ज्योतिषैकेषाम् असत्यन्ने असत्यपि काण्वानामन्ने ज्योतिषा तेषां पञ्चसंख्या पूर्येत । ते ऽपि हि ऽयस्मिन्पञ्च पञ्चजनाः इत्यतः पूर्वस्मिन्मन्त्रे ब्रह्मस्वरूपनिरूपणायैव ज्योतिरधीयते- ऽतद्देवा ज्योतिषां ज्योतिःऽ इति । कथं पुनरुभयेषामपि तुल्यवदिदं ज्योतिः पठ्यमानं समानमन्त्रगतया पञ्चसंख्यया केषाञ्चिद्ग्रृह्यते केषाञ्चिन्नेति । अपेक्षाभेदादित्याह । माध्यन्दिनानां हि समानमन्त्रपठितप्राणादिपञ्चजनलाभान्नास्मिन्मन्त्रान्तरपठिते ज्योतिष्वपेक्षा भवति । तदलाभात्तु काण्वानां भवत्यपेक्षा । अपेक्षाभेदाच्च समाने ऽपि मन्त्रे ज्योतिषो ग्रहणाग्रहणे । यथा समाने ऽप्यतिरात्रे वचनभेदात्षोडषिनो ग्रहणाग्रहणे तद्वत् । तदेवं न तावच्छ्रुतिप्रसिद्धिः काचित्प्रधानविषयास्ति । स्मृतिन्यायप्रसिद्धी तु परिहरिष्येते ॥ १३ ॥ ---------------------- फ़्न्: अत्र षोडशिग्रहणाग्रहणवद्वाक्यभेदाज्ज्योतिषो विकल्पः । ४ कारणत्वाधिकरणम्। सू। १४-१५
jyotiṣaikeṣām asatyanne asatyapi kāṇvānāmanne jyotiṣā teṣāṃ pañcasaṃkhyā pūryeta / te 'pi hi 'yasminpañca pañcajanāḥ ityataḥ pūrvasminmantre brahmasvarūpanirūpaṇāyaiva jyotiradhīyate- 'taddevā jyotiṣāṃ jyotiḥ' iti / kathaṃ punarubhayeṣāmapi tulyavadidaṃ jyotiḥ paṭhyamānaṃ samānamantragatayā pañcasaṃkhyayā keṣāñcidgrṛhyate keṣāñcinneti / apekṣābhedādityāha / mādhyandinānāṃ hi samānamantrapaṭhitaprāṇādipañcajanalābhānnāsminmantrāntarapaṭhite jyotiṣvapekṣā bhavati / tadalābhāttu kāṇvānāṃ bhavatyapekṣā / apekṣābhedācca samāne 'pi mantre jyotiṣo grahaṇāgrahaṇe / yathā samāne 'pyatirātre vacanabhedātṣoḍaṣino grahaṇāgrahaṇe tadvat / tadevaṃ na tāvacchrutiprasiddhiḥ kācitpradhānaviṣayāsti / smṛtinyāyaprasiddhī tu parihariṣyete // 13 // ---------------------- FN: atra ṣoḍaśigrahaṇāgrahaṇavadvākyabhedājjyotiṣo vikalpaḥ / 4 kāraṇatvādhikaraṇam. sū. 14-15
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.