कम्पनात् अवसितः प्रासङ्गिको ऽधिकारविचारः । प्रकृतामेवेदानीं वाक्यार्थविचारणां प्रवर्तयिष्यामः । ऽयदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् । महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्तिऽ (का। २।६।२) इति । एतद्वाक्यं ऽएजृ कम्पनेऽ इति धात्वर्थानुगमाल्लक्षितम् । अस्मिन्वाक्ये सर्वमिदं जगत्प्राणाश्रयं स्पन्दते, महच्च किञ्चिद्भयकारणं वज्रशब्दितमुद्यतं, तद्विज्ञानाच्चामृतत्वप्राप्तिरिति श्रूयते । तत्र को ऽसौ प्राणः किं तद्भयानकं वज्रमित्यप्रतिपत्तेर्विचारे क्रियमाणे प्राप्तं तावत्प्रसिद्धेः पञ्चवृत्तिर्वायुः प्राण इति । प्रसिद्धेरेव चाशनिर्वज्रं स्यात् । वायोश्चेदं माहात्म्यं संकीर्त्यते । कथम् । सर्वमिदं जगत्पञ्चवृत्तौ वायौ प्राणशब्दिते प्रतिष्ठायैजति । वायुनिमित्तमेव च महद्भयानकं वज्रमुद्यम्यते । वायौ हि पर्जन्यभावेन विवर्तमाने विद्युत्स्तनयित्रुवृष्ट्यशनयो विवर्तन्त इत्याचक्षते । वायुविज्ञानादेव चेदममृतत्वम् । तथाहि श्रुत्यन्तरम्- ऽवायुरेव व्यष्टिर्वायुः समष्टिरप पुनर्मृत्युं जयति य एवं वेदऽ इति । तस्माद्वायुरयमिह प्रतिपत्तव्य इति । एवं प्राप्ते ब्रूमः- ब्रह्मैवेदमिह प्रतिपत्तव्यम् । कुतः । पूर्वोत्तरालोचनात् । पूर्वोत्तरयोर्हि ग्रन्थभागयोर्ब्रह्मैवनिर्दिश्यमानमुपलभामहे । इहैव कथमकस्मादन्तराले वायुं निर्दिश्यमानं प्रतिपद्येमहि । पूर्वत्र तावत् ऽतदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते । तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चनऽ (का। २।६।१) इति ब्रह्म निर्दिष्टं, तदेवेहापि संनिधानात् जगत्सर्वं प्राण एजतीति च लोकाश्रयवत्त्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते । प्राणशब्दो ऽप्ययं प्रयुक्तः, ऽप्राणस्य प्राणम्ऽ (बृ। ४।४।१८) इति दर्शनात् । एजयितृत्वमपीदं परमात्मन एवोपपद्यते न वायुमात्रस्य । तथाचोक्तम्- ऽन प्राणेन नापानेन मर्त्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौऽ (का। २।५।५) इति । उत्तरत्रापि ऽभयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमःऽ (का। २।६।३) इति ब्रह्मैव निर्देक्ष्यते न वायुः । सवायुकस्य जगतो भयहेतुत्वाभिधानात् । तदेवेहापि संनिधानान्महद्भयं, वज्रमुद्यतमिति च भयहेतुत्वप्रत्यभिज्ञानान्निर्दिष्टमिति गम्यते । वज्रशब्दो ऽप्ययं भयहेतुत्वसामान्यात्प्रयुक्तः । यथाहि वज्रमुद्यतं ममैव शिरसि निपतेद्यद्यहमस्य शासनं न कुर्यामित्यनेन भयेन जनो नियमेन राजादिशासने प्रवर्तत एवमिदमग्निवायुसूर्यादिकं जगदस्मादेव ब्रह्मणो बिभ्यन्नियमेन स्वव्यापारे प्रवर्तत इति भयानकं वज्रोपमितं ब्रह्म । तथाच ब्रह्मविषयं श्रुत्यन्तरम्- ऽभीषास्माद्वातः पवते । भीषोदेति सूर्यः । भीषास्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चमःऽ (तै। ८।१) इति । अमृतत्वफलश्रवणादपि ब्रह्मैवेदमिति गम्यते । ब्रह्मज्ञानाद्ध्यमृतत्वप्राप्तिः । ऽतमेव विदित्वातिमृत्युमेति नान्यः पन्था विद्यते ऽयनायऽ (श्वे। ६।१५) इति मन्त्रवर्णात् । यत्तु वायुविज्ञानात्क्वचिदमृतत्वमभिहितं तदापेक्षिकम् । तत्रैव प्रकणान्तरकरणेन परमात्मानमभिधाय ऽअन्तो ऽन्यदार्तम्ऽ (बृ। ३।४) इति वाय्वादेरार्तत्वाभिधानात् । प्रकरणादप्यत्र परमात्मनिश्चयः । अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मत्कृताकृतात् । अन्यत्र भूताच्च भव्याच्च यत्तत्पश्यसि तद्वद (का। १।२।१४) इति परमात्मनः पृष्टत्वात् ॥ ३९ ॥ ---------------------- फ़्न्: भीषा भीत्या । अस्माद्ब्रह्मणो निमित्तादिति यावत् । पञ्चानां ग्रहणं ब्रह्मादिस्तम्बान्तचराचरोपलक्षणार्थम् । ऽअपपुनर्मृत्युं जयतिऽ इति श्रुत्या ह्यपमृत्योर्विजय उक्तो न तु परममृत्युविजय इत्यापेक्षिकत्वम् ।
kampanāt avasitaḥ prāsaṅgiko 'dhikāravicāraḥ / prakṛtāmevedānīṃ vākyārthavicāraṇāṃ pravartayiṣyāmaḥ / 'yadidaṃ kiñca jagatsarvaṃ prāṇa ejati niḥsṛtam / mahadbhayaṃ vajramudyataṃ ya etadviduramṛtāste bhavanti' (kā. 2.6.2) iti / etadvākyaṃ 'ejṛ kampane' iti dhātvarthānugamāllakṣitam / asminvākye sarvamidaṃ jagatprāṇāśrayaṃ spandate, mahacca kiñcidbhayakāraṇaṃ vajraśabditamudyataṃ, tadvijñānāccāmṛtatvaprāptiriti śrūyate / tatra ko 'sau prāṇaḥ kiṃ tadbhayānakaṃ vajramityapratipattervicāre kriyamāṇe prāptaṃ tāvatprasiddheḥ pañcavṛttirvāyuḥ prāṇa iti / prasiddhereva cāśanirvajraṃ syāt / vāyoścedaṃ māhātmyaṃ saṃkīrtyate / katham / sarvamidaṃ jagatpañcavṛttau vāyau prāṇaśabdite pratiṣṭhāyaijati / vāyunimittameva ca mahadbhayānakaṃ vajramudyamyate / vāyau hi parjanyabhāvena vivartamāne vidyutstanayitruvṛṣṭyaśanayo vivartanta ityācakṣate / vāyuvijñānādeva cedamamṛtatvam / tathāhi śrutyantaram- 'vāyureva vyaṣṭirvāyuḥ samaṣṭirapa punarmṛtyuṃ jayati ya evaṃ veda' iti / tasmādvāyurayamiha pratipattavya iti / evaṃ prāpte brūmaḥ- brahmaivedamiha pratipattavyam / kutaḥ / pūrvottarālocanāt / pūrvottarayorhi granthabhāgayorbrahmaivanirdiśyamānamupalabhāmahe / ihaiva kathamakasmādantarāle vāyuṃ nirdiśyamānaṃ pratipadyemahi / pūrvatra tāvat 'tadeva śukraṃ tadbrahma tadevāmṛtamucyate / tasmiṃllokāḥ śritāḥ sarve tadu nātyeti kaścana' (kā. 2.6.1) iti brahma nirdiṣṭaṃ, tadevehāpi saṃnidhānāt jagatsarvaṃ prāṇa ejatīti ca lokāśrayavattvapratyabhijñānānnirdiṣṭamiti gamyate / prāṇaśabdo 'pyayaṃ prayuktaḥ, 'prāṇasya prāṇam' (bṛ. 4.4.18) iti darśanāt / ejayitṛtvamapīdaṃ paramātmana evopapadyate na vāyumātrasya / tathācoktam- 'na prāṇena nāpānena martyo jīvati kaścana / itareṇa tu jīvanti yasminnetāvupāśritau' (kā. 2.5.5) iti / uttaratrāpi 'bhayādasyāgnistapati bhayāttapati sūryaḥ / bhayādindraśca vāyuśca mṛtyurdhāvati pañcamaḥ' (kā. 2.6.3) iti brahmaiva nirdekṣyate na vāyuḥ / savāyukasya jagato bhayahetutvābhidhānāt / tadevehāpi saṃnidhānānmahadbhayaṃ, vajramudyatamiti ca bhayahetutvapratyabhijñānānnirdiṣṭamiti gamyate / vajraśabdo 'pyayaṃ bhayahetutvasāmānyātprayuktaḥ / yathāhi vajramudyataṃ mamaiva śirasi nipatedyadyahamasya śāsanaṃ na kuryāmityanena bhayena jano niyamena rājādiśāsane pravartata evamidamagnivāyusūryādikaṃ jagadasmādeva brahmaṇo bibhyanniyamena svavyāpāre pravartata iti bhayānakaṃ vajropamitaṃ brahma / tathāca brahmaviṣayaṃ śrutyantaram- 'bhīṣāsmādvātaḥ pavate / bhīṣodeti sūryaḥ / bhīṣāsmādagniścendraśca / mṛtyurdhāvati pañcamaḥ' (tai. 8.1) iti / amṛtatvaphalaśravaṇādapi brahmaivedamiti gamyate / brahmajñānāddhyamṛtatvaprāptiḥ / 'tameva viditvātimṛtyumeti nānyaḥ panthā vidyate 'yanāya' (śve. 6.15) iti mantravarṇāt / yattu vāyuvijñānātkvacidamṛtatvamabhihitaṃ tadāpekṣikam / tatraiva prakaṇāntarakaraṇena paramātmānamabhidhāya 'anto 'nyadārtam' (bṛ. 3.4) iti vāyvāderārtatvābhidhānāt / prakaraṇādapyatra paramātmaniścayaḥ / anyatra dharmādanyatrādharmādanyatrāsmatkṛtākṛtāt / anyatra bhūtācca bhavyācca yattatpaśyasi tadvada (kā. 1.2.14) iti paramātmanaḥ pṛṣṭatvāt // 39 // ---------------------- FN: bhīṣā bhītyā / asmādbrahmaṇo nimittāditi yāvat / pañcānāṃ grahaṇaṃ brahmādistambāntacarācaropalakṣaṇārtham / 'apapunarmṛtyuṃ jayati' iti śrutyā hyapamṛtyorvijaya ukto na tu paramamṛtyuvijaya ityāpekṣikatvam /
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.