शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्
मा नाम विग्रहवत्त्वे देवादीनामभ्युपगम्यमाने कर्मणि कश्चिद्विरोधः प्रसञ्जि ।
शब्दे तु विरोधः प्रसज्येत ।
कथम् ।
औत्पत्तिकं हि शब्दस्यार्थेन संबन्धमाश्रित्य ऽअनपेक्षत्वात्ऽ इति वेदस्य प्रामाण्यं स्थापितम् ।
इदानीं तु विग्रहवती देवताभ्युपगम्यमाना यद्यप्यैश्वर्ययोगाद्युगपदनेककर्मसंबन्धीनि हवींषि भुञ्जीत तथापि विग्रहयोगादस्मदादिवज्जननमरणवती सेति नित्यस्य शब्दस्य नित्येनार्थेन नित्ये संबन्धेप्रतीयमाने यद्वैदिके शब्दे प्रामाण्यं स्थितं तस्य विरोधः स्यादिति चेत् ।
नायमप्यस्ति विरोधः ।
कस्मात् ।
अतः प्रभवात् ।
अत एव हि वैदिकाच्छब्दादेवादिकं जगत्प्रभवति ।
ननु जन्माद्यस्य यतः (ब्र। १।१।२) इत्यत्र ब्रह्मप्रभवत्वं जगतो ऽवधारितं, कथमिह शब्दप्रभवत्वमुच्यते ।
अपिच यदि नाम वैदिकाच्छब्दादस्य प्रभवो ऽभ्युपगतः, कथमेतावता विरोधः शब्दे परिहृतः यावता वसवो रुद्रा आदित्या विश्वेदेवा मरुत इत्येतेर्ऽथा अनित्या एवोत्पत्तिमत्त्वात् ।
तदनित्यत्वे च तद्वाचिनां वैदिकानां वस्वादिशब्दानामनित्यत्वं केन निवार्यते ।
प्रसिद्धं हि लोके देवदत्तस्य पुत्र उत्पन्ने यज्ञदत्त इति तस्य नाम क्रियत इति ।
तस्माद्विरोध एव शब्द इति चेत् ।
न ।
गवादिशब्दार्थसंबन्धनित्यत्वदर्शनात् ।
नहि गवादिव्यक्तीनामुत्पत्तिमत्त्वे तदाकृतीनीमप्युत्पत्तिमत्त्वं स्यात् ।
द्रव्यगुणकर्मणां हि व्यक्तय एवोत्पद्यन्ते नाकृतयः ।
आकृतिभिश्च शब्दानां संबन्धो न व्यक्तिभिः ।
व्यक्तीनामानन्त्यात्संबन्धग्रहणानुपपत्तेः ।
व्यक्तिषूत्पद्यमानास्वप्याकृतीनां नित्यत्वाच्च गवादिशब्देषु कश्चिद्विरोधो दृश्यते ।
तथा देवादिव्यक्तिप्रभवाभ्युपगमे ऽप्याकृतिनित्यत्वान्न कश्चिद्वस्वादिशब्देषु विरोध इति द्रष्टव्यम् ।
आकृतिविशेषस्तु देवादीनां मन्त्रार्थवादादिभ्यो विग्रहवत्त्वाद्यवगमादवगन्तव्यः ।
स्थानविशेषसंबन्धनिमित्ताश्चेन्द्रादिशब्दाः सेनापत्यादिशब्दवत् ।
ततश्च यो यस्तत्तत्स्थानमधिरोहति स स इन्द्रादिशब्दैरभिधीयत इति न दोषो भवति ।
नचेदं शब्दप्रभवत्वं ब्रह्मप्रभवत्ववदुपादानकारणाभिप्रायेणोच्यते ।
कथं तर्हि स्थिते वाचकात्मना नित्ये शब्दे नित्यार्थसंबन्धिनि शब्दव्यवहारयोग्यार्थव्यक्तिनिष्पत्तिरतः प्रभव इत्युच्यते कथं पुनरवगम्यते शब्दात्प्रभवति जगदिति ।
प्रत्यक्षानुमानाभ्याम् ।
प्रत्यक्षं श्रुतिः, प्रामाण्यं प्रत्यनपेक्षत्वात् ।
अनुमानं स्मृतिः, प्रामाण्यं प्रति सापेक्षत्वात् ।
ते हि शब्दपूर्वो सृष्टिं दर्शयतः ।
ऽएते इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितृंस्तिरः पवित्रमिति ग्रहानाशव इति स्तोत्रं विश्वानीति शस्त्रमभिसौभगेत्यन्याः प्रजाःऽ इति श्रुतिः ।
तथान्यत्रापि ऽस मनसा वाचं मिथुनं समभवत्ऽ (बृ। १।२।४) इत्यादिना तत्रतत्र शब्दपूर्विका सृष्टिः श्राव्यते ।
स्मृतिरपि- ऽअनादिनिधना नित्या वागुत्सृष्टा स्वयंभुवा ।
आदौ वेदमयी दिव्या यतः सर्वा प्रवृत्तयःऽ ॥
इति ।
उत्सर्गो ऽप्ययं वाचः संप्रदायप्रवर्तनात्मको द्रष्टव्यः, अनादिनिधनाया अन्यादृशस्योत्सर्गस्यासंभवात् ।
तथा ऽनाम रूपं च भूतानां कर्मणां च प्रवर्तनम् ।
वेदशब्देभ्य एवादौ निर्ममे स महेश्वरःऽ ॥
(मनु। १।२१) इति ।
ऽ सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् ।
वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममेऽ ॥
इति च ।
अपिच चिकीर्षितमर्थमनुतिष्ठंस्तस्य वाचकं शब्दं पूर्वं स्मृत्वा पश्चात्तमर्थमनुष्ठतीति सर्वेषां नः प्रत्यक्षमेतत् ।
तथा प्रजापतेरपि स्रष्टुः सृष्टेः पूर्वं वैदिकाः शब्दा मनसि प्रादुर्बभूवुः, पश्चात्तदनुगतानर्थान्ससर्जेति गम्यते ।
तथाच श्रुतिः - ऽस भूरिति व्याहारत्स भूमिमसृजतऽ (तैब्रा। २।२।४।२) इत्येवमादिका भूरादिशब्देभ्य एव मनसि प्रादुर्भूतेभ्यो भूरादिलोकान्सृष्टान्दर्शयति ।
किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते ।
स्फोटमित्याह ।
वर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात् ।
उत्पन्नध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा च प्रतीयमानत्वात् ।
तथाहि- अदृश्यमानो ऽपि पुरुषविशेषो ऽध्ययनध्वनिश्रवणादेव विशेषतो निर्धार्यते देवदत्तो ऽयमधीते यज्ञदत्तो ऽयमधीते इति ।
नचायं वर्णविषयो ऽन्यथात्वप्रत्ययो मिथ्याज्ञानं, बाधकप्रत्ययाभावात् ।
नच वर्णेभ्योर्ऽथावगतिर्युक्ता ।
न ह्येकैको वर्णोर्ऽथं प्रत्याययेत्, व्यभिचारात् ।
नच वर्णसमुदायप्रत्ययो ऽस्ति, क्रमवत्त्वाद्वर्णानाम् ।
पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितो ऽन्त्यो वर्णोर्ऽथं प्रत्याययिष्यतीति यद्युच्येत ।
तन्न ।
संबन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोर्ऽथं प्रत्याययेद्धूमादिवत् ।
नच पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्संस्काराणाम् ।
कार्यप्रत्यायितैः संस्कारैः सहितो ऽन्त्यो वर्णोर्थं प्रत्याययिष्यतीति चेत् ।
न ।
संस्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात् ।
तस्मात्स्फोट एव शब्दः ।
स चैचैकवर्णप्रत्ययाहितसंस्कारबीजे ऽन्त्यवर्णप्रत्ययजनितपरि पाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते ।
नचायमेकप्रत्ययो वर्णविषया स्मृतिः ।
वर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेः ।
तस्य च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम् ।
भेदप्रत्ययस्य वर्णविषयत्वात् ।
तस्मान्नित्याच्छब्दस्फोटरूपादभिधायकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति ।
वर्णा एव तु न शब्दः इति भगवानुपवर्षः।
ननूत्पन्नप्रध्वंसित्वं वर्णान्मुक्तं, तन्न ।
त एवेति प्रत्यभिज्ञानात् ।
सादृश्यात्प्रत्भिज्ञानं केशादिष्विवेति चेत् ।
न ।
प्रत्यभिज्ञानस्य प्रमाणान्तरेण बाधानुपपत्तेः ।
प्रत्यभिज्ञानमाकृतिनिमित्तमिति चेत् ।
न ।
व्यक्तिप्रत्यभिज्ञानात् ।
यदि हि प्रत्युच्चारणं गवादिव्यक्तिवदन्या अन्या वर्णव्यक्तयः प्रतीयेरंस्तत आकृतिनिमित्तं प्रत्यभिज्ञानं स्यात् ।
नत्वेतदस्ति ।
वर्णव्यक्तय एव हि प्रत्युच्चारणं प्रत्यभिज्ञायन्ते ।
द्विर्गोशब्द उच्चारित इति हि प्रतिपत्तिर्न तु द्वौ गोशब्दाविति ।
ननु वर्णा अप्युच्चारणभेदेन भिन्नः प्रतीयन्ते देवदत्तयज्ञदत्तयोरध्ययनध्वनिश्रवणादेव भेदप्रतीतेरित्युक्तम् ।
अत्राभिधीयते- सति वर्णविषये निश्चिते प्रत्यभिज्ञाने संयोगविभागाभिव्यङ्ग्यत्वाद्वर्णानामभिव्यञ्जकवैचित्र्यनिमित्तो ऽयं वर्णविषयो विचित्रः प्रत्ययो न स्वरूपनिमित्तः ।
अपिच वर्णव्यक्तिभेदवादिनापि प्रत्यभिज्ञानसिद्धये वर्णाकृतयः कल्पयितव्याः ।
तासु च परोपाधिको भेदप्रत्यय इत्यभ्युपगन्तव्यम् ।
तद्वरं वर्णव्यक्तिष्वेव परोपाधिको भेदप्रत्ययः स्वरूपनिमित्तं च प्रत्यभिज्ञानमिति कल्पनालाघवम् ।
एष एव च वर्णविषयस्य भेदप्रत्ययस्य बाधकः प्रत्ययो यत्प्रत्यभिज्ञानम् ।
कथं ह्येकस्मिन्कालं बहूनामुच्चारयतामेक एव सन्गकारो युगपदनेकरूपः स्यात् ।
उदात्तश्चानुदात्तश्च स्वरितश्च सानुनासिकश्च निरनुनासिकश्चेति ।
अथवा ध्वनिकृतो ऽयं प्रत्ययभेदो न वर्णकृत इत्यदोषः ।
कः पुनरयं ध्वनिर्नाम ।
यो दूरादाकर्णयतो वर्णविवेकमप्रतिपद्यमानस्य कर्णपथमवतरति ।
प्रत्यासीदतश्च पटुमटुत्वादिभेदं वर्णेष्वासञ्जयति ।
तन्निबन्धनाश्चोदात्तादयो विशेषा न वर्णस्वरूपनिबन्धनाः, वर्णानां प्रत्युच्चाराणं प्रत्यभिज्ञायमानत्वात् ।
एवञ्च सति सालम्बना उदात्तादिप्रत्यया भविष्यन्ति ।
इतरधा हि वर्णानां प्रत्यभिज्ञायमानानां निर्भेदत्वात्संयोगविभागकृता उदात्तादिविशेषाः कल्पेरन् ।
संयोगविभागानां चाप्रत्यक्षत्वाच्च तदाश्रया विशेषा वर्णेष्वध्यवसितुं शक्यन्त इत्यतो निरालम्बना एवैत उदात्तादिप्रत्ययाः स्युः ।
अपिच नैवैतदभिनिवेष्टव्यमुदात्तादिभेदेन वर्णानां प्रत्यभिज्ञायमानानां भेदो भवेदिति ।
नह्यन्यस्य भेदेनान्यस्याभिद्यमानस्य भेदो भवितुमर्हति ।
नहि व्यक्तिभेदेन जातिं भिन्नां मन्यन्ते ।
वर्णेभ्यश्चार्थप्रतीतेः संभवात्स्फोटकल्पनानर्थिका ।
न कल्पयाम्यहं स्फोटं प्रत्यक्षमेव त्वेनमवगच्छामि, एकैकवर्णग्रहणाहितसंस्कारायां बुद्धौ झटिति प्रत्यव ऊभासनादिति चेत् ।
न ।
अस्या अपि बुद्धेर्वर्णविषयत्वात् ।
एकैकवर्णग्रहणोत्तरकाला हीयमेका बुद्धिर्गौरिति समस्तवर्णविषया नार्थान्तरविषया ।
कथमेतदवगम्यते ।
यतो ऽस्यामपि बुद्धौ गकारादयो वर्णा अनुवर्तन्ते नतु दकारादयः ।
यदि ह्यस्या बुद्धेर्गकारादिभ्योर्ऽथान्तरं स्फोटो विषयः स्यात्ततो दकारादय इव गकारादयो ऽप्यस्या बुद्धेर्व्यावर्तेरन् ।
नतु तथास्ति ।
तस्मादियमेकबुद्धिर्वर्णविषयैव स्मृतिः ।
नन्वनेकत्वाद्वर्णानां नैकबुद्धिविषयतोपपद्यत इत्युक्तं, तत्प्रतिब्रूमः - संभवत्यनेकस्याप्येकबुद्धिविषयत्वं, पङ् क्तिर्वनं सेना दश शतं सहस्रमित्यादिदर्शनात् ।
या तु गौरित्येको ऽयं शब्द इति बुद्धिः, सा बहुष्वेव वर्णेष्वेकार्थावच्छेदनिबन्धनौपचारिकी वनसेनादिबुद्धिवदेव ।
अत्राह- यदि वर्णा एव सामस्त्येनैकबुद्धिविषयतामापद्यमानाः पदं स्युस्ततो जारा राजा कपिः पिकः इत्यादिषु पदविशेषप्रतिपत्तिर्न स्यात् ।
त एव हि वर्णा इतरत्र चेतरत्र च प्रत्यवभासन्त इति ।
अत्र वदामः - सत्यपि समस्तवर्णप्रत्यवमर्शे यथा क्रमानुरोधिन्य एव पिपीलिकाः पङ् क्तिबुद्धिमारोहन्ति, एवं क्रमानुरोधन एव वर्णाः पदबुद्धिमारोक्ष्यन्ति ।
तत्र वर्णानामविशेषे ऽपि क्रमविशेषकृता पदविशेषप्रतिपत्तिर्न विरुध्यते ।
वृद्धव्यवहारे चेमे वर्णाः क्रमाद्यनुगृहीता गृहीतार्थविशेषसंबन्धाः सन्तः स्वव्यवहारो ऽप्येकैकवर्णग्रहणानन्तरं समस्तप्रत्यवमर्शिन्यां बुद्धौ तादृशा एव प्रत्यवभासमानास्तं तमर्थमव्यभिचारेण प्रत्याययिष्यन्तीति वर्णवादिनो लघीयसी कल्पना ।
स्फोटवादिनस्तु दृष्टहानिरदृष्टकल्पना च ।
वर्णाश्चेमे क्रमेण गृह्यमाणाः स्फोटं व्यञ्जयन्ति स स्फोटोर्ऽथं व्यनक्तीति गरीयसी कल्पना स्यात्, अथापि नाम प्रत्युच्चारणमन्ये ऽन्ये वर्णाः स्युः, तथापि प्रत्यभिज्ञालम्बनभावेन वर्णसामान्यानामवश्याभ्युपगन्तव्यत्वाद्या वर्णेष्वर्थप्रतिपादनप्रक्रिया रचिता सा सामान्येषु संचारयितव्या ।
ततश्च नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यविरुद्धम् ॥ २८ ॥
----------------------
फ़्न्: औत्पत्तिकं स्वाभाविकं ।
वसुत्वादिजातिवाचकाच्छब्दात्तज्जातीयां चिकीर्षितां व्यक्ति बुद्धावालिख्य तस्याः प्रभवनं, तदिदं तत्प्रभवत्वम् ।
आकृतीनां जातीनाम् ।
ऽएते असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
विश्वान्यभिसौभगाऽ इति ।
एतन्मन्त्रस्थैः पदैः स्मृत्वा ब्रह्मा देवादीनसृजत ।
तत्र संनिहितवाचकैतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन संनिहितानां स्मारकः ।
असृक् रुधिरं तत्प्रधानदेहरमणान्मनुष्याणामग्रशब्दस्मारकः ।
चन्द्रस्थानां पितृणामिन्दुशब्दः स्मारकः ।
पवित्रं सोमं स्वान्तविस्तरस्कुर्वतां ग्रहाणां तिरःपवित्रशब्दः स्मारकः ।
ऋ।(?)।उचोश्नुवतां स्तोत्राणामाशुशब्दः स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः ।
संप्रदायो गुरुशिष्यपरंपराध्ययनम् ।
संस्था अवस्थाः ।
वर्णरूपं तदतिरिक्तस्फोटरूपं वेति किंशब्दार्थः ।
स्फुटते वर्णैर्व्यज्यत इति स्फोटो वर्णाभिव्यङ्ग्योर्ऽथस्तस्य व्यञ्जको गवादिशब्दो नित्यस्तमभिप्रेत्येदमुच्यत इति पूर्वेणान्वयः ।
व्यभिचारादेकस्माद्वर्णादर्थप्रतीत्यदर्शनात् वर्णान्तरवैयर्थ्यप्रतीत्यदर्शनाच्चेत्यर्थः ।
एकैकेति यथा रत्नतत्त्वं बहुभिश्चाक्षुषप्रत्ययैः स्फुटं भासते तथा गवादिपदस्फोटो गकाराद्येकैकवर्णकृतप्रत्ययैः स्फोटविषयैराहिताः संस्कारा बीजं यस्मिन् चित्ते तस्मिन् अन्त्यवर्णकृतप्रत्ययेन जनितः परिपाको ऽन्त्यः संस्कारो यस्मिन्प्रत्ययिनि चित्ते एकं गौरिति पदमिति प्रत्ययः प्रत्यक्षस्तद्विषयतया स्पष्टमवभासत इत्यर्थः ।
वपनानन्तरं त एवेमे केशा इति धीर्भ्रान्तिरिति युक्तम्, भेदधीविरोधात् ।
ताल्वादिदेशैःकोष्ठस्थवायुसंयोगविभागाभ्यां विचित्राभ्यां व्यङ्ग्यत्वाद्वर्णेषु वैचित्र्यधीरित्यर्थः ।
यो ऽवतरति स ध्वनिरिति शेषः ।
वर्णातिरिक्तः शब्दः ध्वनिरित्यर्थः ।
प्रत्युच्चारणं वर्णा अनुवर्तन्ते ध्वनिर्व्यावर्तत इति भेदः ।
अप्रत्यक्षत्वं अश्रावणत्वम् ।
यथा खण्डमुण्डादिविरुद्धानेकव्यक्तिष्वभिन्नं गोत्वं तथा ध्वनिषु वर्णा अभिन्ना एवेत्यर्थः ।
उदात्तादिर्ध्वनिस्तद्भेदेन हेतुना वर्णानामपीति योजना ।
अर्थावच्छेदोर्ऽथं निश्चयः ।
प्रत्यवमर्शः स्मृतिः ।
व्युत्पत्तिदशा वृद्धव्यवहारः ।
क्रमादित्यादिशब्देन संख्या गृह्यते ।
स्वस्वव्यवहारो मध्यमवृद्धस्य प्रवृत्त्यवस्था ।
तादृशत्वं व्युत्पत्तिदशादृष्टक्रमाद्यनुगृहीतत्वम् ।
दृष्टं वर्णानामर्थबोधकत्वं, अदृष्टः स्फोटः ।
śabda iti cen nātaḥ prabhavāt pratyakṣānumānābhyām
mā nāma vigrahavattve devādīnāmabhyupagamyamāne karmaṇi kaścidvirodhaḥ prasañji /
śabde tu virodhaḥ prasajyeta /
katham /
autpattikaṃ hi śabdasyārthena saṃbandhamāśritya 'anapekṣatvāt' iti vedasya prāmāṇyaṃ sthāpitam /
idānīṃ tu vigrahavatī devatābhyupagamyamānā yadyapyaiśvaryayogādyugapadanekakarmasaṃbandhīni havīṃṣi bhuñjīta tathāpi vigrahayogādasmadādivajjananamaraṇavatī seti nityasya śabdasya nityenārthena nitye saṃbandhepratīyamāne yadvaidike śabde prāmāṇyaṃ sthitaṃ tasya virodhaḥ syāditi cet /
nāyamapyasti virodhaḥ /
kasmāt /
ataḥ prabhavāt /
ata eva hi vaidikācchabdādevādikaṃ jagatprabhavati /
nanu janmādyasya yataḥ (bra. 1.1.2) ityatra brahmaprabhavatvaṃ jagato 'vadhāritaṃ, kathamiha śabdaprabhavatvamucyate /
apica yadi nāma vaidikācchabdādasya prabhavo 'bhyupagataḥ, kathametāvatā virodhaḥ śabde parihṛtaḥ yāvatā vasavo rudrā ādityā viśvedevā maruta ityeter'thā anityā evotpattimattvāt /
tadanityatve ca tadvācināṃ vaidikānāṃ vasvādiśabdānāmanityatvaṃ kena nivāryate /
prasiddhaṃ hi loke devadattasya putra utpanne yajñadatta iti tasya nāma kriyata iti /
tasmādvirodha eva śabda iti cet /
na /
gavādiśabdārthasaṃbandhanityatvadarśanāt /
nahi gavādivyaktīnāmutpattimattve tadākṛtīnīmapyutpattimattvaṃ syāt /
dravyaguṇakarmaṇāṃ hi vyaktaya evotpadyante nākṛtayaḥ /
ākṛtibhiśca śabdānāṃ saṃbandho na vyaktibhiḥ /
vyaktīnāmānantyātsaṃbandhagrahaṇānupapatteḥ /
vyaktiṣūtpadyamānāsvapyākṛtīnāṃ nityatvācca gavādiśabdeṣu kaścidvirodho dṛśyate /
tathā devādivyaktiprabhavābhyupagame 'pyākṛtinityatvānna kaścidvasvādiśabdeṣu virodha iti draṣṭavyam /
ākṛtiviśeṣastu devādīnāṃ mantrārthavādādibhyo vigrahavattvādyavagamādavagantavyaḥ /
sthānaviśeṣasaṃbandhanimittāścendrādiśabdāḥ senāpatyādiśabdavat /
tataśca yo yastattatsthānamadhirohati sa sa indrādiśabdairabhidhīyata iti na doṣo bhavati /
nacedaṃ śabdaprabhavatvaṃ brahmaprabhavatvavadupādānakāraṇābhiprāyeṇocyate /
kathaṃ tarhi sthite vācakātmanā nitye śabde nityārthasaṃbandhini śabdavyavahārayogyārthavyaktiniṣpattirataḥ prabhava ityucyate kathaṃ punaravagamyate śabdātprabhavati jagaditi /
pratyakṣānumānābhyām /
pratyakṣaṃ śrutiḥ, prāmāṇyaṃ pratyanapekṣatvāt /
anumānaṃ smṛtiḥ, prāmāṇyaṃ prati sāpekṣatvāt /
te hi śabdapūrvo sṛṣṭiṃ darśayataḥ /
'ete iti vai prajāpatirdevānasṛjatāsṛgramiti manuṣyānindava iti pitṛṃstiraḥ pavitramiti grahānāśava iti stotraṃ viśvānīti śastramabhisaubhagetyanyāḥ prajāḥ' iti śrutiḥ /
tathānyatrāpi 'sa manasā vācaṃ mithunaṃ samabhavat' (bṛ. 1.2.4) ityādinā tatratatra śabdapūrvikā sṛṣṭiḥ śrāvyate /
smṛtirapi- 'anādinidhanā nityā vāgutsṛṣṭā svayaṃbhuvā /
ādau vedamayī divyā yataḥ sarvā pravṛttayaḥ' //
iti /
utsargo 'pyayaṃ vācaḥ saṃpradāyapravartanātmako draṣṭavyaḥ, anādinidhanāyā anyādṛśasyotsargasyāsaṃbhavāt /
tathā 'nāma rūpaṃ ca bhūtānāṃ karmaṇāṃ ca pravartanam /
vedaśabdebhya evādau nirmame sa maheśvaraḥ' //
(manu. 1.21) iti /
' sarveṣāṃ tu sa nāmāni karmāṇi ca pṛthakpṛthak /
vedaśabdebhya evādau pṛthaksaṃsthāśca nirmame' //
iti ca /
apica cikīrṣitamarthamanutiṣṭhaṃstasya vācakaṃ śabdaṃ pūrvaṃ smṛtvā paścāttamarthamanuṣṭhatīti sarveṣāṃ naḥ pratyakṣametat /
tathā prajāpaterapi sraṣṭuḥ sṛṣṭeḥ pūrvaṃ vaidikāḥ śabdā manasi prādurbabhūvuḥ, paścāttadanugatānarthānsasarjeti gamyate /
tathāca śrutiḥ - 'sa bhūriti vyāhāratsa bhūmimasṛjata' (tai.brā. 2.2.4.2) ityevamādikā bhūrādiśabdebhya eva manasi prādurbhūtebhyo bhūrādilokānsṛṣṭāndarśayati /
kimātmakaṃ punaḥ śabdamabhipretyedaṃ śabdaprabhavatvamucyate /
sphoṭamityāha /
varṇapakṣe hi teṣāmutpannapradhvaṃsitvānnityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityanupapannaṃ syāt /
utpannadhvaṃsinaśca varṇāḥ, pratyuccāraṇamanyathā cānyathā ca pratīyamānatvāt /
tathāhi- adṛśyamāno 'pi puruṣaviśeṣo 'dhyayanadhvaniśravaṇādeva viśeṣato nirdhāryate devadatto 'yamadhīte yajñadatto 'yamadhīte iti /
nacāyaṃ varṇaviṣayo 'nyathātvapratyayo mithyājñānaṃ, bādhakapratyayābhāvāt /
naca varṇebhyor'thāvagatiryuktā /
na hyekaiko varṇor'thaṃ pratyāyayet, vyabhicārāt /
naca varṇasamudāyapratyayo 'sti, kramavattvādvarṇānām /
pūrvapūrvavarṇānubhavajanitasaṃskārasahito 'ntyo varṇor'thaṃ pratyāyayiṣyatīti yadyucyeta /
tanna /
saṃbandhagrahaṇāpekṣo hi śabdaḥ svayaṃ pratīyamānor'thaṃ pratyāyayeddhūmādivat /
naca pūrvapūrvavarṇānubhavajanitasaṃskārasahitasyāntyavarṇasya pratītirasti, apratyakṣatvātsaṃskārāṇām /
kāryapratyāyitaiḥ saṃskāraiḥ sahito 'ntyo varṇorthaṃ pratyāyayiṣyatīti cet /
na /
saṃskārakāryasyāpi smaraṇasya kramavartitvāt /
tasmātsphoṭa eva śabdaḥ /
sa caicaikavarṇapratyayāhitasaṃskārabīje 'ntyavarṇapratyayajanitapari pāke pratyayinyekapratyayaviṣayatayā jhaṭiti pratyavabhāsate /
nacāyamekapratyayo varṇaviṣayā smṛtiḥ /
varṇānāmanekatvādekapratyayaviṣayatvānupapatteḥ /
tasya ca pratyuccāraṇaṃ pratyabhijñāyamānatvānnityatvam /
bhedapratyayasya varṇaviṣayatvāt /
tasmānnityācchabdasphoṭarūpādabhidhāyakātkriyākārakaphalalakṣaṇaṃ jagadabhidheyabhūtaṃ prabhavatīti /
varṇā eva tu na śabdaḥ iti bhagavānupavarṣaḥ.
nanūtpannapradhvaṃsitvaṃ varṇānmuktaṃ, tanna /
ta eveti pratyabhijñānāt /
sādṛśyātpratbhijñānaṃ keśādiṣviveti cet /
na /
pratyabhijñānasya pramāṇāntareṇa bādhānupapatteḥ /
pratyabhijñānamākṛtinimittamiti cet /
na /
vyaktipratyabhijñānāt /
yadi hi pratyuccāraṇaṃ gavādivyaktivadanyā anyā varṇavyaktayaḥ pratīyeraṃstata ākṛtinimittaṃ pratyabhijñānaṃ syāt /
natvetadasti /
varṇavyaktaya eva hi pratyuccāraṇaṃ pratyabhijñāyante /
dvirgośabda uccārita iti hi pratipattirna tu dvau gośabdāviti /
nanu varṇā apyuccāraṇabhedena bhinnaḥ pratīyante devadattayajñadattayoradhyayanadhvaniśravaṇādeva bhedapratīterityuktam /
atrābhidhīyate- sati varṇaviṣaye niścite pratyabhijñāne saṃyogavibhāgābhivyaṅgyatvādvarṇānāmabhivyañjakavaicitryanimitto 'yaṃ varṇaviṣayo vicitraḥ pratyayo na svarūpanimittaḥ /
apica varṇavyaktibhedavādināpi pratyabhijñānasiddhaye varṇākṛtayaḥ kalpayitavyāḥ /
tāsu ca paropādhiko bhedapratyaya ityabhyupagantavyam /
tadvaraṃ varṇavyaktiṣveva paropādhiko bhedapratyayaḥ svarūpanimittaṃ ca pratyabhijñānamiti kalpanālāghavam /
eṣa eva ca varṇaviṣayasya bhedapratyayasya bādhakaḥ pratyayo yatpratyabhijñānam /
kathaṃ hyekasminkālaṃ bahūnāmuccārayatāmeka eva sangakāro yugapadanekarūpaḥ syāt /
udāttaścānudāttaśca svaritaśca sānunāsikaśca niranunāsikaśceti /
athavā dhvanikṛto 'yaṃ pratyayabhedo na varṇakṛta ityadoṣaḥ /
kaḥ punarayaṃ dhvanirnāma /
yo dūrādākarṇayato varṇavivekamapratipadyamānasya karṇapathamavatarati /
pratyāsīdataśca paṭumaṭutvādibhedaṃ varṇeṣvāsañjayati /
tannibandhanāścodāttādayo viśeṣā na varṇasvarūpanibandhanāḥ, varṇānāṃ pratyuccārāṇaṃ pratyabhijñāyamānatvāt /
evañca sati sālambanā udāttādipratyayā bhaviṣyanti /
itaradhā hi varṇānāṃ pratyabhijñāyamānānāṃ nirbhedatvātsaṃyogavibhāgakṛtā udāttādiviśeṣāḥ kalperan /
saṃyogavibhāgānāṃ cāpratyakṣatvācca tadāśrayā viśeṣā varṇeṣvadhyavasituṃ śakyanta ityato nirālambanā evaita udāttādipratyayāḥ syuḥ /
apica naivaitadabhiniveṣṭavyamudāttādibhedena varṇānāṃ pratyabhijñāyamānānāṃ bhedo bhavediti /
nahyanyasya bhedenānyasyābhidyamānasya bhedo bhavitumarhati /
nahi vyaktibhedena jātiṃ bhinnāṃ manyante /
varṇebhyaścārthapratīteḥ saṃbhavātsphoṭakalpanānarthikā /
na kalpayāmyahaṃ sphoṭaṃ pratyakṣameva tvenamavagacchāmi, ekaikavarṇagrahaṇāhitasaṃskārāyāṃ buddhau jhaṭiti pratyava ūbhāsanāditi cet /
na /
asyā api buddhervarṇaviṣayatvāt /
ekaikavarṇagrahaṇottarakālā hīyamekā buddhirgauriti samastavarṇaviṣayā nārthāntaraviṣayā /
kathametadavagamyate /
yato 'syāmapi buddhau gakārādayo varṇā anuvartante natu dakārādayaḥ /
yadi hyasyā buddhergakārādibhyor'thāntaraṃ sphoṭo viṣayaḥ syāttato dakārādaya iva gakārādayo 'pyasyā buddhervyāvarteran /
natu tathāsti /
tasmādiyamekabuddhirvarṇaviṣayaiva smṛtiḥ /
nanvanekatvādvarṇānāṃ naikabuddhiviṣayatopapadyata ityuktaṃ, tatpratibrūmaḥ - saṃbhavatyanekasyāpyekabuddhiviṣayatvaṃ, paṅ ktirvanaṃ senā daśa śataṃ sahasramityādidarśanāt /
yā tu gaurityeko 'yaṃ śabda iti buddhiḥ, sā bahuṣveva varṇeṣvekārthāvacchedanibandhanaupacārikī vanasenādibuddhivadeva /
atrāha- yadi varṇā eva sāmastyenaikabuddhiviṣayatāmāpadyamānāḥ padaṃ syustato jārā rājā kapiḥ pikaḥ ityādiṣu padaviśeṣapratipattirna syāt /
ta eva hi varṇā itaratra cetaratra ca pratyavabhāsanta iti /
atra vadāmaḥ - satyapi samastavarṇapratyavamarśe yathā kramānurodhinya eva pipīlikāḥ paṅ ktibuddhimārohanti, evaṃ kramānurodhana eva varṇāḥ padabuddhimārokṣyanti /
tatra varṇānāmaviśeṣe 'pi kramaviśeṣakṛtā padaviśeṣapratipattirna virudhyate /
vṛddhavyavahāre ceme varṇāḥ kramādyanugṛhītā gṛhītārthaviśeṣasaṃbandhāḥ santaḥ svavyavahāro 'pyekaikavarṇagrahaṇānantaraṃ samastapratyavamarśinyāṃ buddhau tādṛśā eva pratyavabhāsamānāstaṃ tamarthamavyabhicāreṇa pratyāyayiṣyantīti varṇavādino laghīyasī kalpanā /
sphoṭavādinastu dṛṣṭahāniradṛṣṭakalpanā ca /
varṇāśceme krameṇa gṛhyamāṇāḥ sphoṭaṃ vyañjayanti sa sphoṭor'thaṃ vyanaktīti garīyasī kalpanā syāt, athāpi nāma pratyuccāraṇamanye 'nye varṇāḥ syuḥ, tathāpi pratyabhijñālambanabhāvena varṇasāmānyānāmavaśyābhyupagantavyatvādyā varṇeṣvarthapratipādanaprakriyā racitā sā sāmānyeṣu saṃcārayitavyā /
tataśca nityebhyaḥ śabdebhyo devādivyaktīnāṃ prabhava ityaviruddham // 28 //
----------------------
FN: autpattikaṃ svābhāvikaṃ /
vasutvādijātivācakācchabdāttajjātīyāṃ cikīrṣitāṃ vyakti buddhāvālikhya tasyāḥ prabhavanaṃ, tadidaṃ tatprabhavatvam /
ākṛtīnāṃ jātīnām /
'ete asṛgramindavastiraḥ pavitramāśavaḥ /
viśvānyabhisaubhagā' iti /
etanmantrasthaiḥ padaiḥ smṛtvā brahmā devādīnasṛjata /
tatra saṃnihitavācakaitacchabdo devānāṃ karaṇeṣvanugrāhakatvena saṃnihitānāṃ smārakaḥ /
asṛk rudhiraṃ tatpradhānadeharamaṇānmanuṣyāṇāmagraśabdasmārakaḥ /
candrasthānāṃ pitṛṇāminduśabdaḥ smārakaḥ /
pavitraṃ somaṃ svāntavistaraskurvatāṃ grahāṇāṃ tiraḥpavitraśabdaḥ smārakaḥ /
ṛ.(?).ucośnuvatāṃ stotrāṇāmāśuśabdaḥ stotrānantaraṃ prayogaṃ viśatāṃ śastrāṇāṃ viśvaśabdaḥ /
saṃpradāyo guruśiṣyaparaṃparādhyayanam /
saṃsthā avasthāḥ /
varṇarūpaṃ tadatiriktasphoṭarūpaṃ veti kiṃśabdārthaḥ /
sphuṭate varṇairvyajyata iti sphoṭo varṇābhivyaṅgyor'thastasya vyañjako gavādiśabdo nityastamabhipretyedamucyata iti pūrveṇānvayaḥ /
vyabhicārādekasmādvarṇādarthapratītyadarśanāt varṇāntaravaiyarthyapratītyadarśanāccetyarthaḥ /
ekaiketi yathā ratnatattvaṃ bahubhiścākṣuṣapratyayaiḥ sphuṭaṃ bhāsate tathā gavādipadasphoṭo gakārādyekaikavarṇakṛtapratyayaiḥ sphoṭaviṣayairāhitāḥ saṃskārā bījaṃ yasmin citte tasmin antyavarṇakṛtapratyayena janitaḥ paripāko 'ntyaḥ saṃskāro yasminpratyayini citte ekaṃ gauriti padamiti pratyayaḥ pratyakṣastadviṣayatayā spaṣṭamavabhāsata ityarthaḥ /
vapanānantaraṃ ta eveme keśā iti dhīrbhrāntiriti yuktam, bhedadhīvirodhāt /
tālvādideśaiḥkoṣṭhasthavāyusaṃyogavibhāgābhyāṃ vicitrābhyāṃ vyaṅgyatvādvarṇeṣu vaicitryadhīrityarthaḥ /
yo 'vatarati sa dhvaniriti śeṣaḥ /
varṇātiriktaḥ śabdaḥ dhvanirityarthaḥ /
pratyuccāraṇaṃ varṇā anuvartante dhvanirvyāvartata iti bhedaḥ /
apratyakṣatvaṃ aśrāvaṇatvam /
yathā khaṇḍamuṇḍādiviruddhānekavyaktiṣvabhinnaṃ gotvaṃ tathā dhvaniṣu varṇā abhinnā evetyarthaḥ /
udāttādirdhvanistadbhedena hetunā varṇānāmapīti yojanā /
arthāvacchedor'thaṃ niścayaḥ /
pratyavamarśaḥ smṛtiḥ /
vyutpattidaśā vṛddhavyavahāraḥ /
kramādityādiśabdena saṃkhyā gṛhyate /
svasvavyavahāro madhyamavṛddhasya pravṛttyavasthā /
tādṛśatvaṃ vyutpattidaśādṛṣṭakramādyanugṛhītatvam /
dṛṣṭaṃ varṇānāmarthabodhakatvaṃ, adṛṣṭaḥ sphoṭaḥ /
Sanskrit only: no published translation is held for this verse.