तत् तु समन्वयात्
तु शब्दः पूर्वपक्षव्यावृत्त्यर्थः ।
तद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्ति स्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यते ।
कथम्, समन्वयात् ।
सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानि ।
ऽसदेव सोम्येदमग्र आसीत्ऽ ।
ऽएकमेवाद्वितायम्ऽ ।
(छान्दो। ६।२।१) ऽआत्मावा इदमेक एवाग्र आसीत्ऽ ।
(ऐत। २।१।१।१) ऽतदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्ऽ ।
ऽअयमातमा ब्रह्म सर्वानुभूःऽ ।
(बृह। २।५।१९) ऽब्रह्मैवेदममृतं पुरस्तात्ऽ ।
(मुण्ड। २।२।११) इत्यादीनि ।
नच तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वये ऽवगम्यमानेर्ऽथान्तरकल्पना युक्ता, श्रुतिहानन्यश्रुतकल्पनाप्रसङ्गात् ।
नच तेषां कर्तृस्वरूपप्रतिपादनपरतावसीयते, ऽतत्केन कं पयेत्ऽ (बृह। २।४।१३) इत्यादि क्रियाकारकफलनिरीकरणश्रुतेः ।
नच परिनिष्ठितवस्तुस्वरूपत्वे ऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, ऽतत्त्वमसिऽ (छान्दो। ६।८।७) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात् ।
यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति, नैष दोषः, हेयोपादेयाशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्राहाणात्पुरुषार्थसिद्धेः ।
देवतादिप्रतिपादनास्य तु स्ववाक्यगतोपासनार्थत्वे ऽपि न कश्चिद्विरोधः ।
नतु तथा ब्रह्मण उपासनाविधिशेषित्वं संभवति, एकत्वे हेयोपादेयाशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्देपपत्तेः ।
नह्येकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः संभवो ऽस्ति, येनोपासनाविधिशेषित्वं ब्रह्मणः प्रतिपद्येत ।
यद्यप्यन्यत्र वेदवाक्यानां वीधिसंस्पर्शमन्तरेण प्रमाणत्वं न दृष्टं, तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् ।
न चानुमानगम्यं शास्त्रप्रामाण्यं, येनान्यत्र दृष्टं निदर्शनमपेक्षेत ।
तस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम् ।
अत्रापरे प्रत्यवतिफष्ठन्ते- यद्यपि शास्त्रप्रमाणकं ब्रह्म तथापि प्रतिपत्तिविधिविषयतैव शास्त्रेण ब्रह्म समर्प्यते ।
यथा यूपाहवहनीयादीन्यलौकिकान्यपि विधिशषतया शास्त्रेण समर्प्यन्ते तद्वत् ।
कुत एतत् ।
प्रवृत्तिनिवृत्तिप्रयोजनत्वाच्छास्त्रस्य ।
तथाहि शास्त्रतात्पर्यविद आहुः- ऽदृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इति ।
ऽचोदनेति क्रियायाः प्रवर्तकं वचनम्ऽ ।
ऽतस्य ज्ञानमुपदेशःऽ- (जैसू। १।१।५) ऽतद्भूतानां क्रियार्थेन समाम्नायःऽ- (जैसू। १।१।२५) ऽआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्-ऽ
(जैसू। १।२।१) इतिच ।
अतः पुरुषं द्वचिद्विषयविशेषे प्रवर्तयत्कुतश्चिद्विषयविशेषान्निवर्तयच्चार्थवच्छास्त्रम् ।
तच्छेषतया चान्यदुपयुक्तम् ।
तत्सामान्याद्वेदान्तानामपि तथैवार्थवत्त्वं स्यात् ।
सति च विधिपरत्वे यथा स्वर्गादिकामस्याग्निहोत्रादिसाधनं विधीयत एवममृतत्वकामस्य ब्रह्मज्ञानं विधीयत इति युक्तम् ।
नन्विह जिज्ञास्यवैलक्षण्यमुक्तम्- कर्मकाण्डे भव्यो धर्मो जिज्ञास्य इह तु भूतं नित्यनिवृत्तं ब्रह्म जिज्ञास्यमिति ।
तत्र धर्मज्ञानफलादनुष्ठानापेक्षाद्विलक्षणं ब्रह्मज्ञानफलं भवितुमर्हति ।
नार्हत्येवं भवितुम् ।
कार्यविधिप्रयुक्त्तस्यैव ब्रह्मणः प्रतिपाद्यमानत्वात् ।
ऽआत्मा वा अरे द्रष्टव्यःऽ (बृह। २।४।५) इति ।
ऽय आत्मापहतपाप्मा-सो ऽन्वेव्यः स विजिज्ञासितव्यःऽ (छान्दो। ८।७।१) ऽआत्मेत्योवोपासीतऽ (बृह।१।४।७) ऽआत्मानमेव लोकमुपासतऽ (बृह। १।४।१५) ।
ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड। ३।२।९) इत्यादिविधानेषु सत्सु को ऽसावात्मा किं तद्ब्रह्म इत्याकाङ्क्षायां तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः- ऽनित्यः सर्वज्ञः सर्वगतो नित्यतृप्तो नित्याशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म। इत्येवमादयः ।
तदुपासनाच्च शास्त्रदृष्टो ऽपि मोक्षः फलं भविष्यतीति ।
कर्तव्यविध्यननुप्रवेशे वस्तुमात्रकथने हानोपादानसंभवात्, सप्तद्वीपा वसुमती, राजासौ गच्छतीत्यादिवाक्यवद्वेदान्तवाक्यानामानर्थक्यमेव स्यात् ।
ननु वस्तुमात्रकथने ऽपि रजुरियं नायं सर्प इत्यादौ भ्रान्तिजनितभीतिनिवर्तनेनार्थवत्त्वं दृष्टं तथेहाप्यसंसार्यात्मवस्तुकथनेन संसारित्वभ्रान्तिनिवर्तनेनार्थवत्त्वं स्यात् ।
स्यादेतदेवं, यदि रजुस्वरूपश्रवण इव सर्पभ्रान्तिः, संसारित्वभ्रान्तिर्ब्रह्मस्वरूपश्रवणमात्रेण निवर्तेत ।
नतु निवर्तते, श्रुतब्रह्मणो ऽपि यथापूर्वं सुखदुःखादिसंसारिधर्मदर्शनात्, ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृह। २।४।५) इति च श्रवणोत्तरकालयोर्मनननिदिध्यासनयोर्विधिर्दर्शनात् ।
तस्मात्प्रतिपत्तिविधिविषयतयैव शास्त्रप्रमाणकं ब्रह्माभ्युपगन्तव्यमिति ।
अत्राभिधीयते- न ।
कर्मब्रह्मविद्याफलयोर्वैलक्षण्यात् ।
शारीरं वाचिकं मानसं च कर्म श्रुतिस्मृतिसिद्धं धर्माख्यं, यद्विषया जिज्ञासा ऽअथातो धर्मजिज्ञासाऽ (जैसू। १।१।१) इति सूत्रिता, अधर्मो ऽपि हिंसादिः प्रतिषेधचोदनालक्षणत्वाज्जिज्ञास्यः परिहाराय ।
तयोश्चोदनालक्षणयोरर्थानर्थयोर्धर्माधर्मयोः फले प्रत्यक्षे सुखदुःखे शरीरवाङ्मनोभिरेवोपभुज्यमाने विषयेन्द्रियसंयोगजन्ये ब्रह्मादिषु स्थावरान्तेषु प्रसिद्धे ।
मनुष्यत्वादारभ्य ब्रह्मान्तेषु देहवत्सु सुखतारतम्यमनुश्रूयते ।
ततश्च तद्धेतोर्धर्मस्य तारतम्यं गम्यते ।
धर्मतारतम्यादधिकारितारतम्यम् ।
प्रसिद्धं चार्थित्वसार्मथ्यादिकृतमधिकारितारतम्यम् ।
तथाच यागाद्यनुष्ठायिनामेव विद्यासमाधिविशेषादुत्तरेण पथा गमनं, केवलैरिष्टापूर्तदत्तसाधनैर्धूमादिक्रमेण दक्षिणेन पथा गमनं, तत्रापि सुखतारतम्यं तत्साधनतारतम्यं च शास्त्रात् ऽयावत्संपातमुषित्वाऽ (छान्दो। ५।१०।५)
इत्यस्माद्गम्यते ।
तथा मनुष्यादिषु नारकस्थावरान्तेषु सुखलवश्चोदनालक्षणधर्मसाध्य एवेति गम्यते तारतम्येन वर्तमानः ।
तथोर्ध्वगतेष्वधोगतेषु च देहवत्सु दुःखतारतम्यर्दानात्तद्धेतोरधर्मस्य प्रतिषेधचोदनाक्षणस्य तदनुष्ठायिनां च तारतम्ये गम्यते ।
एवमविद्यादिदोषवतां धर्माधर्मतारतम्यनिमित्तं शरीरोपादानपूर्वकं सुखदुःखतारतम्यनिमित्तं संसाररूपं श्रुतिस्मृतिन्यायप्रसिद्धम् ।
तथाच स्मृतिः- ऽन ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्तिऽ इति यथावर्णितं संसाररूपमनुवदति ।
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छान्दो। ८।१२।१) इति प्रियाप्रियस्पर्शनप्रतिषेधाच्चोदनालक्षणधर्मकार्यत्वं मोक्षाख्यस्याशरीरत्वस्य प्रतिषिध्यत इति गम्यते ।
धर्मकार्यत्वे हि प्रियाप्रियस्पर्शनप्रतिषेधो नोपपद्यते ।
अशरीरत्वमेव धर्मकार्यमितिचेन्न, तस्य स्वाभाविकत्वात् ।
ऽअशरीरं शरीरेश्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचतिऽ (काठ। १।२।२१) ऽअप्राणो ह्यमनाः शुभ्रःऽ (मुण्ड। २।१।२) ऽअसङ्गो ह्ययं पुरुषःऽ (बृह। ४।३।१५) इत्यादिश्रुतिभ्यः ।
अत एवानुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरत्वं नित्यमिति सिद्धम् ।
तत्र किञ्चित्परिणामि नित्यं यस्मिन्विक्रियमाणे ऽपि तदेवेदमिति बुद्धिर्न विहन्यते ।
यथा पृथिव्यादिजगन्नित्यत्ववादिनाम् ।
यथा च सांख्यानां गुणाः ।
इदं तु पारमार्थिकं, कूटस्थनित्यं, व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं, नित्यतृप्तं, निरवयवं, स्वयञ्ज्योतिःस्वभावम् ।
यत्र धर्माधर्मी सह कार्येण कालत्रयं च नोपावर्तेते ।
तदेदारीरत्वं मोक्षाख्यम् ।
ऽअन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात् ।
अन्यत्र भूताच्च भव्याच्चऽ (क। २।१४)
इत्यादिश्रुतिभ्यः ।
अतस्तद्ब्रह्म यस्येयं जिज्ञासा प्रस्तुता, तद्यदि कर्तव्योषत्वेनोपदियेत, तेन च कर्तव्येन साध्यश्चेन्मोक्षो ऽभ्युपगम्येत, अनित्य एव स्यात् ।
तत्रैवं सति यथोक्तकर्मफलेष्वेव तारतम्यावस्थितेष्वनित्येषु कश्चिदतिशयो मोक्ष इति प्रसज्येत, नित्यश्च मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते, अतो न कर्तव्यशेषत्वेन ब्रह्मोपदेशो युक्तः ।
अपिच ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड। ३।२।९) ऽक्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परापरेऽ (मुण्ड। २।२।८) ।
ऽआनन्दं ब्रह्मणो विद्वान् ।
न बिभेति कुतश्चयनऽ (तैत्ति। २।९) ।
ऽअभयं वै जनक प्राप्तो ऽसिऽ (बृह। ४।२।४) ऽतदात्मानमेवावेदेहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्ऽ ।
(वाजसनेयब्राह्मणोप। १।४।१०) ऽतत्र को मोहः कः शोक एकत्वमनुपयतःऽ (ई(?)। ७) इत्येवमाद्याः श्रुतयो ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यो मध्ये कार्यान्तरं वारयन्ति ।
तथा ऽतद्वैतत्पशयन्नृषिर्वामदेवः प्रतिपेदे ऽहं मनुरभवं सूर्यश्चऽ (बृह। १।४।१०)इति ब्रह्मदर्शनसर्वात्मभावयोर्मध्ये कर्तव्यान्तरवारणायोदाहार्यम् ।
यथा तिष्ठन्गायतीति तिष्ठतिगायत्ययोर्मध्ये तत्कर्तृकं कार्यान्तरं नास्तीति गम्यते ।
ऽत्वं हि नः पिता यो ऽस्माकमविद्यायाः परं पारं तारयसिऽ (प्र। ६।८) ऽश्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति सो ऽहं भगवः शोचामि त्वं मा भगवच्छोकस्य पारं तारयतुऽ (छान्दो। ७।१।३) ऽतस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारःऽ (छान्दो। ७।२६।२) इति चैवमाद्याः श्रुतयो मोक्षप्रतिबन्धनिवृत्तिमात्रमेवात्मज्ञानस्य फलं दर्शयन्ति ।
तथाचार्यप्रणीतं न्यायोपबृंहितं सूत्रम्- ऽदुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गःऽ (न्या। सू। १।१।२) इति ।
मिथ्याज्ञानापायश्च ब्रह्मात्मैकत्वविज्ञानाद्भवति ।
नचेदं ब्रह्मात्मैकत्वविज्ञानं संपद्रूपम् ।
यथा ऽअनन्तं वै मनो ऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयतिऽ (बृह। ३।१।९) इति ।
न चाध्यासरूपम् ।
यथा ऽमनो ब्रह्मेत्युपासीतऽ (छान्दो। ३।१८।१) ऽआदित्यो ब्रह्मेत्यादेःशःऽ (छान्दो। ३।१९।१) इति च मन आदित्यादिषु ब्रह्मदृष्टध्यासः ।
नापि विशिष्टक्रियायोगनिमित्तं ऽवायुर्वाव संवर्गःऽ ऽप्राणो वाव संवर्गःऽ (छान्दो। ४।३।१) इतिवत् ।
नाष्वाज्यावेक्षणादिकर्मवत्कर्माङ्गसंस्काररूपम् ।
संपदादिरूपे हि ब्रह्मात्मैकत्वविज्ञाने ऽभ्युपगम्यमाने ऽतत्वमसिऽ (छान्दो। ६।८।७) ऽअहं ब्रह्मास्मिऽ (बृह। १४।१०) ऽअयमात्मा ब्रह्मऽ (बृह। २।५।१९) इत्येवमादीनां वाक्यानां ब्रह्मात्मैकत्ववस्तुप्रतिपादनपरः पदसमन्वयः पीड्येत ।
ऽभिद्यते हृदयग्रन्थिशिछद्यन्ते सर्वसंशयाःऽ (मुण्ड। २।२।८) इति चैवमादीन्यविद्यानिवृत्तिफलश्रवणान्युपरुध्येरन् ।
ऽब्रह्म वेद ब्रह्मैव भवतिऽ (मुण्ड। ३।२।९) इति चैवमादीनि तद्भावापत्तिवचनानि संपदादिपक्षे न सामञ्जस्येनोपपद्येरन् ।
तस्मान्न संपदादिरूपं ब्रह्मात्मैकत्वविज्ञानम् ।
अतो न पुरुषव्यापारतन्त्रा ब्रह्मविद्या ।
किं तर्हि प्रत्यक्षादिप्रमाणविषयवस्तुज्ञानवद्वस्तुतन्त्रा ।
एवंभूतस्य ब्रह्मणस्तज् ज्ञानस्य च न कयाचिद्युक्त्या शक्यः कार्यानुप्रवेशः कल्पयितुम् ।
नच विदिक्रियाकर्मत्वेन कार्यानुप्रवेशो ब्रह्मणः, ऽअन्यदेव तद्विदितादथो अविदितादधिऽ (केन। १।३) इति विदिक्रियाकर्मत्वप्रतिषेधात्, ऽयेनेदं सर्वं विजानाति तं केन विजानीयात्ऽ (बृह। २।४।१३) इति च ।
तथोपास्तिक्रियाकर्मत्वप्रतिषेधो ऽपि भवति- यद्वाचानभ्युदितं येन वागभ्युद्यते इत्यविषयत्वं ब्रह्मण उपन्यस्य, ऽतदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासतेऽ (केन। १।४) इति ।
अविषयत्वे ब्रह्मणः शास्त्रयोनित्वानुपपत्तिरितिचेत् ।
न ।
अविद्याकल्पितभेदनिवृत्तिपरत्वाच्छास्त्रस्य ।
नहि शास्त्रमिदन्तया विषयभूतं ब्रह्म प्रतिपिपादयिषति ।
किं तर्हि, प्रत्यगात्मत्वेनाविषयतया प्रतिपादयविद्याकल्पितं वेद्य-वेदितृ-वेदनादिभेदमपनयति ।
तथाच शास्त्रम्- ऽयस्यामतं तस्य मतं, मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञातमविजानताम्ऽ (केन। २।३) ऽन दृष्टेर्द्रष्टारं पश्येःऽ, ऽन विज्ञातेर्विज्ञातारं विजानीयाःऽ (बृह। ३।४।२) इति चैवमादि ।
अतो ऽविद्याकल्पितसंसारित्वनिवर्तनेन नित्यमुक्तात्मस्वरूपसमर्पणान्न मोक्षस्यानित्यत्वदोषः ।
यस्य तूत्पाद्यो मोक्षस्तस्य मानसं, वाचिकं, कायिकं वा कार्यमपेक्षत इति युक्तम् ।
तथा विकार्यत्वे च तयोः पक्षयोर्मोक्षस्य ध्रुवमनित्यत्वम् ।
नहि दध्यादि विकार्यं, उत्पाद्यं वा धटादि, नित्यं दृष्टं लोके ।
नचाप्यत्वेनापि कार्यापेक्षा, स्वात्मस्वरूपत्वे सत्यनाप्यत्वात् ।
स्वरूपव्यतिरिक्तत्वे ऽपि ब्रह्मणो नाप्यत्वं, सर्वगतत्वेन नित्याप्तस्वरूपत्वात्सर्वेण ब्रह्मणः, आकाशस्येव ।
नापि संस्कार्यो मोक्षः, येन व्यापारमपेक्षेत ।
संस्कारो हि नाम संस्कार्यस्य गुणाधानेन वा स्याद्दोषापनयनेन वा ।
न तावद्गुणाधानेन संभवति, अनाधेयातिशयब्रह्मस्वरूपत्वान्मोक्षस्य ।
नापि दोषापनयनेन, नित्याशुद्धब्रह्मस्वरूपत्वान्मोक्षस्य ।
स्वात्मधर्म एव संस्थिरोभीतो मोक्षः क्रिययात्मनि संस्क्रियमाणे ऽभिव्यज्यते, यथाऽदर्शे निघर्षणक्रियया संस्क्रयमाणे भास्वरत्वं धर्म इतिचेत् ।
न ।
क्रियाश्रयत्वानुपपत्तेरात्मनः ।
यदाश्रया क्रिया तमविकुर्वती नैवात्मानं लभते ।
यद्यात्मा क्रियया विक्रियेतानित्यत्वमात्मनः प्रसज्येत ।
ऽअविकार्यो ऽयमुच्यतेऽ इति चैवमादीनि वाक्यानि बाध्येरन् ।
तच्चानिष्टम् ।
तस्मान्न स्वाश्रया क्रियाऽत्मानः संभवति ।
अन्याश्रयायास्तु क्रियाया अविषयत्वान्न तयात्मा संस्क्रियते ।
ननु देहाश्रयया स्नानाचमनयज्ञोपवीतादिकया क्रियया देही संस्क्रियमाणो दृष्टः ।
न ।
देहादिसंहतस्यैवाविद्यागृहीतस्यात्मानः संस्क्रियमाणत्वात् ।
प्रत्यक्षं हि स्नानाचमनादेर्देहसमवायित्वम् ।
तया देहाश्रयया तत्संहत एव कश्चिदविद्ययात्मत्वेन परिगृहीतः संस्क्रियत इति युक्तम् ।
यथा देहाश्रयचिकित्सानिमित्तेन धातुसाम्येन तत्संहतस्य तदभिमानिन आरोग्यफलं, अहमरोग इति यत्र बुद्धिरुत्पद्यते ।
एवं स्नानाचमनयज्ञोपवीतादिना अहं शुद्धः संस्कृत इति यत्र बुद्धिरुत्पद्यते स संस्क्रियते ।
स च देहेन संहत एव ।
तेनैव ह्यहङ्कर्त्राहंप्रत्ययविषयेण प्रत्ययिना सर्वाः क्रिया निर्वर्त्यन्ते ।
तत्फलं च स एवाश्नाति, ऽतयोरन्यः पिप्पलं स्वाद्वत्त्यनाश्नन्नन्यो अभिचाकाशीतिऽ (मुण्ड। ३।१।१) इति मन्त्रवर्णात् ।
ऽआत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणःऽ (काठ। १।३।४) इति च ।
तथाच ऽएको देवःसर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्चऽ (श्वेता। ६।११) इति ।
स पर्यगाच्छुक्रमकायमन्त्रणमस्त्राविरंशुद्धमपापविद्धम् ।
(ई(?)। ८) इति च ।
एतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः ।
ब्रह्मभावश्च मोक्षः ।
तस्मान्न संस्कार्यो ऽपि मोक्षः ।
अतो ऽन्यन्मोक्षं प्रति क्रियानुप्रवेशद्वारं न शक्यं केनचिद्दर्शयितुम् ।
तस्मात् ज्ञानमेकं मुक्त्वा क्रियाया गन्धमात्रस्याप्यनुप्रवेश इह नोपपद्यते ।
ननु ज्ञानं नाम मानसी क्रिया ।
न ।
वैलक्षण्यात् ।
क्रिया हि नाम सा यत्र वस्तुस्वरूपनिरपेक्षैव चोद्यते, पुरुषचित्तव्यापाराधीना च ।
यथा यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायेद्व्षट्करिष्यन् इति ।
ऽसंध्यां मनसा द्यायेत्ऽ (ऐब्रा। ३।८।१) इति चैवमादिषु ।
ध्यानं चिन्तनं यद्यपि मानसं तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं, पुरुषतन्त्रत्वात् ।
ज्ञानं तु प्रमाणजन्यम् ।
प्रमाणं च यथाभूतवस्तुविषयमतो ज्ञानं कर्तुमकर्तुमन्यथा वा कर्तुमशक्यं, केवलं वस्तुतन्त्रमेव तत् ।
न चोदनातन्त्रम् ॥
नापि पुरुषतन्त्रम् ।
तस्मान्मानसत्वे ऽपि ज्ञानस्य महद्वैलक्षण्यम् ।
यथाच ऽपुरुषो वाव गौतमाग्निःऽ, ऽयोषा वाव गौतमाग्निः (छान्दो। ५।७,८।१) इत्यत्र योषित्पुरुषयोरग्निबुद्धिर्मानसी भवति ।
केवचोदनाजन्यत्वात्क्रियैव सा पुरुषतन्त्रा च ।
या तु प्रसिद्धे ऽग्नावग्निबुद्धिर्न सा चोदनातन्त्रा ।
नापि पुरुषतन्त्रा ।
किं तर्हि प्रत्यक्षवस्तुतन्त्रैवेति ज्ञानमेवैतन्न क्रिया ।
एवं सर्वप्रमाणविषयवस्तुषु वेदितव्यम् ।
तत्रैवं सति यथाभूतब्रह्मात्मविषयमपि ज्ञानं न चोदनातन्त्रम् ।
तद्विषये लिङागादयः श्रूयमाणा अप्यनियोज्यविषयत्वात्कुण्ठीभवन्त्युपलादिषु प्रयुक्तक्षुरतैक्ष्ण्यादिवत्, अहेयानुपादेयवस्तुविषयत्वात् ।
किमर्थानि तर्हि ऽआत्मा वारे द्रष्यव्यः श्रोतव्यःऽ इत्यादीनि विधिच्छायानि वचनानि ।
स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीति ब्रूमः ।
यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयाददनिष्टं माभूदिति, नच तत्रात्यन्तिकं पुरुषीर्थं लभते, तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविककार्यकरणसंघातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्ति ऽआत्मा वा अरे द्रष्टव्यःऽ
इत्यादीनि ।
तस्यात्मान्वेषणाय प्रवृत्तस्याहेयमनुपादेयं चात्मतत्त्वमुपदिश्यते ।
ऽइदं सर्वं यदयमात्माऽ (बृह। २।४।६) ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् केन कं विजानीयात् वीज्ञातारमरे केन विजानीयात्ऽ (बृह। ४।५।१५) ऽअयमात्मा ब्रह्मऽ (बृह। २।५।१९) इत्यादिभिः ।
यदप्यकर्तव्यप्रधानमात्मज्ञानं हानायोपादानाय वा न भवतीति, तत्तथैवेत्यभ्युपगम्यते ।
अलङ्कारो ह्ययमस्माकं यद्ब्रह्मात्मावगतौ सत्यां सर्वकर्तव्यताहानिः कृतकृत्यता चेति ।
तथाच श्रुतिः- ऽआत्मानं चेद्विजानीयादयमस्तीति पूरुषः ।
किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत्ऽ ॥
(बृह। ४।४।१२) इति ।
ऽएतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारतऽ ।
(भगी। १५।२०) इति स्मृतिः ।
तस्मान्न प्रतिपत्तिविधिविषयतया ब्रह्मणः समर्पणम् ।
यदपि केचिदाहुः- ऽप्रवृत्तिनिवृत्तिविधितच्छेषव्यतिरेकेण केवलवस्तुवादी वेदभागो नास्तिऽ इति तन्न, औपनिषदस्य पुरुषस्य पुरुषस्यानन्यशेषत्वात् ।
यो ऽसावुपनिषत्स्वेवाधिगतः पुरुषो ऽसंसारी ब्रह्म उत्पाद्यादिचतुर्विधद्रव्यविलक्षणः स्वप्रकरणस्थो ऽनन्योशेषः, नासौ नास्ति नाधिगम्यत इति वा शक्यं वदितुम्, ऽस एष नेति नेत्यात्माऽ (बृह। ३।९।२६) इत्यामशब्दात्, आत्मनश्च प्रत्याख्यातुमशक्यत्वात्, य एव निराकर्ता तस्यैवात्मत्वात् ।
नन्वात्माहंप्रत्ययविषयत्वादुपनिषत्स्वेव विज्ञायत इत्यनुपपन्नम् ।
न ।
तत्साक्षित्वेन प्रत्युक्तत्वात् ।
नह्यहंप्रत्ययविषयकर्तृव्यतिरेकेण तत्साक्षी सर्वभूतस्थः सम एकः कूटस्थनित्यः पुरुषो विधिकाण्डे तर्कसमये वा केनचिदधिगतः सर्वस्यात्मा, अतः स न केनचित्प्रत्याख्यातुं शक्यो विधिशेषत्वं वा नेतुम् ।
अस्मत्वादेव च सर्वेषां न हेयो नाप्युपादेयः ।
सर्वं हि विनश्यद्विकारजातं पुरुषान्तं विनश्यति ।
पुरुषो विनाशहेत्वाभावादविनाशी, विक्रियाहेत्वभावाच्च, कूटस्थनित्यः, अत एव नित्याशुद्धबुद्धमुक्तस्वभावः ।
तस्मात् ऽपुरुषान्न परं किञ्चित्सा काष्टा सा परा गतिःऽ (काठ। १।३।११) ऽतं त्वौपनिषदं पुरुषं पृच्छामिऽ (बृह। ३।९।२३) इति चौपनिषदत्वविशेषणं पुरुषस्योपनिषत्सु प्राधान्येन प्रकाश्यमानत्व उपपद्यते ।
अतो भूतवस्तुपरो वेदभागो नास्तीति वचनं साहसमात्रम् ।
यदपि शास्त्रतात्पर्यविदामनुक्रमणम्- ऽदृष्टो हि तस्यार्थः कर्मावबोधनम्ऽ इत्येवमादि, तद्धर्मजिज्ञासाविषयत्वाद्विधिप्रतिषेधाशास्त्राभिप्रायं द्रष्टव्यम् ।
अपिच ऽआम्नायस्य क्रियार्थत्वादानर्थक्यमतर्थानाम्ऽ इत्येतदेकान्तेनाभ्युपगच्छतां भूतोपदेशानार्थक्यप्रसङ्गः ।
प्रवृत्ति निवृत्तिविधितच्छेषव्यतिरेकेण भूतं चेद्वस्तूपदिशति भव्यार्थत्वेन, कूटस्थनित्यं भूतं नोपदिशतीति को हेतुः ।
नहि भूतमुपदिश्यमानं क्रिया भवति ।
अक्रियात्वे ऽपि भूतस्य क्रियासाधनत्वात्क्रियार्थं एव भूतोपदेश इति चेत् ।
नैष दोषः ।
क्रियार्थत्वे ऽपि क्रियातिवर्तनशक्तिमद्वस्तूपदिष्टमेव ।
क्रियार्थत्वं तु प्रयोजनं तस्य ।
न चैतावता वस्त्वनुपदिष्टं भवति ।
यदि नामोपदिष्टं किं तव तेन स्यादिति ।
उच्यते- अनवगतात्मवस्तूपदेशश्च तथैव भवितुमर्हति ।
तदवगत्या मिथ्याज्ञानस्य संसारहेतोर्निवृत्तिः प्रयोजनं क्रियत इत्यवाशिष्टमर्थवत्त्वं क्रियासाधनवस्तूपदेशेन ।
अपिच ऽब्राह्मणो न हन्तव्यःऽ इति चैवमाद्या निवृत्तिरुपदिश्यते ।
नच सा क्रिया ।
नापि क्रियासाधनम् ।
अक्रियार्थानामुपदेशो ऽनर्थकश्चेत् ऽब्राह्मणो न हन्तव्यःऽ इत्यादिनिवृत्त्युपदेशानामानर्थक्यं प्राप्तम् ।
तच्चानिष्टम् ।
नच स्वाभावप्राप्तहन्त्यर्थानुरागेण नञः शक्यमप्राप्तक्रियार्थत्वं कल्पयितुं, हननक्रियानिवृत्त्यौदासीन्यव्यतिरेकेण ।
नञश्चैष स्वभावो यत्स्वसंबन्धिनो ऽभावं बोधयतीति ।
अभावबुद्धिश्चौदासीन्यकारणम् ।
सा च दग्धेन्धनाग्निवत्स्वयमेवोपाशाम्यति ।
तस्मात्प्रसक्तक्रियानिवृत्त्यौदासीन्यमेव ऽब्राह्मणो न हन्तव्यःऽ इत्यादिषु प्रतिषेधार्थं मन्यामहे, अन्यत्र प्रजापतित्रातादिभ्यः ।
तस्मात्पुरुषार्थानुपयोग्युपाख्यानादिभूतार्थवादविषयमानर्थक्याभिधानं द्रष्टव्यम् ।
यदप्युक्तं- कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमानर्थकं स्यात् ऽसप्तद्वीपा वसुमतीऽ त्यादिवदिति, तत्परिहृतम् ।
रजुरियं नायं सर्प इति वस्तुमात्रकथने ऽपि प्रयोजनस्य दृष्टत्वात् ।
ननु श्रुतब्रह्मणो ऽपि यथापूर्वं संसारित्वर्दानान्न रजुस्वरूपकथनवदर्थवत्त्वमित्युक्तम् ।
अत्रोच्यते- नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुं व वेदप्रमाणजनितब्रह्मात्मभावविरोधात् ।
नहि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् ।
नहि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापह्रनिमित्तं दुःखं भवति ।
नच कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमाननिमित्तं सुखं भवति ।
तदुक्तं श्रुत्या- ऽआरीरं वाव सन्तं न प्रियाप्रिये स्पृशतःऽ (छान्दो। ८।१२।१) इति ।
शरीरे पतिते ऽशरीरत्वं स्यात्, न जीवत इति चेन्न, सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्त्वात् ।
न ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वान्यतः सशरीरत्वं शक्यं कल्पयितुम् ।
नित्यमशरीरत्वमकर्मनिमित्तत्त्वादित्यवोचाम ।
तत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेन्न, शरीरसंबन्धस्यासिद्धत्वाद्धर्माधर्मयोरात्मकृतत्वासिद्धेः ।
शरीरसंबन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गादन्धपरम्परैषानादित्वकल्पना ।
क्रियासमवायाभावाच्चाम्तनः कर्तृत्वानुपपत्तेः ।
संनिधानमात्रेण राजप्रभृतीनां दृष्टं कर्तव्यमिति चेन्न, धनदानाद्युपार्जितभृत्यसंबन्धत्वात्तेषां कर्तृत्वोपपत्तेः ।
न त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिसंबन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम् ।
मिथ्याभिमानस्तु प्रत्यक्षः संबन्धहेतुः ।
एतेन यजमानत्वमात्मनो व्याख्यातम् ।
अत्राहुः- देहादिव्यतिरिक्तस्यात्मन आत्मीये देहादावभिमानो गौणो न मिथ्येति चेन्न, प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेः ।
यस्य हि प्रसिद्धो वस्तुभेदः, यथा केसरादिमानाकृतिविशेषो ऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्यो ऽन्यः प्रसिद्धः ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः संपन्नः सिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतो नाप्रसिद्धवस्तुभेदस्य ।
तस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतो न गौणौ ।
यथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथावा शुक्तिकायामकस्माद्रजतमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसंघाते ऽहमिति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम् ।
आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतः ।
तस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव न गौणः ।
तस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतो ऽपि विदुषो ऽशरीरत्वम् ।
तथाच ब्रह्मविद्विषया श्रुतिः- ऽ तद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते ।
अथायमशरीरो ऽमृतः प्राणो ब्रह्मैव तेज एवऽ (बृह। ४।४।७) इति ।
ऽसचक्षुरचक्षुरिव सकर्णो ऽकर्ण इव सवागवागिव समना अमना इव सप्राणो ऽप्राण इवऽ इति च ।
स्मृतिरपि च- ऽस्थितप्रज्ञस्यका भाषाऽ (भगी। २।५४) इत्याद्या स्थितप्रज्ञलक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसंबन्धं दर्शयति ।
तस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम् ।
यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम् ।
यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्वधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायित्वमिति ।
न ।
अवगत्यर्थत्वान्मनननिदिध्यासनयोः ।
यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत भवेत्तदा विधिशेषित्वम् ।
नतु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात् ।
तस्मान्न प्रतपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः संभवतीत्यतः स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् ।
एवञ्च सति ऽअथातो ब्रह्मजिज्ञासाऽ इति तद्विषयः पृथक्शास्त्रमारम्भ उपपद्यते ।
प्रतिपत्तिविधिपरत्वे हि ऽअथातो धर्मजिज्ञासेऽत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येत ।
आरभ्यमाणं चैवमारभ्येत - ऽअथातः परिशिष्टधर्मजिज्ञासेतिऽ ऽ अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासाऽ (जै। ४।१।१) इतिवत् ।
ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः- ऽअथातो ब्रह्मजिज्ञासाऽ इति ।
तस्मादहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विषयः सर्वाणि चेतराणि प्रमाणानि ।
नह्यहेयानुपादेयाद्वैतात्मावगतौ निर्विषयाण्यप्रमातृकाणि च प्रमाणानि भवितुमर्हन्तीति ।
अपिचाहुः- ऽगौणमिथ्यात्मनो ऽसत्त्वे पुत्रदेहादिबाधनात् ।
सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् ॥
अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनः ।
अन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितः ॥
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः ।
लौकिकं तद्वदेवेदं प्रमाणं त्वाऽत्मनिश्चयात्ऽ
इति ॥ ४ ॥
इति चतुःसूत्री समाप्ता ।
----------------------
फ़्न्: पूर्वपक्षिणा क्रियाशेषतया ब्रह्म प्रतिपाद्यत इत्युक्तं तद्व्यावृत्त्यर्थमिति भावः ।
पूर्णतया जुहूद्वारा क्रतुशेषतावादात्मनो ऽपि ज्ञानद्वारा कर्मशेषत्वात्तदर्था वेदान्तास्तद्विधिशेषा भविष्यन्तीत्याशङ्क्याह तत्केनेति ।
प्रतिपत्तिकर्म प्रधानकर्मशेषाङ्गं ।
यथ प्रधानचरुहोमोत्तरं तेनैव द्रव्येण स्विष्टकृद्बलिदानादि ।
यथावा श्राद्धे पिण्डप्रदानपूजोत्तरं पिण्डानां गङ्गादिप्रवाहे प्रक्षेपः ।
अनुनप्रवेशो ऽसंबन्धः ।
प्रतिपत्तेर्विधिर्नियोगस्तस्य विषयभूतां प्रतिपत्तिप्रत्यवच्छेदकत्वेम विषयतयेत्यर्थः ।
अग्न्यादिदेवतोद्देशेन पुरोडाशादिद्रव्योत्सर्गो यागः ।
अशरीरं विदेहं, प्रियाप्रिये सुखदुःखे ।
कृताकृतादिति ।
कृतात् कार्यात्, अकृतात् कारणात् ।
तत् ब्रह्म, अवेत् विदितवत् ।
वल्कलादिवच्चित्तरञ्जको रागादिकषायो मृदितः क्षालितः विनाशितो यस्य ज्ञानवैराग्याभ्यासक्षारजलेन तस्मै ।
अध्यासः शास्त्रतो ऽतस्मिंस्तद्धीः ।
आदेश उपदेशः ।
प्रलयकाले वायुरग्न्यादीन्संवृणोति संहरतीति संवर्गः, स्वापकाले प्राणो वागादीन्संहरतीति संहारक्रियायोगात्संवर्गः ।
तत् विदिताज्ज्ञानविषयादन्यद्भिन्नम् ।
अथो अपि अविदितादज्ञानविषयादपि अधि अन्यत् ।
यद्वाचा शब्देनानभ्युदितमप्रकाशितं, येन भ्मणा सा वागभ्यद्यते प्रकाश्यते ।
ऽनिवृत्तिविषयत्वात्ऽ भापा। ।
स्वात्मनो धर्मानाश्रयत्वे ऽपि नित्यो धर्मो मोक्षाख्यो भविष्यतीत्यभिप्रायेण धर्मशब्दः, स्वरूपपरो वा ।
अन्यो जीवात्मा ।
पिप्पलङ्कर्मफलम् ।
अभिचाकशीति प्रकाशते ।
कर्माध्यक्षः कर्मफलप्रदाता ।
शुक्रमिति बाह्याशुद्धिविरह उक्तः ।
अव्रणमस्नाविरमित्येव कायनिषेधे सिद्धे पुनस्तन्निषेधो लीलाधृतविषण्वादिविग्रहस्याप्यनृतताप्रतिपादनार्थः ।
तथाच - ऽमाया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं मैवं मां द्रष्टुमर्हसीऽ ति ।
शरीरोपादानभूताविद्याराहित्याय शुद्धमिति ।
तन्निमित्तराहित्यायापापविद्धमिति ।
अत्रानुप्रवेशः संबन्धः ।
मयेदं कार्यमित्यवगतिमान् हि नियोज्यो भवति ।
कृतिसाध्यश्च विधिविषयो भवति ।
ज्ञानस्य च कृत्यसाध्यत्वान्नोभयमात्मज्ञानं भवतीति भावः ।
विधिच्छायानि प्रसिद्धयागादिविधितुल्यानि ।
प्रत्यगात्मनि स्रोतश्चित्तवृत्तिप्रवाहः ।
ऽकृतं कृत्यं प्रापणीयं प्राप्तमित्येव तुष्यतिऽ पञ्च। ।
अनुसंज्वरेत् शरीरं परितप्यमानमनुतप्येत ।
प्रमाप्रमारूपधीमात्रविषयः प्रतिपत्तिशब्दः ।
आ। ।
ऽयच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह ।
यच्चास्य संततो भावस्तस्मादात्मेति भण्यतेऽ इति ।
अहंप्रत्ययविषय औपनिषदः पुरुषः ।
अहंप्रत्ययविषयो यः कर्ता कार्यकरणसंघातोपहितो जीवात्मा तद्व्यतिरेकेण ।
ऽइत्येवमाद्याऽ भापा। ।
बटोर्व्रतमित्युपक्रान्तं ऽनेक्षेतोद्यन्तमादित्यंऽ इत्यादि प्रजापतिव्रतम् ।
विध्यनुप्रवेशो विधिसंबन्धः ।
कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः ।
शब्दः शाब्दवोधश्चेत्यर्थः ।
निरुपचारेण गुणज्ञानंविना ।
श्रवणमननकुशलतामात्रेण पण्डितानां अनुत्पन्नसाक्षात्काराणामितियावत् ।
अहिनिर्ल्वयनी सर्पत्वक् वल्मीकादौ प्रत्यस्ता निक्षिप्ता मृता सर्पेण त्यक्ताभिमाना वर्तत एवमित्याद्यूह्यम् ।
ब्रह्मसाक्षात्कारो ऽवगतिस्तदर्थत्वात् ।
विधिशेषत्वेन ब्रह्मार्पणे ऽपि ।
अथात इति तृतीये श्रुत्यादिभिः शेषशेषित्वे सिद्धे सत्यनन्तरं शेषिणैव शेषस्य प्रयुक्तिसंभवात्कोनाम क्रतवे कोवा पुरुषार्तायेति जिज्ञासा प्रवृत्ता चतुर्थादौ ।
तस्मात् ज्ञानस्य प्रमेयप्रमातृबाधकत्वाभावात् ।
गौमेति ।
पुत्रदारादिष्वात्माभिमानो गौणः तत्र भेदानुभवात् ।
देहेन्द्रियादिषप त्वभेदानुभवान्न गौणः किन्तु मिथ्या ।
तदुभयात्मनो ऽसत्वे पुत्रदेहादिबाधनात्- गौणात्मनो ऽसत्वे पुत्रकलत्रादिबाधनं, मिथ्यात्मनो ऽसत्वे देहेन्द्रियादिबाधनं च ।
तथाच लोकयात्रकार्यं सद्ब्रह्माहमिति बोधकार्यं- अद्वैतसाक्षात्कारश्च कथं भवेत् ।
अन्वेष्टव्यात्मविज्ञानात्- ऽय आत्मापहतपाप्माऽ, सो ऽन्वेष्टव्यः इति तद्विज्ञानात्पूर्वमात्मनो मातृत्वं प्रमाप्रमेयप्रमाणविभागश्च ।
तेन तदभावे कार्यं नोत्पद्यत इत्यर्थः ।
आत्मनिश्चयात् आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः ।
एवं तावद्वेदान्तवाक्यानां ब्रह्मात्मावगतिप्रयोजनानां ब्रह्मात्मनि तात्पर्येण समन्वितानामन्तरेणापि कार्यानुप्रवेशं, ब्रह्मणि पर्यवसानमुक्तम् ।
ब्रह्म च सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिनाशकारणमित्युक्तम् ।
सांख्यादयस्तु परिनिष्ठितं वस्तु प्रमाणान्तरगम्यमेवेति मन्यमानाः प्रधानादीनि कारणान्तराण्यनुमिमानास्तत्परतयैव वेदान्तवाक्यानि योजयन्ति ।
सर्वेष्वेव वेदान्तवाक्येषु सृष्टिविषयेष्वनुमानेनैव कार्येण कारणं लिलक्षयिषितम् ।
प्रधानपुरुषसंयोगा नित्यानुमेया इति सांख्या मन्यन्ते ।
काणादास्त्वेतेभ्य एव वाक्येभ्य ईश्वरं निमित्तकारणमनुमिमते अणूंश्च समवायिकारणम् ।
एवमन्ये ऽपि तार्किका वाक्याभासयुक्त्याभासावष्टम्भाः पूर्वपक्षवादिन इहोत्तिष्टन्ते ।
तत्र पदवाक्यप्रमाणज्ञेनाचार्येण वेदान्तवाक्यानां ब्रह्मावगतिपरत्वदर्शनाय वाक्याभासयुक्ताभासविप्रतिपत्तयः पूर्वपक्षीकृत्य निराक्रियन्ते ।
तत्र सांख्याः प्रधानं त्रिगुणमचेतनं जगतः कारणमिति मन्यमाना आहुः- यानि वेदान्तवाक्यानि सर्वज्ञस्य सर्वशक्तेर्ब्रह्मणो जगत्कारणत्वं दर्शयन्तीत्यवोचस्तानि प्रधानकारणपक्षे ऽपि योजयितुं शक्यन्ते ।
सर्वशक्तित्वं तावत्प्रधानस्यापि स्वविकारविषयमुपपद्यते ।
एवं सर्वज्ञत्वमप्युपपद्यते ।
कथम् ।
यत्तु ज्ञानं मन्यसे स सत्त्वधर्मः , ऽसत्त्वात्संजायते ज्ञानम्ऽ (गी। १४।१७) इति स्मृतेः ।
तेन च सत्त्वधर्मेण ज्ञानेन कार्यकारणवन्तः पुरुषाः सर्वज्ञा योगिनः प्रसिद्धाः ।
सत्त्वस्य हि निरतिशयोत्कर्षे सर्वज्ञत्वं प्रसिद्धम् ।
न केवलस्याकार्यकारणस्य पुरुषोपलब्धिमात्रस्य सर्वज्ञत्वं किञ्चिज्ज्ञत्वं वा कल्पयितुं शक्यम् ।
त्रिगुणत्वात्तु प्रधानस्य सर्वज्ञानकारणभूतं सत्त्वं प्रधानावस्थायामपि विद्यत इति प्रधानस्याचेतनस्यैव सतः सर्वज्ञत्वमुपचर्यते ।
वेदान्तवाक्येष्ववश्यं च त्वयापि सर्वज्ञं ब्रह्माभ्युपगच्छता सर्वज्ञानाक्तिमत्त्वेनैव सर्वज्ञत्वमुपगन्तव्यम् ।
नहि सर्वविषयं ज्ञानं कुर्वदेव ब्रह्म वर्तते ।
तथाहि- ज्ञानस्य नित्यत्वे ज्ञानक्रियां प्रति स्वातन्त्र्यं ब्रह्मणो हीयेत ।
अथानित्यं तदिति ज्ञानक्रियाया उपरमेतापि ब्रह्म, तदा सर्वज्ञानाक्तिमत्त्वेनैव सर्वज्ञत्वमापतति ।
अपिच प्रागुत्पत्तेः सर्वकारकाशून्यं ब्रह्मेष्यते त्वया ।
नच ज्ञानसाधनानां शरीरेन्द्रियादीनामभावे ज्ञानोत्पत्तिः कस्यचिदुपपन्ना ।
अपिच प्रधानस्यनेकात्मकस्य परिणामासंभवात्कारणत्वोपपत्तिर्मृदादिवत्, नासंहतस्यैकात्मकस्य ब्रह्मण इत्येवं प्राप्तं इदं सूत्रमारभ्यते-
----------------------
फ़्न्: कार्यसंबन्धंविनापि अनुमेया इति ।
बुद्धौ यः प्रतिबिम्बः स तादृशबिम्बपूर्वकः प्रतिबिम्बत्वात् ।
दर्पणे मुखाभासादित्यनुमानम् ।
व्याकरणमीमांसान्यायाः पदवाक्यप्रमाणानि ।
वाक्याभासेषु युक्त्याभासेषु च विप्रतिपत्तिर्येषां ते ।
ज्ञानक्रियांप्रति ज्ञाधात्वर्थंप्रति, स्वातन्त्र्यं कर्तृत्वम् ।
आदिपदेन ज्ञेयज्ञात्रादिसंग्रहः ।
प्रधानादेः कारणत्वं तर्कपादे युक्तिभिर्निरस्यति ।
ब्रह्मणः कारणत्वं स्मृतिपादे समर्थ्यते ।
tat tu samanvayāt
tu śabdaḥ pūrvapakṣavyāvṛttyarthaḥ /
tadbrahma sarvajñaṃ sarvaśakti jagadutpatti sthitilayakāraṇaṃ vedāntaśāstrādevāvagamyate /
katham, samanvayāt /
sarveṣu hi vedānteṣu vākyāni tātparyeṇaitasyārthasya pratipādakatvena samanugatāni /
'sadeva somyedamagra āsīt' /
'ekamevādvitāyam' /
(chāndo. 6.2.1) 'ātmāvā idameka evāgra āsīt' /
(aita. 2.1.1.1) 'tadetadbrahmāpūrvamanaparamanantaramabāhyam' /
'ayamātamā brahma sarvānubhūḥ' /
(bṛha. 2.5.19) 'brahmaivedamamṛtaṃ purastāt' /
(muṇḍa. 2.2.11) ityādīni /
naca tadgatānāṃ padānāṃ brahmasvarūpaviṣaye niścite samanvaye 'vagamyamāner'thāntarakalpanā yuktā, śrutihānanyaśrutakalpanāprasaṅgāt /
naca teṣāṃ kartṛsvarūpapratipādanaparatāvasīyate, 'tatkena kaṃ payet' (bṛha. 2.4.13) ityādi kriyākārakaphalanirīkaraṇaśruteḥ /
naca pariniṣṭhitavastusvarūpatve 'pi pratyakṣādiviṣayatvaṃ brahmaṇaḥ, 'tattvamasi' (chāndo. 6.8.7) iti brahmātmabhāvasya śāstramantareṇānavagamyamānatvāt /
yattu heyopādeyarahitatvādupadeśānarthakyamiti, naiṣa doṣaḥ, heyopādeyāśūnyabrahmātmatāvagamādeva sarvakleśaprāhāṇātpuruṣārthasiddheḥ /
devatādipratipādanāsya tu svavākyagatopāsanārthatve 'pi na kaścidvirodhaḥ /
natu tathā brahmaṇa upāsanāvidhiśeṣitvaṃ saṃbhavati, ekatve heyopādeyāśūnyatayā kriyākārakādidvaitavijñānopamardepapatteḥ /
nahyekatvavijñānenonmathitasya dvaitavijñānasya punaḥ saṃbhavo 'sti, yenopāsanāvidhiśeṣitvaṃ brahmaṇaḥ pratipadyeta /
yadyapyanyatra vedavākyānāṃ vīdhisaṃsparśamantareṇa pramāṇatvaṃ na dṛṣṭaṃ, tathāpyātmavijñānasya phalaparyantatvānna tadviṣayasya śāstrasya prāmāṇyaṃ śakyaṃ pratyākhyātum /
na cānumānagamyaṃ śāstraprāmāṇyaṃ, yenānyatra dṛṣṭaṃ nidarśanamapekṣeta /
tasmātsiddhaṃ brahmaṇaḥ śāstrapramāṇakatvam /
atrāpare pratyavatiphaṣṭhante- yadyapi śāstrapramāṇakaṃ brahma tathāpi pratipattividhiviṣayataiva śāstreṇa brahma samarpyate /
yathā yūpāhavahanīyādīnyalaukikānyapi vidhiśaṣatayā śāstreṇa samarpyante tadvat /
kuta etat /
pravṛttinivṛttiprayojanatvācchāstrasya /
tathāhi śāstratātparyavida āhuḥ- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' iti /
'codaneti kriyāyāḥ pravartakaṃ vacanam' /
'tasya jñānamupadeśaḥ'- (jai.sū. 1.1.5) 'tadbhūtānāṃ kriyārthena samāmnāyaḥ'- (jai.sū. 1.1.25) 'āmnāyasya kriyārthatvādānarthakyamatadarthānām-'
(jai.sū. 1.2.1) itica /
ataḥ puruṣaṃ Dvacidviṣayaviśeṣe pravartayatkutaścidviṣayaviśeṣānnivartayaccārthavacchāstram /
taccheṣatayā cānyadupayuktam /
tatsāmānyādvedāntānāmapi tathaivārthavattvaṃ syāt /
sati ca vidhiparatve yathā svargādikāmasyāgnihotrādisādhanaṃ vidhīyata evamamṛtatvakāmasya brahmajñānaṃ vidhīyata iti yuktam /
nanviha jijñāsyavailakṣaṇyamuktam- karmakāṇḍe bhavyo dharmo jijñāsya iha tu bhūtaṃ nityanivṛttaṃ brahma jijñāsyamiti /
tatra dharmajñānaphalādanuṣṭhānāpekṣādvilakṣaṇaṃ brahmajñānaphalaṃ bhavitumarhati /
nārhatyevaṃ bhavitum /
kāryavidhiprayukttasyaiva brahmaṇaḥ pratipādyamānatvāt /
'ātmā vā are draṣṭavyaḥ' (bṛha. 2.4.5) iti /
'ya ātmāpahatapāpmā-so 'nvevyaḥ sa vijijñāsitavyaḥ' (chāndo. 8.7.1) 'ātmetyovopāsīta' (bṛha.1.4.7) 'ātmānameva lokamupāsata' (bṛha. 1.4.15) /
'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) ityādividhāneṣu satsu ko 'sāvātmā kiṃ tadbrahma ityākāṅkṣāyāṃ tatsvarūpasamarpaṇena sarve vedāntā upayuktāḥ- 'nityaḥ sarvajñaḥ sarvagato nityatṛpto nityāśuddhabuddhamuktasvabhāvo vijñānamānandaṃ brahma. ityevamādayaḥ /
tadupāsanācca śāstradṛṣṭo 'pi mokṣaḥ phalaṃ bhaviṣyatīti /
kartavyavidhyananupraveśe vastumātrakathane hānopādānasaṃbhavāt, saptadvīpā vasumatī, rājāsau gacchatītyādivākyavadvedāntavākyānāmānarthakyameva syāt /
nanu vastumātrakathane 'pi rajuriyaṃ nāyaṃ sarpa ityādau bhrāntijanitabhītinivartanenārthavattvaṃ dṛṣṭaṃ tathehāpyasaṃsāryātmavastukathanena saṃsāritvabhrāntinivartanenārthavattvaṃ syāt /
syādetadevaṃ, yadi rajusvarūpaśravaṇa iva sarpabhrāntiḥ, saṃsāritvabhrāntirbrahmasvarūpaśravaṇamātreṇa nivarteta /
natu nivartate, śrutabrahmaṇo 'pi yathāpūrvaṃ sukhaduḥkhādisaṃsāridharmadarśanāt, 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛha. 2.4.5) iti ca śravaṇottarakālayormanananididhyāsanayorvidhirdarśanāt /
tasmātpratipattividhiviṣayatayaiva śāstrapramāṇakaṃ brahmābhyupagantavyamiti /
atrābhidhīyate- na /
karmabrahmavidyāphalayorvailakṣaṇyāt /
śārīraṃ vācikaṃ mānasaṃ ca karma śrutismṛtisiddhaṃ dharmākhyaṃ, yadviṣayā jijñāsā 'athāto dharmajijñāsā' (jai.sū. 1.1.1) iti sūtritā, adharmo 'pi hiṃsādiḥ pratiṣedhacodanālakṣaṇatvājjijñāsyaḥ parihārāya /
tayoścodanālakṣaṇayorarthānarthayordharmādharmayoḥ phale pratyakṣe sukhaduḥkhe śarīravāṅmanobhirevopabhujyamāne viṣayendriyasaṃyogajanye brahmādiṣu sthāvarānteṣu prasiddhe /
manuṣyatvādārabhya brahmānteṣu dehavatsu sukhatāratamyamanuśrūyate /
tataśca taddhetordharmasya tāratamyaṃ gamyate /
dharmatāratamyādadhikāritāratamyam /
prasiddhaṃ cārthitvasārmathyādikṛtamadhikāritāratamyam /
tathāca yāgādyanuṣṭhāyināmeva vidyāsamādhiviśeṣāduttareṇa pathā gamanaṃ, kevalairiṣṭāpūrtadattasādhanairdhūmādikrameṇa dakṣiṇena pathā gamanaṃ, tatrāpi sukhatāratamyaṃ tatsādhanatāratamyaṃ ca śāstrāt 'yāvatsaṃpātamuṣitvā' (chāndo. 5.10.5)
ityasmādgamyate /
tathā manuṣyādiṣu nārakasthāvarānteṣu sukhalavaścodanālakṣaṇadharmasādhya eveti gamyate tāratamyena vartamānaḥ /
tathordhvagateṣvadhogateṣu ca dehavatsu duḥkhatāratamyardānāttaddhetoradharmasya pratiṣedhacodanākṣaṇasya tadanuṣṭhāyināṃ ca tāratamye gamyate /
evamavidyādidoṣavatāṃ dharmādharmatāratamyanimittaṃ śarīropādānapūrvakaṃ sukhaduḥkhatāratamyanimittaṃ saṃsārarūpaṃ śrutismṛtinyāyaprasiddham /
tathāca smṛtiḥ- 'na ha vai saśarīrasya sataḥ priyāpriyayorapahatirasti' iti yathāvarṇitaṃ saṃsārarūpamanuvadati /
aśarīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti priyāpriyasparśanapratiṣedhāccodanālakṣaṇadharmakāryatvaṃ mokṣākhyasyāśarīratvasya pratiṣidhyata iti gamyate /
dharmakāryatve hi priyāpriyasparśanapratiṣedho nopapadyate /
aśarīratvameva dharmakāryamiticenna, tasya svābhāvikatvāt /
'aśarīraṃ śarīreśvanavastheṣvavasthitam /
mahāntaṃ vibhumātmānaṃ matvā dhīro na śocati' (kāṭha. 1.2.21) 'aprāṇo hyamanāḥ śubhraḥ' (muṇḍa. 2.1.2) 'asaṅgo hyayaṃ puruṣaḥ' (bṛha. 4.3.15) ityādiśrutibhyaḥ /
ata evānuṣṭheyakarmaphalavilakṣaṇaṃ mokṣākhyamaśarīratvaṃ nityamiti siddham /
tatra kiñcitpariṇāmi nityaṃ yasminvikriyamāṇe 'pi tadevedamiti buddhirna vihanyate /
yathā pṛthivyādijagannityatvavādinām /
yathā ca sāṃkhyānāṃ guṇāḥ /
idaṃ tu pāramārthikaṃ, kūṭasthanityaṃ, vyomavatsarvavyāpi, sarvavikriyārahitaṃ, nityatṛptaṃ, niravayavaṃ, svayañjyotiḥsvabhāvam /
yatra dharmādharmī saha kāryeṇa kālatrayaṃ ca nopāvartete /
tadedārīratvaṃ mokṣākhyam /
'anyatra dharmādanyatrādharmādanyatrāsmātkṛtākṛtāt /
anyatra bhūtācca bhavyācca' (ka. 2.14)
ityādiśrutibhyaḥ /
atastadbrahma yasyeyaṃ jijñāsā prastutā, tadyadi kartavyoṣatvenopadiyeta, tena ca kartavyena sādhyaścenmokṣo 'bhyupagamyeta, anitya eva syāt /
tatraivaṃ sati yathoktakarmaphaleṣveva tāratamyāvasthiteṣvanityeṣu kaścidatiśayo mokṣa iti prasajyeta, nityaśca mokṣaḥ sarvairmokṣavādibhirabhyupagamyate, ato na kartavyaśeṣatvena brahmopadeśo yuktaḥ /
apica 'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) 'kṣīyante cāsya karmāṇi tasmindṛṣṭe parāpare' (muṇḍa. 2.2.8) /
'ānandaṃ brahmaṇo vidvān /
na bibheti kutaścayana' (taitti. 2.9) /
'abhayaṃ vai janaka prāpto 'si' (bṛha. 4.2.4) 'tadātmānamevāvedehaṃ brahmāsmīti tasmāttatsarvamabhavat' /
(vājasaneyabrāhmaṇopa. 1.4.10) 'tatra ko mohaḥ kaḥ śoka ekatvamanupayataḥ' (ī(?). 7) ityevamādyāḥ śrutayo brahmavidyānantaraṃ mokṣaṃ darśayantyo madhye kāryāntaraṃ vārayanti /
tathā 'tadvaitatpaśayannṛṣirvāmadevaḥ pratipede 'haṃ manurabhavaṃ sūryaśca' (bṛha. 1.4.10)iti brahmadarśanasarvātmabhāvayormadhye kartavyāntaravāraṇāyodāhāryam /
yathā tiṣṭhangāyatīti tiṣṭhatigāyatyayormadhye tatkartṛkaṃ kāryāntaraṃ nāstīti gamyate /
'tvaṃ hi naḥ pitā yo 'smākamavidyāyāḥ paraṃ pāraṃ tārayasi' (pra. 6.8) 'śrutaṃ hyeva me bhagavaddṛśebhyastarati śokamātmaviditi so 'haṃ bhagavaḥ śocāmi tvaṃ mā bhagavacchokasya pāraṃ tārayatu' (chāndo. 7.1.3) 'tasmai mṛditakaṣāyāya tamasaḥ pāraṃ darśayati bhagavānsanatkumāraḥ' (chāndo. 7.26.2) iti caivamādyāḥ śrutayo mokṣapratibandhanivṛttimātramevātmajñānasya phalaṃ darśayanti /
tathācāryapraṇītaṃ nyāyopabṛṃhitaṃ sūtram- 'duḥkhajanmapravṛttidoṣamithyājñānānāmuttarottarāpāye tadanantarāpāyādapavargaḥ' (nyā. sū. 1.1.2) iti /
mithyājñānāpāyaśca brahmātmaikatvavijñānādbhavati /
nacedaṃ brahmātmaikatvavijñānaṃ saṃpadrūpam /
yathā 'anantaṃ vai mano 'nantā viśvedevā anantameva sa tena lokaṃ jayati' (bṛha. 3.1.9) iti /
na cādhyāsarūpam /
yathā 'mano brahmetyupāsīta' (chāndo. 3.18.1) 'ādityo brahmetyādeḥśaḥ' (chāndo. 3.19.1) iti ca mana ādityādiṣu brahmadṛṣṭadhyāsaḥ /
nāpi viśiṣṭakriyāyoganimittaṃ 'vāyurvāva saṃvargaḥ' 'prāṇo vāva saṃvargaḥ' (chāndo. 4.3.1) itivat /
nāṣvājyāvekṣaṇādikarmavatkarmāṅgasaṃskārarūpam /
saṃpadādirūpe hi brahmātmaikatvavijñāne 'bhyupagamyamāne 'tatvamasi' (chāndo. 6.8.7) 'ahaṃ brahmāsmi' (bṛha. 14.10) 'ayamātmā brahma' (bṛha. 2.5.19) ityevamādīnāṃ vākyānāṃ brahmātmaikatvavastupratipādanaparaḥ padasamanvayaḥ pīḍyeta /
'bhidyate hṛdayagranthiśichadyante sarvasaṃśayāḥ' (muṇḍa. 2.2.8) iti caivamādīnyavidyānivṛttiphalaśravaṇānyuparudhyeran /
'brahma veda brahmaiva bhavati' (muṇḍa. 3.2.9) iti caivamādīni tadbhāvāpattivacanāni saṃpadādipakṣe na sāmañjasyenopapadyeran /
tasmānna saṃpadādirūpaṃ brahmātmaikatvavijñānam /
ato na puruṣavyāpāratantrā brahmavidyā /
kiṃ tarhi pratyakṣādipramāṇaviṣayavastujñānavadvastutantrā /
evaṃbhūtasya brahmaṇastaj jñānasya ca na kayācidyuktyā śakyaḥ kāryānupraveśaḥ kalpayitum /
naca vidikriyākarmatvena kāryānupraveśo brahmaṇaḥ, 'anyadeva tadviditādatho aviditādadhi' (kena. 1.3) iti vidikriyākarmatvapratiṣedhāt, 'yenedaṃ sarvaṃ vijānāti taṃ kena vijānīyāt' (bṛha. 2.4.13) iti ca /
tathopāstikriyākarmatvapratiṣedho 'pi bhavati- yadvācānabhyuditaṃ yena vāgabhyudyate ityaviṣayatvaṃ brahmaṇa upanyasya, 'tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate' (kena. 1.4) iti /
aviṣayatve brahmaṇaḥ śāstrayonitvānupapattiriticet /
na /
avidyākalpitabhedanivṛttiparatvācchāstrasya /
nahi śāstramidantayā viṣayabhūtaṃ brahma pratipipādayiṣati /
kiṃ tarhi, pratyagātmatvenāviṣayatayā pratipādayavidyākalpitaṃ vedya-veditṛ-vedanādibhedamapanayati /
tathāca śāstram- 'yasyāmataṃ tasya mataṃ, mataṃ yasya na veda saḥ /
avijñātaṃ vijānatāṃ vijñātamavijānatām' (kena. 2.3) 'na dṛṣṭerdraṣṭāraṃ paśyeḥ', 'na vijñātervijñātāraṃ vijānīyāḥ' (bṛha. 3.4.2) iti caivamādi /
ato 'vidyākalpitasaṃsāritvanivartanena nityamuktātmasvarūpasamarpaṇānna mokṣasyānityatvadoṣaḥ /
yasya tūtpādyo mokṣastasya mānasaṃ, vācikaṃ, kāyikaṃ vā kāryamapekṣata iti yuktam /
tathā vikāryatve ca tayoḥ pakṣayormokṣasya dhruvamanityatvam /
nahi dadhyādi vikāryaṃ, utpādyaṃ vā dhaṭādi, nityaṃ dṛṣṭaṃ loke /
nacāpyatvenāpi kāryāpekṣā, svātmasvarūpatve satyanāpyatvāt /
svarūpavyatiriktatve 'pi brahmaṇo nāpyatvaṃ, sarvagatatvena nityāptasvarūpatvātsarveṇa brahmaṇaḥ, ākāśasyeva /
nāpi saṃskāryo mokṣaḥ, yena vyāpāramapekṣeta /
saṃskāro hi nāma saṃskāryasya guṇādhānena vā syāddoṣāpanayanena vā /
na tāvadguṇādhānena saṃbhavati, anādheyātiśayabrahmasvarūpatvānmokṣasya /
nāpi doṣāpanayanena, nityāśuddhabrahmasvarūpatvānmokṣasya /
svātmadharma eva saṃsthirobhīto mokṣaḥ kriyayātmani saṃskriyamāṇe 'bhivyajyate, yathā'darśe nigharṣaṇakriyayā saṃskrayamāṇe bhāsvaratvaṃ dharma iticet /
na /
kriyāśrayatvānupapatterātmanaḥ /
yadāśrayā kriyā tamavikurvatī naivātmānaṃ labhate /
yadyātmā kriyayā vikriyetānityatvamātmanaḥ prasajyeta /
'avikāryo 'yamucyate' iti caivamādīni vākyāni bādhyeran /
taccāniṣṭam /
tasmānna svāśrayā kriyā'tmānaḥ saṃbhavati /
anyāśrayāyāstu kriyāyā aviṣayatvānna tayātmā saṃskriyate /
nanu dehāśrayayā snānācamanayajñopavītādikayā kriyayā dehī saṃskriyamāṇo dṛṣṭaḥ /
na /
dehādisaṃhatasyaivāvidyāgṛhītasyātmānaḥ saṃskriyamāṇatvāt /
pratyakṣaṃ hi snānācamanāderdehasamavāyitvam /
tayā dehāśrayayā tatsaṃhata eva kaścidavidyayātmatvena parigṛhītaḥ saṃskriyata iti yuktam /
yathā dehāśrayacikitsānimittena dhātusāmyena tatsaṃhatasya tadabhimānina ārogyaphalaṃ, ahamaroga iti yatra buddhirutpadyate /
evaṃ snānācamanayajñopavītādinā ahaṃ śuddhaḥ saṃskṛta iti yatra buddhirutpadyate sa saṃskriyate /
sa ca dehena saṃhata eva /
tenaiva hyahaṅkartrāhaṃpratyayaviṣayeṇa pratyayinā sarvāḥ kriyā nirvartyante /
tatphalaṃ ca sa evāśnāti, 'tayoranyaḥ pippalaṃ svādvattyanāśnannanyo abhicākāśīti' (muṇḍa. 3.1.1) iti mantravarṇāt /
'ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ' (kāṭha. 1.3.4) iti ca /
tathāca 'eko devaḥsarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca' (śvetā. 6.11) iti /
sa paryagācchukramakāyamantraṇamastrāviraṃśuddhamapāpaviddham /
(ī(?). 8) iti ca /
etau mantrāvanādheyātiśayatāṃ nityaśuddhatāṃ ca brahmaṇo darśayataḥ /
brahmabhāvaśca mokṣaḥ /
tasmānna saṃskāryo 'pi mokṣaḥ /
ato 'nyanmokṣaṃ prati kriyānupraveśadvāraṃ na śakyaṃ kenaciddarśayitum /
tasmāt jñānamekaṃ muktvā kriyāyā gandhamātrasyāpyanupraveśa iha nopapadyate /
nanu jñānaṃ nāma mānasī kriyā /
na /
vailakṣaṇyāt /
kriyā hi nāma sā yatra vastusvarūpanirapekṣaiva codyate, puruṣacittavyāpārādhīnā ca /
yathā yasyai devatāyai havirgṛhītaṃ syāttāṃ manasā dhyāyedvṣaṭkariṣyan iti /
'saṃdhyāṃ manasā dyāyet' (ai.brā. 3.8.1) iti caivamādiṣu /
dhyānaṃ cintanaṃ yadyapi mānasaṃ tathāpi puruṣeṇa kartumakartumanyathā vā kartuṃ śakyaṃ, puruṣatantratvāt /
jñānaṃ tu pramāṇajanyam /
pramāṇaṃ ca yathābhūtavastuviṣayamato jñānaṃ kartumakartumanyathā vā kartumaśakyaṃ, kevalaṃ vastutantrameva tat /
na codanātantram //
nāpi puruṣatantram /
tasmānmānasatve 'pi jñānasya mahadvailakṣaṇyam /
yathāca 'puruṣo vāva gautamāgniḥ', 'yoṣā vāva gautamāgniḥ (chāndo. 5.7,8.1) ityatra yoṣitpuruṣayoragnibuddhirmānasī bhavati /
kevacodanājanyatvātkriyaiva sā puruṣatantrā ca /
yā tu prasiddhe 'gnāvagnibuddhirna sā codanātantrā /
nāpi puruṣatantrā /
kiṃ tarhi pratyakṣavastutantraiveti jñānamevaitanna kriyā /
evaṃ sarvapramāṇaviṣayavastuṣu veditavyam /
tatraivaṃ sati yathābhūtabrahmātmaviṣayamapi jñānaṃ na codanātantram /
tadviṣaye liṅāgādayaḥ śrūyamāṇā apyaniyojyaviṣayatvātkuṇṭhībhavantyupalādiṣu prayuktakṣurataikṣṇyādivat, aheyānupādeyavastuviṣayatvāt /
kimarthāni tarhi 'ātmā vāre draṣyavyaḥ śrotavyaḥ' ityādīni vidhicchāyāni vacanāni /
svābhāvikapravṛttiviṣayavimukhīkaraṇārthānīti brūmaḥ /
yo hi bahirmukhaḥ pravartate puruṣaḥ iṣṭaṃ me bhūyādadaniṣṭaṃ mābhūditi, naca tatrātyantikaṃ puruṣīrthaṃ labhate, tamātyantikapuruṣārthavāñchinaṃ svābhāvikakāryakaraṇasaṃghātapravṛttigocarādvimukhīkṛtya pratyagātmasrotastayā pravartayanti 'ātmā vā are draṣṭavyaḥ'
ityādīni /
tasyātmānveṣaṇāya pravṛttasyāheyamanupādeyaṃ cātmatattvamupadiśyate /
'idaṃ sarvaṃ yadayamātmā' (bṛha. 2.4.6) 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet kena kaṃ vijānīyāt vījñātāramare kena vijānīyāt' (bṛha. 4.5.15) 'ayamātmā brahma' (bṛha. 2.5.19) ityādibhiḥ /
yadapyakartavyapradhānamātmajñānaṃ hānāyopādānāya vā na bhavatīti, tattathaivetyabhyupagamyate /
alaṅkāro hyayamasmākaṃ yadbrahmātmāvagatau satyāṃ sarvakartavyatāhāniḥ kṛtakṛtyatā ceti /
tathāca śrutiḥ- 'ātmānaṃ cedvijānīyādayamastīti pūruṣaḥ /
kimicchankasya kāmāya śarīramanusaṃjvaret' //
(bṛha. 4.4.12) iti /
'etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata' /
(bha.gī. 15.20) iti smṛtiḥ /
tasmānna pratipattividhiviṣayatayā brahmaṇaḥ samarpaṇam /
yadapi kecidāhuḥ- 'pravṛttinivṛttividhitaccheṣavyatirekeṇa kevalavastuvādī vedabhāgo nāsti' iti tanna, aupaniṣadasya puruṣasya puruṣasyānanyaśeṣatvāt /
yo 'sāvupaniṣatsvevādhigataḥ puruṣo 'saṃsārī brahma utpādyādicaturvidhadravyavilakṣaṇaḥ svaprakaraṇastho 'nanyośeṣaḥ, nāsau nāsti nādhigamyata iti vā śakyaṃ vaditum, 'sa eṣa neti netyātmā' (bṛha. 3.9.26) ityāmaśabdāt, ātmanaśca pratyākhyātumaśakyatvāt, ya eva nirākartā tasyaivātmatvāt /
nanvātmāhaṃpratyayaviṣayatvādupaniṣatsveva vijñāyata ityanupapannam /
na /
tatsākṣitvena pratyuktatvāt /
nahyahaṃpratyayaviṣayakartṛvyatirekeṇa tatsākṣī sarvabhūtasthaḥ sama ekaḥ kūṭasthanityaḥ puruṣo vidhikāṇḍe tarkasamaye vā kenacidadhigataḥ sarvasyātmā, ataḥ sa na kenacitpratyākhyātuṃ śakyo vidhiśeṣatvaṃ vā netum /
asmatvādeva ca sarveṣāṃ na heyo nāpyupādeyaḥ /
sarvaṃ hi vinaśyadvikārajātaṃ puruṣāntaṃ vinaśyati /
puruṣo vināśahetvābhāvādavināśī, vikriyāhetvabhāvācca, kūṭasthanityaḥ, ata eva nityāśuddhabuddhamuktasvabhāvaḥ /
tasmāt 'puruṣānna paraṃ kiñcitsā kāṣṭā sā parā gatiḥ' (kāṭha. 1.3.11) 'taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmi' (bṛha. 3.9.23) iti caupaniṣadatvaviśeṣaṇaṃ puruṣasyopaniṣatsu prādhānyena prakāśyamānatva upapadyate /
ato bhūtavastuparo vedabhāgo nāstīti vacanaṃ sāhasamātram /
yadapi śāstratātparyavidāmanukramaṇam- 'dṛṣṭo hi tasyārthaḥ karmāvabodhanam' ityevamādi, taddharmajijñāsāviṣayatvādvidhipratiṣedhāśāstrābhiprāyaṃ draṣṭavyam /
apica 'āmnāyasya kriyārthatvādānarthakyamatarthānām' ityetadekāntenābhyupagacchatāṃ bhūtopadeśānārthakyaprasaṅgaḥ /
pravṛtti nivṛttividhitaccheṣavyatirekeṇa bhūtaṃ cedvastūpadiśati bhavyārthatvena, kūṭasthanityaṃ bhūtaṃ nopadiśatīti ko hetuḥ /
nahi bhūtamupadiśyamānaṃ kriyā bhavati /
akriyātve 'pi bhūtasya kriyāsādhanatvātkriyārthaṃ eva bhūtopadeśa iti cet /
naiṣa doṣaḥ /
kriyārthatve 'pi kriyātivartanaśaktimadvastūpadiṣṭameva /
kriyārthatvaṃ tu prayojanaṃ tasya /
na caitāvatā vastvanupadiṣṭaṃ bhavati /
yadi nāmopadiṣṭaṃ kiṃ tava tena syāditi /
ucyate- anavagatātmavastūpadeśaśca tathaiva bhavitumarhati /
tadavagatyā mithyājñānasya saṃsārahetornivṛttiḥ prayojanaṃ kriyata ityavāśiṣṭamarthavattvaṃ kriyāsādhanavastūpadeśena /
apica 'brāhmaṇo na hantavyaḥ' iti caivamādyā nivṛttirupadiśyate /
naca sā kriyā /
nāpi kriyāsādhanam /
akriyārthānāmupadeśo 'narthakaścet 'brāhmaṇo na hantavyaḥ' ityādinivṛttyupadeśānāmānarthakyaṃ prāptam /
taccāniṣṭam /
naca svābhāvaprāptahantyarthānurāgeṇa nañaḥ śakyamaprāptakriyārthatvaṃ kalpayituṃ, hananakriyānivṛttyaudāsīnyavyatirekeṇa /
nañaścaiṣa svabhāvo yatsvasaṃbandhino 'bhāvaṃ bodhayatīti /
abhāvabuddhiścaudāsīnyakāraṇam /
sā ca dagdhendhanāgnivatsvayamevopāśāmyati /
tasmātprasaktakriyānivṛttyaudāsīnyameva 'brāhmaṇo na hantavyaḥ' ityādiṣu pratiṣedhārthaṃ manyāmahe, anyatra prajāpatitrātādibhyaḥ /
tasmātpuruṣārthānupayogyupākhyānādibhūtārthavādaviṣayamānarthakyābhidhānaṃ draṣṭavyam /
yadapyuktaṃ- kartavyavidhyanupraveśamantareṇa vastumātramucyamānamānarthakaṃ syāt 'saptadvīpā vasumatī' tyādivaditi, tatparihṛtam /
rajuriyaṃ nāyaṃ sarpa iti vastumātrakathane 'pi prayojanasya dṛṣṭatvāt /
nanu śrutabrahmaṇo 'pi yathāpūrvaṃ saṃsāritvardānānna rajusvarūpakathanavadarthavattvamityuktam /
atrocyate- nāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvaṃ śakyaṃ darśayituṃ va vedapramāṇajanitabrahmātmabhāvavirodhāt /
nahi śarīrādyātmābhimānino duḥkhabhayādimattvaṃ dṛṣṭamiti tasyaiva vedapramāṇajanitabrahmātmāvagame tadabhimānanivṛttau tadeva mithyājñānanimittaṃ duḥkhabhayādimattvaṃ bhavatīti śakyaṃ kalpayitum /
nahi dhanino gṛhasthasya dhanābhimānino dhanāpahāranimittaṃ duḥkhaṃ dṛṣṭamiti tasyaiva pravrajitasya dhanābhimānarahitasya tadeva dhanāpahranimittaṃ duḥkhaṃ bhavati /
naca kuṇḍalinaḥ kuṇḍalitvābhimānanimittaṃ sukhaṃ dṛṣṭamiti tasyaiva kuṇḍalaviyuktasya kuṇḍalitvābhimānanimittaṃ sukhaṃ bhavati /
taduktaṃ śrutyā- 'ārīraṃ vāva santaṃ na priyāpriye spṛśataḥ' (chāndo. 8.12.1) iti /
śarīre patite 'śarīratvaṃ syāt, na jīvata iti cenna, saśarīratvasya mithyājñānanimittattvāt /
na hyātmanaḥ śarīrātmābhimānalakṣaṇaṃ mithyājñānaṃ muktvānyataḥ saśarīratvaṃ śakyaṃ kalpayitum /
nityamaśarīratvamakarmanimittattvādityavocāma /
tatkṛtadharmādharmanimittaṃ saśarīratvamiti cenna, śarīrasaṃbandhasyāsiddhatvāddharmādharmayorātmakṛtatvāsiddheḥ /
śarīrasaṃbandhasya dharmādharmayostatkṛtatvasya cetaretarāśrayatvaprasaṅgādandhaparamparaiṣānāditvakalpanā /
kriyāsamavāyābhāvāccāmtanaḥ kartṛtvānupapatteḥ /
saṃnidhānamātreṇa rājaprabhṛtīnāṃ dṛṣṭaṃ kartavyamiti cenna, dhanadānādyupārjitabhṛtyasaṃbandhatvātteṣāṃ kartṛtvopapatteḥ /
na tvātmano dhanadānādivaccharīrādibhiḥ svasvāmisaṃbandhanimittaṃ kiñcicchakyaṃ kalpayitum /
mithyābhimānastu pratyakṣaḥ saṃbandhahetuḥ /
etena yajamānatvamātmano vyākhyātam /
atrāhuḥ- dehādivyatiriktasyātmana ātmīye dehādāvabhimāno gauṇo na mithyeti cenna, prasiddhavastubhedasya gauṇatvamukhyatvaprasiddheḥ /
yasya hi prasiddho vastubhedaḥ, yathā kesarādimānākṛtiviśeṣo 'nvayavyatirekābhyāṃ siṃhaśabdapratyayabhāṅmukhyo 'nyaḥ prasiddhaḥ tataścānyaḥ puruṣaḥ prāyikaiḥ krauryaśauryādibhiḥ siṃhaguṇaiḥ saṃpannaḥ siddhaḥ, tasya puruṣe siṃhaśabdapratyayau gauṇau bhavato nāprasiddhavastubhedasya /
tasya tvanyatrānyaśabdapratyayau bhrāntinimittāveva bhavato na gauṇau /
yathā mandāndhakāre sthāṇurayamityagṛhyamāṇaviśeṣe puruṣaśabdapratyayau sthāṇuviṣayau, yathāvā śuktikāyāmakasmādrajatamiti niścitau śabdapratyayau, tadvaddehādisaṃghāte 'hamiti nirupacāreṇa śabdapratyayāvātmānātmāvivekenotpadyamānau kathaṃ gauṇau śakyau vaditum /
ātmānātmavivekināmapi paṇḍitānāmajāvipālānāmivāviviktau śabdapratyayau bhavataḥ /
tasmāddehādivyatiriktātmāstitvavādināṃ dehādāvahaṃpratyayo mithyaiva na gauṇaḥ /
tasmānmithyāpratyayanimittatvātsaśarīratvasya, siddhaṃ jīvato 'pi viduṣo 'śarīratvam /
tathāca brahmavidviṣayā śrutiḥ- ' tadyathāhinirlvayanī valmīke mṛtā pratyastā śayītaivamevedaṃ śarīraṃ śete /
athāyamaśarīro 'mṛtaḥ prāṇo brahmaiva teja eva' (bṛha. 4.4.7) iti /
'sacakṣuracakṣuriva sakarṇo 'karṇa iva savāgavāgiva samanā amanā iva saprāṇo 'prāṇa iva' iti ca /
smṛtirapi ca- 'sthitaprajñasyakā bhāṣā' (bha.gī. 2.54) ityādyā sthitaprajñalakṣaṇānyācakṣāṇā viduṣaḥ sarvapravṛttyasaṃbandhaṃ darśayati /
tasmānnāvagatabrahmātmabhāvasya yathāpūrvaṃ saṃsāritvam /
yasya tu yathāpūrvaṃ saṃsāritvaṃ nāsāvavagatabrahmātmabhāva ityanavadyam /
yatpunaruktaṃ śravaṇātparācīnayormanananididhyāsanayordarśanādvadhiśeṣatvaṃ brahmaṇo na svarūpaparyavasāyitvamiti /
na /
avagatyarthatvānmanananididhyāsanayoḥ /
yadi hyavagataṃ brahmānyatra viniyujyeta bhavettadā vidhiśeṣitvam /
natu tadasti, manananididhyāsanayorapi śravaṇavadavagatyarthatvāt /
tasmānna pratapattividhiviṣayatayā śāstrapramāṇakatvaṃ brahmaṇaḥ saṃbhavatītyataḥ svatantrameva brahma śāstrapramāṇakaṃ vedāntavākyasamanvayāditi siddham /
evañca sati 'athāto brahmajijñāsā' iti tadviṣayaḥ pṛthakśāstramārambha upapadyate /
pratipattividhiparatve hi 'athāto dharmajijñāse'tyevārabdhatvānna pṛthakśāstramārabhyeta /
ārabhyamāṇaṃ caivamārabhyeta - 'athātaḥ pariśiṣṭadharmajijñāseti' ' athātaḥ kratvarthapuruṣārthayorjijñāsā' (jai. 4.1.1) itivat /
brahmātmaikyāvagatistvapratijñāteti tadartho yuktaḥ śāstrārambhaḥ- 'athāto brahmajijñāsā' iti /
tasmādahaṃ brahmāsmītyetadavasānā eva sarve viṣayaḥ sarvāṇi cetarāṇi pramāṇāni /
nahyaheyānupādeyādvaitātmāvagatau nirviṣayāṇyapramātṛkāṇi ca pramāṇāni bhavitumarhantīti /
apicāhuḥ- 'gauṇamithyātmano 'sattve putradehādibādhanāt /
sadbrahmātmāhamityevaṃ bodhe kāryaṃ kathaṃ bhavet //
anveṣṭavyātmavijñānātprākpramātṛtvamātmanaḥ /
anviṣṭaḥ syātpramātaiva pāpmadoṣādivarjitaḥ //
dehātmapratyayo yadvatpramāṇatvena kalpitaḥ /
laukikaṃ tadvadevedaṃ pramāṇaṃ tvā'tmaniścayāt'
iti // 4 //
iti catuḥsūtrī samāptā /
----------------------
FN: pūrvapakṣiṇā kriyāśeṣatayā brahma pratipādyata ityuktaṃ tadvyāvṛttyarthamiti bhāvaḥ /
pūrṇatayā juhūdvārā kratuśeṣatāvādātmano 'pi jñānadvārā karmaśeṣatvāttadarthā vedāntāstadvidhiśeṣā bhaviṣyantītyāśaṅkyāha tatkeneti /
pratipattikarma pradhānakarmaśeṣāṅgaṃ /
yatha pradhānacaruhomottaraṃ tenaiva dravyeṇa sviṣṭakṛdbalidānādi /
yathāvā śrāddhe piṇḍapradānapūjottaraṃ piṇḍānāṃ gaṅgādipravāhe prakṣepaḥ /
anunapraveśo 'saṃbandhaḥ /
pratipattervidhirniyogastasya viṣayabhūtāṃ pratipattipratyavacchedakatvema viṣayatayetyarthaḥ /
agnyādidevatoddeśena puroḍāśādidravyotsargo yāgaḥ /
aśarīraṃ videhaṃ, priyāpriye sukhaduḥkhe /
kṛtākṛtāditi /
kṛtāt kāryāt, akṛtāt kāraṇāt /
tat brahma, avet viditavat /
valkalādivaccittarañjako rāgādikaṣāyo mṛditaḥ kṣālitaḥ vināśito yasya jñānavairāgyābhyāsakṣārajalena tasmai /
adhyāsaḥ śāstrato 'tasmiṃstaddhīḥ /
ādeśa upadeśaḥ /
pralayakāle vāyuragnyādīnsaṃvṛṇoti saṃharatīti saṃvargaḥ, svāpakāle prāṇo vāgādīnsaṃharatīti saṃhārakriyāyogātsaṃvargaḥ /
tat viditājjñānaviṣayādanyadbhinnam /
atho api aviditādajñānaviṣayādapi adhi anyat /
yadvācā śabdenānabhyuditamaprakāśitaṃ, yena bhmaṇā sā vāgabhyadyate prakāśyate /
'nivṛttiviṣayatvāt' bhā.pā. /
svātmano dharmānāśrayatve 'pi nityo dharmo mokṣākhyo bhaviṣyatītyabhiprāyeṇa dharmaśabdaḥ, svarūpaparo vā /
anyo jīvātmā /
pippalaṅkarmaphalam /
abhicākaśīti prakāśate /
karmādhyakṣaḥ karmaphalapradātā /
śukramiti bāhyāśuddhiviraha uktaḥ /
avraṇamasnāviramityeva kāyaniṣedhe siddhe punastanniṣedho līlādhṛtaviṣaṇvādivigrahasyāpyanṛtatāpratipādanārthaḥ /
tathāca - 'māyā hyeṣā mayā sṛṣṭā yanmāṃ paśyasi nārada /
sarvabhūtaguṇairyuktaṃ maivaṃ māṃ draṣṭumarhasī' ti /
śarīropādānabhūtāvidyārāhityāya śuddhamiti /
tannimittarāhityāyāpāpaviddhamiti /
atrānupraveśaḥ saṃbandhaḥ /
mayedaṃ kāryamityavagatimān hi niyojyo bhavati /
kṛtisādhyaśca vidhiviṣayo bhavati /
jñānasya ca kṛtyasādhyatvānnobhayamātmajñānaṃ bhavatīti bhāvaḥ /
vidhicchāyāni prasiddhayāgādividhitulyāni /
pratyagātmani srotaścittavṛttipravāhaḥ /
'kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptamityeva tuṣyati' pañca. /
anusaṃjvaret śarīraṃ paritapyamānamanutapyeta /
pramāpramārūpadhīmātraviṣayaḥ pratipattiśabdaḥ /
ā. /
'yaccāpnoti yadādatte yaccātti viṣayāniha /
yaccāsya saṃtato bhāvastasmādātmeti bhaṇyate' iti /
ahaṃpratyayaviṣaya aupaniṣadaḥ puruṣaḥ /
ahaṃpratyayaviṣayo yaḥ kartā kāryakaraṇasaṃghātopahito jīvātmā tadvyatirekeṇa /
'ityevamādyā' bhā.pā. /
baṭorvratamityupakrāntaṃ 'nekṣetodyantamādityaṃ' ityādi prajāpativratam /
vidhyanupraveśo vidhisaṃbandhaḥ /
kūṭasthasya kṛtyayogānna kartṛtvamityarthaḥ /
śabdaḥ śābdavodhaścetyarthaḥ /
nirupacāreṇa guṇajñānaṃvinā /
śravaṇamananakuśalatāmātreṇa paṇḍitānāṃ anutpannasākṣātkārāṇāmitiyāvat /
ahinirlvayanī sarpatvak valmīkādau pratyastā nikṣiptā mṛtā sarpeṇa tyaktābhimānā vartata evamityādyūhyam /
brahmasākṣātkāro 'vagatistadarthatvāt /
vidhiśeṣatvena brahmārpaṇe 'pi /
athāta iti tṛtīye śrutyādibhiḥ śeṣaśeṣitve siddhe satyanantaraṃ śeṣiṇaiva śeṣasya prayuktisaṃbhavātkonāma kratave kovā puruṣārtāyeti jijñāsā pravṛttā caturthādau /
tasmāt jñānasya prameyapramātṛbādhakatvābhāvāt /
gaumeti /
putradārādiṣvātmābhimāno gauṇaḥ tatra bhedānubhavāt /
dehendriyādiṣapa tvabhedānubhavānna gauṇaḥ kintu mithyā /
tadubhayātmano 'satve putradehādibādhanāt- gauṇātmano 'satve putrakalatrādibādhanaṃ, mithyātmano 'satve dehendriyādibādhanaṃ ca /
tathāca lokayātrakāryaṃ sadbrahmāhamiti bodhakāryaṃ- advaitasākṣātkāraśca kathaṃ bhavet /
anveṣṭavyātmavijñānāt- 'ya ātmāpahatapāpmā', so 'nveṣṭavyaḥ iti tadvijñānātpūrvamātmano mātṛtvaṃ pramāprameyapramāṇavibhāgaśca /
tena tadabhāve kāryaṃ notpadyata ityarthaḥ /
ātmaniścayāt ābrahmasvarūpasākṣātkārādityarthaḥ /
evaṃ tāvadvedāntavākyānāṃ brahmātmāvagatiprayojanānāṃ brahmātmani tātparyeṇa samanvitānāmantareṇāpi kāryānupraveśaṃ, brahmaṇi paryavasānamuktam /
brahma ca sarvajñaṃ sarvaśakti jagadutpattisthitināśakāraṇamityuktam /
sāṃkhyādayastu pariniṣṭhitaṃ vastu pramāṇāntaragamyameveti manyamānāḥ pradhānādīni kāraṇāntarāṇyanumimānāstatparatayaiva vedāntavākyāni yojayanti /
sarveṣveva vedāntavākyeṣu sṛṣṭiviṣayeṣvanumānenaiva kāryeṇa kāraṇaṃ lilakṣayiṣitam /
pradhānapuruṣasaṃyogā nityānumeyā iti sāṃkhyā manyante /
kāṇādāstvetebhya eva vākyebhya īśvaraṃ nimittakāraṇamanumimate aṇūṃśca samavāyikāraṇam /
evamanye 'pi tārkikā vākyābhāsayuktyābhāsāvaṣṭambhāḥ pūrvapakṣavādina ihottiṣṭante /
tatra padavākyapramāṇajñenācāryeṇa vedāntavākyānāṃ brahmāvagatiparatvadarśanāya vākyābhāsayuktābhāsavipratipattayaḥ pūrvapakṣīkṛtya nirākriyante /
tatra sāṃkhyāḥ pradhānaṃ triguṇamacetanaṃ jagataḥ kāraṇamiti manyamānā āhuḥ- yāni vedāntavākyāni sarvajñasya sarvaśakterbrahmaṇo jagatkāraṇatvaṃ darśayantītyavocastāni pradhānakāraṇapakṣe 'pi yojayituṃ śakyante /
sarvaśaktitvaṃ tāvatpradhānasyāpi svavikāraviṣayamupapadyate /
evaṃ sarvajñatvamapyupapadyate /
katham /
yattu jñānaṃ manyase sa sattvadharmaḥ , 'sattvātsaṃjāyate jñānam' (gī. 14.17) iti smṛteḥ /
tena ca sattvadharmeṇa jñānena kāryakāraṇavantaḥ puruṣāḥ sarvajñā yoginaḥ prasiddhāḥ /
sattvasya hi niratiśayotkarṣe sarvajñatvaṃ prasiddham /
na kevalasyākāryakāraṇasya puruṣopalabdhimātrasya sarvajñatvaṃ kiñcijjñatvaṃ vā kalpayituṃ śakyam /
triguṇatvāttu pradhānasya sarvajñānakāraṇabhūtaṃ sattvaṃ pradhānāvasthāyāmapi vidyata iti pradhānasyācetanasyaiva sataḥ sarvajñatvamupacaryate /
vedāntavākyeṣvavaśyaṃ ca tvayāpi sarvajñaṃ brahmābhyupagacchatā sarvajñānāktimattvenaiva sarvajñatvamupagantavyam /
nahi sarvaviṣayaṃ jñānaṃ kurvadeva brahma vartate /
tathāhi- jñānasya nityatve jñānakriyāṃ prati svātantryaṃ brahmaṇo hīyeta /
athānityaṃ taditi jñānakriyāyā uparametāpi brahma, tadā sarvajñānāktimattvenaiva sarvajñatvamāpatati /
apica prāgutpatteḥ sarvakārakāśūnyaṃ brahmeṣyate tvayā /
naca jñānasādhanānāṃ śarīrendriyādīnāmabhāve jñānotpattiḥ kasyacidupapannā /
apica pradhānasyanekātmakasya pariṇāmāsaṃbhavātkāraṇatvopapattirmṛdādivat, nāsaṃhatasyaikātmakasya brahmaṇa ityevaṃ prāptaṃ idaṃ sūtramārabhyate-
----------------------
FN: kāryasaṃbandhaṃvināpi anumeyā iti /
buddhau yaḥ pratibimbaḥ sa tādṛśabimbapūrvakaḥ pratibimbatvāt /
darpaṇe mukhābhāsādityanumānam /
vyākaraṇamīmāṃsānyāyāḥ padavākyapramāṇāni /
vākyābhāseṣu yuktyābhāseṣu ca vipratipattiryeṣāṃ te /
jñānakriyāṃprati jñādhātvarthaṃprati, svātantryaṃ kartṛtvam /
ādipadena jñeyajñātrādisaṃgrahaḥ /
pradhānādeḥ kāraṇatvaṃ tarkapāde yuktibhirnirasyati /
brahmaṇaḥ kāraṇatvaṃ smṛtipāde samarthyate /
Sanskrit only: no published translation is held for this verse.