स्थानादिव्यपदेशाच् च कथं पुनराकशवत्सर्वगतस्य ब्रह्मणो ऽक्ष्यल्पस्थानमुपपद्यत इति । अत्रोच्यते- भवेदेषानवकॢप्तिः, यद्येतदेवैकं स्थानमस्य निर्दिष्टं भवेत् । सन्ति ह्यन्यान्यपि पृथिव्यादीनि स्थानान्यस्य निर्दिष्टानि- ऽयः पृथिव्यां तिष्ठन्ऽ (बृ। ३।७।३) इत्यादिना । तेषु हि चक्षुरपि निर्दिष्टम्- ऽयश्चक्षुषि तिष्ठन्ऽ इति । ऽस्थानादिव्यपदेशात्ऽ इत्यादिग्रहणेनैतद्दर्शयति- न केवलं स्थानमेवैकमनुचितं ब्रह्मणो निर्दिश्यमानं दृश्यते, किं तर्हि नामरूपमित्येवञ्जातीयकमप्यनामरूपस्य ब्रह्मणो ऽनुचितं निर्दिश्यमानं दृश्यते- ऽतस्योदिति नामऽ ऽहिरण्यश्मश्रुःऽ (छा। १।६।७,६) इत्यादि । निर्गुणमपि सद्ब्रह्म नामरूपगतैर्गुणैः सगुणमुपासनार्थं तत्र तत्रोपदिश्यत इत्येतदप्युक्तमेव । सर्वगतस्यापि ब्रह्मण उपलब्ध्यर्थं स्थानविशेषो न विरुध्यते, शालग्राम इव विष्णोरित्येतदप्युक्तमेव ॥ १४ ॥ ---------------------- फ़्न्: स्थानादन्यादयो येषां ते स्थानादयो नामरूपप्रकारास्तेषां व्यपदेशात्सर्वङ्गतस्यैकस्थाननियमो नावकल्पते ।
sthānādivyapadeśāc ca kathaṃ punarākaśavatsarvagatasya brahmaṇo 'kṣyalpasthānamupapadyata iti / atrocyate- bhavedeṣānavakḷptiḥ, yadyetadevaikaṃ sthānamasya nirdiṣṭaṃ bhavet / santi hyanyānyapi pṛthivyādīni sthānānyasya nirdiṣṭāni- 'yaḥ pṛthivyāṃ tiṣṭhan' (bṛ. 3.7.3) ityādinā / teṣu hi cakṣurapi nirdiṣṭam- 'yaścakṣuṣi tiṣṭhan' iti / 'sthānādivyapadeśāt' ityādigrahaṇenaitaddarśayati- na kevalaṃ sthānamevaikamanucitaṃ brahmaṇo nirdiśyamānaṃ dṛśyate, kiṃ tarhi nāmarūpamityevañjātīyakamapyanāmarūpasya brahmaṇo 'nucitaṃ nirdiśyamānaṃ dṛśyate- 'tasyoditi nāma' 'hiraṇyaśmaśruḥ' (chā. 1.6.7,6) ityādi / nirguṇamapi sadbrahma nāmarūpagatairguṇaiḥ saguṇamupāsanārthaṃ tatra tatropadiśyata ityetadapyuktameva / sarvagatasyāpi brahmaṇa upalabdhyarthaṃ sthānaviśeṣo na virudhyate, śālagrāma iva viṣṇorityetadapyuktameva // 14 // ---------------------- FN: sthānādanyādayo yeṣāṃ te sthānādayo nāmarūpaprakārāsteṣāṃ vyapadeśātsarvaṅgatasyaikasthānaniyamo nāvakalpate /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.