutyantare ca 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) iti brahmaṇyevānandaśabdo dṛṣṭaḥ / evamānandaśabdasya bahukṛtvo brahmaṇyabhyāsādānandamaya ātmā brahmeti gamyate / yattūktamannamayādyamukhyātmapravāhapatitatvādānandamayasyāpyamukhyatvamiti, nāsau doṣaḥ / ānandamayasya sarvāntaratvāt / mukhyameva hyātmānamupadidikṣu śāstraṃ lokabuddhimanusarat, annamayaṃ śarīramanātmānamatyantamūḍhānāmātmatvena prasiddhamanūdya mūṣāniṣiktadrutatāmrādipratimāvattato 'nantaraṃ tato 'ntaramityevaṃ pūrveṇa pūrveṇa samānamuttaramuttaramanātmānamātmeti grāhayat, pratipattisaukaryāpekṣayā sarvāntaraṃ mukhyamānandamayamātmānamupadideśeti śliṣṭataram / yathārundhatīnidarśane barhvīṣvapi tārāsvamukhyāsvarundhatīṣu darśitāsu yāntyā pradarśyate sā mukhyaivārundhatī bhavati, evamihāpyānandamayasya sarvāntaratvānmukhyamātmatvam / yattu brūṣe, priyādīnāṃ śirastvādikalpanānupapannā mukhyasyātmana iti, ātītānantaropādhijanitā sā na svābhāvikītyadoṣaḥ / śārīratvamapyānandamayasyānnamayādiśarīraparamparayā pradarśyamānatvāt, na punaḥ sākṣādeva śārīratvaṃ saṃsārivat, tasmādāndamayaḥ para evātmā // 12 // ---------------------- FN: tasya niṣkalatvaśrutyā niraṃśatvādityarthaḥ / kovānyāccalet, ko vā viśiṣya prāṇyājjīvet / ānandayāti ānandayatītyarthaḥ / upasaṃkramaṇaṃ prāptiḥ brahmaṇaḥ svarūpamiti śeṣaḥ / lokabuddheḥ sthūlagrāhitāmanusaradityarthaḥ / ihāpi amukhyapravāhe patitasyāpi /

Sanskrit only: no published translation is held for this verse.

विकारशब्दान् नेति चेन् न प्राचुर्यात् अत्राह- नानन्दमयः पर आत्मा भवितुमर्हति । कस्मात्, विकारशब्दात् । प्रकृतिवचनादयमन्यः शब्दो विकारवचनः समधिगतः, आनन्दमय इति मयटो विकार्थत्वात् । तस्मादन्नमयादिशब्दवद्विकारविषय एवानन्दमयशब्द इतिचेत्, न । प्राचुर्यार्थे ऽपि मयटः स्मरणात् । ऽतत्प्रकृतवचने मयट्ऽ (पा। ५।४।२१) इति हि प्रचुरतायामपि मयट् स्मर्यते । यथा ऽअन्नमयो यज्ञःऽ इत्यन्नप्रचुर उच्यते, एवमानन्दप्रचुरं ब्रह्मानन्दमय उच्यते । आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात् । तस्मात्प्राचुर्यार्थे मयट् ॥ १३ ॥

vikāraśabdān neti cen na prācuryāt atrāha- nānandamayaḥ para ātmā bhavitumarhati / kasmāt, vikāraśabdāt / prakṛtivacanādayamanyaḥ śabdo vikāravacanaḥ samadhigataḥ, ānandamaya iti mayaṭo vikārthatvāt / tasmādannamayādiśabdavadvikāraviṣaya evānandamayaśabda iticet, na / prācuryārthe 'pi mayaṭaḥ smaraṇāt / 'tatprakṛtavacane mayaṭ' (pā. 5.4.21) iti hi pracuratāyāmapi mayaṭ smaryate / yathā 'annamayo yajñaḥ' ityannapracura ucyate, evamānandapracuraṃ brahmānandamaya ucyate / ānandapracuratvaṃ ca brahmaṇo manuṣyatvādārabhyottarasminnuttarasminsthāne śataguṇa ānanda ityuktvā brahmānandasya niratiśayatvāvadhāraṇāt / tasmātprācuryārthe mayaṭ // 13 //

Sanskrit only: no published translation is held for this verse.

तद्धेतुव्यपदेशाच् च इतश्च प्राचुर्यार्थे मयट् । यस्मादानन्दहेतुत्वं ब्रह्मणो व्यपदिशति श्रुतिः- ऽएष ह्येवानन्दयातिऽ इति । आनन्दयतीत्यर्थः । यो ह्यन्यानानन्दयति स प्रचुरानन्द इति प्रसिद्धं भवति । यथा लोके यो ऽन्येषां धनिकत्वमापादयति स प्रचुरधन इति गम्यते, तद्वत् । तस्मात्प्राचुर्यार्थे ऽपि मयटः संभवादानन्दमयः पर एवात्मा ॥ १४ ॥

taddhetuvyapadeśāc ca itaśca prācuryārthe mayaṭ / yasmādānandahetutvaṃ brahmaṇo vyapadiśati śrutiḥ- 'eṣa hyevānandayāti' iti / ānandayatītyarthaḥ / yo hyanyānānandayati sa pracurānanda iti prasiddhaṃ bhavati / yathā loke yo 'nyeṣāṃ dhanikatvamāpādayati sa pracuradhana iti gamyate, tadvat / tasmātprācuryārthe 'pi mayaṭaḥ saṃbhavādānandamayaḥ para evātmā // 14 //

Sanskrit only: no published translation is held for this verse.

मान्त्रवर्णिकमेव च गीयते इतश्चानन्दमयः पर एवात्मा । यस्मात् ऽब्रह्मविदाप्नोति परम्ऽ इत्युपक्रम्य ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तै। २।१) इत्यस्मिन्मन्त्रे यत्प्रकृतं ब्रह्म सत्यज्ञानानन्तविशेषणैर्निर्धरितं, यस्मादाकाशादिक्रमेण स्थावरजङ्गमानि भूतान्यजायन्त, यच्च भूतानि सृष्ट्वा तान्यनुप्रविश्य गुहायामवस्थितं, सर्वान्तरं, यस्य विज्ञानाय ऽअन्यो ऽन्तर आत्मान्यो ऽन्तर आत्माऽ इति प्रक्रान्तं तन्मान्त्रवर्णिकमेव ब्रह्मेह गीयते ऽअन्यो ऽन्तर आत्मानन्दमयःऽ (तै। २।५) इति । मन्त्रब्राह्मणयोश्चैकार्थत्वं युक्तं, अविरोधात् । अन्यथा हि प्रकृतहानाप्रकृतप्रक्रिये स्याताम् । न चान्नमयादिभ्य इवानन्दमयादन्यो ऽन्तर आत्माभिधीयते । एतन्निष्ठैव च ऽसैषा भार्गवी वारुणी विद्याऽ (तै। ३।६) तस्मादानन्दमयः पर एवात्मा ॥१५ ॥ ---------------------- फ़्न्: यस्मादित्यस्य तस्मादिति व्यवहितेन संबन्धः । यन्निर्धारितं तदेवेह गीयत इति योजना । एकार्थत्वेसत्युपायोपेयत्वयोगादित्यर्थः ।

māntravarṇikameva ca gīyate itaścānandamayaḥ para evātmā / yasmāt 'brahmavidāpnoti param' ityupakramya 'satyaṃ jñānamanantaṃ brahma' (tai. 2.1) ityasminmantre yatprakṛtaṃ brahma satyajñānānantaviśeṣaṇairnirdharitaṃ, yasmādākāśādikrameṇa sthāvarajaṅgamāni bhūtānyajāyanta, yacca bhūtāni sṛṣṭvā tānyanupraviśya guhāyāmavasthitaṃ, sarvāntaraṃ, yasya vijñānāya 'anyo 'ntara ātmānyo 'ntara ātmā' iti prakrāntaṃ tanmāntravarṇikameva brahmeha gīyate 'anyo 'ntara ātmānandamayaḥ' (tai. 2.5) iti / mantrabrāhmaṇayoścaikārthatvaṃ yuktaṃ, avirodhāt / anyathā hi prakṛtahānāprakṛtaprakriye syātām / na cānnamayādibhya ivānandamayādanyo 'ntara ātmābhidhīyate / etanniṣṭhaiva ca 'saiṣā bhārgavī vāruṇī vidyā' (tai. 3.6) tasmādānandamayaḥ para evātmā //15 // ---------------------- FN: yasmādityasya tasmāditi vyavahitena saṃbandhaḥ / yannirdhāritaṃ tadeveha gīyata iti yojanā / ekārthatvesatyupāyopeyatvayogādityarthaḥ /

Sanskrit only: no published translation is held for this verse.

नेतरो ऽनुपपत्तेः इतश्चानन्दमयः पर एवात्मा । नेतरः । इतर ईश्वरादन्यः संसारी जीव इत्यर्थः । न जीव आनन्दमयशब्देनाभिधीयते । कस्मात् । अनुपपत्तेः । आनन्दमयं हि प्रकृत्य श्रूयते- ऽसो ऽकामयत । बहु स्यां प्रजायेयेति । स तपो ऽतप्यत । स तपस्तप्त्वा । इदंसर्वमसृजत । यदिदं किञ्चऽ (तै। २।६) इति । तत्र प्राक्शरीराद्युत्पत्तेरभिध्यानं सृज्यमानानां च विकाराणां स्रष्टुरव्यतिरेकः सर्वविकारसृष्टिश्च, न परस्मादात्मनो ऽन्यत्रोपपद्यते ॥ १६ ॥

netaro 'nupapatteḥ itaścānandamayaḥ para evātmā / netaraḥ / itara īśvarādanyaḥ saṃsārī jīva ityarthaḥ / na jīva ānandamayaśabdenābhidhīyate / kasmāt / anupapatteḥ / ānandamayaṃ hi prakṛtya śrūyate- 'so 'kāmayata / bahu syāṃ prajāyeyeti / sa tapo 'tapyata / sa tapastaptvā / idaṃsarvamasṛjata / yadidaṃ kiñca' (tai. 2.6) iti / tatra prākśarīrādyutpatterabhidhyānaṃ sṛjyamānānāṃ ca vikārāṇāṃ sraṣṭuravyatirekaḥ sarvavikārasṛṣṭiśca, na parasmādātmano 'nyatropapadyate // 16 //

Sanskrit only: no published translation is held for this verse.

भेदव्यपदेशाच् च इतश्च नानन्दमयः संसारी । यस्मादानन्दमयाधिकारे- ऽरसो वै सः । रसंह्येवायं लब्ध्वानन्दी भवतिऽ (तै। २।७) इति जीवानन्दमयौ भेदेन व्यपदिशति । नहि लब्धैव लब्धव्यो भवति । कथं तर्हि ऽआत्मान्वेष्टव्यःऽ, ऽआत्मलाभान्न परं विद्यतेऽ इति श्रुतिस्मृती, यावता न लब्धैव लब्धव्यो भवतीत्युक्तम् । बाढम् । तथाप्यात्मनो ऽप्रच्युतात्मभास्यैव सतस्तत्वानवबोधनिमित्तो देहादिष्वनात्मस्वात्मत्वनिश्चयो लौकिको दृष्टः । तेन देहादिभूतस्यात्मनो ऽप्यात्मानन्विष्टो ऽन्वेष्टव्यो ऽलब्धो लब्धव्यो ऽश्रुतः श्रोतव्यो ऽमतो मन्तव्यो ऽविज्ञातो विज्ञातव्य इत्यादिभेदव्यपदेश उपपद्यते । प्रतिषिध्यत एव तु परमार्थतः सर्वज्ञात्परमेश्वरादन्यो द्रष्टा श्रोता वा ऽनान्यो ऽतो ऽस्ति द्रष्टाऽ (बृ। ३।७।२३) इत्यादिना । परमेश्वरस्त्वविद्याकल्पिताच्छरीरात्कर्तृभोक्तृविज्ञानात्माख्यादन्यः । यथा मायाविनश्चर्मखड्गधरात्सूत्रेणाकाशमधिरोहतः स एव मायावी परमार्थरूपो भूमिष्ठो ऽन्यः । यथावा धटाकाशादुपाधिपरिच्छिन्नादनुपाधिरपरिच्छिन्न आकाशो ऽन्यः । ईदृशं च विज्ञानात्मपरमात्मभेदमाश्रित्य ऽनेतरो ऽनुपपत्तेःऽ, ऽभेदव्यपदेशाच्चऽ इत्युक्तम् ॥ १७ ॥ ---------------------- फ़्न्: अधिकारः प्रकरणम् । स आनन्दमयो रसः सारः । अखण्डैकरसस्य । लोकादनपेतो लौकिको ऽप्रामाणिकः ।

bhedavyapadeśāc ca itaśca nānandamayaḥ saṃsārī / yasmādānandamayādhikāre- 'raso vai saḥ / rasaṃhyevāyaṃ labdhvānandī bhavati' (tai. 2.7) iti jīvānandamayau bhedena vyapadiśati / nahi labdhaiva labdhavyo bhavati / kathaṃ tarhi 'ātmānveṣṭavyaḥ', 'ātmalābhānna paraṃ vidyate' iti śrutismṛtī, yāvatā na labdhaiva labdhavyo bhavatītyuktam / bāḍham / tathāpyātmano 'pracyutātmabhāsyaiva satastatvānavabodhanimitto dehādiṣvanātmasvātmatvaniścayo laukiko dṛṣṭaḥ / tena dehādibhūtasyātmano 'pyātmānanviṣṭo 'nveṣṭavyo 'labdho labdhavyo 'śrutaḥ śrotavyo 'mato mantavyo 'vijñāto vijñātavya ityādibhedavyapadeśa upapadyate / pratiṣidhyata eva tu paramārthataḥ sarvajñātparameśvarādanyo draṣṭā śrotā vā 'nānyo 'to 'sti draṣṭā' (bṛ. 3.7.23) ityādinā / parameśvarastvavidyākalpitāccharīrātkartṛbhoktṛvijñānātmākhyādanyaḥ / yathā māyāvinaścarmakhaḍgadharātsūtreṇākāśamadhirohataḥ sa eva māyāvī paramārtharūpo bhūmiṣṭho 'nyaḥ / yathāvā dhaṭākāśādupādhiparicchinnādanupādhiraparicchinna ākāśo 'nyaḥ / īdṛśaṃ ca vijñānātmaparamātmabhedamāśritya 'netaro 'nupapatteḥ', 'bhedavyapadeśācca' ityuktam // 17 // ---------------------- FN: adhikāraḥ prakaraṇam / sa ānandamayo rasaḥ sāraḥ / akhaṇḍaikarasasya / lokādanapeto laukiko 'prāmāṇikaḥ /

Sanskrit only: no published translation is held for this verse.

कामाच् च नानुमानापेक्षा आनन्दमयाधिकारे च ऽसो ऽकामयत बहुस्यां प्रजायेयऽ (तै। २।६) इति कामयितृत्वनिर्देशान्नानुमानिकमपि सांख्यपरिकल्पितमचेतनं प्रधानमानन्दमयत्वेन कारणत्वेन वापेक्षितव्यम् । ऽईक्षतेर्नाशब्दम्ऽ (ब्र। १।१।५) इति निराकृतमपि प्रधानं पूर्वसूत्रोदाहृतां कामयितृत्वश्रुतिमाश्रित्य प्रसङ्गात्पुनर्निराक्रियते गतिसामान्यप्रपञ्चनाय ॥ १८ ॥

kāmāc ca nānumānāpekṣā ānandamayādhikāre ca 'so 'kāmayata bahusyāṃ prajāyeya' (tai. 2.6) iti kāmayitṛtvanirdeśānnānumānikamapi sāṃkhyaparikalpitamacetanaṃ pradhānamānandamayatvena kāraṇatvena vāpekṣitavyam / 'īkṣaternāśabdam' (bra. 1.1.5) iti nirākṛtamapi pradhānaṃ pūrvasūtrodāhṛtāṃ kāmayitṛtvaśrutimāśritya prasaṅgātpunarnirākriyate gatisāmānyaprapañcanāya // 18 //

Sanskrit only: no published translation is held for this verse.

अस्मिन्न् अस्य च तद्योगं शास्ति इतश्च न प्रधाने जीवे वानन्दमयशब्दः । यस्मादस्मिन्नानन्दमये प्रकृत आत्मनि प्रतिबुद्धस्यास्य जीवस्य तद्योगं शास्ति । तदात्मना योगस्तद्योगः, तद्भावापत्तिः । मुक्तिरित्यर्थः । तद्योगं शास्ति शास्त्रं- ऽयदा ह्येवैष एतस्मिन्नदृश्ये ऽनात्म्ये ऽनिरुक्ते ऽनिलयने ऽभयं प्रतिष्ठां विन्दते । अथ सो ऽभयं गतो भवति । यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवतिऽ (तै। २।७) इति । एतदुक्तं भवति- यदैतस्मिन्नानन्दमये ऽल्पमप्यन्तरमतादात्म्यरूपं पश्यति तदा संसारभयान्न निवर्तते । यदा त्वेतस्मिन्नानन्दमये निरन्तरं तादात्म्येन प्रतितिष्ठति तदा संसारभयान्निवर्तत इति । तच्च परमात्मपरिग्रहे घटते, न प्रधानपरिग्रहे जीवपरिग्रहे वा । तस्मादानन्दमयः परमात्मेति स्थितम् । इदं त्विह वक्तव्यम्- ऽस वा एष पुरुषो ऽन्नरसमयःऽ । ऽतस्माद्वा एतस्मादन्नरसमयात् । अन्यो ऽन्तर आत्मा प्राणमयःऽ तस्मात् ऽअन्यो ऽन्तर आत्मा मनोमयःऽ तस्मात् ऽअन्यो ऽन्तर आत्मा विज्ञानमयःऽ (तै। २।१,२,३,४) इति च विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धजरतीयन्यायेन कथमिव मयटः प्राचुर्यर्थात्वं ब्रह्मविषयत्वं चाश्रीयत इति । मान्त्रवर्णिकब्रह्माधिकारादिति चेत्, न । अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः । अत्राह- युक्तमन्नमयादीनामब्रह्मत्वं, तस्मात्तस्मादान्तरस्यान्तरस्यान्यस्यान्यस्यात्मन उच्यमानत्वात् आनन्दमयात्तु न कश्चिदन्य आन्तर आत्मोच्यते, तेनानन्दमयस्य ब्रह्मत्वम्, अन्यथा प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गादिति । अत्रोच्यते- यद्यप्यन्नमयादिभ्य इवानन्दमयादन्यो ऽन्तर आत्मेति न श्रूयते तथापि नानन्दमयस्य ब्रह्मत्वं, यत आनन्दमयं प्रकृत्य श्रूयते- ऽतस्य प्रियमेव शिरः । मोदो दक्षिणः पक्षः । प्रमोद उत्तरः पक्षः । आनन्द आत्मा । ब्रह्म पुच्छं प्रतिष्ठाऽ (तै। २।५) इति । तत्र यद्ब्रह्म मन्त्रवर्णे प्रकृतम्- ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ इति, तदिह ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्युच्यते । तद्विजिज्ञापयिषयैवान्नमयादय आनन्दमयपर्यन्ताः पञ्च कोशाः कल्प्यन्ते । तत्र कुतः प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गः । नन्वानन्दमयस्यावयवत्वेन ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्युच्यते, अन्नमयादीनामिव ऽइदं पुच्छं प्रतिष्ठाऽ इत्यादि । तत्र कथं ब्रह्मणः स्वप्रधानत्वं शक्यं विज्ञातुम् । प्रकृतत्वादिति ब्रूमः । नन्वानन्दमयावयवत्वेनापि ब्रह्मणि विज्ञायमाने न प्रकृतत्वं हीयते, आनन्दमयस्य ब्रह्मत्वादिति । अत्रोच्यते- तथा सति तदेव ब्रह्मानन्दमय आत्मावयवी तदेव च ब्रह्मपुच्छं प्रतिष्ठावयव इत्यसामञ्जस्यं स्यात् । अन्यतरपरिग्रहे तु युक्तं ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्रैव ब्रह्मनिर्देश आश्रयितुं, ब्रह्मशब्दसंयोगात् । नानन्दमयवाक्ये ब्रह्मशब्दसंयोगाभावादिति । अपिच ब्रह्म पुच्छं प्रतिष्ठा इत्युक्तत्वेदमुच्यते- ऽतदप्येष श्लोको भवति । असन्नेव स भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरितिऽ (तै। २।६) अस्मिंश्च श्लोके ऽननुकृष्यानन्दमयं, ब्रह्मण एव भावाभाववेदनयोर्गुणदोषाभिधानाद्गम्यते ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्र ब्रह्मण एव स्वप्रधानत्वमिति । न चानन्दमयस्यत्मनो भावाभावाशङ्का युक्ता, प्रियमोदादिविशेषस्यानन्दमयस्य सर्वलोकप्रसिद्धत्वात् । कथं पुनः स्वप्रधानं सद्ब्रह्म, आनन्दमयस्य पुच्छत्वेन निर्दिश्यते- ऽब्रह्म पुच्छं प्रतिष्ठाऽ इति । नैष दोषः । पुच्छवत्पुच्छं , प्रतिष्ठा परायणमेकनीडं लौकिकस्यानन्दजातस्य ब्रह्मानन्द इत्येतदनेन विवक्ष्यते, नावयवत्वं, ऽएतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्तिऽ (बृह। ४।३।३२) इति श्रुत्यन्तरात् । अपिच आनन्दमयस्य ब्रह्मत्वे प्रियाद्यवयवत्वेन सविशेषं ब्रह्माभ्युपगन्तव्यम् । निर्विशेषं तु ब्रह्म वाक्यशेषे श्रूयते, वाङ्मनसयोरगोचरत्वाभिधानात्- ऽ यतो वाचो निवर्तन्ते । अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् । न बिभेति कुतश्चनेतिऽ (तै। २।९) । अपिच आनन्दप्रचुर इत्युक्ते दुःखास्तित्वमपि गम्यते प्राचुर्यस्य लोके प्रतियोग्यल्पत्वापेक्षत्वात् । तथाच सति, ऽयत्र नान्यत्पश्ति नान्यच्छृणोति नान्यद्विजानाति स भूमाऽ (छा। ७।२४।१) इति भूम्नि ब्रह्मणि तद्व्यतिरिक्ताभावश्रुतिरूपरुध्येत । प्रतिशरीरं च प्रियादिभेदादानन्दमयस्यापि भिन्नत्वम् । ब्रह्म तु न प्रतिशरीरं भिद्यते, ऽसत्यं ज्ञानमनन्तं ब्रह्मऽ (तैत्ति। २।१) इत्यानन्तश्रुतेः, ऽएको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्माऽ (श्वे। ६।११) इति च श्रुत्यन्तरात् । नचानन्दमयस्याभ्यासः श्रूयते । प्रातिपदिकार्थमात्रमेव हि सर्वत्राभ्यस्यते- ऽरसो वै सः, रसंह्येवायं लब्ध्वानन्दी भवति, को ह्येवान्यात्कः प्राण्यात्, यदेष आकाश आनन्दो न स्यात्ऽ । ऽसैषानन्दस्य मीमांसा भवतिऽ । ऽआनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चनेतिऽ (तै।२।७।८।९) ऽआनन्दो ब्रह्मेति व्यजानात्ऽ (तै। ६।६) इति च । यदिच आनन्दमयशब्दस्य ब्रह्मविषयत्वं निश्चितं भवेत्, तत उत्तरेष्वानन्दमात्रप्रयोगेष्वप्यानन्दमयाभ्यासः कल्प्येत । न त्वानन्दमयस्य ब्रह्मत्वमस्ति, प्रियशिरस्त्वादिभिर्हेतुभिरित्यवोचाम । तस्माच्छ्रुत्यन्तरे ऽविज्ञानमानन्दं ब्रह्मऽ (बृ। ३।९।२८) इत्यानन्दप्रातिपदिकस्य ब्रह्मणि प्रयोगदर्शनात्, ऽयदेष आकाश आनन्दो न स्यात्ऽ इत्यादिर्ब्रह्मविषयः प्रयोगो न त्वानन्दमयाभ्यास इत्यवगन्तव्यम् । यत्स्वयं मयडन्तस्यैवानन्दशब्दस्याभ्यासः - ऽएतमानन्दमयात्मानमुपसंक्रामतिऽ (तै। २।८) इति, न तस्य ब्रह्मविषयत्वमस्ति, विकारात्मनामेवान्नमयादीनामनात्मनामुपसंक्रमितव्यानां प्रवाहे पठितत्वात् । नन्वानन्दमयस्योपसंक्रमितव्यस्यान्नमयादिवद्ब्रह्मत्वे सति नैव विदुषो ब्रह्मप्राप्तिफलं निर्दिष्टं भवेत् । नैष दोषः । आनन्दमयोपसंक्रमणनिर्देशेनैव पुच्छप्रतिष्ठाभूतब्रह्मप्राप्तेः फलस्यनिर्दिष्टत्वात् । ऽतदप्येष श्लोको भवति । यतो वाचो निवर्तन्तेऽ इत्यदिना च प्रपञ्च्यमानत्वात् । या त्वानन्दमयसंनिधाने ऽसो ऽकामयत बहुस्यां प्रजायेयेतिऽ इयं श्रुतिरुदाहृता सा ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यनेन संनिहिततरेण ब्रह्मणा संबध्यमाना नानन्दमयस्य ब्रह्मतां प्रतिबोधयति । तदपेक्षत्वाच्चोत्तरस्य ग्रन्थस्य ऽरसो वै सःऽ इत्यादेर्नानन्दमयविषयता । ननु ऽसो ऽकामयतऽ इति ब्रह्मणि पुंलिङ्गनिर्देशो नोपपद्यते । नायं दोषः । ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतःऽ इत्यत्र पुंलिङ्गेनाप्यात्मशब्देन ब्रह्मणः प्रकृतत्वात् । या तु भार्गवी वारुणी विद्या ऽआनन्दो ब्रह्मेति व्यजानात्ऽ इति तस्यां मयडश्रवणात्, प्रियशिरस्त्वाद्यश्रवणाच्च युक्तमानन्दस्य ब्रह्मत्वम् । तस्मादणुमात्रमपि विशेषमनाश्रित्य न स्वत एव प्रियशिरस्त्वादि ब्रह्मण उपपद्यते । नचेह सविशेषं ब्रह्म प्रतिपिपादयिषितं, वाङ्मनसगोचरातिक्रमश्रुतेः । तस्मादन्नमयादिष्विवानन्दमये ऽपि विकारार्थ एव मयड्विज्ञेयो न प्राचुर्यार्थः । सूत्राणि त्वेवं व्याख्येयानि- ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्यत्र किमानन्दमयावयवत्वेन ब्रह्म विवक्ष्यत उत स्वप्रधानत्वेनेति । पुच्छशब्दादवयवत्वेनेति प्राप्त उच्यते- ऽआनन्दमयो ऽभ्यासात्ऽ आनन्दमय आत्मेत्यत्र ऽब्रह्म पुच्छं प्रतिष्ठाऽ इति स्वप्रधानमेव ब्रह्मोपदिश्यते, अभ्यसात् । ऽअसन्नेव स भवतिऽ इत्यस्मिन्निगमनाश्लोके ब्रह्मण एव केवलस्याभ्यस्यमानत्वात् । विकारशब्दान्नेति चेन्न प्राचुर्यात् । विकारशब्देनावयवशब्दो ऽभिप्रेतः । पुच्छमित्यवयवशब्दान्न स्वप्रधानत्वं ब्रह्मण इति यदुक्तं, तस्य परिहारो वक्तव्यः । अत्रोच्यते- नायं दोषः, प्राचुर्यादप्यवयवशब्दोपपत्तेः । प्राचुर्यं प्रायापत्तिः, अवयवप्राये वचनमित्यर्थः । अन्नमयादीनां हि शिरआदिषु पुच्छान्तेववयवेःषूक्ते त्वानन्दमयस्यापि शिरआदीन्यवयवान्तराण्युक्त्वावयवप्रायापत्त्या ऽब्रह्म पुच्छं प्रतिष्ठाऽ इत्याह, नावयवविवक्षया । यत्कारणमभ्यासादिति स्वप्रधानत्वं ब्रह्मणः समर्थितम् । ऽतद्धेतुव्यपदेशाच्चऽ । सर्वस्य विकारजातस्य सानन्दमयस्य कारणत्वेन ब्रह्म व्यपदिश्यते- इदं सर्वमसृजत । यदिदं किञ्च (तै। २।६) इति । नच कारणं सत् ब्रह्म स्वविकारस्यानन्दमयस्य मुख्यया वृत्त्यावयव उपपद्यते । अपराण्यपि सूत्राणि यथासंभवं पुच्छवाक्यनिर्दिष्टस्यैव ब्रह्मण उपपादकानि द्रष्टव्यानि ॥ १९॥ ---------------------- फ़्न्: अनात्म्ये ससंबन्धितयाध्यस्तेन्द्रियजातेनापञ्चाकृतभूतकार्येणात्म्येन तादात्म्यादिहीने, अनिरुक्ते निकृष्योच्यन्त इति निरुक्तानि भूतसूक्ष्माणि तैश्चाभेदवर्जिते, निःशेषलयस्थानं निलयनं माया तच्छून्ये । उदरमिति उत् अपि अरमल्पम् अन्तरं भेदम् । आनन्दमयात्त्विति ब्रह्मण्यान्तरत्वमश्रुतं पुच्छत्वं तु श्रुतमित्यर्थः । पुच्छमित्याधारत्वमात्रं प्रतिष्ठेति । एकनीडमधिष्ठानं सोपादानस्य जगतः । यतो यस्मात् वाचः शक्तिवृत्त्या तमप्रकाश्यैव निवर्तन्ते । प्रतियोगी विरोधी तस्यात्मत्वमपेक्षते । यथा विप्रमयो ग्राम इत्यत्र शूद्रल्पत्वम् । उपक्रमणं बाधः । उपसंक्रतिमितव्यानां विवेकेन त्याज्यानाम् । प्रायापत्तिरवयवक्रमस्य बुद्धौ प्राप्तिः । अन्तरधिकरणम् । २०-२१

asminn asya ca tadyogaṃ śāsti itaśca na pradhāne jīve vānandamayaśabdaḥ / yasmādasminnānandamaye prakṛta ātmani pratibuddhasyāsya jīvasya tadyogaṃ śāsti / tadātmanā yogastadyogaḥ, tadbhāvāpattiḥ / muktirityarthaḥ / tadyogaṃ śāsti śāstraṃ- 'yadā hyevaiṣa etasminnadṛśye 'nātmye 'nirukte 'nilayane 'bhayaṃ pratiṣṭhāṃ vindate / atha so 'bhayaṃ gato bhavati / yadā hyevaiṣa etasminnudaramantaraṃ kurute / atha tasya bhayaṃ bhavati' (tai. 2.7) iti / etaduktaṃ bhavati- yadaitasminnānandamaye 'lpamapyantaramatādātmyarūpaṃ paśyati tadā saṃsārabhayānna nivartate / yadā tvetasminnānandamaye nirantaraṃ tādātmyena pratitiṣṭhati tadā saṃsārabhayānnivartata iti / tacca paramātmaparigrahe ghaṭate, na pradhānaparigrahe jīvaparigrahe vā / tasmādānandamayaḥ paramātmeti sthitam / idaṃ tviha vaktavyam- 'sa vā eṣa puruṣo 'nnarasamayaḥ' / 'tasmādvā etasmādannarasamayāt / anyo 'ntara ātmā prāṇamayaḥ' tasmāt 'anyo 'ntara ātmā manomayaḥ' tasmāt 'anyo 'ntara ātmā vijñānamayaḥ' (tai. 2.1,2,3,4) iti ca vikārārthe mayaṭpravāhe satyānandamaya evākasmādardhajaratīyanyāyena kathamiva mayaṭaḥ prācuryarthātvaṃ brahmaviṣayatvaṃ cāśrīyata iti / māntravarṇikabrahmādhikārāditi cet, na / annamayādīnāmapi tarhi brahmatvaprasaṅgaḥ / atrāha- yuktamannamayādīnāmabrahmatvaṃ, tasmāttasmādāntarasyāntarasyānyasyānyasyātmana ucyamānatvāt ānandamayāttu na kaścidanya āntara ātmocyate, tenānandamayasya brahmatvam, anyathā prakṛtahānāprakṛtaprakriyāprasaṅgāditi / atrocyate- yadyapyannamayādibhya ivānandamayādanyo 'ntara ātmeti na śrūyate tathāpi nānandamayasya brahmatvaṃ, yata ānandamayaṃ prakṛtya śrūyate- 'tasya priyameva śiraḥ / modo dakṣiṇaḥ pakṣaḥ / pramoda uttaraḥ pakṣaḥ / ānanda ātmā / brahma pucchaṃ pratiṣṭhā' (tai. 2.5) iti / tatra yadbrahma mantravarṇe prakṛtam- 'satyaṃ jñānamanantaṃ brahma' iti, tadiha 'brahma pucchaṃ pratiṣṭhā' ityucyate / tadvijijñāpayiṣayaivānnamayādaya ānandamayaparyantāḥ pañca kośāḥ kalpyante / tatra kutaḥ prakṛtahānāprakṛtaprakriyāprasaṅgaḥ / nanvānandamayasyāvayavatvena 'brahma pucchaṃ pratiṣṭhā' ityucyate, annamayādīnāmiva 'idaṃ pucchaṃ pratiṣṭhā' ityādi / tatra kathaṃ brahmaṇaḥ svapradhānatvaṃ śakyaṃ vijñātum / prakṛtatvāditi brūmaḥ / nanvānandamayāvayavatvenāpi brahmaṇi vijñāyamāne na prakṛtatvaṃ hīyate, ānandamayasya brahmatvāditi / atrocyate- tathā sati tadeva brahmānandamaya ātmāvayavī tadeva ca brahmapucchaṃ pratiṣṭhāvayava ityasāmañjasyaṃ syāt / anyataraparigrahe tu yuktaṃ 'brahma pucchaṃ pratiṣṭhā' ityatraiva brahmanirdeśa āśrayituṃ, brahmaśabdasaṃyogāt / nānandamayavākye brahmaśabdasaṃyogābhāvāditi / apica brahma pucchaṃ pratiṣṭhā ityuktatvedamucyate- 'tadapyeṣa śloko bhavati / asanneva sa bhavati / asadbrahmeti veda cet / asti brahmeti cedveda / santamenaṃ tato viduriti' (tai. 2.6) asmiṃśca śloke 'nanukṛṣyānandamayaṃ, brahmaṇa eva bhāvābhāvavedanayorguṇadoṣābhidhānādgamyate 'brahma pucchaṃ pratiṣṭhā' ityatra brahmaṇa eva svapradhānatvamiti / na cānandamayasyatmano bhāvābhāvāśaṅkā yuktā, priyamodādiviśeṣasyānandamayasya sarvalokaprasiddhatvāt / kathaṃ punaḥ svapradhānaṃ sadbrahma, ānandamayasya pucchatvena nirdiśyate- 'brahma pucchaṃ pratiṣṭhā' iti / naiṣa doṣaḥ / pucchavatpucchaṃ , pratiṣṭhā parāyaṇamekanīḍaṃ laukikasyānandajātasya brahmānanda ityetadanena vivakṣyate, nāvayavatvaṃ, 'etasyaivānandasyānyāni bhūtāni mātrāmupajīvanti' (bṛha. 4.3.32) iti śrutyantarāt / apica ānandamayasya brahmatve priyādyavayavatvena saviśeṣaṃ brahmābhyupagantavyam / nirviśeṣaṃ tu brahma vākyaśeṣe śrūyate, vāṅmanasayoragocaratvābhidhānāt- ' yato vāco nivartante / aprāpya manasā saha / ānandaṃ brahmaṇo vidvān / na bibheti kutaścaneti' (tai. 2.9) / apica ānandapracura ityukte duḥkhāstitvamapi gamyate prācuryasya loke pratiyogyalpatvāpekṣatvāt / tathāca sati, 'yatra nānyatpaśti nānyacchṛṇoti nānyadvijānāti sa bhūmā' (chā. 7.24.1) iti bhūmni brahmaṇi tadvyatiriktābhāvaśrutirūparudhyeta / pratiśarīraṃ ca priyādibhedādānandamayasyāpi bhinnatvam / brahma tu na pratiśarīraṃ bhidyate, 'satyaṃ jñānamanantaṃ brahma' (taitti. 2.1) ityānantaśruteḥ, 'eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā' (śve. 6.11) iti ca śrutyantarāt / nacānandamayasyābhyāsaḥ śrūyate / prātipadikārthamātrameva hi sarvatrābhyasyate- 'raso vai saḥ, rasaṃhyevāyaṃ labdhvānandī bhavati, ko hyevānyātkaḥ prāṇyāt, yadeṣa ākāśa ānando na syāt' / 'saiṣānandasya mīmāṃsā bhavati' / 'ānandaṃ brahmaṇo vidvānna bibheti kutaścaneti' (tai.2.7.8.9) 'ānando brahmeti vyajānāt' (tai. 6.6) iti ca / yadica ānandamayaśabdasya brahmaviṣayatvaṃ niścitaṃ bhavet, tata uttareṣvānandamātraprayogeṣvapyānandamayābhyāsaḥ kalpyeta / na tvānandamayasya brahmatvamasti, priyaśirastvādibhirhetubhirityavocāma / tasmācchrutyantare 'vijñānamānandaṃ brahma' (bṛ. 3.9.28) ityānandaprātipadikasya brahmaṇi prayogadarśanāt, 'yadeṣa ākāśa ānando na syāt' ityādirbrahmaviṣayaḥ prayogo na tvānandamayābhyāsa ityavagantavyam / yatsvayaṃ mayaḍantasyaivānandaśabdasyābhyāsaḥ - 'etamānandamayātmānamupasaṃkrāmati' (tai. 2.8) iti, na tasya brahmaviṣayatvamasti, vikārātmanāmevānnamayādīnāmanātmanāmupasaṃkramitavyānāṃ pravāhe paṭhitatvāt / nanvānandamayasyopasaṃkramitavyasyānnamayādivadbrahmatve sati naiva viduṣo brahmaprāptiphalaṃ nirdiṣṭaṃ bhavet / naiṣa doṣaḥ / ānandamayopasaṃkramaṇanirdeśenaiva pucchapratiṣṭhābhūtabrahmaprāpteḥ phalasyanirdiṣṭatvāt / 'tadapyeṣa śloko bhavati / yato vāco nivartante' ityadinā ca prapañcyamānatvāt / yā tvānandamayasaṃnidhāne 'so 'kāmayata bahusyāṃ prajāyeyeti' iyaṃ śrutirudāhṛtā sā 'brahma pucchaṃ pratiṣṭhā' ityanena saṃnihitatareṇa brahmaṇā saṃbadhyamānā nānandamayasya brahmatāṃ pratibodhayati / tadapekṣatvāccottarasya granthasya 'raso vai saḥ' ityādernānandamayaviṣayatā / nanu 'so 'kāmayata' iti brahmaṇi puṃliṅganirdeśo nopapadyate / nāyaṃ doṣaḥ / 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ' ityatra puṃliṅgenāpyātmaśabdena brahmaṇaḥ prakṛtatvāt / yā tu bhārgavī vāruṇī vidyā 'ānando brahmeti vyajānāt' iti tasyāṃ mayaḍaśravaṇāt, priyaśirastvādyaśravaṇācca yuktamānandasya brahmatvam / tasmādaṇumātramapi viśeṣamanāśritya na svata eva priyaśirastvādi brahmaṇa upapadyate / naceha saviśeṣaṃ brahma pratipipādayiṣitaṃ, vāṅmanasagocarātikramaśruteḥ / tasmādannamayādiṣvivānandamaye 'pi vikārārtha eva mayaḍvijñeyo na prācuryārthaḥ / sūtrāṇi tvevaṃ vyākhyeyāni- 'brahma pucchaṃ pratiṣṭhā' ityatra kimānandamayāvayavatvena brahma vivakṣyata uta svapradhānatveneti / pucchaśabdādavayavatveneti prāpta ucyate- 'ānandamayo 'bhyāsāt' ānandamaya ātmetyatra 'brahma pucchaṃ pratiṣṭhā' iti svapradhānameva brahmopadiśyate, abhyasāt / 'asanneva sa bhavati' ityasminnigamanāśloke brahmaṇa eva kevalasyābhyasyamānatvāt / vikāraśabdānneti cenna prācuryāt / vikāraśabdenāvayavaśabdo 'bhipretaḥ / pucchamityavayavaśabdānna svapradhānatvaṃ brahmaṇa iti yaduktaṃ, tasya parihāro vaktavyaḥ / atrocyate- nāyaṃ doṣaḥ, prācuryādapyavayavaśabdopapatteḥ / prācuryaṃ prāyāpattiḥ, avayavaprāye vacanamityarthaḥ / annamayādīnāṃ hi śiraādiṣu pucchāntevavayaveḥṣūkte tvānandamayasyāpi śiraādīnyavayavāntarāṇyuktvāvayavaprāyāpattyā 'brahma pucchaṃ pratiṣṭhā' ityāha, nāvayavavivakṣayā / yatkāraṇamabhyāsāditi svapradhānatvaṃ brahmaṇaḥ samarthitam / 'taddhetuvyapadeśācca' / sarvasya vikārajātasya sānandamayasya kāraṇatvena brahma vyapadiśyate- idaṃ sarvamasṛjata / yadidaṃ kiñca (tai. 2.6) iti / naca kāraṇaṃ sat brahma svavikārasyānandamayasya mukhyayā vṛttyāvayava upapadyate / aparāṇyapi sūtrāṇi yathāsaṃbhavaṃ pucchavākyanirdiṣṭasyaiva brahmaṇa upapādakāni draṣṭavyāni // 19// ---------------------- FN: anātmye sasaṃbandhitayādhyastendriyajātenāpañcākṛtabhūtakāryeṇātmyena tādātmyādihīne, anirukte nikṛṣyocyanta iti niruktāni bhūtasūkṣmāṇi taiścābhedavarjite, niḥśeṣalayasthānaṃ nilayanaṃ māyā tacchūnye / udaramiti ut api aramalpam antaraṃ bhedam / ānandamayāttviti brahmaṇyāntaratvamaśrutaṃ pucchatvaṃ tu śrutamityarthaḥ / pucchamityādhāratvamātraṃ pratiṣṭheti / ekanīḍamadhiṣṭhānaṃ sopādānasya jagataḥ / yato yasmāt vācaḥ śaktivṛttyā tamaprakāśyaiva nivartante / pratiyogī virodhī tasyātmatvamapekṣate / yathā vipramayo grāma ityatra śūdralpatvam / upakramaṇaṃ bādhaḥ / upasaṃkratimitavyānāṃ vivekena tyājyānām / prāyāpattiravayavakramasya buddhau prāptiḥ / antaradhikaraṇam / 20-21

Sanskrit only: no published translation is held for this verse.

अन्तस् तद्धर्मोपदेशात् इदमाम्नायते- ऽअथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्वं एव सुवर्णःऽ ऽतस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स सर्वेभ्यः पाप्मभ्य उदित उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदऽ ऽइत्यधिदैवतम्ऽ ( छा। १।६।७।८) । ऽअथाध्यात्मम्ऽ ऽअथ य एषो ऽन्तरपक्षिणि पुरुषो दृश्यतेऽ (छा। १।७।१।५) इत्यादि । तत्र संशयः- किं विद्याकर्मातिशयवशात्प्राप्तोत्कर्षः कश्चित्संसारी सूर्यमण्डले चक्षुषि चोपास्यात्वेन श्रूयते किंवा नित्यसिद्धः परमेश्वर इति । किं तावत्प्राप्तं, संसारीति । कुतः रूपवत्त्वश्रवणात् । आदित्यपुरुषे तावत् ऽहिरण्यश्मश्रुःऽ इत्यादि रूपमुदाहृतम् । अक्षिपुरुषे ऽपि तदेवातिदेशेन प्राप्यते- ऽतस्यैतस्य तदेव रूपं यदमुष्य रूपम्ऽ इति । नच परमेश्वरस्य रूपवत्त्वं युक्तम्, ऽअशब्दर्मस्पामरूपमव्ययम्ऽ (का। १।३।१५) इति श्रुतेः, आधारश्रवणाच्च- ऽय एषो ऽन्तरादित्येऽ, ऽय एषो ऽन्तरक्षिणिऽ इति । नह्यनाधारस्य स्वमहिमप्रतिष्ठस्य सर्वव्यापिनः परमेश्वरस्याधार उपदिश्येत । ऽस भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्निऽ (छा। ७।२४।१) इति । ऽआकाशवत्सर्वगतश्च नित्यःऽ इति च श्रुती भवतः । ऐश्वर्यमर्यादाश्रुतेश्च । ऽ स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्टे देवकामानां चऽ (छां १।६।८) इत्यादित्यपुरुषस्यैश्वर्यमर्यादा । ऽस एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चऽ इत्यक्षिपुरुषस्य । नच परमेश्वरस्य मर्यादावदैश्वर्यं युक्तम्, ऽएष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधारण एषां लोकानामसंभेदायऽ (बृ। ४।४।२२) इत्यविशेषश्रुतेः । तस्मान्नाक्ष्यादित्ययोरन्तः परमेश्वर इत्येवं प्राप्ते ब्रूमः- ऽअन्तस्तद्धर्मोपदेशात्ऽ इति, ऽय एषो ऽन्तरादित्येऽ ऽय एषो ऽन्तरक्षिणिऽ इति च श्रूयमाणः पुरुषः परमेश्वर एव, न संसारी । कुतः, तद्धर्मोपदेशात् । तस्य हि परमेश्वरस्य धर्मा इहोपदिष्टाः । तद्यथा- ऽतस्योदिति नामऽ इति श्रावयित्वा अस्यादित्यपुरुषस्य नाम ऽस एष सर्वेभ्यः पाप्मभ्य उदितःऽ इति सर्वपाप्मापगमेन निर्वक्ति । तदेव च कृतनिर्वचनं नामाक्षिपुरुषस्याप्यतिदिशति- ऽयन्नाम तन्नामऽ इति । सर्वपाप्मापगमश्च परमात्मन एव श्रूयते- ऽय आत्मापहतपाप्माऽ (छां। ८।७।१) इत्यादौ । तथा चाक्षुषे पुरुषे ऽसैवर्क्तत्समास तदुक्थं तद्यजुस्तद्ब्रह्मऽ इत्यृक्समासाद्यात्मकतां निर्धारयति । सा च परमेश्वरस्योपपद्यते, सर्वकारणत्वात्सर्वात्मकत्वोपपत्तेः । पृथिव्यग्न्याद्यात्मके चाधिदैवतं ऋक्सामे, वाक्प्राणाद्यात्मके चाध्यात्ममनुक्रम्याह- ऽतस्यर्क्च साम च गेष्णौऽ इत्यधिदैवतम् । तथाध्यात्ममपि- ऽ यावमुष्य गेष्णौ तौ गेष्णौऽ इति । तच्च सर्वात्मन एवोपपद्यते । तद्य इमे वीणायां गायन्त्येतं ते गायन्ति तस्मात्ते धनसनयःऽ (छा। १।७।६) इति च लौकिकेष्वपि गानेष्वस्यैव गीयमानत्वं दर्शयति । तच्च परमेश्वरपरिग्रहे धटते, ऽयद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेज्ॐशसंभवम् । (१०।४१) इति भगवद्गीतादर्शनात् । लोककामेशितितृत्वमपि निरङ् कुशं श्रूयमाणं परमेश्वरं गमयति । यत्तूक्तं हिरण्यश्मश्रुत्वादिरूपश्रवणं परमेश्वरे नोपपद्यत इति, अत्र ब्रूमः- स्यात्परमेश्वरस्यापीच्छावशान्मायामयं रूपं साधकानुग्रहार्थम् । ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद । सर्वभूतगुणैर्युक्तं मैवं मां ज्ञातुमर्हसिऽ इति स्मरणात् । अपिच यत्र तु निरस्तसर्वविशेषं पारमेश्वरं रूपमुपदिश्यते, भवति तत्र शास्त्रम्- ऽशब्दर्मस्पर्शमरूपमव्ययम्ऽ इत्यादि । सर्वकारणत्त्वात्तु विकारधर्मैरपि कैश्चिद्विशिष्टः परमेश्वर उपास्यत्वेन निर्दिश्यते- ऽसर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसःऽ (छां ३।१४।२) इत्यादिना । तथा हिरण्यश्मश्रुत्वादिनिर्देशो ऽपि भविष्यति । यदप्याधारश्रवणान्न परमेश्वर इति, अत्रोच्यते- स्वमहिमप्रतिष्ठस्याप्याधारविशेषोपदेश उपासनार्थो भविष्यति, सर्वगतत्वाद्ब्रह्मणो व्योमवत्सर्वान्तरत्वोपपत्तेः । ऐश्वर्यमर्यादाश्रवणमप्यध्यात्माधिदैवतविभागापेक्षमुपासनार्थमेव । तस्मात्परमेश्वर एवाक्ष्यादित्ययोरन्तरुपदिश्यते ॥ २० ॥ ---------------------- फ़्न्: अन्तरादित्ये आदित्यमण्डलमध्ये । हिरण्मयो ज्योतिर्मयः । अप्राणखान्नखाग्रमभिव्याप्य । कपेर्मर्कटस्यासः पृष्ट(पुच्छ) भागो ऽत्यन्ततेजस्वी तत्तुल्यं पुण्डरीकं यथात्यन्तदीप्तिमत्तथास्य देवस्याक्षिणी प्रकृष्टदीप्तिमती, तस्य उदितीति उदित उद्गतः सकार्यसर्वपापास्पृष्ट इत्यर्थः । स एष इत्याधिदैविकपुरुषोक्तिः । अमुष्मादादित्यादूर्ध्वगा ये लोकास्तेषामीशिता ये च देवानां कामा भोगास्तेषां चेत्यर्थः । यौ सर्वात्मकऋक्सामात्मकौ तावमुष्यादित्यरथस्य गेष्णौ पादपर्वणी । सनिर्याञ्चायां ।

antas taddharmopadeśāt idamāmnāyate- 'atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrurhiraṇyakeśa āpraṇakhātsarvaṃ eva suvarṇaḥ' 'tasya yathā kapyāsaṃ puṇḍarīkamevamakṣiṇī tasyoditi nāma sa sarvebhyaḥ pāpmabhya udita udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda' 'ityadhidaivatam' ( chā. 1.6.7.8) / 'athādhyātmam' 'atha ya eṣo 'ntarapakṣiṇi puruṣo dṛśyate' (chā. 1.7.1.5) ityādi / tatra saṃśayaḥ- kiṃ vidyākarmātiśayavaśātprāptotkarṣaḥ kaścitsaṃsārī sūryamaṇḍale cakṣuṣi copāsyātvena śrūyate kiṃvā nityasiddhaḥ parameśvara iti / kiṃ tāvatprāptaṃ, saṃsārīti / kutaḥ rūpavattvaśravaṇāt / ādityapuruṣe tāvat 'hiraṇyaśmaśruḥ' ityādi rūpamudāhṛtam / akṣipuruṣe 'pi tadevātideśena prāpyate- 'tasyaitasya tadeva rūpaṃ yadamuṣya rūpam' iti / naca parameśvarasya rūpavattvaṃ yuktam, 'aśabdarmaspāmarūpamavyayam' (kā. 1.3.15) iti śruteḥ, ādhāraśravaṇācca- 'ya eṣo 'ntarāditye', 'ya eṣo 'ntarakṣiṇi' iti / nahyanādhārasya svamahimapratiṣṭhasya sarvavyāpinaḥ parameśvarasyādhāra upadiśyeta / 'sa bhagavaḥ kasminpratiṣṭhita iti sve mahimni' (chā. 7.24.1) iti / 'ākāśavatsarvagataśca nityaḥ' iti ca śrutī bhavataḥ / aiśvaryamaryādāśruteśca / ' sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣṭe devakāmānāṃ ca' (chāṃ 1.6.8) ityādityapuruṣasyaiśvaryamaryādā / 'sa eṣa ye caitasmādarvāñco lokāsteṣāṃ ceṣṭe manuṣyakāmānāṃ ca' ityakṣipuruṣasya / naca parameśvarasya maryādāvadaiśvaryaṃ yuktam, 'eṣa sarveśvara eṣa bhūtādhipatireṣa bhūtapāla eṣa seturvidhāraṇa eṣāṃ lokānāmasaṃbhedāya' (bṛ. 4.4.22) ityaviśeṣaśruteḥ / tasmānnākṣyādityayorantaḥ parameśvara ityevaṃ prāpte brūmaḥ- 'antastaddharmopadeśāt' iti, 'ya eṣo 'ntarāditye' 'ya eṣo 'ntarakṣiṇi' iti ca śrūyamāṇaḥ puruṣaḥ parameśvara eva, na saṃsārī / kutaḥ, taddharmopadeśāt / tasya hi parameśvarasya dharmā ihopadiṣṭāḥ / tadyathā- 'tasyoditi nāma' iti śrāvayitvā asyādityapuruṣasya nāma 'sa eṣa sarvebhyaḥ pāpmabhya uditaḥ' iti sarvapāpmāpagamena nirvakti / tadeva ca kṛtanirvacanaṃ nāmākṣipuruṣasyāpyatidiśati- 'yannāma tannāma' iti / sarvapāpmāpagamaśca paramātmana eva śrūyate- 'ya ātmāpahatapāpmā' (chāṃ. 8.7.1) ityādau / tathā cākṣuṣe puruṣe 'saivarktatsamāsa tadukthaṃ tadyajustadbrahma' ityṛksamāsādyātmakatāṃ nirdhārayati / sā ca parameśvarasyopapadyate, sarvakāraṇatvātsarvātmakatvopapatteḥ / pṛthivyagnyādyātmake cādhidaivataṃ ṛksāme, vākprāṇādyātmake cādhyātmamanukramyāha- 'tasyarkca sāma ca geṣṇau' ityadhidaivatam / tathādhyātmamapi- ' yāvamuṣya geṣṇau tau geṣṇau' iti / tacca sarvātmana evopapadyate / tadya ime vīṇāyāṃ gāyantyetaṃ te gāyanti tasmātte dhanasanayaḥ' (chā. 1.7.6) iti ca laukikeṣvapi gāneṣvasyaiva gīyamānatvaṃ darśayati / tacca parameśvaraparigrahe dhaṭate, 'yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā / tattadevāvagaccha tvaṃ mama tejoṃśasaṃbhavam / (10.41) iti bhagavadgītādarśanāt / lokakāmeśititṛtvamapi niraṅ kuśaṃ śrūyamāṇaṃ parameśvaraṃ gamayati / yattūktaṃ hiraṇyaśmaśrutvādirūpaśravaṇaṃ parameśvare nopapadyata iti, atra brūmaḥ- syātparameśvarasyāpīcchāvaśānmāyāmayaṃ rūpaṃ sādhakānugrahārtham / 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada / sarvabhūtaguṇairyuktaṃ maivaṃ māṃ jñātumarhasi' iti smaraṇāt / apica yatra tu nirastasarvaviśeṣaṃ pārameśvaraṃ rūpamupadiśyate, bhavati tatra śāstram- 'śabdarmasparśamarūpamavyayam' ityādi / sarvakāraṇattvāttu vikāradharmairapi kaiścidviśiṣṭaḥ parameśvara upāsyatvena nirdiśyate- 'sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ' (chāṃ 3.14.2) ityādinā / tathā hiraṇyaśmaśrutvādinirdeśo 'pi bhaviṣyati / yadapyādhāraśravaṇānna parameśvara iti, atrocyate- svamahimapratiṣṭhasyāpyādhāraviśeṣopadeśa upāsanārtho bhaviṣyati, sarvagatatvādbrahmaṇo vyomavatsarvāntaratvopapatteḥ / aiśvaryamaryādāśravaṇamapyadhyātmādhidaivatavibhāgāpekṣamupāsanārthameva / tasmātparameśvara evākṣyādityayorantarupadiśyate // 20 // ---------------------- FN: antarāditye ādityamaṇḍalamadhye / hiraṇmayo jyotirmayaḥ / aprāṇakhānnakhāgramabhivyāpya / kapermarkaṭasyāsaḥ pṛṣṭa(puccha) bhāgo 'tyantatejasvī tattulyaṃ puṇḍarīkaṃ yathātyantadīptimattathāsya devasyākṣiṇī prakṛṣṭadīptimatī, tasya uditīti udita udgataḥ sakāryasarvapāpāspṛṣṭa ityarthaḥ / sa eṣa ityādhidaivikapuruṣoktiḥ / amuṣmādādityādūrdhvagā ye lokāsteṣāmīśitā ye ca devānāṃ kāmā bhogāsteṣāṃ cetyarthaḥ / yau sarvātmakaṛksāmātmakau tāvamuṣyādityarathasya geṣṇau pādaparvaṇī / saniryāñcāyāṃ /

Sanskrit only: no published translation is held for this verse.

भेदव्यपदेशाच् चान्यः अस्ति चादित्यादिशरीराभिमानिभ्यो जीवेभ्यो ऽन्य ईश्वरो ऽन्तर्यामी, ऽय आदित्ये तिष्ठन्नादित्यान्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतःऽ (बृ। ३।७।९) इति श्रुत्यन्तरे भेदव्यपदेशात् । तत्र हि ऽआदित्यादन्तरो यमादित्यो न वेदऽ इति वेदितुरादित्याद्विज्ञानात्मनो ऽन्तर्यामी स्पष्टं निर्दिश्यते । स एवेहाप्यन्तरादित्ये पुरुषो भवितुमर्हति, श्रुतिसामान्यात् । तस्मात्परमेश्वर एवेहोपदिश्यत इति सिद्धम् । ८ आकाशाधिकरणम् । सू। २२

bhedavyapadeśāc cānyaḥ asti cādityādiśarīrābhimānibhyo jīvebhyo 'nya īśvaro 'ntaryāmī, 'ya āditye tiṣṭhannādityāntaro yamādityo na veda yasyādityaḥ śarīraṃ ya ādityamantaro yamayatyeṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.9) iti śrutyantare bhedavyapadeśāt / tatra hi 'ādityādantaro yamādityo na veda' iti vediturādityādvijñānātmano 'ntaryāmī spaṣṭaṃ nirdiśyate / sa evehāpyantarāditye puruṣo bhavitumarhati, śrutisāmānyāt / tasmātparameśvara evehopadiśyata iti siddham / 8 ākāśādhikaraṇam / sū. 22

Sanskrit only: no published translation is held for this verse.

आकाशस् तल्लिङ्गात् इदमामनन्ति- ऽअस्य लोकस्य का गतिरित्याकाश इति होवाच सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्ऽ (छान्दो। १।९।१) इति । तत्र संशयः- किमाकाशशब्देन परं ब्रह्माभिधीयत उत भूताकाशमिति । कुतः संशयः, उभयत्र प्रयोगदर्शनात् । भूतविशेषे तावत्सुप्रसिद्धो लोकवेदयोराकाशशब्दः । ब्रह्मण्यपि क्वचित्प्रयुज्यमानो दृश्यते । यत्र वाक्यशेषवशादसाधारणश्रवणाद्वा निर्धारितं ब्रह्म भवति, यथा- ऽयदेष आकाश आनन्दो न स्यात्ऽ (तै। २।७) इति ऽआकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्मऽ (छा। ८।१४।१) इति चैवमादौ । अतः संशयः । किं पुनरत्र युक्तं, भूताकाशमिति । कुतः, तद्धि प्रसिद्धतरेण प्रयोगेण शीघ्रं बुद्धिमारोहति । नचायमाकाशशब्द उभयोः साधारणः शक्यो विज्ञातुं, अनेकार्थत्वप्रसङ्गात् । तस्माद्ब्रह्मणि गौण आकाशशब्दो भवितुमर्हति । विभुत्वादिभिर्हि बहुभिर्धर्मैः सदृशमाकाशेन ब्रह्म भवति । नच मुख्यसंभवे गौणोर्ऽथो ग्रहणमर्हति । संभवति चेह मुख्यस्यैवाकाशस्य ग्रहणम् । ननु भूताकाशपरिग्रहे वाक्यशेषो नोपपद्यते- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ इत्यादिः । नैष दोषः । भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वोपपत्तेः । विज्ञायते हि- ऽतस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निःऽ (तै। २।१) इत्यादि । ज्यायस्त्वपरायणत्वे अपि भूतान्तरापेक्षयोपपद्येते भूताकाशस्यापि । तस्मादाकाशशब्देन भूताकाशस्य ग्रहणमित्येवं प्राप्ते ब्रूमः- ऽआकाशस्तल्लिङ्गात्ऽ आकाशशब्देन ब्रह्मणो ग्रहणं युक्तम् । कुतः, तल्लिङ्गात् । परस्य हि ब्रह्मण इदं लिङ्गम्- ऽसर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्तेऽ इति । परस्माद्धि ब्रह्मणो भूतानामुत्पत्तिरिति वेदान्तेषु मर्यादा । ननु भूताकाशस्यापि वाय्वादिक्रमेण कारणत्वं दर्शितम् । सत्यं दर्शितम् । तथापि मुलकारणस्य ब्रह्मणो ऽपरिग्रहादाकाशादेवेत्यवधारणं, सर्वाणीति च भूतविशेषणं नानुकूलं स्यात् । तथा ऽआकाशं प्रत्यस्तं यन्तिऽ इति ब्रह्मलिङ्गं ऽआकाशो ह्येवैभ्यो ज्यायानाकाशः परायणम्ऽ इति च ज्यायस्त्वपरायणत्वे । ज्यायस्त्वं ह्यानापेक्षिकं परमात्मन्येवैकस्मिन्नाम्नातम्- ऽज्यायान्पृथिव्या ज्यायमन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यःऽ (छां ३।१४।३) इति । तथा परायणत्वमपि परमकारणत्वात्परमात्मन्येवोपपन्नतरम् । श्रुतिश्च भवति- ऽविज्ञानमानन्दं ब्रह्म रातेर्दातुः परायणम्ऽ (बृ। ३।९।२८) इति । अपि चान्तवत्त्वदोषेण शालावत्यस्य पक्षं निन्दित्वा, अनन्तं किञ्चिद्वक्तुकामेन जैवलिना आकाशः परिगृहीतः, तं चाकाशमुद्गीथे संपाद्योपसंहरति- ऽस एष परोवरीयानुद्गीथः स एषो ऽनन्तःऽ (छां १।९।२) इति । तच्चानन्त्यं ब्रह्मलिङ्गम् । यत्पुनरुक्तं भूताकाशं प्रसिद्धिबलेन प्रथमतरं प्रतीयत इति, अत्र ब्रूमः- प्रथमतरं प्रतीतमपि सत् वाक्यशेषगतान्ब्रह्मगुणान्दृष्ट्वा न परिगृह्यते । दर्शितश्च ब्रह्मण्यप्याकाशशब्दः- ऽआकाशो वै नाम नामरूपयोर्निर्वहिताऽ इत्यादौ । तथाकाशपर्यायवाचिनामपि ब्रह्मणि प्रयोगो दृश्यते- ऽऋचो अक्षरे परमे व्योमन्देवा अधि विश्वे निषेदुःऽ (ऋसं १।१६४।३९) ऽसैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिताऽ (तै। ३।६) ऽॐ कं ब्रह्म खंब्रह्मऽ (छां ४।१०।५) ऽखं पुराणम्ऽ (बृ। ५।१) इति चैवमादौ । वाक्योपक्रमे ऽपि वर्तमानस्याकाशशब्दस्य वाक्यशेषवशाद्युक्ता ब्रह्मविषयत्वावधारणा । ऽअग्निरधीते ऽनुवाकम्ऽ इति हि वाक्योपक्रमगतो ऽप्यग्निशब्दो माणवकविषयो दृश्यते । तस्मादाकाशशब्दं ब्रह्मेति सिद्धम् ॥ २२ ॥ ---------------------- फ़्न्: वेदितुः प्रमातुः, विज्ञानात्मनः अन्तःकरणोपहितात् । अस्येति शालावत्यो ब्राह्मणो जैवराजं पृच्छति । निर्वहिता उत्पत्तिस्थितिहेतुः, ते नामरूपे यदन्तरा यस्मादन्ये यस्य वा मध्ये स्तः तन्नामरूपास्पृष्टं ब्रह्मेति वाक्योषादत्राकाशो ब्रह्मेत्यर्थः । रातेर्धनस्य दातुः यजमानस्य । देशतो ऽनन्तत्वं परत्वं, गुणत उत्कृष्टत्वं वरीयस्त्वं, कालतो वस्तुतश्चापरिच्छिन्नत्वमानन्त्यम् । परेभ्यः स्वरादिभ्यो ऽतिशयेन श्रैष्ठ्यं वा परोवरीयस्त्वम् । व्योमन् व्योम्नि, परमे प्रकृष्टे, अश्ररे कूटस्थे ब्रह्मणि, ऋचो ऋगुपक्षिताः सर्वे वेदा ज्ञापकाः सन्ति । यस्मिन्नक्षरे विश्वेदेवा अधिनिषेदुरधिष्ठिताः । ९ प्राणाधिकरणम् । सू। २३

ākāśas talliṅgāt idamāmananti- 'asya lokasya kā gatirityākāśa iti hovāca sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyanta ākāśaṃ pratyastaṃ yantyākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' (chāndo. 1.9.1) iti / tatra saṃśayaḥ- kimākāśaśabdena paraṃ brahmābhidhīyata uta bhūtākāśamiti / kutaḥ saṃśayaḥ, ubhayatra prayogadarśanāt / bhūtaviśeṣe tāvatsuprasiddho lokavedayorākāśaśabdaḥ / brahmaṇyapi kvacitprayujyamāno dṛśyate / yatra vākyaśeṣavaśādasādhāraṇaśravaṇādvā nirdhāritaṃ brahma bhavati, yathā- 'yadeṣa ākāśa ānando na syāt' (tai. 2.7) iti 'ākāśo vai nāma nāmarūpayornirvahitā te yadantarā tadbrahma' (chā. 8.14.1) iti caivamādau / ataḥ saṃśayaḥ / kiṃ punaratra yuktaṃ, bhūtākāśamiti / kutaḥ, taddhi prasiddhatareṇa prayogeṇa śīghraṃ buddhimārohati / nacāyamākāśaśabda ubhayoḥ sādhāraṇaḥ śakyo vijñātuṃ, anekārthatvaprasaṅgāt / tasmādbrahmaṇi gauṇa ākāśaśabdo bhavitumarhati / vibhutvādibhirhi bahubhirdharmaiḥ sadṛśamākāśena brahma bhavati / naca mukhyasaṃbhave gauṇor'tho grahaṇamarhati / saṃbhavati ceha mukhyasyaivākāśasya grahaṇam / nanu bhūtākāśaparigrahe vākyaśeṣo nopapadyate- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' ityādiḥ / naiṣa doṣaḥ / bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvopapatteḥ / vijñāyate hi- 'tasmādvā etasmādātmana ākāśaḥ saṃbhūtaḥ / ākāśādvāyuḥ / vāyoragniḥ' (tai. 2.1) ityādi / jyāyastvaparāyaṇatve api bhūtāntarāpekṣayopapadyete bhūtākāśasyāpi / tasmādākāśaśabdena bhūtākāśasya grahaṇamityevaṃ prāpte brūmaḥ- 'ākāśastalliṅgāt' ākāśaśabdena brahmaṇo grahaṇaṃ yuktam / kutaḥ, talliṅgāt / parasya hi brahmaṇa idaṃ liṅgam- 'sarvāṇi ha vā imāni bhūtānyākāśādeva samutpadyante' iti / parasmāddhi brahmaṇo bhūtānāmutpattiriti vedānteṣu maryādā / nanu bhūtākāśasyāpi vāyvādikrameṇa kāraṇatvaṃ darśitam / satyaṃ darśitam / tathāpi mulakāraṇasya brahmaṇo 'parigrahādākāśādevetyavadhāraṇaṃ, sarvāṇīti ca bhūtaviśeṣaṇaṃ nānukūlaṃ syāt / tathā 'ākāśaṃ pratyastaṃ yanti' iti brahmaliṅgaṃ 'ākāśo hyevaibhyo jyāyānākāśaḥ parāyaṇam' iti ca jyāyastvaparāyaṇatve / jyāyastvaṃ hyānāpekṣikaṃ paramātmanyevaikasminnāmnātam- 'jyāyānpṛthivyā jyāyamantarikṣājjyāyāndivo jyāyānebhyo lokebhyaḥ' (chāṃ 3.14.3) iti / tathā parāyaṇatvamapi paramakāraṇatvātparamātmanyevopapannataram / śrutiśca bhavati- 'vijñānamānandaṃ brahma rāterdātuḥ parāyaṇam' (bṛ. 3.9.28) iti / api cāntavattvadoṣeṇa śālāvatyasya pakṣaṃ ninditvā, anantaṃ kiñcidvaktukāmena jaivalinā ākāśaḥ parigṛhītaḥ, taṃ cākāśamudgīthe saṃpādyopasaṃharati- 'sa eṣa parovarīyānudgīthaḥ sa eṣo 'nantaḥ' (chāṃ 1.9.2) iti / taccānantyaṃ brahmaliṅgam / yatpunaruktaṃ bhūtākāśaṃ prasiddhibalena prathamataraṃ pratīyata iti, atra brūmaḥ- prathamataraṃ pratītamapi sat vākyaśeṣagatānbrahmaguṇāndṛṣṭvā na parigṛhyate / darśitaśca brahmaṇyapyākāśaśabdaḥ- 'ākāśo vai nāma nāmarūpayornirvahitā' ityādau / tathākāśaparyāyavācināmapi brahmaṇi prayogo dṛśyate- 'ṛco akṣare parame vyomandevā adhi viśve niṣeduḥ' (ṛ.saṃ 1.164.39) 'saiṣā bhārgavī vāruṇī vidyā parame vyomanpratiṣṭhitā' (tai. 3.6) 'oṃ kaṃ brahma khaṃbrahma' (chāṃ 4.10.5) 'khaṃ purāṇam' (bṛ. 5.1) iti caivamādau / vākyopakrame 'pi vartamānasyākāśaśabdasya vākyaśeṣavaśādyuktā brahmaviṣayatvāvadhāraṇā / 'agniradhīte 'nuvākam' iti hi vākyopakramagato 'pyagniśabdo māṇavakaviṣayo dṛśyate / tasmādākāśaśabdaṃ brahmeti siddham // 22 // ---------------------- FN: vedituḥ pramātuḥ, vijñānātmanaḥ antaḥkaraṇopahitāt / asyeti śālāvatyo brāhmaṇo jaivarājaṃ pṛcchati / nirvahitā utpattisthitihetuḥ, te nāmarūpe yadantarā yasmādanye yasya vā madhye staḥ tannāmarūpāspṛṣṭaṃ brahmeti vākyoṣādatrākāśo brahmetyarthaḥ / rāterdhanasya dātuḥ yajamānasya / deśato 'nantatvaṃ paratvaṃ, guṇata utkṛṣṭatvaṃ varīyastvaṃ, kālato vastutaścāparicchinnatvamānantyam / parebhyaḥ svarādibhyo 'tiśayena śraiṣṭhyaṃ vā parovarīyastvam / vyoman vyomni, parame prakṛṣṭe, aśrare kūṭasthe brahmaṇi, ṛco ṛgupakṣitāḥ sarve vedā jñāpakāḥ santi / yasminnakṣare viśvedevā adhiniṣeduradhiṣṭhitāḥ / 9 prāṇādhikaraṇam / sū. 23

Sanskrit only: no published translation is held for this verse.

अत एव प्राणः उद्गीथे- ऽप्रस्तोतर्या देवता प्रस्तावमन्वायत्ताऽ इत्युपक्रम्य श्रूयते- कतमा सा देवतेति प्राणा इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ताऽ (छां। १।११।४,५) इति । तत्र संशयनिर्णयौ पूर्ववदेव द्रष्टव्यौ । ऽप्राणबन्धनं हि सोम्य मनःऽ (छां। ६।८।२) ऽप्राणस्य प्राणम्ऽ (बृ। ४।४।१८) इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते, वायुविकारे तु प्रसिद्धतरो लोकवेदयोः, अत इह प्राणशब्देन कतरस्योपादानं युक्तमिति भवति संशयः । किं पुनरत्र युक्तम् । वायुविकारस्य पञ्चवृत्तेः प्राणस्योपादानं युक्तम् । तत्र हि प्रसिद्धतरः प्राणशब्द इत्यवोचाम । ननु पूर्ववदिहापि तल्लिङ्गाद्ब्रह्मण एव ग्रहणं युक्तम् । इहापि वाक्यशेषे भूतानां संवेशनोद्गमनं पारमेश्वरं कर्म प्रतीयते । न । मुख्यो ऽपि प्राणे भूतसंवेशनोद्गमनस्य दर्शनात् । एवं ह्याम्नायते- ऽयदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येते प्राणं चक्षुः प्राणं मनः स यदा प्रबुध्यते प्राणदेवाधि पुनर्जायन्तेऽ (शब्रा। १०।३।३।६) इति। प्रत्यक्षं चैतत्स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते प्रबोधकाले च प्रादुर्भवन्तीति । इन्द्रियसारत्वाच्च भूतानामविरुद्धो मुख्ये प्राणे ऽपि भूतसंवेशनोद्गमनवादी वाक्यशेषः । अपिचादित्यो ऽन्नं चोद्गीथप्रतिहारयोर्देवते प्रस्तावदेवतायाः प्राणस्यन्तरं निर्दिश्येते । नच तयोर्ब्रह्मत्वमस्ति, तत्सामान्याच्च प्राणस्यापि न ब्रह्मत्वमित्येवं प्राप्ते सूत्रकार आह- ऽअत एव प्राणःऽ इति । ऽतल्लिङ्गात्ऽ इति पूर्वसूत्रे निर्दिष्टम् । अत एव तल्लिङ्गात्प्राणशब्दमपि परं ब्रह्म भवितुमर्हति । प्राणस्यापि हि ब्रह्मलिङ्गसंबन्धः श्रूयते- ऽसर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहतेऽ (छां १।११५) इति । प्राणनिमित्तौ सर्वेषां भूतानामुत्पत्तिप्रलयावुच्यमानौ प्राणस्य ब्रह्मतां गमयतः । ननूक्तं मुख्यप्राणपरिग्रहे ऽपि संवेशनोद् गमनदर्शनमविरुद्धं, स्वापप्रबोधयोर्दर्शनादिति । अत्रोच्यते- स्वापप्रबोधयोरिन्द्रियाणामेव केवलानां प्राणाश्रयं संवेशनोद्गमनं दृश्यते, न सर्वेषां भूतानाम् । इहतु सेन्द्रियाणां सशरीराणां च जीवाविष्टानां भूतानां, ऽसर्वाणि ह वा इमानि भूतानिऽ इति श्रुतेः । यदापि भूतश्रुतिर्महाभूतविषया परिगृह्यते तदापि ब्रह्मलिङ्गत्वमविरुद्धम् । ननु सहापि विषयैरिन्द्रियाणां स्वापप्रबोधयोः प्राणे ऽप्ययं प्राणाच्च प्रभवं शृणुमः- ऽयदा सुप्तःस्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं वाक्सर्वैर्नामभिः सहाप्येतिऽ (कौ। ३।३) इति । तत्रापि तल्लिङ्गात्प्राणशब्दं ब्रह्मैव । यत्पुनरन्नादित्यसंनिधानात्प्राणस्याब्रह्मत्वमिति, तदयुक्तम् । वाक्यशेषबलेन प्राणशब्दस्य ब्रह्मविषयतां प्रतीयमानायां संनिधानस्याकिञ्चित्करत्वात् । यत्पुनः प्राणशब्दस्य पञ्चवृत्तौ प्रसिद्धतरत्वं, तदाकाशशब्दस्येव प्रतिविधेयम् । तस्मात्सिद्धं प्रस्तावदेवतायाः प्राणस्य ब्रह्मत्वम् । अत्र केचिदुदाहरन्ति- ऽप्राणस्य प्राणम्ऽ, ऽप्राणबन्धनं हि सोम्य मनःऽ इति च । तदयुक्तम् । शब्दभेदात्प्रकरणाच्च संशयानुपपत्तेः । यथा पितुः पितेति प्रयोगे ऽन्यः पिता षष्टीनिर्दिष्टो ऽन्यः प्रथमानिर्दिष्टः पितुः पितेति गम्यते, तद्वत् ऽप्राणस्य प्राणम्ऽ इति शब्दभेदात्प्रसिद्धात्प्राणादन्यः प्राणस्य प्राण इति निश्चीयते । नहि स एव तस्येति भेदनिर्देशार्हे भवति । यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्र प्रकरणी निर्दिष्ट इति गम्यते । यथा ज्योतिष्टोमाधिकारे- ऽवसन्ते वसन्ते ज्योतिषा यजेतऽ इत्यत्र ज्योतिःशब्दो ज्योतिष्टोमविषयो भवति, तथा परस्य ब्रह्मणः प्रकरणे ऽप्राणबन्धनं हि सोम्य मनःऽ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् । अतः संशयविषयत्वान्नैतदुदाहरणं युक्तम् । प्रस्तावदेवतायां तु प्राणे संशयपूर्वपक्षनिर्णया उपपादिताः ॥ २३ ॥ ---------------------- फ़्न्: चाक्रायणर्षिर्धनार्थी राज्ञो यज्ञं गत्वोवाच- हे प्रस्तोतः, या देवता प्रस्तावं सामभक्तिमन्वायत्तानुगता । संवेशनोद्गमनं लयोदयौ । तर्हि तस्यामवस्थायां, वाक् अनुक्तकर्मेन्द्रियोपलक्षणम्, चक्षुःश्रोत्रे तादृग्बुद्धीन्द्रियाणां, बुद्धिरपि मनसा लक्ष्यते । भूतेष्विन्द्रियाणि सूक्ष्मत्वाद्भोक्तृसामीप्याच्च साराणि अतस्तेषां लयोदयोक्त्येतरेषामपि तत्सिद्धेः शेषघटनेत्यर्थः । वाक्यात्संनिधानं दुर्लभमित्यर्थः । प्राणः परमात्मा बन्धनमाश्रयः स्वरूपं यस्येति विग्रहः । ज्योतिश्चरणाधिकरणम् । सू। २४-२७

ata eva prāṇaḥ udgīthe- 'prastotaryā devatā prastāvamanvāyattā' ityupakramya śrūyate- katamā sā devateti prāṇā iti hovāca sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate saiṣā devatā prastāvamanvāyattā' (chāṃ. 1.11.4,5) iti / tatra saṃśayanirṇayau pūrvavadeva draṣṭavyau / 'prāṇabandhanaṃ hi somya manaḥ' (chāṃ. 6.8.2) 'prāṇasya prāṇam' (bṛ. 4.4.18) iti caivamādau brahmaviṣayaḥ prāṇaśabdo dṛśyate, vāyuvikāre tu prasiddhataro lokavedayoḥ, ata iha prāṇaśabdena katarasyopādānaṃ yuktamiti bhavati saṃśayaḥ / kiṃ punaratra yuktam / vāyuvikārasya pañcavṛtteḥ prāṇasyopādānaṃ yuktam / tatra hi prasiddhataraḥ prāṇaśabda ityavocāma / nanu pūrvavadihāpi talliṅgādbrahmaṇa eva grahaṇaṃ yuktam / ihāpi vākyaśeṣe bhūtānāṃ saṃveśanodgamanaṃ pārameśvaraṃ karma pratīyate / na / mukhyo 'pi prāṇe bhūtasaṃveśanodgamanasya darśanāt / evaṃ hyāmnāyate- 'yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāgapyete prāṇaṃ cakṣuḥ prāṇaṃ manaḥ sa yadā prabudhyate prāṇadevādhi punarjāyante' (śa.brā. 10.3.3.6) iti. pratyakṣaṃ caitatsvāpakāle prāṇavṛttāvaparilupyamānāyāmindriyavṛttayaḥ parilupyante prabodhakāle ca prādurbhavantīti / indriyasāratvācca bhūtānāmaviruddho mukhye prāṇe 'pi bhūtasaṃveśanodgamanavādī vākyaśeṣaḥ / apicādityo 'nnaṃ codgīthapratihārayordevate prastāvadevatāyāḥ prāṇasyantaraṃ nirdiśyete / naca tayorbrahmatvamasti, tatsāmānyācca prāṇasyāpi na brahmatvamityevaṃ prāpte sūtrakāra āha- 'ata eva prāṇaḥ' iti / 'talliṅgāt' iti pūrvasūtre nirdiṣṭam / ata eva talliṅgātprāṇaśabdamapi paraṃ brahma bhavitumarhati / prāṇasyāpi hi brahmaliṅgasaṃbandhaḥ śrūyate- 'sarvāṇi ha vā imāni bhūtāni prāṇamevābhisaṃviśanti prāṇamabhyujjihate' (chāṃ 1.115) iti / prāṇanimittau sarveṣāṃ bhūtānāmutpattipralayāvucyamānau prāṇasya brahmatāṃ gamayataḥ / nanūktaṃ mukhyaprāṇaparigrahe 'pi saṃveśanod gamanadarśanamaviruddhaṃ, svāpaprabodhayordarśanāditi / atrocyate- svāpaprabodhayorindriyāṇāmeva kevalānāṃ prāṇāśrayaṃ saṃveśanodgamanaṃ dṛśyate, na sarveṣāṃ bhūtānām / ihatu sendriyāṇāṃ saśarīrāṇāṃ ca jīvāviṣṭānāṃ bhūtānāṃ, 'sarvāṇi ha vā imāni bhūtāni' iti śruteḥ / yadāpi bhūtaśrutirmahābhūtaviṣayā parigṛhyate tadāpi brahmaliṅgatvamaviruddham / nanu sahāpi viṣayairindriyāṇāṃ svāpaprabodhayoḥ prāṇe 'pyayaṃ prāṇācca prabhavaṃ śṛṇumaḥ- 'yadā suptaḥsvapnaṃ na kañcana paśyatyathāsminprāṇa evaikadhā bhavati tadainaṃ vāksarvairnāmabhiḥ sahāpyeti' (kau. 3.3) iti / tatrāpi talliṅgātprāṇaśabdaṃ brahmaiva / yatpunarannādityasaṃnidhānātprāṇasyābrahmatvamiti, tadayuktam / vākyaśeṣabalena prāṇaśabdasya brahmaviṣayatāṃ pratīyamānāyāṃ saṃnidhānasyākiñcitkaratvāt / yatpunaḥ prāṇaśabdasya pañcavṛttau prasiddhataratvaṃ, tadākāśaśabdasyeva pratividheyam / tasmātsiddhaṃ prastāvadevatāyāḥ prāṇasya brahmatvam / atra kecidudāharanti- 'prāṇasya prāṇam', 'prāṇabandhanaṃ hi somya manaḥ' iti ca / tadayuktam / śabdabhedātprakaraṇācca saṃśayānupapatteḥ / yathā pituḥ piteti prayoge 'nyaḥ pitā ṣaṣṭīnirdiṣṭo 'nyaḥ prathamānirdiṣṭaḥ pituḥ piteti gamyate, tadvat 'prāṇasya prāṇam' iti śabdabhedātprasiddhātprāṇādanyaḥ prāṇasya prāṇa iti niścīyate / nahi sa eva tasyeti bhedanirdeśārhe bhavati / yasya ca prakaraṇe yo nirdiśyate nāmāntareṇāpi sa eva tatra prakaraṇī nirdiṣṭa iti gamyate / yathā jyotiṣṭomādhikāre- 'vasante vasante jyotiṣā yajeta' ityatra jyotiḥśabdo jyotiṣṭomaviṣayo bhavati, tathā parasya brahmaṇaḥ prakaraṇe 'prāṇabandhanaṃ hi somya manaḥ' iti śrutaḥ prāṇaśabdo vāyuvikāramātraṃ kathamavagamayet / ataḥ saṃśayaviṣayatvānnaitadudāharaṇaṃ yuktam / prastāvadevatāyāṃ tu prāṇe saṃśayapūrvapakṣanirṇayā upapāditāḥ // 23 // ---------------------- FN: cākrāyaṇarṣirdhanārthī rājño yajñaṃ gatvovāca- he prastotaḥ, yā devatā prastāvaṃ sāmabhaktimanvāyattānugatā / saṃveśanodgamanaṃ layodayau / tarhi tasyāmavasthāyāṃ, vāk anuktakarmendriyopalakṣaṇam, cakṣuḥśrotre tādṛgbuddhīndriyāṇāṃ, buddhirapi manasā lakṣyate / bhūteṣvindriyāṇi sūkṣmatvādbhoktṛsāmīpyācca sārāṇi atasteṣāṃ layodayoktyetareṣāmapi tatsiddheḥ śeṣaghaṭanetyarthaḥ / vākyātsaṃnidhānaṃ durlabhamityarthaḥ / prāṇaḥ paramātmā bandhanamāśrayaḥ svarūpaṃ yasyeti vigrahaḥ / jyotiścaraṇādhikaraṇam / sū. 24-27

Sanskrit only: no published translation is held for this verse.

ज्योतिश् चरणाभिधानात् इदमामनन्ति- ऽअथ यदतः परो ज्योतिर्दीप्यते विश्वतःपृष्टेषु सर्वतःपृष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिःऽ (छा। ३।१३।७) इति । तत्र संशयः-किमिह ज्योतिःशब्देनादित्यादि ज्योतिरभिधीयते किंवा परमात्मेति । अर्थान्तरविषयस्यापि शब्दस्य तल्लिङ्गादब्रह्मविषयत्वमुक्तम् । इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यते । किं तावत्प्राप्तम् । आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति । कुतः, प्रसिद्धेः । तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्वी वीषयौ प्रसिद्धौ । चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यते । तस्या एवानुग्राहकमादित्यादिकं ज्योतिः । तथा ऽदीप्यतेऽ इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा । नहि रूपादिहीनं ब्रह्म ऽदीप्यतेऽ इति मुख्यां श्रुतिर्महति । द्युमर्यादत्वश्रुतेश्च । नहि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता । कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ऽपरो दिवो ज्योतिःऽ इति च ब्राह्मणम् । ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम् । अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम् । न । अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति । इदमेव प्रयोजनं यदुपास्यत्वमिति चेत् । न । प्रयोजनान्तरप्रयुक्तस्यैवादित्यदेरुपास्यत्वदर्शनात् । ऽतासां त्रिवृतं त्रिवृतमेकैकां करवाणिऽ (छा। ६।३।३) इति चाविशेषश्रुतेः । नचात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् । अस्तु तर्हि त्रिवृत्कृतमेवत् तेजो ज्योतिःशब्दम् । ननूक्तमर्वागपि दिवो ऽवगम्यते ऽग्न्यादिकं ज्योतिरिति । नैष दोषः । सर्वत्रापि गम्यमानस्य ज्योतिषः ऽपरो दिवःऽ इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । नतु निष्प्रदेशस्यापि ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ऽसर्वतःपृष्टेष्वनुत्तमेषूत्तमेषु लोकेषुऽ इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् । ऽइदं वाव तद्यदिदमस्मिन्नान्तः पुरुषे ज्योतिःऽ (छा। ३।१३।७) इति च कौक्षेये ज्योतिरषि परं ज्योतिरध्यस्यमानं दृश्यते । सारूप्यनिमित्ताश्चाध्यसा भवन्ति । यथा- ऽतस्य भूरिति शिर एकमेतदक्षरम्ऽ (बृ। ५।५।३) इति । कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम् । ऽतस्यैषा दृष्टिःऽ (छा। ३।१३।७) ऽतस्यैषा श्रुतिःऽ इति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ऽतदेतद्दृष्टं च श्रुतं चेप्युपासीतऽ इति च श्रुतेः । ऽचक्षुष्यः श्रुतो भवति य एवं वेदऽ (छा। ३।१३।८) इति चाल्पफलश्रवणादब्रह्मत्वम् । महते हि फलाय ब्रह्मोपासनमिष्यते । नचान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषो ऽस्ति ब्रह्मलिङ्गम् । नच पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ऽगायत्री वा इदं सर्वं भूतम्ऽ इति छन्दोनिर्देशात् । अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यादेवमपि न तस्येह प्रत्यभिज्ञानमस्ति । तत्र हि ऽत्रिपादस्यामृतं दिविऽ (३।१२।१,६) इति द्यौरधिकरणत्वेन श्रूयते । अत्र पुनः ऽपरो दिवो ज्योतिःऽ इति द्यौर्मर्यादात्वेन । तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः-ज्योतिरिह ब्रह्म ग्राह्यम् । कुतः। चरणाभिधानात् । पादाभिधानादित्यर्थः । पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्- ऽतावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा। ३।१२।६) इत्यनेन मन्त्रेण । तत्र यच्चतुष्पादो ब्रह्मणस्त्रिपादमृतं द्युसंबन्धिरूपं निर्दिष्टं तदेवेह द्युसंबन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । न केवलं पूर्ववाक्याज्ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः, परस्यामपि शाण्डिल्यविद्ययामनुवर्तिष्यते ब्रह्म । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् । यत्तूक्तम्- ऽज्योतिरदीप्यतेऽ इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति । नायं दोषः । प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् । दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसंभवात् । ऽयेन सूर्यस्तपति तेजसेद्धःऽ (तैब्रा। ३।१२।९।७) इति च मन्त्रवर्णात् । यद्वा नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात् । ऽवाचैवायं ज्योतिषास्तेऽ (बृ। ४।३।५), ऽमनो ज्योतिर्जुषताम्ऽ (तैब्रा। १।६।३।३) इति च, तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्योतिःशब्देनाभिधीयते । तथा सति ब्रह्मणो ऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः । ऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ (कौ। २।५।१५) ऽतद्देवा ज्योतिषां ज्योतिरायुर्हेपासते ऽमृतम्ऽ (बृ। ४।४।१६) इत्यादिश्रुतिभ्यश्च । यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति । अत्रोच्यते- सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । ननुक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति । नायं दोषः । निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसंबन्धात्प्रदेशविशेषकल्पनोपपत्तेः । तथाहि- आदित्यो, चक्षुषि, हृदये, इति प्रदेशविशेषसंबन्धानि ब्रह्मण उपासनानि श्रूयन्ते । एतेन ऽविश्वतःपृष्ठेषुऽ इत्याधारबहुत्वमुपपादितम् । यदप्येतदुक्तं, औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यं ज्योतिरेवेति । तदप्ययुक्तम् । परस्यापि ब्रह्णणो नामादिप्रतीकत्वत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः । ऽदृष्टं च श्रुतं चेत्युपासीतऽ इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति । यदप्यल्पफलश्रवणान्न ब्रह्मेति, तदप्यनुपपन्नम् । नहीयते फलाय ब्रह्माश्रयणीयं, इयते नेति नियमहेतुरस्ति । यत्र हि निरस्तसर्वविशेषसंबन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते । यत्र तु गुणविशेषसंबन्धं प्रतीकविशेषसंबन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते- ऽअन्नादो वसुदानो विदन्ते वसु य एवं वेदऽ (बृ। ४।४।२४) इत्याद्यासु श्रुतिषु । यद्यपि न स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति । तदुक्तं सूत्रकारेण- ऽज्योतिश्चरणाभिधानात्ऽ इति कथं पुनर्वाक्यान्तरगतेन ब्रह्मसंनिधानेन ज्योतिःश्रुतिः स्वविषयाच्छक्या प्रच्यावयितुम् । नैष दोषः । ऽयदतः परो ज्योतिःऽ इति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसंब्नन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामार्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् ॥ २४ ॥ ---------------------- फ़्न्: गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थो ऽथशब्दः । अतो द्युलोकात्परःपरस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते । विश्वस्मात्प्राणिवर्गात् सर्वस्माद्भूरादिलोकाच्च पृष्टेषूपरीत्यर्थः । नहीति रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः । यत्तेजोबन्नाभ्यामसंपृक्तं तदत्रिवत्कृतमुच्यते । प्रयोजनान्तरं तमोनाशादिकम् । तासां तेजोबन्नानामेकैकं द्विधा विभज्य पुनश्चेकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य त्रिवृत्करणं संपद्यते । भागिनी युक्ता । एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यं अन्यथाध्यासासिद्धेः । एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति । एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव शृणोतीति शेषः । चक्षुष्यो दर्शनीयः । श्रुतो विश्रुतः । प्राकृतं प्रकृतेर्जातं, कार्यमिति यावत् । ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावो ऽविशेषकत्वं, अविशेषकत्वाद्ब्रह्मव्यावर्तकत्वादित्यर्थः । प्रमित्यर्थत्वेन उपास्त्यर्थत्वेन वा मर्यादावत्त्वम् । दिवः परमपीत्यन्वयः । कौक्षेयकं हि ज्योतिर्जीवभावेनानुप्रविष्टस्य परमात्मनो विकारः जीवाभावे देहस्य शैथिल्यात् जीवतश्चौष्ण्याज्जायते । तस्मात्प्रतीकोपासनमुपपन्नम् । जीवरूपेणान्नमत्तीत्यन्नादः, अन्नस्यासमन्ताद्दाता वा । वसु हिरण्यं कर्मफलं ददातीति वसुदान इति गुणविशेषसंबन्धः । सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्त्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना ।

jyotiś caraṇābhidhānāt idamāmananti- 'atha yadataḥ paro jyotirdīpyate viśvataḥpṛṣṭeṣu sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥpuruṣe jyotiḥ' (chā. 3.13.7) iti / tatra saṃśayaḥ-kimiha jyotiḥśabdenādityādi jyotirabhidhīyate kiṃvā paramātmeti / arthāntaraviṣayasyāpi śabdasya talliṅgādabrahmaviṣayatvamuktam / iha tu talliṅgamevāsti nāstīti vicāryate / kiṃ tāvatprāptam / ādityādikameva jyotiḥśabdena parigṛhyata iti / kutaḥ, prasiddheḥ / tamo jyotiriti hīmau śabdau parasparapratidvandvī vīṣayau prasiddhau / cakṣurvṛtternirodhakaṃ śārvarādikaṃ tama ucyate / tasyā evānugrāhakamādityādikaṃ jyotiḥ / tathā 'dīpyate' itīyamapi śrutirādityādiviṣayā prasiddhā / nahi rūpādihīnaṃ brahma 'dīpyate' iti mukhyāṃ śrutirmahati / dyumaryādatvaśruteśca / nahi carācarabījasya brahmaṇaḥ sarvātmakasya dyaurmaryādā yuktā / kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt / 'paro divo jyotiḥ' iti ca brāhmaṇam / nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāddyumaryādāvattvamasamañjasam / astu tarhyatrivṛtkṛtaṃ tejaḥ prathamajam / na / atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi / idameva prayojanaṃ yadupāsyatvamiti cet / na / prayojanāntaraprayuktasyaivādityaderupāsyatvadarśanāt / 'tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi' (chā. 6.3.3) iti cāviśeṣaśruteḥ / nacātrivṛtkṛtasyāpi tejaso dyumaryādatvaṃ prasiddham / astu tarhi trivṛtkṛtamevat tejo jyotiḥśabdam / nanūktamarvāgapi divo 'vagamyate 'gnyādikaṃ jyotiriti / naiṣa doṣaḥ / sarvatrāpi gamyamānasya jyotiṣaḥ 'paro divaḥ' ityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate / natu niṣpradeśasyāpi brahmaṇaḥ pradeśaviśeṣakalpanā bhāginī / 'sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣu' iti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām / 'idaṃ vāva tadyadidamasminnāntaḥ puruṣe jyotiḥ' (chā. 3.13.7) iti ca kaukṣeye jyotiraṣi paraṃ jyotiradhyasyamānaṃ dṛśyate / sārūpyanimittāścādhyasā bhavanti / yathā- 'tasya bhūriti śira ekametadakṣaram' (bṛ. 5.5.3) iti / kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvam / 'tasyaiṣā dṛṣṭiḥ' (chā. 3.13.7) 'tasyaiṣā śrutiḥ' iti cauṣṇyaghoṣaviśiṣṭatvasya śravaṇāt / 'tadetaddṛṣṭaṃ ca śrutaṃ cepyupāsīta' iti ca śruteḥ / 'cakṣuṣyaḥ śruto bhavati ya evaṃ veda' (chā. 3.13.8) iti cālpaphalaśravaṇādabrahmatvam / mahate hi phalāya brahmopāsanamiṣyate / nacānyadapi kiñcitsvavākye prāṇākāśavajjyotiṣo 'sti brahmaliṅgam / naca pūrvasminnapi vākye brahma nirdiṣṭamasti, 'gāyatrī vā idaṃ sarvaṃ bhūtam' iti chandonirdeśāt / athāpi kathañcitpūrvasminvākye brahma nirdiṣṭaṃ syādevamapi na tasyeha pratyabhijñānamasti / tatra hi 'tripādasyāmṛtaṃ divi' (3.12.1,6) iti dyauradhikaraṇatvena śrūyate / atra punaḥ 'paro divo jyotiḥ' iti dyaurmaryādātvena / tasmātprākṛtaṃ jyotiriha grāhyamityevaṃ prāpte brūmaḥ-jyotiriha brahma grāhyam / kutaḥ. caraṇābhidhānāt / pādābhidhānādityarthaḥ / pūrvasminhi vākye catuṣpādbrahma nirdiṣṭam- 'tāvānasya mahimā tato jyāyāṃśca pūruṣaḥ / pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) ityanena mantreṇa / tatra yaccatuṣpādo brahmaṇastripādamṛtaṃ dyusaṃbandhirūpaṃ nirdiṣṭaṃ tadeveha dyusaṃbandhānnirdiṣṭamiti pratyabhijñāyate / tatparityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyeyātām / na kevalaṃ pūrvavākyājjyotirvākya eva brahmānuvṛttiḥ, parasyāmapi śāṇḍilyavidyayāmanuvartiṣyate brahma / tasmādiha jyotiriti brahma pratipattavyam / yattūktam- 'jyotiradīpyate' iti caitau śabdau kārye jyotiṣi prasiddhāviti / nāyaṃ doṣaḥ / prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt / dīpyamānakāryajyotirupalakṣite brahmaṇyapi prayogasaṃbhavāt / 'yena sūryastapati tejaseddhaḥ' (tai.brā. 3.12.9.7) iti ca mantravarṇāt / yadvā nāyaṃ jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate, anyatrāpi prayogadarśanāt / 'vācaivāyaṃ jyotiṣāste' (bṛ. 4.3.5), 'mano jyotirjuṣatām' (tai.brā. 1.6.3.3) iti ca, tasmādyadyatkasyacidavabhāsakaṃ tattajyotiḥśabdenābhidhīyate / tathā sati brahmaṇo 'pi caitanyarūpasya samastajagadavabhāsahetutvādupapanno jyotiḥśabdaḥ / 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (kau. 2.5.15) 'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) ityādiśrutibhyaśca / yadapyuktaṃ dyumaryādatvaṃ sarvagatasya brahmaṇo nopapadyata iti / atrocyate- sarvagatasyāpi brahmaṇa upāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate / nanuktaṃ niṣpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti / nāyaṃ doṣaḥ / niṣpradeśasyāpi brahmaṇa upādhiviśeṣasaṃbandhātpradeśaviśeṣakalpanopapatteḥ / tathāhi- ādityo, cakṣuṣi, hṛdaye, iti pradeśaviśeṣasaṃbandhāni brahmaṇa upāsanāni śrūyante / etena 'viśvataḥpṛṣṭheṣu' ityādhārabahutvamupapāditam / yadapyetaduktaṃ, auṣṇyaghoṣānumite kaukṣeye kārye jyotiṣyadhyasyamānatvātparamapi divaḥ kāryaṃ jyotireveti / tadapyayuktam / parasyāpi brahṇaṇo nāmādipratīkatvatkaukṣeyajyotiṣpratīkatvopapatteḥ / 'dṛṣṭaṃ ca śrutaṃ cetyupāsīta' iti tu pratīkadvārakaṃ dṛṣṭatvaṃ śrutatvaṃ ca bhaviṣyati / yadapyalpaphalaśravaṇānna brahmeti, tadapyanupapannam / nahīyate phalāya brahmāśrayaṇīyaṃ, iyate neti niyamaheturasti / yatra hi nirastasarvaviśeṣasaṃbandhaṃ paraṃ brahmātmatvenopadiśyate, tatraikarūpameva phalaṃ mokṣa ityavagamyate / yatra tu guṇaviśeṣasaṃbandhaṃ pratīkaviśeṣasaṃbandhaṃ vā brahmopadiśyate, tatra saṃsāragocarāṇyevoccāvacāni phalāni dṛśyante- 'annādo vasudāno vidante vasu ya evaṃ veda' (bṛ. 4.4.24) ityādyāsu śrutiṣu / yadyapi na svavākye kiñcijjyotiṣo brahmaliṅgamasti tathāpi pūrvasminvākye dṛśyamānaṃ grahītavyaṃ bhavati / taduktaṃ sūtrakāreṇa- 'jyotiścaraṇābhidhānāt' iti kathaṃ punarvākyāntaragatena brahmasaṃnidhānena jyotiḥśrutiḥ svaviṣayācchakyā pracyāvayitum / naiṣa doṣaḥ / 'yadataḥ paro jyotiḥ' iti prathamatarapaṭhitena yacchabdena sarvanāmnā dyusaṃbnandhātpratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmārthyena parāmṛṣṭe satyarthājjyotiḥśabdasyāpi brahmaviṣayatvopapatteḥ / tasmādiha jyotiriti brahma pratipattavyam // 24 // ---------------------- FN: gāyatryupādhibrahmopāstyanantaramupāstyantaroktyartho 'thaśabdaḥ / ato dyulokātparaḥparastādyajjyotirdīpyate tadidamiti jāṭhare jyotiṣyadhyasyate / viśvasmātprāṇivargāt sarvasmādbhūrādilokācca pṛṣṭeṣūparītyarthaḥ / nahīti rūpādimataḥ sāvayavasyaiva dīptiyogādityarthaḥ / yattejobannābhyāmasaṃpṛktaṃ tadatrivatkṛtamucyate / prayojanāntaraṃ tamonāśādikam / tāsāṃ tejobannānāmekaikaṃ dvidhā vibhajya punaścekaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya trivṛtkaraṇaṃ saṃpadyate / bhāginī yuktā / ekatvasāmyādbhūrityasminnakṣare prajāpateḥ śirodṛṣṭiruktā tathātrāpi sārūpyaṃ vācyaṃ anyathādhyāsāsiddheḥ / eṣā dṛṣṭiryadetaduṣṇimānaṃ sparśena vijānāti / eṣā śrutiryatkarṇāvapidhāya ninadamiva śṛṇotīti śeṣaḥ / cakṣuṣyo darśanīyaḥ / śruto viśrutaḥ / prākṛtaṃ prakṛterjātaṃ, kāryamiti yāvat / brahmaṇo vyavacchidya tejaḥsamarpakatvaṃ viśeṣakatvaṃ tadabhāvo 'viśeṣakatvaṃ, aviśeṣakatvādbrahmavyāvartakatvādityarthaḥ / pramityarthatvena upāstyarthatvena vā maryādāvattvam / divaḥ paramapītyanvayaḥ / kaukṣeyakaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ jīvābhāve dehasya śaithilyāt jīvataścauṣṇyājjāyate / tasmātpratīkopāsanamupapannam / jīvarūpeṇānnamattītyannādaḥ, annasyāsamantāddātā vā / vasu hiraṇyaṃ karmaphalaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaḥ / sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmartyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /

Sanskrit only: no published translation is held for this verse.

छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् अथ यदुक्तं पूर्वस्मिन्नपि वाक्ये न ब्रह्मभिहितमिति, ऽगायत्री वा इदं सर्वं भूतं यदिदं किञ्चऽ (छां। ३।१२।१) इति गायत्र्याख्यस्य छन्दसो ऽभिहितत्वादिति, तत्परिहर्तव्यम् । कथं पुनश्छन्दोभिधानान्न ब्रह्माभिहितमिति शक्यते वक्तुं, यावता ऽतावानस्य महिमाऽ इत्येतस्यामृचि चतुष्पाद्ब्रह्म दर्शितम् । नैतदस्ति । ऽगायत्री वा इदं सर्वम्ऽ इति गायत्रीमुपक्रम्य तामेव भूतपृथिवीशरीरहृदयवाक्यप्रमाणभेदैर्व्यख्याय ऽसैषा चतुष्पादा षड्विधा गायत्री तदेतदृचाभ्यनुक्तं तावानस्य महिमाऽ इति तस्यामेव व्याख्यातरूपायां गायत्र्यामुदाहृतो मन्त्रः कथमकस्माद्ब्रह्म चतुष्पादभिदध्यात् । यो ऽपि तत्र ऽयद्वै तद्ब्रह्मऽ (छा। ३।१२।५,६) इति ब्रह्मशब्दः सो ऽपि छन्दसः प्रकृतत्वाच्छन्दोविषय एव ऽय एतामेवं ब्रह्मोपनिषदं वेदऽ (छां ३।११।३) इत्यत्र हि वेदोपनिषदमिति व्याचक्षते, तस्माच्छन्दोभिधानान्न ब्रह्मणः प्रकृतत्वमितिचेत् । नैष दोषः । ऽतथा चेतोर्पणनिगहात्ऽ तथा गायत्र्याख्यच्छन्दोद्वारेण तदनुगते ब्रह्मणि चेतसोर्ऽपणं चित्तसमाधानमनेन ब्रह्मणवाक्येन निगद्यते- ऽगायत्री वा इदं सर्वम्ऽ इति । नह्यक्षरसंनिवेशमात्राया गायत्र्याः सर्वात्मकत्वं संभवति । तस्माद्याद्गायत्र्याख्यविकारे ऽनुगतं जगत्कारणं ब्रह्म तदिह सर्वमित्युच्यते । यथा ऽसर्वं खल्विदं ब्रह्मऽ (छा। ३।१४।१) इति । कार्यं च कारणादव्यतिरिक्तमिति वक्ष्यामः- ऽतदनन्यत्वमारम्भणशब्दादिभ्यःऽ (ब्र। २।१।१४) इत्यत्र । तथान्यत्रापि विकारद्वारेण ब्रह्मण उपासनं दृश्यते- ऽएतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतमग्नावध्वर्यव एतं महाव्रते छन्दोगाःऽ (ऐआ। ३।२३।१२) इति । तस्मादस्ति छन्दोभिधाने ऽपि पूर्वस्मिन्वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम् । तदेव ज्योतिर्वाक्ये ऽपि परामृश्यत उपासनान्तरविधानाय । अपर आह- साक्षादेव गायत्रीशब्देन ब्रह्म प्रतिपाद्यते, संख्यासामान्यात् । यथा गायत्री चतुष्पदा षडक्षरैः पादैस्तथा ब्रह्म चतुष्पात् । तथान्यत्रापि छन्दोभिधायी शब्दोर्ऽथान्तरे संख्यासामान्यात्प्रयुज्यमानो दृश्यते । तद्यथा- ऽते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम्ऽ इत्युपक्रम्याह ऽसैषा विराडन्नादिऽ (छा। ४।३।८) इति । अस्मिन्पक्षे ब्रह्मैवाभिहितमिति न छन्दोभिधानम् । सर्वथाप्यस्ति पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्म ॥ २५ ॥ ---------------------- फ़्न्: य एतां प्रकृतां ब्रह्मोपनिषदं वेदरहस्यं मधुविद्यारूपं वेद तस्योदयास्तमयरहितब्रह्मप्राप्तिर्भवतीत्यर्थः । एतमृग्वेदिनो महत्युक्थे शस्त्रे उपासते, अध्वर्यवो यजुर्वेदिनः क्रतौ छन्दोगाः सामवेदिनो महाव्रते क्रतौ । संवर्गविद्यायां अधिदैवमग्निसूर्यचन्द्राम्भांसि वायौ लीयते । अध्यत्मं वाक् चक्षुःश्रोत्रमनसि प्राणमपियन्ति । ते वा एते पञ्चान्ये आधिदैविकाः, पञ्चान्ये आध्यात्मिकास्ते मिलित्वा दश सन्तः कृतमित्युच्यते । कृतं द्यूतम् ।

chando 'bhidhānān neti cen na tathā ceto'rpaṇanigadāt tathā hi darśanam atha yaduktaṃ pūrvasminnapi vākye na brahmabhihitamiti, 'gāyatrī vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiñca' (chāṃ. 3.12.1) iti gāyatryākhyasya chandaso 'bhihitatvāditi, tatparihartavyam / kathaṃ punaśchandobhidhānānna brahmābhihitamiti śakyate vaktuṃ, yāvatā 'tāvānasya mahimā' ityetasyāmṛci catuṣpādbrahma darśitam / naitadasti / 'gāyatrī vā idaṃ sarvam' iti gāyatrīmupakramya tāmeva bhūtapṛthivīśarīrahṛdayavākyapramāṇabhedairvyakhyāya 'saiṣā catuṣpādā ṣaḍvidhā gāyatrī tadetadṛcābhyanuktaṃ tāvānasya mahimā' iti tasyāmeva vyākhyātarūpāyāṃ gāyatryāmudāhṛto mantraḥ kathamakasmādbrahma catuṣpādabhidadhyāt / yo 'pi tatra 'yadvai tadbrahma' (chā. 3.12.5,6) iti brahmaśabdaḥ so 'pi chandasaḥ prakṛtatvācchandoviṣaya eva 'ya etāmevaṃ brahmopaniṣadaṃ veda' (chāṃ 3.11.3) ityatra hi vedopaniṣadamiti vyācakṣate, tasmācchandobhidhānānna brahmaṇaḥ prakṛtatvamiticet / naiṣa doṣaḥ / 'tathā cetorpaṇanigahāt' tathā gāyatryākhyacchandodvāreṇa tadanugate brahmaṇi cetasor'paṇaṃ cittasamādhānamanena brahmaṇavākyena nigadyate- 'gāyatrī vā idaṃ sarvam' iti / nahyakṣarasaṃniveśamātrāyā gāyatryāḥ sarvātmakatvaṃ saṃbhavati / tasmādyādgāyatryākhyavikāre 'nugataṃ jagatkāraṇaṃ brahma tadiha sarvamityucyate / yathā 'sarvaṃ khalvidaṃ brahma' (chā. 3.14.1) iti / kāryaṃ ca kāraṇādavyatiriktamiti vakṣyāmaḥ- 'tadananyatvamārambhaṇaśabdādibhyaḥ' (bra. 2.1.14) ityatra / tathānyatrāpi vikāradvāreṇa brahmaṇa upāsanaṃ dṛśyate- 'etaṃ hyeva bahvṛcā mahatyukthe mīmāṃsanta etamagnāvadhvaryava etaṃ mahāvrate chandogāḥ' (ai.ā. 3.23.12) iti / tasmādasti chandobhidhāne 'pi pūrvasminvākye catuṣpādbrahma nirdiṣṭam / tadeva jyotirvākye 'pi parāmṛśyata upāsanāntaravidhānāya / apara āha- sākṣādeva gāyatrīśabdena brahma pratipādyate, saṃkhyāsāmānyāt / yathā gāyatrī catuṣpadā ṣaḍakṣaraiḥ pādaistathā brahma catuṣpāt / tathānyatrāpi chandobhidhāyī śabdor'thāntare saṃkhyāsāmānyātprayujyamāno dṛśyate / tadyathā- 'te vā ete pañcānye pañcānye daśa santastatkṛtam' ityupakramyāha 'saiṣā virāḍannādi' (chā. 4.3.8) iti / asminpakṣe brahmaivābhihitamiti na chandobhidhānam / sarvathāpyasti pūrvasminvākye prakṛtaṃ brahma // 25 // ---------------------- FN: ya etāṃ prakṛtāṃ brahmopaniṣadaṃ vedarahasyaṃ madhuvidyārūpaṃ veda tasyodayāstamayarahitabrahmaprāptirbhavatītyarthaḥ / etamṛgvedino mahatyukthe śastre upāsate, adhvaryavo yajurvedinaḥ kratau chandogāḥ sāmavedino mahāvrate kratau / saṃvargavidyāyāṃ adhidaivamagnisūryacandrāmbhāṃsi vāyau līyate / adhyatmaṃ vāk cakṣuḥśrotramanasi prāṇamapiyanti / te vā ete pañcānye ādhidaivikāḥ, pañcānye ādhyātmikāste militvā daśa santaḥ kṛtamityucyate / kṛtaṃ dyūtam /

Sanskrit only: no published translation is held for this verse.

भूतादिपादव्यपदेशोपपत्तेश् चैवम् इतश्चैवमभ्युपगन्तव्यमिति, पूर्वस्मिन्वाक्ये प्रकृतं ब्रह्मेति । यतो भूतादीन्पादान्व्यपदिशति । भूतपृथिवीशरीरहृदयानि हि निर्दिश्याह- ऽसैषा चतुष्पदा षड्विधा गायत्रीऽ इति । नहि ब्रह्मानाश्रयणे केवलस्य छन्दसो भूतादयः पादा उपपद्यन्ते । अपिच ब्रह्मानाश्रयणे नेयमृक्संबोध्येत- ऽतावानस्यऽ इति । अनया हि ऋचा स्वरसेन ब्रह्मैवाभिधीयते, ऽपादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा। ३।१२।५) इति सर्वात्मत्वोपपत्तेः । पुरुषसूक्ते ऽपीयमृग्ब्रह्मपरतयैव समाम्नायते । स्मृतिश्च ब्रह्मण एवंरूपतां दर्शयति- ऽविष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्ऽ (भग। १०।४२) इति । ऽयद्वै तद्ब्रह्मऽ (छा। ३।१२।७) इति च निर्देश एवं सति मुख्यार्थ उपपद्यते । ऽपञ्च ब्रह्मपुरुषाःऽ (छा। ३।१३।६) इति च हृदयसुषिषु ब्रह्मपुरुषश्रुतिर्ब्रह्मसंबन्धितायां विवक्षितायां संभवति । तस्मादस्ति पूर्वस्मिन्वाक्ये ब्रह्म प्रकृतम् । तदेव ब्रह्म ज्योतिर्वाक्ये द्युसंबन्धात्प्रत्यभिज्ञायमानं परामृश्यत इति स्थितम् ॥ २६ ॥ ---------------------- फ़्न्: भूतपृथिवीशरीरहृदयवाक्प्राण इति षट्प्रकारा गायत्र्याख्यस्य ब्रह्मणः श्रूयन्ते । सुषयश्छिद्राणि ।

bhūtādipādavyapadeśopapatteś caivam itaścaivamabhyupagantavyamiti, pūrvasminvākye prakṛtaṃ brahmeti / yato bhūtādīnpādānvyapadiśati / bhūtapṛthivīśarīrahṛdayāni hi nirdiśyāha- 'saiṣā catuṣpadā ṣaḍvidhā gāyatrī' iti / nahi brahmānāśrayaṇe kevalasya chandaso bhūtādayaḥ pādā upapadyante / apica brahmānāśrayaṇe neyamṛksaṃbodhyeta- 'tāvānasya' iti / anayā hi ṛcā svarasena brahmaivābhidhīyate, 'pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.5) iti sarvātmatvopapatteḥ / puruṣasūkte 'pīyamṛgbrahmaparatayaiva samāmnāyate / smṛtiśca brahmaṇa evaṃrūpatāṃ darśayati- 'viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat' (bhaga. 10.42) iti / 'yadvai tadbrahma' (chā. 3.12.7) iti ca nirdeśa evaṃ sati mukhyārtha upapadyate / 'pañca brahmapuruṣāḥ' (chā. 3.13.6) iti ca hṛdayasuṣiṣu brahmapuruṣaśrutirbrahmasaṃbandhitāyāṃ vivakṣitāyāṃ saṃbhavati / tasmādasti pūrvasminvākye brahma prakṛtam / tadeva brahma jyotirvākye dyusaṃbandhātpratyabhijñāyamānaṃ parāmṛśyata iti sthitam // 26 // ---------------------- FN: bhūtapṛthivīśarīrahṛdayavākprāṇa iti ṣaṭprakārā gāyatryākhyasya brahmaṇaḥ śrūyante / suṣayaśchidrāṇi /

Sanskrit only: no published translation is held for this verse.

उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् यदप्येतदुक्तं पूर्वत्र- ऽत्रिपादस्यामृतं दिविऽ इति सप्तम्या द्यौराधारत्वेनोपदिष्टा इति, पुनः ऽअथ यदतः परो दिवःऽ इति पञ्चम्या मर्यादात्वेन, तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्ति, तत्परिहर्तव्यम् । अत्रोच्यते- नायं दोषः, उभयस्मिन्नप्यविरोधात् । उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते । यथा लोके वृक्षाग्रसंबद्धो ऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च । एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते । अपर आह- यथा लोके वृक्षाग्रेणासंबद्धो ऽपि श्येन उभयथोपदिश्यमानो दृश्यते, वृक्षाग्रे श्येनो वृक्षाग्रात्पुरतः श्येन इति च । एवं च दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यते । तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम् । अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम् ॥ २७ ॥ प्रतर्दनाधिकरणम् । सू। २८-३१

upadeśabhedān neti cen nobhayasminn apy avirodhāt yadapyetaduktaṃ pūrvatra- 'tripādasyāmṛtaṃ divi' iti saptamyā dyaurādhāratvenopadiṣṭā iti, punaḥ 'atha yadataḥ paro divaḥ' iti pañcamyā maryādātvena, tasmādupadeśabhedānna tasyeha pratyabhijñānamasti, tatparihartavyam / atrocyate- nāyaṃ doṣaḥ, ubhayasminnapyavirodhāt / ubhayasminnapi saptamyante pañcamyante copadeśe na pratyabhijñānaṃ virudhyate / yathā loke vṛkṣāgrasaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātparataḥ śyena iti ca / evaṃ divyeva sadbrahma divaḥ paramityupadiśyate / apara āha- yathā loke vṛkṣāgreṇāsaṃbaddho 'pi śyena ubhayathopadiśyamāno dṛśyate, vṛkṣāgre śyeno vṛkṣāgrātpurataḥ śyena iti ca / evaṃ ca divaḥ paramapi sadbrahma divītyupadiśyate / tasmādasti pūrvanirdiṣṭasya brahmaṇa iha pratyabhijñānam / ataḥ parameva brahma jyotiḥśabdamiti siddham // 27 // pratardanādhikaraṇam / sū. 28-31

Sanskrit only: no published translation is held for this verse.

प्राणस् तथानुगमात् अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिका- ऽप्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण चऽ इत्यारभ्याम्नाता । तस्यां श्रूयते- ऽस होवाच प्रणो ऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपाःस्वऽ इति । तथोत्तरत्रापि ऽअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ (को। १।१,२,३) इति । तथा ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि । अन्ते च ऽस एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ (को। ३।८) इत्यादि । तत्र संशयः- किमिह प्राणशब्देन वायुमात्रमभिधीयत उप देवतात्मेति, जीवो ऽथवा परं ब्रह्मेति । ननु ऽअत एव प्राणःऽ इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् । इहापि च ब्रह्मलिङ्गमस्ति- ऽआनन्दो ऽजरो ऽमृतःऽ इत्यादि । कथमिह पुनः संशयः संभवति । अनेकलिङ्गदर्शनादिति ब्रूमः । न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते । सन्ति हीतरलिङ्गान्यपि । ऽमामेव विजानीहिऽ (कौ। ३।१) इतीन्द्रस्य वचनं देवतात्मलिङ्गम् । इदं शरीरं परिगृह्योत्थापयतीति प्राणलिङ्गम् । ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि जीवलिङ्गम् । अत उपपन्नः संशयः । तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्त उच्यते-प्राणशब्दं ब्रह्म विज्ञेयम् । कुतः, तथानुगमात् । तथाहि- पौर्वापर्येण पर्यलोच्यमाने वाक्ये पदार्थानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते । उपक्रमे तावत्, ऽवरं वृणीष्वऽ इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप- ऽत्वमेव मे वृणीश्व यं त्वं मनुष्याय हिततमं मन्यसेऽ इति । तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात् । नह्यन्यत्र परमात्मज्ञानाद्धिततमप्राप्तिरस्ति । ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वेता। ३।८) इत्यादिश्रुतिभ्यः । तथा ऽस यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्ययाऽ (कौ। ३।१) इत्यादि च ब्रह्मपरिग्रहे घटते । ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः- ऽक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मु। २।२।८) इत्याद्यासु श्रुतिषु । प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते । नह्यचेतनस्य वायोः प्रज्ञात्मत्वं संभवति । तथोपसंहारे ऽपि ऽआनन्दो ऽजरो ऽमृतःऽ इत्यानन्दत्वादीनि न ब्रह्मणो ऽन्यत्र सम्यक् संभवति । ऽस न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकस्य उन्निनीषते । एष उ भवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्यो ऽधो निनीषतेऽ इति, ऽएष लोकाधिपतिरेष लोकेशःऽ (कौ। ३।८) इति च । सर्वमेतत्परस्मनिन्ब्रह्मण्याश्रीयमाणे ऽनुगन्तुं शक्यते न मुख्ये प्राणे । तस्मात्प्राणो ब्रह्म ॥ २८ ॥ ---------------------- फ़्न्: ब्रह्मप्रतिपादनपरत्वेनैव पदानामन्वयदृष्टेरित्यर्थः । स नेत्यादिना धर्माद्यस्पृष्टत्वं तत्कारयितृत्वं तदीशितृत्वं च सर्वमुक्तम् ।

prāṇas tathānugamāt asti kauṣītakibrāhmaṇopaniṣadīndrapratardanākhyāyikā- 'pratardano ha vai daivodāsirindrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca' ityārabhyāmnātā / tasyāṃ śrūyate- 'sa hovāca praṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' iti / tathottaratrāpi 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (ko. 1.1,2,3) iti / tathā 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi / ante ca 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' (ko. 3.8) ityādi / tatra saṃśayaḥ- kimiha prāṇaśabdena vāyumātramabhidhīyata upa devatātmeti, jīvo 'thavā paraṃ brahmeti / nanu 'ata eva prāṇaḥ' ityatra varṇitaṃ prāṇaśabdasya brahmaparatvam / ihāpi ca brahmaliṅgamasti- 'ānando 'jaro 'mṛtaḥ' ityādi / kathamiha punaḥ saṃśayaḥ saṃbhavati / anekaliṅgadarśanāditi brūmaḥ / na kevalamiha brahmaliṅgamevopalabhyate / santi hītaraliṅgānyapi / 'māmeva vijānīhi' (kau. 3.1) itīndrasya vacanaṃ devatātmaliṅgam / idaṃ śarīraṃ parigṛhyotthāpayatīti prāṇaliṅgam / 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi jīvaliṅgam / ata upapannaḥ saṃśayaḥ / tatra prasiddhervāyuḥ prāṇa iti prāpta ucyate-prāṇaśabdaṃ brahma vijñeyam / kutaḥ, tathānugamāt / tathāhi- paurvāparyeṇa paryalocyamāne vākye padārthānāṃ samanvayo brahmapratipādanapara upalabhyate / upakrame tāvat, 'varaṃ vṛṇīṣva' itīndreṇoktaḥ pratardanaḥ paramaṃ puruṣārthaṃ varamupacikṣepa- 'tvameva me vṛṇīśva yaṃ tvaṃ manuṣyāya hitatamaṃ manyase' iti / tasmai hitatamatvenopadiśyamānaḥ prāṇaḥ kathaṃ paramātmā na syāt / nahyanyatra paramātmajñānāddhitatamaprāptirasti / 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śvetā. 3.8) ityādiśrutibhyaḥ / tathā 'sa yo māṃ veda na ha vai tasya kenacana karmaṇā loko mīyate na steyena na bhrūṇahatyayā' (kau. 3.1) ityādi ca brahmaparigrahe ghaṭate / brahmavijñānena hi sarvakarmakṣayaḥ prasiddhaḥ- 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) ityādyāsu śrutiṣu / prajñātmatvaṃ ca brahmapakṣa evopapadyate / nahyacetanasya vāyoḥ prajñātmatvaṃ saṃbhavati / tathopasaṃhāre 'pi 'ānando 'jaro 'mṛtaḥ' ityānandatvādīni na brahmaṇo 'nyatra samyak saṃbhavati / 'sa na sādhunā karmaṇā bhūyānbhavati no evāsādhunā karmaṇā kanīyāneṣa hyeva sādhu karma kārayati taṃ yamebhyo lokasya unninīṣate / eṣa u bhavāsādhu karma kārayati taṃ yamebhyo lokebhyo 'dho ninīṣate' iti, 'eṣa lokādhipatireṣa lokeśaḥ' (kau. 3.8) iti ca / sarvametatparasmaninbrahmaṇyāśrīyamāṇe 'nugantuṃ śakyate na mukhye prāṇe / tasmātprāṇo brahma // 28 // ---------------------- FN: brahmapratipādanaparatvenaiva padānāmanvayadṛṣṭerityarthaḥ / sa netyādinā dharmādyaspṛṣṭatvaṃ tatkārayitṛtvaṃ tadīśitṛtvaṃ ca sarvamuktam /

Sanskrit only: no published translation is held for this verse.

न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसंबन्धभूमा ह्य् अस्मिन् यदुक्तं प्राणो ब्रह्मेति, तदाक्षिप्यते । न परं ब्रह्म प्राणशब्दम् । कस्मात्, वक्तुरात्मोपदेशात् । वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे- ऽमामेव विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्माऽ इत्यहङ्कारवादेन । स एष वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् । नहि ब्रह्मणो वक्तृत्वं संभवति ऽअवागमनाःऽ (बृह । ३।८।८) इत्यादिश्रुतिभ्यः । तथा विग्रहसंबन्धिभिरेव ब्रह्मण्यसंभवद्भिर्धर्मैरात्मानं तुष्टाव- ऽत्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीञ्शालावृकेभ्यः प्रायच्छम्ऽ इत्येवमादिभिः । प्राणत्वं चेन्द्रस्य बलवत्वादुपपद्यते । ऽप्राणो वै बलम्ऽ इति हि विज्ञायते । बलस्य चेन्द्रो देवता प्रसिद्धा । ऽया च काचिद्बलकृतिरिन्द्रकर्मैव तऽ दिति हि वदन्ति । प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः संभवति । अप्रतिहतज्ञाना देवता इति हि वदन्ति । निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासंभवं तद्विषयाण्येव योजयितव्यानि । तस्मादुक्तुरिन्द्रस्यात्मोपदेशान्न प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते- ऽअध्यात्मसंभन्धभूमा ह्यस्मिन्ऽ इति । अध्यात्मसंबन्धः प्रत्यगात्मसंबन्धस्य भूमाबाहुल्यस्मिन्नध्याय उपलभ्यते । ऽयावद्ध्यस्मिञ्सरीरे प्राणो वसति तावदायुःऽ इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्यप्रधानोपसंहारयोः स्वातन्त्र्यं दर्शयति न देवताविशेषस्य पराचीनस्य । तथास्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति । तथा ऽप्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ (कौ। ३।३) इति, ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इति चेपक्रम्य ऽतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इति विषयोन्द्रियव्यवहारानभिभूतं प्रत्यगात्मानमेवोपसंहरति । ऽस म आत्मेति विद्यात्ऽ इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुर्न पराचीनपरिग्रहे । ऽअयमात्मा ब्रह्म सर्वानभूःऽ (बृह। २।५।१९) इति च श्रुत्यन्तरम् । तस्मादध्यात्मसंबन्धबाहुल्याद्ब्रह्मोपदेश एवायं न देवतात्मोपदेशः ॥ २९ ॥ कथं तर्हि वक्तुरात्मोपदेशः- ---------------------- फ़्न्: त्वष्टृपुत्रं विश्वरूपं ब्राह्मणं अहनं, अरुन्मुखान् रौति यथार्थं शब्दयतीति रुत् वेदान्तवाक्यं तन्मुखे येषां ते रुन्मुखास्तेभ्यो ऽन्यान्वेदान्तबहिर्मुखान्यतीन् सालावृकेभ्यो ऽरण्यश्वभ्यो दत्तवानस्मि । यस्यारेषु नेमिनाभ्योर्मध्यस्थशलाकासु चक्रोपान्तरूपा नेमिरर्पिता, नाभौ चक्रपिण्डिकायामरा अर्पिताः एवं भूतानि पृथिव्यादीनि पञ्च मीयन्त इति मात्रा भोग्याः शब्दादयः पञ्चेति दश भूतमात्राः ।

na vaktur ātmopadeśād iti ced adhyātmasaṃbandhabhūmā hy asmin yaduktaṃ prāṇo brahmeti, tadākṣipyate / na paraṃ brahma prāṇaśabdam / kasmāt, vakturātmopadeśāt / vaktā hīndro nāma kaścidvigrahavāndevatāviśeṣaḥ svamātmānaṃ pratardanāyācacakṣe- 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā' ityahaṅkāravādena / sa eṣa vakturātmatvenopadiśyamānaḥ prāṇaḥ kathaṃ brahma syāt / nahi brahmaṇo vaktṛtvaṃ saṃbhavati 'avāgamanāḥ' (bṛha / 3.8.8) ityādiśrutibhyaḥ / tathā vigrahasaṃbandhibhireva brahmaṇyasaṃbhavadbhirdharmairātmānaṃ tuṣṭāva- 'triśīrṣāṇaṃ tvāṣṭramahanamarunmukhānyatīñśālāvṛkebhyaḥ prāyaccham' ityevamādibhiḥ / prāṇatvaṃ cendrasya balavatvādupapadyate / 'prāṇo vai balam' iti hi vijñāyate / balasya cendro devatā prasiddhā / 'yā ca kācidbalakṛtirindrakarmaiva ta' diti hi vadanti / prajñātmatvamapyapratihatajñānatvāddevatātmanaḥ saṃbhavati / apratihatajñānā devatā iti hi vadanti / niścite caivaṃ devatātmopadeśe hitatamatvādivacanāni yathāsaṃbhavaṃ tadviṣayāṇyeva yojayitavyāni / tasmādukturindrasyātmopadeśānna prāṇo brahmetyākṣipya pratisamādhīyate- 'adhyātmasaṃbhandhabhūmā hyasmin' iti / adhyātmasaṃbandhaḥ pratyagātmasaṃbandhasya bhūmābāhulyasminnadhyāya upalabhyate / 'yāvaddhyasmiñsarīre prāṇo vasati tāvadāyuḥ' iti prāṇasyaiva prajñātmanaḥ pratyagbhūtasyāyuṣyapradhānopasaṃhārayoḥ svātantryaṃ darśayati na devatāviśeṣasya parācīnasya / tathāstitve ca prāṇānāṃ niḥśreyasamityadhyātmamevendriyāśrayaṃ prāṇaṃ darśayati / tathā 'prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' (kau. 3.3) iti, 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' iti cepakramya 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' iti viṣayondriyavyavahārānabhibhūtaṃ pratyagātmānamevopasaṃharati / 'sa ma ātmeti vidyāt' iti copasaṃhāraḥ pratyagātmaparigrahe sādhurna parācīnaparigrahe / 'ayamātmā brahma sarvānabhūḥ' (bṛha. 2.5.19) iti ca śrutyantaram / tasmādadhyātmasaṃbandhabāhulyādbrahmopadeśa evāyaṃ na devatātmopadeśaḥ // 29 // kathaṃ tarhi vakturātmopadeśaḥ- ---------------------- FN: tvaṣṭṛputraṃ viśvarūpaṃ brāhmaṇaṃ ahanaṃ, arunmukhān rauti yathārthaṃ śabdayatīti rut vedāntavākyaṃ tanmukhe yeṣāṃ te runmukhāstebhyo 'nyānvedāntabahirmukhānyatīn sālāvṛkebhyo 'raṇyaśvabhyo dattavānasmi / yasyāreṣu neminābhyormadhyasthaśalākāsu cakropāntarūpā nemirarpitā, nābhau cakrapiṇḍikāyāmarā arpitāḥ evaṃ bhūtāni pṛthivyādīni pañca mīyanta iti mātrā bhogyāḥ śabdādayaḥ pañceti daśa bhūtamātrāḥ /

Sanskrit only: no published translation is held for this verse.

शास्त्रदृष्ट्या तूपदेशो वामदेववत् इन्द्रो नाम देवतात्मानं स्वमात्मानं परमात्मत्वेनाहमेव परं ब्रह्मेत्यार्षेण दर्शनेन यथाशास्त्रं पश्यन्नुपदिशति स्म- ऽमामेव विजानीहिऽ इति । यथा ऽतद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ इति तद्वत् । ऽतद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्ऽ (बृ। १।४।१०) इति श्रुतेः । यत्पुनरुक्तं ऽमामेव विजानीहिऽ इत्युक्त्वा विग्रहधर्मैरिन्द्र आत्मानं तुष्टाव त्वाष्ट्रवधादिभिरिति, तत्परिहर्तव्यम् । अत्रोच्यते- न त्वाष्ट्रवधादीनां विज्ञेयेन्द्रस्तुत्यर्थत्वेनोपन्यासो यस्मादेवङ्कर्माहं तस्मान्मां विजानीहीति । कथं तर्हि । विज्ञानस्तुत्यर्थत्वेन । यत्कारणं त्वाष्ट्रवधादीनि साहसान्युपन्यस्य परेण विज्ञानस्तुतिमनुसंदधाति- ऽतस्य मे तत्र लोभ च न मीयते स यो मां वेद न ह वै तस्य केन च कर्मणा लोको मीयतेऽ इत्यादिना । एतदुक्तं भवति- यस्मादीदृशान्यपि क्रूराणि कर्माणि कृतवतो मम ब्रह्मभूतस्य लोमापि न हिंस्यते, स यो ऽन्यो ऽपि मां वेद न तस्य केनचिदपि कर्मणा लोको हिंस्यत इति । विज्ञेयं तु ब्रह्मैव ऽप्राणो ऽस्मि प्रज्ञात्माऽ इति वक्ष्यमाणम् । तस्माद्ब्रह्मवाक्यमेतत् ॥ ३० ॥

śāstradṛṣṭyā tūpadeśo vāmadevavat indro nāma devatātmānaṃ svamātmānaṃ paramātmatvenāhameva paraṃ brahmetyārṣeṇa darśanena yathāśāstraṃ paśyannupadiśati sma- 'māmeva vijānīhi' iti / yathā 'taddhaitatpaśyannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' iti tadvat / 'tadyo yo devānāṃ pratyabudhyata sa eva tadabhavat' (bṛ. 1.4.10) iti śruteḥ / yatpunaruktaṃ 'māmeva vijānīhi' ityuktvā vigrahadharmairindra ātmānaṃ tuṣṭāva tvāṣṭravadhādibhiriti, tatparihartavyam / atrocyate- na tvāṣṭravadhādīnāṃ vijñeyendrastutyarthatvenopanyāso yasmādevaṅkarmāhaṃ tasmānmāṃ vijānīhīti / kathaṃ tarhi / vijñānastutyarthatvena / yatkāraṇaṃ tvāṣṭravadhādīni sāhasānyupanyasya pareṇa vijñānastutimanusaṃdadhāti- 'tasya me tatra lobha ca na mīyate sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate' ityādinā / etaduktaṃ bhavati- yasmādīdṛśānyapi krūrāṇi karmāṇi kṛtavato mama brahmabhūtasya lomāpi na hiṃsyate, sa yo 'nyo 'pi māṃ veda na tasya kenacidapi karmaṇā loko hiṃsyata iti / vijñeyaṃ tu brahmaiva 'prāṇo 'smi prajñātmā' iti vakṣyamāṇam / tasmādbrahmavākyametat // 30 //

Sanskrit only: no published translation is held for this verse.

जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् यद्यप्यध्यात्मसंबन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः तथापि न ब्रह्मवाक्यं भवितुमर्हति । कुतः, जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च । जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि । अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । तथा मुख्यप्राणलिङ्गमपि- ऽअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ इति । शरीरधारणं च मुख्यप्राणस्य धर्मः, प्राणसंवादे वागादीन्प्राणान्प्रकृत्य- ऽतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्प्राणमवष्टभ्य विधारयामिऽ (प्र। २।३) इति श्रवणात् । ये तु इमं शरीरं परिगृह्य इति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम् । प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम् । मुख्ये ऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव । जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः स्वरूपेण च भेदनिर्देश इत्युभयया निर्देश उपपद्यते- ऽयो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति । ब्रह्मपरिग्रहे तु किं कस्मद्भिद्येत । तस्मादिहजीवमुख्यप्राणयोरन्तर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्, नैतदेवं, उपासात्रैविद्यात् । एवं सति त्रिविधमुपासनं प्रसज्येत- जीवोपासने मुख्यप्राणोपासनं ब्रह्मोपासनं चेति । नचैतदेकस्मिन्वाक्ये ऽभ्युपगन्तुं युक्तम् । उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते । ऽमामेव विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपाःस्वऽ इत्युक्त्वान्ते ऽस एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इत्येकरूपावुपक्रमोपसंहारौ दृश्येते । तत्रार्थैकत्वं युक्तमाश्रयितुम् । नच ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम् । दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणो ऽन्यत्रार्पणानुपपत्तेः । आश्रिततावाच्चान्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः । इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगाद्ब्रह्मोपदेश एवायमिति गम्यते । यत्तु मुख्यप्राणलिङ्गं दर्शितम्- ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, तदसत् । प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् । ऽन प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ (काठ। २।५।५) इति श्रुतेः । यदपि न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गं दर्शितं तदपि न ब्रह्मपक्षं निवारयति । नहि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ऽतत्त्वमसिऽ, ऽअहं ब्रह्मास्मिऽ इत्यादिश्रुतिभ्यः । बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सञ्जीवः कर्ता भोक्ता चेत्युच्यते । तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुं ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादिना प्रत्यगात्माभिमुखीकरणार्थमुपदेशो न विरुध्यते । ऽयद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ऽ (के। १।४) इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति । यत्पुनरेतदुक्तम्- ऽसह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति । नैष दोषः । ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोरभेदनिर्देशोपपत्तेः उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरणमविरुद्धम् । अथवा नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् इत्यस्यायमन्योर्ऽथः- न ब्रह्मवाक्यो ऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते । कथम्, उपासात्रैविध्यात् । त्रिविधमिह ब्रह्मोपासने विवक्षितं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च । तत्र ऽआयुरमृतमुपाःस्वायुः प्राणःऽ इति, ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, ऽतस्मादेतदेवोक्थमुपासीतऽ इति च प्राणधर्मः । ऽअथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःऽ इत्युपक्रम्य ऽवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिऽ इत्यादिः प्रज्ञाधर्मः । ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् । यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः । यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः । नह्यन्तरतो रूपं किञ्चन सिद्ध्येत् । नो एतन्नाना । ऽतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्माऽ इत्यादिर्ब्रह्मधर्मः । तस्माद्ब्रह्म एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् । अन्यत्रापि ऽमनोमयः प्राणशरीरःऽ (छा। ३।१४।२) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् । इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात्प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च । तस्माद्ब्रह्मवाक्यमेतदिति सिद्धम् ॥ ३१ ॥ इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीशङ्करभगवत्पादकृतौ प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥ ---------------------- फ़्न्: यथायोगं किञ्चिदत्र जीववाक्यं किञ्चिन्मुख्यप्राणवाक्यं किञ्चिद्ब्रह्मवाक्यमित्यर्थः । प्राणसंवादे- वागादयः सर्वे प्रत्येकमात्मनः श्रैष्ठ्यं मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः । स तानुवाच यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति । ततः क्रमेण वागादिषूत्क्रान्तेष्वपि शरीरं स्वस्थमस्थत् । मुख्यप्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वे । वरिष्ठः प्राणो ऽब्रवीदहमेव पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्भाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्येति । पञ्च शब्दादयः पञ्च पृथिव्यादय इति दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । अन्यत्र ऽअत एव प्राणऽ इत्यादौ । येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापद्यते तदेव वागादेरगम्यं ब्रह्म । उपासेति स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, नत्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः । तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् । उत्थापयतीत्युक्थमिति प्राणधर्मः । अथेति जीवधर्मः । ____________________________________________________________________________________________ ____________________________________________________________________________________________ प्रथमाध्याये द्वितीयः पादः । [अत्रास्पष्टब्रह्मलिङ्गयुक्तवाक्यानामुपास्यब्रह्मविषयाणां विचारः] । प्रथमे पादे ऽजन्माद्यस्य यतःऽ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं, नित्यत्वं, सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वात्मत्वमित्येवञ्जातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि संदिह्यमानानि ब्रह्मपरतया निर्णीतीनि । पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि संदिह्यन्ते- किं परं ब्रह्म प्रतिपादयन्त्याहोस्विदर्थान्तरं किञ्चिदस्ति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते ।

jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt yadyapyadhyātmasaṃbandhabhūmadarśanānna parācīnasya devatātmana upadeśaḥ tathāpi na brahmavākyaṃ bhavitumarhati / kutaḥ, jīvaliṅgānmukhyaprāṇaliṅgācca / jīvasya tāvadasminvākye vispaṣṭaṃ liṅgamupalabhyate 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi / atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñeyatvamabhidhīyate / tathā mukhyaprāṇaliṅgamapi- 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' iti / śarīradhāraṇaṃ ca mukhyaprāṇasya dharmaḥ, prāṇasaṃvāde vāgādīnprāṇānprakṛtya- 'tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadprāṇamavaṣṭabhya vidhārayāmi' (pra. 2.3) iti śravaṇāt / ye tu imaṃ śarīraṃ parigṛhya iti paṭhanti teṣāmimaṃ jīvamindriyagrāmaṃ vā parigṛhya śarīramutthāpayatīti vyākhyeyam / prajñātmatvamapi jīve tāvaccetanatvādupapannam / mukhye 'pi prāṇe prajñāsādhanaprāṇāntarāśrayatvādupapannameva / jīvamukhyaprāṇaparigrahe ca prāṇaprajñātmanoḥ sahavṛttitvenābhedanirdeśaḥ svarūpeṇa ca bhedanirdeśa ityubhayayā nirdeśa upapadyate- 'yo vai prāṇaḥ sā prajñā yā vai prajñā sa prāṇaḥ saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti / brahmaparigrahe tu kiṃ kasmadbhidyeta / tasmādihajīvamukhyaprāṇayorantara ubhau vā pratīyeyātāṃ na brahmeti cet, naitadevaṃ, upāsātraividyāt / evaṃ sati trividhamupāsanaṃ prasajyeta- jīvopāsane mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti / nacaitadekasminvākye 'bhyupagantuṃ yuktam / upakramopasaṃhārābhyāṃ hi vākyaikatvamavagamyate / 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' ityuktvānte 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' ityekarūpāvupakramopasaṃhārau dṛśyete / tatrārthaikatvaṃ yuktamāśrayitum / naca brahmaliṅgamanyaparatvena pariṇetuṃ śakyam / daśānāṃ bhūtamātrāṇāṃ prajñāmātrāṇāṃ ca brahmaṇo 'nyatrārpaṇānupapatteḥ / āśritatāvāccānyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi vṛtteḥ / ihāpi ca hitatamopanyāsādibrahmaliṅgayogādbrahmopadeśa evāyamiti gamyate / yattu mukhyaprāṇaliṅgaṃ darśitam- 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, tadasat / prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṃ śakyatvāt / 'na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminnetāvupāśritau' (kāṭha. 2.5.5) iti śruteḥ / yadapi na vācaṃ vijijñāsīta vaktāraṃ vidyāt ityādi jīvaliṅgaṃ darśitaṃ tadapi na brahmapakṣaṃ nivārayati / nahi jīvo nāmātyantabhinno brahmaṇaḥ, 'tattvamasi', 'ahaṃ brahmāsmi' ityādiśrutibhyaḥ / buddhyādyupādhikṛtaṃ tu viśeṣamāśritya brahmaiva sañjīvaḥ kartā bhoktā cetyucyate / tasyopādhikṛtaviśeṣaparityāgena svarūpaṃ brahma darśayituṃ 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādinā pratyagātmābhimukhīkaraṇārthamupadeśo na virudhyate / 'yadvācānabhyuditaṃ yena vāgabhyudyate / tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate // ' (ke. 1.4) ityādi ca śrutyantaraṃ vacanādikriyāvyāpṛtasyaivātmano brahmatvaṃ darśayati / yatpunaretaduktam- 'saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti prāṇaprajñātmanorbhedadarśanaṃ brahmavāde nopapadyata iti / naiṣa doṣaḥ / jñānakriyāśaktidvayāśrayayorbuddhiprāṇayoḥ pratyagātmopādhibhūtayorabhedanirdeśopapatteḥ upādhidvayopahitasya tu pratyagātmanaḥ svarūpeṇābheda ityataḥ prāṇa eva prajñātmetyekīkaraṇamaviruddham / athavā nopāsātraividhyādāśritatvādiha tadyogāt ityasyāyamanyor'thaḥ- na brahmavākyo 'pi jīvamukhyaprāṇaliṅgaṃ virudhyate / katham, upāsātraividhyāt / trividhamiha brahmopāsane vivakṣitaṃ prāṇadharmeṇa prajñādharmeṇa svadharmeṇa ca / tatra 'āyuramṛtamupāḥsvāyuḥ prāṇaḥ' iti, 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, 'tasmādetadevokthamupāsīta' iti ca prāṇadharmaḥ / 'atha yathāsyai prajñāyai sarvāṇi bhūtānyekībhavanti tadvyākhyāsyāmaḥ' ityupakramya 'vāgevāsyā ekamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti' ityādiḥ prajñādharmaḥ / tā vā etā daśaiva bhūtamātrā adhiprajñaṃ daśa prajñāmātrā adhibhūtam / yaddhi bhūtamātrā na syurna prajñāmātrāḥ syuḥ / yaddhi prajñāmātrā na syurna bhūtamātrāḥ syuḥ / nahyantarato rūpaṃ kiñcana siddhyet / no etannānā / 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmā' ityādirbrahmadharmaḥ / tasmādbrahma evaitadupādhidvayadharmeṇa svadharmeṇa caikamupāsanaṃ trividhaṃ vivakṣitam / anyatrāpi 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādāvupādhidharmeṇa brahmaṇa upāsanamāśritam / ihāpi tadyujyate vākyasyopakramopasaṃhārābhyāmekārthatvāvagamātprāṇaprajñābrahmaliṅgāvagamācca / tasmādbrahmavākyametaditi siddham // 31 // iti śrīmacchārīrakamīmāṃsābhāṣye śrīśaṅkarabhagavatpādakṛtau prathamādhyāyasya prathamaḥ pādaḥ // 1 // ---------------------- FN: yathāyogaṃ kiñcidatra jīvavākyaṃ kiñcinmukhyaprāṇavākyaṃ kiñcidbrahmavākyamityarthaḥ / prāṇasaṃvāde- vāgādayaḥ sarve pratyekamātmanaḥ śraiṣṭhyaṃ manyamānāstannirdidhārayiṣayā prajāpatimupajagmuḥ / sa tānuvāca yasminnutkrānte śarīraṃ pāpiṣṭhataramiva bhavati sa vaḥ śreṣṭha iti / tataḥ krameṇa vāgādiṣūtkrānteṣvapi śarīraṃ svasthamasthat / mukhyaprāṇasyoccikramiṣāyāṃ sarveṣāṃ vyākulatve / variṣṭhaḥ prāṇo 'bravīdahameva pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadbhāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśrityeti / pañca śabdādayaḥ pañca pṛthivyādaya iti daśa bhūtamātrāḥ / pañca buddhīndriyāṇi pañca buddhaya iti daśa prajñāmātrāḥ / anyatra 'ata eva prāṇa' ityādau / yena caitanyena vāgabhyudyate preryate vadanasāmarthyamāpadyate tadeva vāgāderagamyaṃ brahma / upāseti svatantrāṇāṃ trayāṇāmupāstau vākyabhedaḥ, natvekasyaiva brahmaṇastaddharmeṇetyarthaḥ / tasyāyuṣṭvaṃ jīvanasya tadadhīnatvāt / utthāpayatītyukthamiti prāṇadharmaḥ / atheti jīvadharmaḥ / ____________________________________________________________________________________________ ____________________________________________________________________________________________ prathamādhyāye dvitīyaḥ pādaḥ / [atrāspaṣṭabrahmaliṅgayuktavākyānāmupāsyabrahmaviṣayāṇāṃ vicāraḥ] / prathame pāde 'janmādyasya yataḥ' ityākāśādeḥ samastasya jagato janmādikāraṇaṃ brahmetyuktam / tasya samastajagatkāraṇasya brahmaṇo vyāpitvaṃ, nityatvaṃ, sarvajñatvaṃ, sarvaśaktitvaṃ, sarvātmatvamityevañjātīyakā dharmā uktā eva bhavanti / arthāntaraprasiddhānāṃ ca keṣāñcicchabdānāṃ brahmaviṣayatvahetupratipādanena kānicidvākyāni spaṣṭabrahmaliṅgāni saṃdihyamānāni brahmaparatayā nirṇītīni / punarapyanyāni vākyānyaspaṣṭabrahmaliṅgāni saṃdihyante- kiṃ paraṃ brahma pratipādayantyāhosvidarthāntaraṃ kiñcidasti / tannirṇayāya dvitīyatṛtīyau pādāvārabhyete /

Sanskrit only: no published translation is held for this verse.