जीवमुख्यप्राणलिङ्गान् नेति चेन् नोपासात्रैविध्यादाश्रितत्वाद् इह तद्योगात् यद्यप्यध्यात्मसंबन्धभूमदर्शनान्न पराचीनस्य देवतात्मन उपदेशः तथापि न ब्रह्मवाक्यं भवितुमर्हति । कुतः, जीवलिङ्गान्मुख्यप्राणलिङ्गाच्च । जीवस्य तावदस्मिन्वाक्ये विस्पष्टं लिङ्गमुपलभ्यते ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादि । अत्र हि वागादिभिः करणैर्व्यापृतस्य कार्यकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते । तथा मुख्यप्राणलिङ्गमपि- ऽअथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयतिऽ इति । शरीरधारणं च मुख्यप्राणस्य धर्मः, प्राणसंवादे वागादीन्प्राणान्प्रकृत्य- ऽतान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्प्राणमवष्टभ्य विधारयामिऽ (प्र। २।३) इति श्रवणात् । ये तु इमं शरीरं परिगृह्य इति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थापयतीति व्याख्येयम् । प्रज्ञात्मत्वमपि जीवे तावच्चेतनत्वादुपपन्नम् । मुख्ये ऽपि प्राणे प्रज्ञासाधनप्राणान्तराश्रयत्वादुपपन्नमेव । जीवमुख्यप्राणपरिग्रहे च प्राणप्रज्ञात्मनोः सहवृत्तित्वेनाभेदनिर्देशः स्वरूपेण च भेदनिर्देश इत्युभयया निर्देश उपपद्यते- ऽयो वै प्राणः सा प्रज्ञा या वै प्रज्ञा स प्राणः सह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति । ब्रह्मपरिग्रहे तु किं कस्मद्भिद्येत । तस्मादिहजीवमुख्यप्राणयोरन्तर उभौ वा प्रतीयेयातां न ब्रह्मेति चेत्, नैतदेवं, उपासात्रैविद्यात् । एवं सति त्रिविधमुपासनं प्रसज्येत- जीवोपासने मुख्यप्राणोपासनं ब्रह्मोपासनं चेति । नचैतदेकस्मिन्वाक्ये ऽभ्युपगन्तुं युक्तम् । उपक्रमोपसंहाराभ्यां हि वाक्यैकत्वमवगम्यते । ऽमामेव विजानीहिऽ इत्युपक्रम्य ऽप्राणो ऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपाःस्वऽ इत्युक्त्वान्ते ऽस एष प्राण एव प्रज्ञात्मानन्दो ऽजरो ऽमृतःऽ इत्येकरूपावुपक्रमोपसंहारौ दृश्येते । तत्रार्थैकत्वं युक्तमाश्रयितुम् । नच ब्रह्मलिङ्गमन्यपरत्वेन परिणेतुं शक्यम् । दशानां भूतमात्राणां प्रज्ञामात्राणां च ब्रह्मणो ऽन्यत्रार्पणानुपपत्तेः । आश्रिततावाच्चान्यत्रापि ब्रह्मलिङ्गवशात्प्राणशब्दस्य ब्रह्मणि वृत्तेः । इहापि च हिततमोपन्यासादिब्रह्मलिङ्गयोगाद्ब्रह्मोपदेश एवायमिति गम्यते । यत्तु मुख्यप्राणलिङ्गं दर्शितम्- ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, तदसत् । प्राणव्यापारस्यापि परमात्मायत्तत्वात्परमात्मन्युपचरितुं शक्यत्वात् । ऽन प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ (काठ। २।५।५) इति श्रुतेः । यदपि न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गं दर्शितं तदपि न ब्रह्मपक्षं निवारयति । नहि जीवो नामात्यन्तभिन्नो ब्रह्मणः, ऽतत्त्वमसिऽ, ऽअहं ब्रह्मास्मिऽ इत्यादिश्रुतिभ्यः । बुद्ध्याद्युपाधिकृतं तु विशेषमाश्रित्य ब्रह्मैव सञ्जीवः कर्ता भोक्ता चेत्युच्यते । तस्योपाधिकृतविशेषपरित्यागेन स्वरूपं ब्रह्म दर्शयितुं ऽन वाचं विजिज्ञासीत वक्तारं विद्यात्ऽ इत्यादिना प्रत्यगात्माभिमुखीकरणार्थमुपदेशो न विरुध्यते । ऽयद्वाचानभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ऽ (के। १।४) इत्यादि च श्रुत्यन्तरं वचनादिक्रियाव्यापृतस्यैवात्मनो ब्रह्मत्वं दर्शयति । यत्पुनरेतदुक्तम्- ऽसह ह्येतावस्मिञ्शरीरे वसतः सहोत्क्रामतःऽ इति प्राणप्रज्ञात्मनोर्भेददर्शनं ब्रह्मवादे नोपपद्यत इति । नैष दोषः । ज्ञानक्रियाशक्तिद्वयाश्रययोर्बुद्धिप्राणयोः प्रत्यगात्मोपाधिभूतयोरभेदनिर्देशोपपत्तेः उपाधिद्वयोपहितस्य तु प्रत्यगात्मनः स्वरूपेणाभेद इत्यतः प्राण एव प्रज्ञात्मेत्येकीकरणमविरुद्धम् । अथवा नोपासात्रैविध्यादाश्रितत्वादिह तद्योगात् इत्यस्यायमन्योर्ऽथः- न ब्रह्मवाक्यो ऽपि जीवमुख्यप्राणलिङ्गं विरुध्यते । कथम्, उपासात्रैविध्यात् । त्रिविधमिह ब्रह्मोपासने विवक्षितं प्राणधर्मेण प्रज्ञाधर्मेण स्वधर्मेण च । तत्र ऽआयुरमृतमुपाःस्वायुः प्राणःऽ इति, ऽइदं शरीरं परिगृह्योत्थापयतिऽ इति, ऽतस्मादेतदेवोक्थमुपासीतऽ इति च प्राणधर्मः । ऽअथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकीभवन्ति तद्व्याख्यास्यामःऽ इत्युपक्रम्य ऽवागेवास्या एकमङ्गमदूदुहत्तस्यै नाम परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोतिऽ इत्यादिः प्रज्ञाधर्मः । ता वा एता दशैव भूतमात्रा अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतम् । यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः । यद्धि प्रज्ञामात्रा न स्युर्न भूतमात्राः स्युः । नह्यन्तरतो रूपं किञ्चन सिद्ध्येत् । नो एतन्नाना । ऽतद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणे ऽर्पिताः स एष प्राण एव प्रज्ञात्माऽ इत्यादिर्ब्रह्मधर्मः । तस्माद्ब्रह्म एवैतदुपाधिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितम् । अन्यत्रापि ऽमनोमयः प्राणशरीरःऽ (छा। ३।१४।२) इत्यादावुपाधिधर्मेण ब्रह्मण उपासनमाश्रितम् । इहापि तद्युज्यते वाक्यस्योपक्रमोपसंहाराभ्यामेकार्थत्वावगमात्प्राणप्रज्ञाब्रह्मलिङ्गावगमाच्च । तस्माद्ब्रह्मवाक्यमेतदिति सिद्धम् ॥ ३१ ॥ इति श्रीमच्छारीरकमीमांसाभाष्ये श्रीशङ्करभगवत्पादकृतौ प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥ ---------------------- फ़्न्: यथायोगं किञ्चिदत्र जीववाक्यं किञ्चिन्मुख्यप्राणवाक्यं किञ्चिद्ब्रह्मवाक्यमित्यर्थः । प्राणसंवादे- वागादयः सर्वे प्रत्येकमात्मनः श्रैष्ठ्यं मन्यमानास्तन्निर्दिधारयिषया प्रजापतिमुपजग्मुः । स तानुवाच यस्मिन्नुत्क्रान्ते शरीरं पापिष्ठतरमिव भवति स वः श्रेष्ठ इति । ततः क्रमेण वागादिषूत्क्रान्तेष्वपि शरीरं स्वस्थमस्थत् । मुख्यप्राणस्योच्चिक्रमिषायां सर्वेषां व्याकुलत्वे । वरिष्ठः प्राणो ऽब्रवीदहमेव पञ्चधा प्राणापानादिभावेनात्मानं विभज्य एतद्भाति गच्छतीति वानं तदेव बाणमस्थिरं शरीरमवष्टभ्याश्रित्येति । पञ्च शब्दादयः पञ्च पृथिव्यादय इति दश भूतमात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बुद्धय इति दश प्रज्ञामात्राः । अन्यत्र ऽअत एव प्राणऽ इत्यादौ । येन चैतन्येन वागभ्युद्यते प्रेर्यते वदनसामर्थ्यमापद्यते तदेव वागादेरगम्यं ब्रह्म । उपासेति स्वतन्त्राणां त्रयाणामुपास्तौ वाक्यभेदः, नत्वेकस्यैव ब्रह्मणस्तद्धर्मेणेत्यर्थः । तस्यायुष्ट्वं जीवनस्य तदधीनत्वात् । उत्थापयतीत्युक्थमिति प्राणधर्मः । अथेति जीवधर्मः । ____________________________________________________________________________________________ ____________________________________________________________________________________________ प्रथमाध्याये द्वितीयः पादः । [अत्रास्पष्टब्रह्मलिङ्गयुक्तवाक्यानामुपास्यब्रह्मविषयाणां विचारः] । प्रथमे पादे ऽजन्माद्यस्य यतःऽ इत्याकाशादेः समस्तस्य जगतो जन्मादिकारणं ब्रह्मेत्युक्तम् । तस्य समस्तजगत्कारणस्य ब्रह्मणो व्यापित्वं, नित्यत्वं, सर्वज्ञत्वं, सर्वशक्तित्वं, सर्वात्मत्वमित्येवञ्जातीयका धर्मा उक्ता एव भवन्ति । अर्थान्तरप्रसिद्धानां च केषाञ्चिच्छब्दानां ब्रह्मविषयत्वहेतुप्रतिपादनेन कानिचिद्वाक्यानि स्पष्टब्रह्मलिङ्गानि संदिह्यमानानि ब्रह्मपरतया निर्णीतीनि । पुनरप्यन्यानि वाक्यान्यस्पष्टब्रह्मलिङ्गानि संदिह्यन्ते- किं परं ब्रह्म प्रतिपादयन्त्याहोस्विदर्थान्तरं किञ्चिदस्ति । तन्निर्णयाय द्वितीयतृतीयौ पादावारभ्येते ।
jīvamukhyaprāṇaliṅgān neti cen nopāsātraividhyādāśritatvād iha tadyogāt yadyapyadhyātmasaṃbandhabhūmadarśanānna parācīnasya devatātmana upadeśaḥ tathāpi na brahmavākyaṃ bhavitumarhati / kutaḥ, jīvaliṅgānmukhyaprāṇaliṅgācca / jīvasya tāvadasminvākye vispaṣṭaṃ liṅgamupalabhyate 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādi / atra hi vāgādibhiḥ karaṇairvyāpṛtasya kāryakaraṇādhyakṣasya jīvasya vijñeyatvamabhidhīyate / tathā mukhyaprāṇaliṅgamapi- 'atha khalu prāṇa eva prajñātmedaṃ śarīraṃ parigṛhyotthāpayati' iti / śarīradhāraṇaṃ ca mukhyaprāṇasya dharmaḥ, prāṇasaṃvāde vāgādīnprāṇānprakṛtya- 'tānvariṣṭhaḥ prāṇa uvāca mā mohamāpadyathāhamevaitatpañcadhātmānaṃ pravibhajyaitadprāṇamavaṣṭabhya vidhārayāmi' (pra. 2.3) iti śravaṇāt / ye tu imaṃ śarīraṃ parigṛhya iti paṭhanti teṣāmimaṃ jīvamindriyagrāmaṃ vā parigṛhya śarīramutthāpayatīti vyākhyeyam / prajñātmatvamapi jīve tāvaccetanatvādupapannam / mukhye 'pi prāṇe prajñāsādhanaprāṇāntarāśrayatvādupapannameva / jīvamukhyaprāṇaparigrahe ca prāṇaprajñātmanoḥ sahavṛttitvenābhedanirdeśaḥ svarūpeṇa ca bhedanirdeśa ityubhayayā nirdeśa upapadyate- 'yo vai prāṇaḥ sā prajñā yā vai prajñā sa prāṇaḥ saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti / brahmaparigrahe tu kiṃ kasmadbhidyeta / tasmādihajīvamukhyaprāṇayorantara ubhau vā pratīyeyātāṃ na brahmeti cet, naitadevaṃ, upāsātraividyāt / evaṃ sati trividhamupāsanaṃ prasajyeta- jīvopāsane mukhyaprāṇopāsanaṃ brahmopāsanaṃ ceti / nacaitadekasminvākye 'bhyupagantuṃ yuktam / upakramopasaṃhārābhyāṃ hi vākyaikatvamavagamyate / 'māmeva vijānīhi' ityupakramya 'prāṇo 'smi prajñātmā taṃ māmāyuramṛtamityupāḥsva' ityuktvānte 'sa eṣa prāṇa eva prajñātmānando 'jaro 'mṛtaḥ' ityekarūpāvupakramopasaṃhārau dṛśyete / tatrārthaikatvaṃ yuktamāśrayitum / naca brahmaliṅgamanyaparatvena pariṇetuṃ śakyam / daśānāṃ bhūtamātrāṇāṃ prajñāmātrāṇāṃ ca brahmaṇo 'nyatrārpaṇānupapatteḥ / āśritatāvāccānyatrāpi brahmaliṅgavaśātprāṇaśabdasya brahmaṇi vṛtteḥ / ihāpi ca hitatamopanyāsādibrahmaliṅgayogādbrahmopadeśa evāyamiti gamyate / yattu mukhyaprāṇaliṅgaṃ darśitam- 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, tadasat / prāṇavyāpārasyāpi paramātmāyattatvātparamātmanyupacarituṃ śakyatvāt / 'na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminnetāvupāśritau' (kāṭha. 2.5.5) iti śruteḥ / yadapi na vācaṃ vijijñāsīta vaktāraṃ vidyāt ityādi jīvaliṅgaṃ darśitaṃ tadapi na brahmapakṣaṃ nivārayati / nahi jīvo nāmātyantabhinno brahmaṇaḥ, 'tattvamasi', 'ahaṃ brahmāsmi' ityādiśrutibhyaḥ / buddhyādyupādhikṛtaṃ tu viśeṣamāśritya brahmaiva sañjīvaḥ kartā bhoktā cetyucyate / tasyopādhikṛtaviśeṣaparityāgena svarūpaṃ brahma darśayituṃ 'na vācaṃ vijijñāsīta vaktāraṃ vidyāt' ityādinā pratyagātmābhimukhīkaraṇārthamupadeśo na virudhyate / 'yadvācānabhyuditaṃ yena vāgabhyudyate / tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate // ' (ke. 1.4) ityādi ca śrutyantaraṃ vacanādikriyāvyāpṛtasyaivātmano brahmatvaṃ darśayati / yatpunaretaduktam- 'saha hyetāvasmiñśarīre vasataḥ sahotkrāmataḥ' iti prāṇaprajñātmanorbhedadarśanaṃ brahmavāde nopapadyata iti / naiṣa doṣaḥ / jñānakriyāśaktidvayāśrayayorbuddhiprāṇayoḥ pratyagātmopādhibhūtayorabhedanirdeśopapatteḥ upādhidvayopahitasya tu pratyagātmanaḥ svarūpeṇābheda ityataḥ prāṇa eva prajñātmetyekīkaraṇamaviruddham / athavā nopāsātraividhyādāśritatvādiha tadyogāt ityasyāyamanyor'thaḥ- na brahmavākyo 'pi jīvamukhyaprāṇaliṅgaṃ virudhyate / katham, upāsātraividhyāt / trividhamiha brahmopāsane vivakṣitaṃ prāṇadharmeṇa prajñādharmeṇa svadharmeṇa ca / tatra 'āyuramṛtamupāḥsvāyuḥ prāṇaḥ' iti, 'idaṃ śarīraṃ parigṛhyotthāpayati' iti, 'tasmādetadevokthamupāsīta' iti ca prāṇadharmaḥ / 'atha yathāsyai prajñāyai sarvāṇi bhūtānyekībhavanti tadvyākhyāsyāmaḥ' ityupakramya 'vāgevāsyā ekamaṅgamadūduhattasyai nāma parastātprativihitā bhūtamātrā prajñayā vācaṃ samāruhya vācā sarvāṇi nāmānyāpnoti' ityādiḥ prajñādharmaḥ / tā vā etā daśaiva bhūtamātrā adhiprajñaṃ daśa prajñāmātrā adhibhūtam / yaddhi bhūtamātrā na syurna prajñāmātrāḥ syuḥ / yaddhi prajñāmātrā na syurna bhūtamātrāḥ syuḥ / nahyantarato rūpaṃ kiñcana siddhyet / no etannānā / 'tadyathā rathasyāreṣu nemirarpitā nābhāvarā arpitā evamevaitā bhūtamātrāḥ prajñāmātrāsvarpitāḥ prajñāmātrāḥ prāṇe 'rpitāḥ sa eṣa prāṇa eva prajñātmā' ityādirbrahmadharmaḥ / tasmādbrahma evaitadupādhidvayadharmeṇa svadharmeṇa caikamupāsanaṃ trividhaṃ vivakṣitam / anyatrāpi 'manomayaḥ prāṇaśarīraḥ' (chā. 3.14.2) ityādāvupādhidharmeṇa brahmaṇa upāsanamāśritam / ihāpi tadyujyate vākyasyopakramopasaṃhārābhyāmekārthatvāvagamātprāṇaprajñābrahmaliṅgāvagamācca / tasmādbrahmavākyametaditi siddham // 31 // iti śrīmacchārīrakamīmāṃsābhāṣye śrīśaṅkarabhagavatpādakṛtau prathamādhyāyasya prathamaḥ pādaḥ // 1 // ---------------------- FN: yathāyogaṃ kiñcidatra jīvavākyaṃ kiñcinmukhyaprāṇavākyaṃ kiñcidbrahmavākyamityarthaḥ / prāṇasaṃvāde- vāgādayaḥ sarve pratyekamātmanaḥ śraiṣṭhyaṃ manyamānāstannirdidhārayiṣayā prajāpatimupajagmuḥ / sa tānuvāca yasminnutkrānte śarīraṃ pāpiṣṭhataramiva bhavati sa vaḥ śreṣṭha iti / tataḥ krameṇa vāgādiṣūtkrānteṣvapi śarīraṃ svasthamasthat / mukhyaprāṇasyoccikramiṣāyāṃ sarveṣāṃ vyākulatve / variṣṭhaḥ prāṇo 'bravīdahameva pañcadhā prāṇāpānādibhāvenātmānaṃ vibhajya etadbhāti gacchatīti vānaṃ tadeva bāṇamasthiraṃ śarīramavaṣṭabhyāśrityeti / pañca śabdādayaḥ pañca pṛthivyādaya iti daśa bhūtamātrāḥ / pañca buddhīndriyāṇi pañca buddhaya iti daśa prajñāmātrāḥ / anyatra 'ata eva prāṇa' ityādau / yena caitanyena vāgabhyudyate preryate vadanasāmarthyamāpadyate tadeva vāgāderagamyaṃ brahma / upāseti svatantrāṇāṃ trayāṇāmupāstau vākyabhedaḥ, natvekasyaiva brahmaṇastaddharmeṇetyarthaḥ / tasyāyuṣṭvaṃ jīvanasya tadadhīnatvāt / utthāpayatītyukthamiti prāṇadharmaḥ / atheti jīvadharmaḥ / ____________________________________________________________________________________________ ____________________________________________________________________________________________ prathamādhyāye dvitīyaḥ pādaḥ / [atrāspaṣṭabrahmaliṅgayuktavākyānāmupāsyabrahmaviṣayāṇāṃ vicāraḥ] / prathame pāde 'janmādyasya yataḥ' ityākāśādeḥ samastasya jagato janmādikāraṇaṃ brahmetyuktam / tasya samastajagatkāraṇasya brahmaṇo vyāpitvaṃ, nityatvaṃ, sarvajñatvaṃ, sarvaśaktitvaṃ, sarvātmatvamityevañjātīyakā dharmā uktā eva bhavanti / arthāntaraprasiddhānāṃ ca keṣāñcicchabdānāṃ brahmaviṣayatvahetupratipādanena kānicidvākyāni spaṣṭabrahmaliṅgāni saṃdihyamānāni brahmaparatayā nirṇītīni / punarapyanyāni vākyānyaspaṣṭabrahmaliṅgāni saṃdihyante- kiṃ paraṃ brahma pratipādayantyāhosvidarthāntaraṃ kiñcidasti / tannirṇayāya dvitīyatṛtīyau pādāvārabhyete /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.