Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·1·1.1·1.1.24

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 1.1.24

BSBh 1.1.24

ज्योतिश् चरणाभिधानात् इदमामनन्ति- ऽअथ यदतः परो ज्योतिर्दीप्यते विश्वतःपृष्टेषु सर्वतःपृष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तःपुरुषे ज्योतिःऽ (छा। ३।१३।७) इति । तत्र संशयः-किमिह ज्योतिःशब्देनादित्यादि ज्योतिरभिधीयते किंवा परमात्मेति । अर्थान्तरविषयस्यापि शब्दस्य तल्लिङ्गादब्रह्मविषयत्वमुक्तम् । इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यते । किं तावत्प्राप्तम् । आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इति । कुतः, प्रसिद्धेः । तमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्वी वीषयौ प्रसिद्धौ । चक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यते । तस्या एवानुग्राहकमादित्यादिकं ज्योतिः । तथा ऽदीप्यतेऽ इतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा । नहि रूपादिहीनं ब्रह्म ऽदीप्यतेऽ इति मुख्यां श्रुतिर्महति । द्युमर्यादत्वश्रुतेश्च । नहि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ता । कार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ऽपरो दिवो ज्योतिःऽ इति च ब्राह्मणम् । ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम् । अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम् । न । अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादिति । इदमेव प्रयोजनं यदुपास्यत्वमिति चेत् । न । प्रयोजनान्तरप्रयुक्तस्यैवादित्यदेरुपास्यत्वदर्शनात् । ऽतासां त्रिवृतं त्रिवृतमेकैकां करवाणिऽ (छा। ६।३।३) इति चाविशेषश्रुतेः । नचात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम् । अस्तु तर्हि त्रिवृत्कृतमेवत् तेजो ज्योतिःशब्दम् । ननूक्तमर्वागपि दिवो ऽवगम्यते ऽग्न्यादिकं ज्योतिरिति । नैष दोषः । सर्वत्रापि गम्यमानस्य ज्योतिषः ऽपरो दिवःऽ इत्युपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । नतु निष्प्रदेशस्यापि ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ऽसर्वतःपृष्टेष्वनुत्तमेषूत्तमेषु लोकेषुऽ इति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम् । ऽइदं वाव तद्यदिदमस्मिन्नान्तः पुरुषे ज्योतिःऽ (छा। ३।१३।७) इति च कौक्षेये ज्योतिरषि परं ज्योतिरध्यस्यमानं दृश्यते । सारूप्यनिमित्ताश्चाध्यसा भवन्ति । यथा- ऽतस्य भूरिति शिर एकमेतदक्षरम्ऽ (बृ। ५।५।३) इति । कौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम् । ऽतस्यैषा दृष्टिःऽ (छा। ३।१३।७) ऽतस्यैषा श्रुतिःऽ इति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ऽतदेतद्दृष्टं च श्रुतं चेप्युपासीतऽ इति च श्रुतेः । ऽचक्षुष्यः श्रुतो भवति य एवं वेदऽ (छा। ३।१३।८) इति चाल्पफलश्रवणादब्रह्मत्वम् । महते हि फलाय ब्रह्मोपासनमिष्यते । नचान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषो ऽस्ति ब्रह्मलिङ्गम् । नच पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ऽगायत्री वा इदं सर्वं भूतम्ऽ इति छन्दोनिर्देशात् । अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यादेवमपि न तस्येह प्रत्यभिज्ञानमस्ति । तत्र हि ऽत्रिपादस्यामृतं दिविऽ (३।१२।१,६) इति द्यौरधिकरणत्वेन श्रूयते । अत्र पुनः ऽपरो दिवो ज्योतिःऽ इति द्यौर्मर्यादात्वेन । तस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः-ज्योतिरिह ब्रह्म ग्राह्यम् । कुतः। चरणाभिधानात् । पादाभिधानादित्यर्थः । पूर्वस्मिन्हि वाक्ये चतुष्पाद्ब्रह्म निर्दिष्टम्- ऽतावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादो ऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिविऽ (छा। ३।१२।६) इत्यनेन मन्त्रेण । तत्र यच्चतुष्पादो ब्रह्मणस्त्रिपादमृतं द्युसंबन्धिरूपं निर्दिष्टं तदेवेह द्युसंबन्धान्निर्दिष्टमिति प्रत्यभिज्ञायते । तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येयाताम् । न केवलं पूर्ववाक्याज्ज्योतिर्वाक्य एव ब्रह्मानुवृत्तिः, परस्यामपि शाण्डिल्यविद्ययामनुवर्तिष्यते ब्रह्म । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् । यत्तूक्तम्- ऽज्योतिरदीप्यतेऽ इति चैतौ शब्दौ कार्ये ज्योतिषि प्रसिद्धाविति । नायं दोषः । प्रकरणाद्ब्रह्मावगमे सत्यनयोः शब्दयोरविशेषकत्वात् । दीप्यमानकार्यज्योतिरुपलक्षिते ब्रह्मण्यपि प्रयोगसंभवात् । ऽयेन सूर्यस्तपति तेजसेद्धःऽ (तैब्रा। ३।१२।९।७) इति च मन्त्रवर्णात् । यद्वा नायं ज्योतिःशब्दश्चक्षुर्वृत्तेरेवानुग्राहके तेजसि वर्तते, अन्यत्रापि प्रयोगदर्शनात् । ऽवाचैवायं ज्योतिषास्तेऽ (बृ। ४।३।५), ऽमनो ज्योतिर्जुषताम्ऽ (तैब्रा। १।६।३।३) इति च, तस्माद्यद्यत्कस्यचिदवभासकं तत्तज्योतिःशब्देनाभिधीयते । तथा सति ब्रह्मणो ऽपि चैतन्यरूपस्य समस्तजगदवभासहेतुत्वादुपपन्नो ज्योतिःशब्दः । ऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ (कौ। २।५।१५) ऽतद्देवा ज्योतिषां ज्योतिरायुर्हेपासते ऽमृतम्ऽ (बृ। ४।४।१६) इत्यादिश्रुतिभ्यश्च । यदप्युक्तं द्युमर्यादत्वं सर्वगतस्य ब्रह्मणो नोपपद्यत इति । अत्रोच्यते- सर्वगतस्यापि ब्रह्मण उपासनार्थः प्रदेशविशेषपरिग्रहो न विरुध्यते । ननुक्तं निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना नोपपद्यत इति । नायं दोषः । निष्प्रदेशस्यापि ब्रह्मण उपाधिविशेषसंबन्धात्प्रदेशविशेषकल्पनोपपत्तेः । तथाहि- आदित्यो, चक्षुषि, हृदये, इति प्रदेशविशेषसंबन्धानि ब्रह्मण उपासनानि श्रूयन्ते । एतेन ऽविश्वतःपृष्ठेषुऽ इत्याधारबहुत्वमुपपादितम् । यदप्येतदुक्तं, औष्ण्यघोषानुमिते कौक्षेये कार्ये ज्योतिष्यध्यस्यमानत्वात्परमपि दिवः कार्यं ज्योतिरेवेति । तदप्ययुक्तम् । परस्यापि ब्रह्णणो नामादिप्रतीकत्वत्कौक्षेयज्योतिष्प्रतीकत्वोपपत्तेः । ऽदृष्टं च श्रुतं चेत्युपासीतऽ इति तु प्रतीकद्वारकं दृष्टत्वं श्रुतत्वं च भविष्यति । यदप्यल्पफलश्रवणान्न ब्रह्मेति, तदप्यनुपपन्नम् । नहीयते फलाय ब्रह्माश्रयणीयं, इयते नेति नियमहेतुरस्ति । यत्र हि निरस्तसर्वविशेषसंबन्धं परं ब्रह्मात्मत्वेनोपदिश्यते, तत्रैकरूपमेव फलं मोक्ष इत्यवगम्यते । यत्र तु गुणविशेषसंबन्धं प्रतीकविशेषसंबन्धं वा ब्रह्मोपदिश्यते, तत्र संसारगोचराण्येवोच्चावचानि फलानि दृश्यन्ते- ऽअन्नादो वसुदानो विदन्ते वसु य एवं वेदऽ (बृ। ४।४।२४) इत्याद्यासु श्रुतिषु । यद्यपि न स्ववाक्ये किञ्चिज्ज्योतिषो ब्रह्मलिङ्गमस्ति तथापि पूर्वस्मिन्वाक्ये दृश्यमानं ग्रहीतव्यं भवति । तदुक्तं सूत्रकारेण- ऽज्योतिश्चरणाभिधानात्ऽ इति कथं पुनर्वाक्यान्तरगतेन ब्रह्मसंनिधानेन ज्योतिःश्रुतिः स्वविषयाच्छक्या प्रच्यावयितुम् । नैष दोषः । ऽयदतः परो ज्योतिःऽ इति प्रथमतरपठितेन यच्छब्देन सर्वनाम्ना द्युसंब्नन्धात्प्रत्यभिज्ञायमाने पूर्ववाक्यनिर्दिष्टे ब्रह्मणि स्वसामार्थ्येन परामृष्टे सत्यर्थाज्ज्योतिःशब्दस्यापि ब्रह्मविषयत्वोपपत्तेः । तस्मादिह ज्योतिरिति ब्रह्म प्रतिपत्तव्यम् ॥ २४ ॥ ---------------------- फ़्न्: गायत्र्युपाधिब्रह्मोपास्त्यनन्तरमुपास्त्यन्तरोक्त्यर्थो ऽथशब्दः । अतो द्युलोकात्परःपरस्ताद्यज्ज्योतिर्दीप्यते तदिदमिति जाठरे ज्योतिष्यध्यस्यते । विश्वस्मात्प्राणिवर्गात् सर्वस्माद्भूरादिलोकाच्च पृष्टेषूपरीत्यर्थः । नहीति रूपादिमतः सावयवस्यैव दीप्तियोगादित्यर्थः । यत्तेजोबन्नाभ्यामसंपृक्तं तदत्रिवत्कृतमुच्यते । प्रयोजनान्तरं तमोनाशादिकम् । तासां तेजोबन्नानामेकैकं द्विधा विभज्य पुनश्चेकैकं भागं द्वेधा कृत्वा स्वभागादितरभागयोर्निक्षिप्य त्रिवृत्करणं संपद्यते । भागिनी युक्ता । एकत्वसाम्याद्भूरित्यस्मिन्नक्षरे प्रजापतेः शिरोदृष्टिरुक्ता तथात्रापि सारूप्यं वाच्यं अन्यथाध्यासासिद्धेः । एषा दृष्टिर्यदेतदुष्णिमानं स्पर्शेन विजानाति । एषा श्रुतिर्यत्कर्णावपिधाय निनदमिव शृणोतीति शेषः । चक्षुष्यो दर्शनीयः । श्रुतो विश्रुतः । प्राकृतं प्रकृतेर्जातं, कार्यमिति यावत् । ब्रह्मणो व्यवच्छिद्य तेजःसमर्पकत्वं विशेषकत्वं तदभावो ऽविशेषकत्वं, अविशेषकत्वाद्ब्रह्मव्यावर्तकत्वादित्यर्थः । प्रमित्यर्थत्वेन उपास्त्यर्थत्वेन वा मर्यादावत्त्वम् । दिवः परमपीत्यन्वयः । कौक्षेयकं हि ज्योतिर्जीवभावेनानुप्रविष्टस्य परमात्मनो विकारः जीवाभावे देहस्य शैथिल्यात् जीवतश्चौष्ण्याज्जायते । तस्मात्प्रतीकोपासनमुपपन्नम् । जीवरूपेणान्नमत्तीत्यन्नादः, अन्नस्यासमन्ताद्दाता वा । वसु हिरण्यं कर्मफलं ददातीति वसुदान इति गुणविशेषसंबन्धः । सर्वनाम्ना स्वसामर्थ्येन स्वस्य सर्वनाम्नः सामर्त्यं संनिहितवाचित्वं तद्बलेन परामृष्टे सतीति योजना ।

jyotiś caraṇābhidhānāt idamāmananti- 'atha yadataḥ paro jyotirdīpyate viśvataḥpṛṣṭeṣu sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣvidaṃ vāva tadyadidamasminnantaḥpuruṣe jyotiḥ' (chā. 3.13.7) iti / tatra saṃśayaḥ-kimiha jyotiḥśabdenādityādi jyotirabhidhīyate kiṃvā paramātmeti / arthāntaraviṣayasyāpi śabdasya talliṅgādabrahmaviṣayatvamuktam / iha tu talliṅgamevāsti nāstīti vicāryate / kiṃ tāvatprāptam / ādityādikameva jyotiḥśabdena parigṛhyata iti / kutaḥ, prasiddheḥ / tamo jyotiriti hīmau śabdau parasparapratidvandvī vīṣayau prasiddhau / cakṣurvṛtternirodhakaṃ śārvarādikaṃ tama ucyate / tasyā evānugrāhakamādityādikaṃ jyotiḥ / tathā 'dīpyate' itīyamapi śrutirādityādiviṣayā prasiddhā / nahi rūpādihīnaṃ brahma 'dīpyate' iti mukhyāṃ śrutirmahati / dyumaryādatvaśruteśca / nahi carācarabījasya brahmaṇaḥ sarvātmakasya dyaurmaryādā yuktā / kāryasya tu jyotiṣaḥ paricchinnasya dyaurmaryādā syāt / 'paro divo jyotiḥ' iti ca brāhmaṇam / nanu kāryasyāpi jyotiṣaḥ sarvatra gamyamānatvāddyumaryādāvattvamasamañjasam / astu tarhyatrivṛtkṛtaṃ tejaḥ prathamajam / na / atrivṛtkṛtasya tejasaḥ prayojanābhāvāditi / idameva prayojanaṃ yadupāsyatvamiti cet / na / prayojanāntaraprayuktasyaivādityaderupāsyatvadarśanāt / 'tāsāṃ trivṛtaṃ trivṛtamekaikāṃ karavāṇi' (chā. 6.3.3) iti cāviśeṣaśruteḥ / nacātrivṛtkṛtasyāpi tejaso dyumaryādatvaṃ prasiddham / astu tarhi trivṛtkṛtamevat tejo jyotiḥśabdam / nanūktamarvāgapi divo 'vagamyate 'gnyādikaṃ jyotiriti / naiṣa doṣaḥ / sarvatrāpi gamyamānasya jyotiṣaḥ 'paro divaḥ' ityupāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate / natu niṣpradeśasyāpi brahmaṇaḥ pradeśaviśeṣakalpanā bhāginī / 'sarvataḥpṛṣṭeṣvanuttameṣūttameṣu lokeṣu' iti cādhārabahutvaśrutiḥ kārye jyotiṣyupapadyatetarām / 'idaṃ vāva tadyadidamasminnāntaḥ puruṣe jyotiḥ' (chā. 3.13.7) iti ca kaukṣeye jyotiraṣi paraṃ jyotiradhyasyamānaṃ dṛśyate / sārūpyanimittāścādhyasā bhavanti / yathā- 'tasya bhūriti śira ekametadakṣaram' (bṛ. 5.5.3) iti / kaukṣeyasya tu jyotiṣaḥ prasiddhamabrahmatvam / 'tasyaiṣā dṛṣṭiḥ' (chā. 3.13.7) 'tasyaiṣā śrutiḥ' iti cauṣṇyaghoṣaviśiṣṭatvasya śravaṇāt / 'tadetaddṛṣṭaṃ ca śrutaṃ cepyupāsīta' iti ca śruteḥ / 'cakṣuṣyaḥ śruto bhavati ya evaṃ veda' (chā. 3.13.8) iti cālpaphalaśravaṇādabrahmatvam / mahate hi phalāya brahmopāsanamiṣyate / nacānyadapi kiñcitsvavākye prāṇākāśavajjyotiṣo 'sti brahmaliṅgam / naca pūrvasminnapi vākye brahma nirdiṣṭamasti, 'gāyatrī vā idaṃ sarvaṃ bhūtam' iti chandonirdeśāt / athāpi kathañcitpūrvasminvākye brahma nirdiṣṭaṃ syādevamapi na tasyeha pratyabhijñānamasti / tatra hi 'tripādasyāmṛtaṃ divi' (3.12.1,6) iti dyauradhikaraṇatvena śrūyate / atra punaḥ 'paro divo jyotiḥ' iti dyaurmaryādātvena / tasmātprākṛtaṃ jyotiriha grāhyamityevaṃ prāpte brūmaḥ-jyotiriha brahma grāhyam / kutaḥ. caraṇābhidhānāt / pādābhidhānādityarthaḥ / pūrvasminhi vākye catuṣpādbrahma nirdiṣṭam- 'tāvānasya mahimā tato jyāyāṃśca pūruṣaḥ / pādo 'sya sarvā bhūtāni tripādasyāmṛtaṃ divi' (chā. 3.12.6) ityanena mantreṇa / tatra yaccatuṣpādo brahmaṇastripādamṛtaṃ dyusaṃbandhirūpaṃ nirdiṣṭaṃ tadeveha dyusaṃbandhānnirdiṣṭamiti pratyabhijñāyate / tatparityajya prākṛtaṃ jyotiḥ kalpayataḥ prakṛtahānāprakṛtaprakriye prasajyeyātām / na kevalaṃ pūrvavākyājjyotirvākya eva brahmānuvṛttiḥ, parasyāmapi śāṇḍilyavidyayāmanuvartiṣyate brahma / tasmādiha jyotiriti brahma pratipattavyam / yattūktam- 'jyotiradīpyate' iti caitau śabdau kārye jyotiṣi prasiddhāviti / nāyaṃ doṣaḥ / prakaraṇādbrahmāvagame satyanayoḥ śabdayoraviśeṣakatvāt / dīpyamānakāryajyotirupalakṣite brahmaṇyapi prayogasaṃbhavāt / 'yena sūryastapati tejaseddhaḥ' (tai.brā. 3.12.9.7) iti ca mantravarṇāt / yadvā nāyaṃ jyotiḥśabdaścakṣurvṛtterevānugrāhake tejasi vartate, anyatrāpi prayogadarśanāt / 'vācaivāyaṃ jyotiṣāste' (bṛ. 4.3.5), 'mano jyotirjuṣatām' (tai.brā. 1.6.3.3) iti ca, tasmādyadyatkasyacidavabhāsakaṃ tattajyotiḥśabdenābhidhīyate / tathā sati brahmaṇo 'pi caitanyarūpasya samastajagadavabhāsahetutvādupapanno jyotiḥśabdaḥ / 'tameva bhāntamanubhāti sarvaṃ tasya bhāsā sarvamidaṃ vibhāti' (kau. 2.5.15) 'taddevā jyotiṣāṃ jyotirāyurhepāsate 'mṛtam' (bṛ. 4.4.16) ityādiśrutibhyaśca / yadapyuktaṃ dyumaryādatvaṃ sarvagatasya brahmaṇo nopapadyata iti / atrocyate- sarvagatasyāpi brahmaṇa upāsanārthaḥ pradeśaviśeṣaparigraho na virudhyate / nanuktaṃ niṣpradeśasya brahmaṇaḥ pradeśaviśeṣakalpanā nopapadyata iti / nāyaṃ doṣaḥ / niṣpradeśasyāpi brahmaṇa upādhiviśeṣasaṃbandhātpradeśaviśeṣakalpanopapatteḥ / tathāhi- ādityo, cakṣuṣi, hṛdaye, iti pradeśaviśeṣasaṃbandhāni brahmaṇa upāsanāni śrūyante / etena 'viśvataḥpṛṣṭheṣu' ityādhārabahutvamupapāditam / yadapyetaduktaṃ, auṣṇyaghoṣānumite kaukṣeye kārye jyotiṣyadhyasyamānatvātparamapi divaḥ kāryaṃ jyotireveti / tadapyayuktam / parasyāpi brahṇaṇo nāmādipratīkatvatkaukṣeyajyotiṣpratīkatvopapatteḥ / 'dṛṣṭaṃ ca śrutaṃ cetyupāsīta' iti tu pratīkadvārakaṃ dṛṣṭatvaṃ śrutatvaṃ ca bhaviṣyati / yadapyalpaphalaśravaṇānna brahmeti, tadapyanupapannam / nahīyate phalāya brahmāśrayaṇīyaṃ, iyate neti niyamaheturasti / yatra hi nirastasarvaviśeṣasaṃbandhaṃ paraṃ brahmātmatvenopadiśyate, tatraikarūpameva phalaṃ mokṣa ityavagamyate / yatra tu guṇaviśeṣasaṃbandhaṃ pratīkaviśeṣasaṃbandhaṃ vā brahmopadiśyate, tatra saṃsāragocarāṇyevoccāvacāni phalāni dṛśyante- 'annādo vasudāno vidante vasu ya evaṃ veda' (bṛ. 4.4.24) ityādyāsu śrutiṣu / yadyapi na svavākye kiñcijjyotiṣo brahmaliṅgamasti tathāpi pūrvasminvākye dṛśyamānaṃ grahītavyaṃ bhavati / taduktaṃ sūtrakāreṇa- 'jyotiścaraṇābhidhānāt' iti kathaṃ punarvākyāntaragatena brahmasaṃnidhānena jyotiḥśrutiḥ svaviṣayācchakyā pracyāvayitum / naiṣa doṣaḥ / 'yadataḥ paro jyotiḥ' iti prathamatarapaṭhitena yacchabdena sarvanāmnā dyusaṃbnandhātpratyabhijñāyamāne pūrvavākyanirdiṣṭe brahmaṇi svasāmārthyena parāmṛṣṭe satyarthājjyotiḥśabdasyāpi brahmaviṣayatvopapatteḥ / tasmādiha jyotiriti brahma pratipattavyam // 24 // ---------------------- FN: gāyatryupādhibrahmopāstyanantaramupāstyantaroktyartho 'thaśabdaḥ / ato dyulokātparaḥparastādyajjyotirdīpyate tadidamiti jāṭhare jyotiṣyadhyasyate / viśvasmātprāṇivargāt sarvasmādbhūrādilokācca pṛṣṭeṣūparītyarthaḥ / nahīti rūpādimataḥ sāvayavasyaiva dīptiyogādityarthaḥ / yattejobannābhyāmasaṃpṛktaṃ tadatrivatkṛtamucyate / prayojanāntaraṃ tamonāśādikam / tāsāṃ tejobannānāmekaikaṃ dvidhā vibhajya punaścekaikaṃ bhāgaṃ dvedhā kṛtvā svabhāgāditarabhāgayornikṣipya trivṛtkaraṇaṃ saṃpadyate / bhāginī yuktā / ekatvasāmyādbhūrityasminnakṣare prajāpateḥ śirodṛṣṭiruktā tathātrāpi sārūpyaṃ vācyaṃ anyathādhyāsāsiddheḥ / eṣā dṛṣṭiryadetaduṣṇimānaṃ sparśena vijānāti / eṣā śrutiryatkarṇāvapidhāya ninadamiva śṛṇotīti śeṣaḥ / cakṣuṣyo darśanīyaḥ / śruto viśrutaḥ / prākṛtaṃ prakṛterjātaṃ, kāryamiti yāvat / brahmaṇo vyavacchidya tejaḥsamarpakatvaṃ viśeṣakatvaṃ tadabhāvo 'viśeṣakatvaṃ, aviśeṣakatvādbrahmavyāvartakatvādityarthaḥ / pramityarthatvena upāstyarthatvena vā maryādāvattvam / divaḥ paramapītyanvayaḥ / kaukṣeyakaṃ hi jyotirjīvabhāvenānupraviṣṭasya paramātmano vikāraḥ jīvābhāve dehasya śaithilyāt jīvataścauṣṇyājjāyate / tasmātpratīkopāsanamupapannam / jīvarūpeṇānnamattītyannādaḥ, annasyāsamantāddātā vā / vasu hiraṇyaṃ karmaphalaṃ dadātīti vasudāna iti guṇaviśeṣasaṃbandhaḥ / sarvanāmnā svasāmarthyena svasya sarvanāmnaḥ sāmartyaṃ saṃnihitavācitvaṃ tadbalena parāmṛṣṭe satīti yojanā /

Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.

Sanskrit only: no published translation is held for this verse.

Permanent address: hreem.cc/library/BSBh/1.1.24

Cite as: Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 1.1.24, in HREEM (hreem.cc/library/BSBh/1.1.24), after GRETIL …, Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra..

Edition, numbering and licence

GRETIL 6_sastra/3_phil/vedanta/brssbh1u.htm … brssbh4u.htm — Each unit is one sūtra followed by Śaṅkara's commentary on it; ref = adhyāya.pāda.sūtra.

GRETIL (SUB Göttingen), CC BY-NC-SA 4.0 — non-commercial use with attribution; the Companion is kept free while this corpus is held. Devanagari generated mechanically from GRETIL's IAST.

More about this text